________________
स्वोपज्ञठीका सहिताः ।
२०७
-पगमविशेधात् विरोधश्च " नाकारणं विषयः " इति वचनप्रामाज्यात्, तदेवं नोभयं विषय इति । एतेनेत्यादि । एतेन अनन्तरोदितेन, स्वसंविदितत्वं प्रत्याख्यातं प्रत्यक्षस्य इति प्रक्रमः ॥
अनेन विषयाऽवेदनप्रसङ्गात् सर्वथैकस्वभावत्वाद् निर्विषयतापत्तः, न च स्वसंवेदनमेव विषयवेदनम्, तयोः कालादिभेदात् तद्वेदनस्यैकत्वाभावात् तच्चित्रताप्रसङ्गादित्येकस्वभावत्ववस्तुवादिनोऽन्याऽवेदनप्रसङ्ग एव । एवं च सति स्वनिर्विकल्पकत्ववेदनात् तत्सामर्थ्यतस्तत्पृष्ठभावी विकल्पः स्वतस्त द्विषय एव स्याद् रूपादिविकल्पवद्, न च भवति तथाऽप्रतीतेः, न च तमन्तरेण तत्तथाताव्यवस्थितिरतिप्रसङ्गादिति, एतेन चदाह न्यायवादी
"प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति । प्रत्यात्मवद्यः सर्वेषां विकल्पो नाम संश्रयः ॥ १ ॥ संहृत्य सर्वतश्चिन्तां स्तिमितेनाऽन्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥२॥ पुनर्विकल्पयन् किंञ्चिदासीद् मे कल्पनेदृशी । इति वेत्ति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥३॥" इत्यादि, तदपाकृतमवसे यम् उक्तवत्प्रत्यक्षेणैव असिद्धेः तदेकस्वभावत्वविरोधादिति ॥
इहैव उपचयमाह- अनेन स्वसंविदितेन प्रत्यक्षेण । किमित्याह - विषयाऽवेदनप्रसङ्गात् प्रसङ्गश्च सर्वथा एकस्वभावत्वाद् अस्य । एवमपि को दोष इत्याह- निर्विषयतापत्तेः स्वसंविदितत्वेन । न चेत्यादि । न च स्वसंवेद्नमेव विषय वेदनम् । कुत इत्याह- तयोः स्व-विषययोः, कालादिभेदात् आदिशब्दात् स्वरूपग्रहः । यदि नामैवं ततः किमित्याहतद्वेदनस्य तयोः स्वविषययोर्वेदनं तद्वेदनं तस्य । किमित्याहएकत्वाऽभावात् उभयवेदनेन, अत एव तचित्रताप्रसङ्गाद् इत्येवमेस्वभावत्ववस्तुवादिनो वादिनः । किमित्याह - अन्याऽवेदनप्रसङ्ग एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org