________________
स्वोपज्ञटीकासहिता।
इत्येवं, न काचिन्नोऽस्माकं, बाधेति । अतो नचासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तदत्यन्तभेदे तस्या अमृत्त्वप्रसङ्गात् । इति स्थितं निगमनमेतत् पूर्ववत् ।। ... तत्तन्मृत्त्वेनान्वयः साधयितुमिष्टः, एतच्च मृत्त्वमधिकृतघटमृदोऽत्यन्तभिन्नायामपि घटान्तरकपालमृदि विद्यत एवेति व्यभिचारि तत्कथं न बाधेति ?। अत्रोच्यते-- अधिकृतघटमृद एव खकपालमृत्त्वात् एकवस्तुसन्तानत्वात् , सतः सर्वथा असत्त्वानापत्तेः,तदुत्पत्यादिदोषप्रसङ्गात् इति नैवासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तस्या एव तथाभावात् , अन्यथाऽवीजत्वेन कपालानुपपत्तेः, असत एव सत्तायोगादतिप्रसङ्गादिति । न चैवं घटान्तरकपालमृदधिकृतघटमृदात्मिका, अतत्पूर्विकत्वात् , सदन्तरस्य सदन्तरत्वविरोधात् तद्भावेनेतरोच्छेदाऽऽपत्तेः, तद्वदितरस्यातदुपादानत्वप्रसङ्गात् , अहेतुकत्वाऽऽपत्तेः, युक्त्यनुभवविरोधात मृत्समानपरिणामा तु भवति, तथाप्रतीतेः । न चैतावदन्वयलक्षणम् , अपि त्वनेकखभावे वस्तुनि तत्तन्मृत्त्वम् , एतच्च तद्रूपशक्तिपरिणामादिसङ्गतं तत्तथाभावाध्यवसायहेतुरविगानप्रतीयमानं विशिष्टमेव, इति नात्यन्तभिन्नायां मृदि वर्तत इति बाधाभावः ।। __ पराभिप्रायमाह- तत्तन्मृत्त्वेनेत्यादिना । तस्या विवक्षितकपालसूदः,तन्मृत्त्वमधिकृतघटमृत्त्वं तत्तन्मृत्त्वं,तेन तस्या एव तथाभावेनेत्यर्थः, अन्वयः साधयितुमिष्टो जैनस्य, मृत्त्वमत्र साधनम् ,तन्मृत्त्वं तुसाध्यम्, एतञ्च मृत्त्वम् , अधिकृतघटमृदः सकाशात् ,अत्यन्तभिन्नायामपि। कस्यामित्याह-घटान्तरकपालमृदि,भिन्नसन्तानवर्तिन्यां,विद्यत एवेति कृत्वा, व्यभिचार्यकान्तिकम्-तन्मृत्त्वेऽतन्मृत्त्वे च भावात् प्रमेयत्ववदनित्यत्वसिद्धौ । यस्मादेवं तत्तस्मात् , कथं न बाधा, येनोच्यते न काचिन्नो बाधेति ? । एतदाशङ्कयाह-अत्रेत्यादि । अत्रोच्यते । किमित्याहअधिकृतघटमृद एव खकपालमृत्त्वाद् बाधाभाव इति वक्ष्यमाणकियायोगः, स्वग्रहणं घटान्तरकपालमृव्यवच्छेदार्थ, स्वकपालमृत्त्वं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org