Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600379/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SHRI JIN DUTTSURI PRACHIN PUSTAKODDHAR FUND. अर्हम् । ग्रन्थाङ्कः ॥ ११ ॥ नवांगीवृत्तिकारक श्रीमदभयदेवसूरिप्रशिष्यश्रीमज्जिनदत्तसूरिविरचितम् चैत्यवंदनकुलकम् । श्रीमज्जिनकुशलसूरिविरचितव्याख्यासहितम् । उपाध्यायश्रीलब्धिगणिविरचितटिप्पणिकया समलंकृतम् । जैनाचार्य श्रीमज्जिन कृपाचन्द्रसूरीणामुपदेशेन वीकानेरनिवासि श्रेष्ठि श्री बलदेवदाससुगणचन्द तथा मदनचन्दक्षुगडीभ्यां मोहमय्यां निर्णयसागर यत्रालये रामचन्द्र येसू शेडगेद्वारा प्रकाशितम् । विक्रम सं० १९७६, वीर सं० २४४४, ] प्रतयः ५०० मूल्यं रूप्यकद्वयम् । [ सन १९२०. MMMMAAAAAAAAAA MO Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramchandra Yesu Shedge, Nirnaya-Sagar Press, 23, Kolbbat Lane, Bombay. Published by Acharya Kripachandraji Maharaj, Shitalvadi, Gopipura, SURAT. Page #3 -------------------------------------------------------------------------- ________________ अथ चैत्यवन्दनकुलकवृत्तेरनुक्रमणिका । पत्राकार पत्राङ्काः ॐॐॐॐॐॐ विषयाः मंगलाचरणं तथोपोद्घातम् ॥ द्रव्यभावभेदेन द्विविधवासक्षेपनिरूपणम् ॥ द्रव्यवासक्षेपो मासप्रवाहभेदात् द्विविधः॥ | भाववासक्षेपस्वरूपप्रकटनम् ॥ कुगुरुपरिहरणविषये सिहशृगालयोः कथा ॥ |कुगुरुलक्षणे सर्पशीर्षकपुच्छिका कथानकम् ॥ | देशतोऽगीतार्थगुरुविषये वैद्यपुत्रकथा । | गीतार्थगुरुविषये सिद्धसेनदिवाकरकथानकम् ।। विषयाः सम्यक्त्वप्रतिपत्तिविषये श्रेणिकराजचरित्रम् ॥ अभयकुमारकथानकम् ॥ .... चेल्लनाकथानकम् ॥ नन्दिसेनकथा ॥ मेघकुमारस्य कथा । आयतननिश्राकृतविधिचैत्यभेदेन त्रिविधचैत्यविचारः ॥ आयतनादिचैत्येषु गमने उत्सर्गापवादविचारः॥ सामान्यतश्चैत्यस्वरूपकथानकम् ॥ Page #4 -------------------------------------------------------------------------- ________________ चैत्यवन्दन. ॥१॥ ... *%** विषयाः अनायतनचैत्यलक्षणनिरूपणम् ॥ अनायतनचैत्यगमननिषेधः ॥ उत्सूत्रभाषणादि कर्त्ता मिध्यादृष्टिर्भवति ॥ सुश्रावकैर्मिध्यादृष्टिः परिहरणीयः ॥ जमालिकथानकम् ॥ धनदश्रेष्ठिव्याख्यानम् ॥ यावज्जीविकादिनियमप्रतिपत्तिविचारः ॥ श्रीमतीकथानकम् ॥ धरणेन्द्रव्याख्यानम् ॥ हुण्डिकचौरकथा || नागदत्तश्रेष्ठिपुत्रकथानकम् ॥ उदुम्बरादि फलानां भक्षणनिषेधः ॥ सौदासराजकुमारकथानकम् ॥ .... .... .... Coo .... .... www. .... .... .... ---- .... .... .... .... .... ---- पत्राङ्काः ५३ ५३ ५५ ५५ ५६ ६५ ६६ ६८ ६९ ७१ ७३ ७६ ७८ विषयाः रात्रिभोजननियमविषये वसुमित्रायाः कथा ॥ अज्ञातनाम फलभक्षणनिषेधे वंकचूलकथा ॥ दिनद्वयातीतदधिनियमे श्रीधनपालकथा || आमगोरसेन सह द्विदलान्नभक्षणनिषेधः ॥ सामान्येन द्विदललक्षणकथनम् ॥ रात्रौ स्नानादिकरणनिषेधः ॥ पवाणुव्रताङ्गीकरणखरूपम् ॥ स्थूलजीववधनियमे चन्द्रराजकुमारकथा ॥ द्वितीयाणुव्रतविषये राजहंसकथानकम् ॥ तृतीयाणुव्रतविषये पश्चातिचारनिरूपणम् ॥ तृतीयाणुत्रते दत्तश्रेष्ठिकथानकम् ॥ चतुर्थाणुत्र सुदर्शन श्रेष्ठिकथानकम् ॥ पथ्यमाणुत्रते आनन्दश्रेष्ठिव्याख्यानम् ॥ .... .... .... .... 6330 .... 0000 .... .... 2003 www. www. ... पत्राङ्काः ८१ ८७ ४ ९३ ९७ ९८ ९८ ९९ १०० १०२ १०५ १०९ १०९ ११६ अनुक्रम. ॥ १ ॥ Page #5 -------------------------------------------------------------------------- ________________ विषयाः बहुसावद्यवाणिज्यकरणनिषेधः॥ राजनियोगीकथानकम् ॥ .... साधर्मिकवात्सल्यमहिमा ॥ साधम्मिकैः सार्द्ध कलहादिकरणनिषेधः ॥ वायुधकथानकम् ॥ पत्राकाः विषयाः १२० जिनालयेऽनुचितगीतनृत्यादिकरणनिषेधः॥ .... १२३ चैत्ये चतुरशीतिविधासातनाकरणनिषेधः॥ .... १२४ उत्सूत्रभाषकाचार्यमतान्तरश्रवणनिषेधः॥ .... १२४ सम्यक्त्वश्रावकस्य गीतार्थगुरुप्रतिपत्तिविधानम् ॥ १२५ । प्रन्थकारस्य वंशकथनम् ॥ .... ARRRRRRRRRRRRRR ॥ इति चैत्यवन्दनकुलकवृत्तेरनुक्रमणिका ॥ SCSSSSSSSSS Page #6 -------------------------------------------------------------------------- ________________ SSSNESS पुस्तक-मिलनेका-पत्ता श्रीजिनदत्तसूरि ज्ञानभंडार. शीतलवाडी-उपासरा-गोपीपुरा मुं० सुरत. Page #7 -------------------------------------------------------------------------- ________________ अहम् ग्रन्थाङ्कः ॥ ११ ॥ श्रीमजिनदत्तसूरिदृब्धम् । चैत्यवन्दनकुलकम् श्रीमजिनकुशलसूरिविरचितव्याख्यासहितम् । श्रीमदुपाध्यायलब्धिनिधानगणिरचितटिप्पणिकयाऽलंकृतम् । संस्तौमि श्रीमहावीरं, जिनं कामप्रवर्द्धनम् । सुदर्शनरमास्पर्शविनिर्मिततमोऽसनम् ॥१॥ जिनदत्तयतीश्वररचितश्रीदेववन्दनकुलस्य । रचयामि यथाप्रज्ञ, विवृति बालावबोधार्थम् ॥२॥ १ लोकालोकोदरान्तःस्थवस्तुविस्तारदीपकम् । आर्हतं परमं ज्योतिर्ध्वान्तध्वंसाय जायताम् ॥ १॥ श्रीवीरो दीपकः कोऽपि, स्तुवतां नुदतां तमः । प्रबोधवासरसेन येन त्रिभुवनोदरे॥ २॥ श्रीजिनकुशलयतीशैः क्लृप्तायां देववन्दनकुलस्य । विवृतौ कांचिद् व्याख्यां लिखामि जडजन्तुबोधार्थम् ॥ ३ ॥ सुगमाऽपि विवृतिरेषा कापि काऽप्यस्ति गूढता । दुर्मेधसस्तु लोकाः संप्रति तदिहास्तु मे यत्नः ॥ ४ ॥ चैत्यव. Page #8 -------------------------------------------------------------------------- ________________ ४ कुलकवृत्तिः चैत्यवन्दन-माश्रीशत्रुजयक्षितिधरशिखरशेखरानुकारश्रीमन्मानतुंगविहारशृंगारहारप्रकारश्रीयुगादिजिनेश्वरभास्वरबिम्बप्रमुखाईद्विम्बकदम्बकप्रतिष्ठाविधान- | मङ्गलम्. संपन्नसमुच्छलन्मरालपक्षबलक्षकीर्त्तिकुसुमोत्तंसितदिग्वधूत्तमाङ्गाः त्रिभुवनजनसुभगं भावुकानेकप्रविवेकज्ञानदर्शनचारित्रौदार्यसौदर्यस्थैर्यधैर्यगाम्भीर्यार्जवाद्यगण्यवरेण्यगुणगणान्वितरत्नराशिशृंगारिताङ्गा निरन्तरानवद्यत्रैविद्याभ्यासविलासविशदायमानासमानमनीषाप्रकर्षतिरस्कृतभूरिसूरयः श्रीजिनकुशलसूरयः स्वपरोपकाराय श्रीदेववन्दनकुलकविवृति चिकीर्षवः शिष्टसमाचारपरिपालनार्थ निर्विघ्नसकलशास्त्रसमाप्त्यर्थ च वर्तमानतीर्थाधिपतितया श्रीमहावीरनमस्कारं श्लेषोक्त्या प्रचक्रुः "संस्तौमि श्रीमहावीरं, जिनं कामप्रवर्द्धनम् । सुदर्शन रमास्पर्शविनिर्मिततमोऽसनम्" ॥१॥ श्रिया समवसरणादिमहार्योपलक्षितं, श्रीमहावीरं वर्द्धमानस्वामिनं, सं सम्यक् सावधानमनोवचनकायः,IN ४ास्तौमि श्लाघे, किंविशिष्टं 'जिन' रागाद्यान्तरवैरिवारविजेतारं, पुनः कीदृशं 'कामप्रवर्द्धन' कामोऽभिलाषस्तस्य प्रकर्षेण वर्द्धनं पूरक-18 मित्यर्थः । यद्वा कामं कन्दर्प प्रवर्द्धयति छिनत्तीति कामप्रवर्द्धनस्तं तथा, पुनः कीदृशं 'सुदर्शनेति' शोभनं दर्शनं सम्यक्त्वं सुदर्शनं । तस्य, रमा लक्ष्मीस्तस्याः स्पर्श आश्रयणं तेन विनिर्मितं कृतं तमसोऽज्ञानस्यासनं क्षेपणं येन स तथा तं, श्रद्धानरूपसम्यक्त्वसंपत्कृताज्ञा ननिरासमित्यर्थः । द्वितीयपक्षे जिनं नारायणं, कीदृशं श्रीमहावीरं श्रिया सिन्धुकन्ययोपलक्षितो महावीरो महासुभटस्तं, पुनः कीदृशं & कामप्रवर्द्धनं कामस्य कन्दर्पस्य प्रवर्द्धनं प्रवृद्धिकारक, लोके हि कृष्णतनयः काम इति प्रसिद्धिः, पुनः कीदृशं सुदर्शनेति, सुदर्शनं नाम चक्रं तस्य रमा श्रीस्तस्याः स्पर्शेन विनिर्मितं तमसो राहोरसनं शरीरच्छेदलक्षणं क्षपणं येन स तथा तम् , इयं हि पुराणवार्ता पुरा पुण्ड|रीकाक्षे नवसंख्यपीयूषकुण्डरक्षणाध्यक्षे सति गुप्तवृत्त्याऽऽगत्य राहुः पीयूषपानमाधाय व्याजुघोट तस्य गच्छतो लब्धशुद्धिः शृंगी सुदर्श* नचक्रेण शिर:कमलं चकत्तेति श्लोकार्थः॥ Page #9 -------------------------------------------------------------------------- ________________ विदन्यधीयते वा प्रामाणिका स्वा यः प्रकृष्टाचारविचारस्तस्य चाउमाभिभवो येन एवं इह हि सकलप्रामाणिकलौकिकप्रकृष्टाचारविचारचातुरी विशिष्टाः शिष्टाः कचिदभीष्टकार्ये प्रवर्तमानाः समस्तसमीहितवितरणविहितसुरकारस्कराहंकारतिरस्कारखाभीष्टदेवतानमस्कारपुरस्कारमेव प्रवर्तन्ते । अतः समस्तयोगिनीचक्रदेवदेवतावातविहितशासनाः नानाप्रभावनाप्रभावितश्रीजिनशासनाः महर्द्धिकनागदेव। १ सकलप्रामाणिकेति, प्रमाणं विदन्त्यधीयते वा प्रामाणिकाः, 'न्यायादेरिकण' इत्यनेन सूत्रेणेकणप्रत्ययः, प्रमाणशास्त्रविदइत्यर्थः । का एवं लोकव्यवहारवेदिनो लौकिकाः प्रामाणिकाश्च लौकिकाश्चेति द्वन्द्वस्तेषां यः प्रकृष्टाचारविचारस्तस्य चातुरी चातुर्य तया विशिष्टाः । २ 'समस्तसमीहितेति'समस्तसमीहितानां वितरणेन दानेन विहितः कृतः सुरकारस्करस्य कल्पवृक्षस्य तिरस्कारोऽभिभवो येन एवंविधश्वासौ योऽभीष्टदेवतानमस्कारश्च तस्य पुरस्करणं यस्यां प्रवृत्ताविति क्रियाविशेषणं । ३ महर्द्धिकनागदेवश्रावकेण समाराधिता चासौ| काश्रीअम्बिका च तया लिखितानि च यानि श्रीजिनदत्तसूरियुगप्रधानेति अक्षराणि च तेषां वाचनमार्जने ताभ्यां समुपार्जिता या युगप्रधान|पदस्य सत्यता तया प्रधाना इति विग्रहः, अत्रायं वृद्धसंप्रदायो-नागदेवाभिधः श्राद्धः श्रीनेमिनाथनिनंसया श्रीउजयंतं गतः सन् युगप्र धानगुरुं जिज्ञासुः सप्तभिरुपवासैरम्बिकादेवीमाराधयामास, तदीयसत्त्वावष्टम्भतस्तुष्टा सती श्रीअम्बिका तत्करे युगप्रधाननामाक्षराणि लि|लेख, प्रोचे च य एतानि अक्षराणि वाचयित्वोत्पुंसयिष्यति स युगप्रधानो ज्ञेय इति, ततश्च नागदेवः प्रतिपुरं प्रतिग्राम सूरीणां स्वपाणिपद्मं दर्शयन् प्राप्तः श्रीअणहिल्लपत्तननाम पत्तनं, गतश्च श्रीजिनदत्तसूरिवराणां पवित्रायां वसतौ, दर्शितः पाणिः श्रीजिनदत्तसूरीणां, श्रीपूज्यैरपि वासक्षेपं विधाय श्रीजिनदत्तसूरियुगप्रधान इत्यक्षराणि वाचयित्वोत्पुंसितानि, ततो नागदेवेन समुत्पन्ननिश्चयेन श्रीजिनदत्तसूरिगुरुत्वेनाङ्गीकृत इति । Page #10 -------------------------------------------------------------------------- ________________ पैत्यवन्दनश्रावकसमाराधितश्रीअम्बिकालिखितश्रीजिनदत्तसूरियुगप्रधानेत्यक्षरवाचनमार्जनसमुपार्जितयुगप्रधानपदसत्य कुलकवृत्तिः ताप्रधानाः संकलातिशायिप्रगुणगुणगणमणिखनयः सकलशिष्टचूडामणयः प्रबोधितान्यगच्छीयाऽतुच्छभूरिसू॥