________________
अनेकान्तजयपताका
किमित्याह- ततश्चेत्यादि । ततश्चैवं च सति, सर्वथा सर्वैः प्रकारैः, अभिन्ननिमित्तत्वे सति, पार्थिवद्रव्यसत्त्वस्यैकान्तेनैकरूपतया, सदसप्रत्ययानुपपत्तिरुभयनिमित्ताभावादिति हृदयम् , इत्थं चैतदङ्गीकतव्यम् । अन्यथैवमनभ्युपगमे, हेतुभेदेन फलभेदाभ्युपगमविरोधः अत्रैव हेतुभेदमन्तरेणापि फलभेदोपपत्तेः; भिन्नौ हि सदसत्प्रत्ययौ, एवं च "अयमेव भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्च" इति वचनमात्रम् । तत्तदित्यादि । तत् पार्थिवद्रव्यसत्त्वं, तदुभयजननैकस्वभावं सदसत्प्रत्ययोभयजननैकस्वभावम् , इत्येवं, चेद् मन्यसे । एतदाशङ्क्याह-नेत्यादि। न नैतदेवम्। कुत इत्याह-उभयोः सदसत्प्रत्यययोः, उभयरूपतापत्तेः सदसद्रूपतयोभयरूपतापत्तः, उभयजननैकस्वभावाद्धेतोयोरपि भावादित्यर्थः । अत्राह- असकीर्णेत्यादि । असङ्कीर्ण च तदुभयं च सदसत्प्रत्ययोभयं तज्जननएकः स्वभावो यस्य तत् तथा, तत्पार्थिवद्रव्यसत्त्वमिति वर्त्तते, ततश्च यथोक्तदोषाभावः; इत्येवं, चेन्मन्यसे । एतदाशङ्क्याह- नेत्यादि । न नैतदेवम्। कुत इत्याह-युक्त्यनुपपत्तेः। कथमित्याह-असङ्कीर्णेत्यादि। असङ्कीर्णोभयभावे विभिन्नसदसत्प्रत्ययोभयभावे, पार्थिवद्रव्यसत्त्वादेरिति प्रक्रमः । किमित्याह- बलात सामर्थेन, तत्स्वभावभेदप्रसङ्गात् तस्य पार्थिवद्रव्यसत्त्वस्य स्वभावभेदापत्तेः । एतद्भावनायैवाह- तथाहीत्यादि । तथाहीत्युपप्रदर्शने, यतः स्वभावतः कारणगतात् , जातमेकं सत्प्रत्ययादि कार्य, नान्यदसत्प्रत्ययादि, ततः स्वभावाद्, भवेत् । किमित्यत आह- कृत्स्नं संपूर्ण, प्रतीत्याश्रित्य, तं स्वभावं, भूतिभावत्वात् उत्पत्तिस्वभावत्वादेकस्य कार्यस्य, तत्स्वरूपवत् अधिकृतैककार्यस्वरूपवत् , न हि तदन्यत् ; न सत्प्रत्ययोऽसत्प्रत्ययस्तदभिन्नहेतुजश्वेति चित्रम्।।१।। आह-अन्यच्चेत्यादि । अन्यच्च कार्यान्तरं च, एवंविधं चेति कृत्स्नं प्रतीत्य तं भूतिभावं चेति, यदि स्याद्यदि भवेत् , किं विरुध्यते । अत्रोत्तरमाह- ततस्वभावस्य कारणगतस्य, कास्न्येन सर्वात्मना, हेतुत्वं प्रतीत्योत्पादापेक्षया, प्रथमं प्रति आद्यं कार्य प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org