________________
स्वोपज्ञटीकासहिता। न्तरमेव तद्वस्त्वित्यादिपूर्वपक्षग्रन्थयोजनामाह-यस्मादेवम् , तस्मादित्यादि । तस्मात् तद् वस्तु, यत एव नित्यमनुवृत्ताकारप्रत्ययग्राह्यम्, अतएवानित्यं व्यावृत्ताकारप्रत्ययग्राह्यम् । उपपत्तिमाह- द्रव्यात्मना नित्यत्वात् कारणात् , तस्य च द्रव्यात्मनः, अभ्यन्तरीकृतपर्यायत्वात् , अन्यथा द्रवणानुपपत्तिरिति भावना । यत एव चानित्यमतएव नित्यमिति पूर्ववत् । उपपत्तिश्च पर्यायात्मनाऽनित्यत्वात् कारगात् , तस्य च पर्यायात्मनः, अभ्यन्तरीकृतद्रव्यत्वात् , अन्यथा पर्ययणायोग इति हृदयम् । उभयरूपस्य च द्रव्यपर्यायोभयापक्षया, अनुभवसिद्धत्वात् अनुवृत्तव्यावृत्ताकारसंवेदनभावेन । एकान्तभित्रस्य चोभयस्य द्रव्यपर्यायलक्षणस्य । किमित्याह- अभावात् । अभावश्च तथानुपलब्धेस्तथेतीतरेतरविविक्ततयाऽदर्शनात् । उक्तं चेति ज्ञापकमाह- द्रव्य पर्यायवियुतं एकान्तेन, तथा पर्याया द्रव्यवर्जिता एकान्तेनैव, क देशे, कदा काले, केन प्रमात्रा, किंरूपा इतरेतरवैकल्येन नीरूपतापत्तेरित्यर्थः, दृष्टा उपलब्धाः, मानेन केन वा प्रत्यक्षादिना ? इत्यादि ।।
स्यादतत् पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति, किंवा न ? इति, किश्चातः ? यदि भवति, अनित्यमेव तत् , निवृत्तिमत्त्वात् , पर्यायस्वात्मवत् । अथ न भवति, हन्त ! तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गा, तथाहि-पर्यायेभ्योऽन्यद् द्रव्यम् , तनित्तावपि तस्यानिवृत्तेः, क्रमेलकादिव कर्क इति । एतदप्ययुक्तम् , कथश्चिनिवृत्तिभावात् , तत्तनिवृत्तेः, संबन्धबीजभावात् : अनुभवसिद्धश्चायम् , तथाहि-द्रव्यपर्यायोभयरूपं वस्तु, इतरेतरविनिर्मुक्तस्योभयस्याग्रहणात् ; युक्त्यनुपपत्तेश्व, अनुपपत्तिश्चोभंद्याकाररहितस्य मृद्द्रव्यस्याऽसंभवात् ,ऊर्जाद्याकारस्यापि मृद्रव्यरहितस्य, न हि मुकुलितार्धमुकुलिताद्याकारशून्यं वियत्कुसुमद्रव्यमस्ति; न चाद्रव्यास्तन्मुकुलितादयः । इत्यन्योन्यानुविद्धोभयरूपवस्तुसिद्धिः॥ :: स्यादेतत् अथैवं मन्यसे, पर्यायनिवृत्तौ सत्यां, द्रव्यनिवृत्तिर्भवति किंवा नेति, किचातः । यदि भवत्यनित्यमेव तद् द्रव्यम्, निव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org