________________
१२६
अनेकान्तजयपताका
व्यवस्था, अतिप्रसङ्गतः कारणात्, युक्ता । अतिप्रसङ्गश्च तद्वद् धर्मा म्तराद्यपेक्षयापि धर्म्यादिभावप्रसङ्गः, निमित्ताभावाविशेषादिति ॥ "
न चोपकरिकाः शक्तयस्ततो भेदमनुभवन्ति, असत्युपकारेsस्येमाः शक्तय इति संबन्धायोगात्, आधाराधेयभावस्यापि तन्निबन्धनत्वात्, अन्यथा कल्पनामात्रं स्यात्, तथा च शक्ती नामनवस्था । ततः स्वात्मैवाऽस्याशेषधर्मोपकारिकाः शक्तयः, तस्य सर्वधर्मोपकारकत्वेन निश्चये तदुपकार्या अपि धर्मा निश्चिता एव, तन्निश्चय नान्तरीयकत्वादुपकारकनिश्वयस्य, न हि ये यदपेक्षस्थितयस्ते तदनिश्चये तथा निश्चीयन्ते, स्वस्वामित्वक -दिति । एवमपि सविकल्पकप्रत्यक्षानुपपत्तिरिति ॥
न चेत्यादि । न चोपकारिकाः शक्तय उपकारक संबन्धिन्यः, तत उपकारकाद् धर्मिणः, भेदमनुभवन्ति । कुत इत्याह- असत्युपकारे उपकारक संबन्धिनि, अस्योपकारकस्य धर्मिणः, इमाः शक्तयः, इत्येवं संबन्धाऽयोगात्, अयोगश्च निमित्ताभावेन । आधाराधेयभावः संबन्धों भविष्यतीत्याशङ्का पोहायाह- आधाराधेयभावस्यापि कुण्डबदरा
दाहरणादिसिद्धस्य, तन्निबन्धनत्वाद् उपकारनिबन्धनत्वात्, तथाहिपतनधर्मणां बदराणामपतनस्वभावाधानेनोपकारकं कुण्डं बदराणामिति भावनीयम् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथेत्यादि । अन्यथैवम: नभ्युपगमे, कल्पनामात्रं स्याद् आधाराधेयभावः । न चैतदेवमित्युप कारसिद्धिः । तथाचेत्यादि । तथाचैवं चोपकारसिद्धौ सत्यां, शक्ती नामनवस्था - यकाभिः शक्तिभिः शक्तीनामुपकरोति ता अपि ततो भिन्ना इति तत्राप्ययमेव वृत्तान्त इत्यनवस्था । ततस्तस्मात्, स्वात्मैव स्योपकारकस्य धर्मिणः, अशेषधर्मोपकारिकाः शक्तय इति । यतश्चैवम् अतस्तस्योपकारकस्य धर्मिणः, सर्वधर्मोपकारकत्वेन निश्चये सति किमित्याह - तदुपकार्या अपि विवक्षितोपकारकोपकार्या अपि धर्मा निश्चिता एव । कुत इत्याह- तन्निश्चयनान्तरीयकत्वात् उपकार्यधर्मनि श्चयनान्तरीयकत्वात्, उपकारकनिश्वयस्य तदपेक्षमस्योपकारकत्वमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org