२॥ रयः श्रीजिनदत्तसूरयः शिष्टसमाचारसमाचरणार्थं तथा-'श्रेयांसि बहुविघ्नानि, भवन्ति महत्तामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः॥१॥” इदमपि प्रकरणं सम्यकदर्शनादिहेतुत्वात् श्रेयोभूतं वर्तते । अतो निर्विघ्नशास्त्रसमाप्त्यर्थं चाभीष्टदेवतानमस्कार, तथा काकदन्तपरीक्षाशास्त्रवदभिधेयप्रयोजनादिरहिते शास्त्रे न प्रेक्षावन्तः प्रवर्तन्ते । यतः-"सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥१॥ अतोऽभिधेयप्रयोजने चाद्यगाथया प्राहुः* नमिऊणमणंतगुणं चउवयणं जिणवरं महावीरं । पडिवन्नदंसणाणं सरूवमिह कित्तइस्सामि ॥१॥ * व्याख्या-'नमिऊणमिति' नत्वा प्रणम्य, कं नत्वा 'महावीर' विशेषेण ईरयति कम्पयति रागादिशत्रूनिति | वीरः, यत उक्तम्-"विदारयति यत् कर्म, तपसा च विराजते।तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥" महांश्वासौ वीरश्च महावीरस्तमित्यनेनाऽपायापगमातिशय उक्तः । अनया व्युत्पत्त्या समस्तान्तरवैरिवारल- 8 ॥२॥ १ सकलातिशायीति, सकलाः समस्ता अतिशायिन उत्कृष्टाः, प्रगुणाः प्रधाना ये गुणगणास्ते एव मणयस्तेषां खानयः । २ सिद्धार्थ द I श्लोकः, सिद्धः प्रसिद्धार्थः प्रयोजनं यस्य तत् तथा ज्ञातप्रयोजनमित्यर्थः । श्रोतुमित्यस्य शास्त्रं कर्म स्वयमभ्यूह्यं । ३ समस्तान्तरेति, सम Page #11 -------------------------------------------------------------------------- ________________ क्षणापायनिकायव्युदाससूचनात्, कीदृशं तम्-"अणंतगुणं" अनन्ताःप्रभूता गुणा ज्ञानदर्शनादयो गाम्भीयस्थैर्यधैर्यादयो वा यस्य स तथा तमनेन विशेषणेन ज्ञानातिशयः सूचितः । ज्ञानादीनामेव पारमार्थिकातिशायिगुणत्वात् । पुनः कीदृशं तं "चउवयणमिति” चतुर्वदनं चत्वारि वदनानि मुखानि सर्वज्ञातिशयात् सहशानि समवसरणावस्थायां यस्य स तथा तम् । अथवा चत्वारि वचनानि दानशीलतपोभावनारूपाणि यस्य स तथा तमनेन व्याख्यानेन वचनातिशयोऽपि व्याख्यातः। पुनः कीदृशं “जिणवरमिति" जिनाः सामान्यकेवलिनस्तेषु वरः समवसरणादिविभूत्या प्रधानस्तं, तथा यतस्तीर्थकरस्याऽशोकायष्टमहापातिहार्यसपर्यामवलोक्य चरमशरीरभाजोऽपि सकृद्गर्भवासादिदुःखजालमवगणय्य श्रीतीर्थकरसंपदमासादयितुमिच्छंति तथा चोक्तम्"पडिवन्नचरमतणुणो अइसयलेसं पि जस्स दट्टणं । भवजुत्तमणा जायन्ति जोगिणो तं जिणं नमह ॥१॥" अनेन विशेषणेन देवकृतपूजातिशय उक्तः। तमेवंभूतं श्रीमहावीरं नत्वा "प्रतिपन्नदर्शनानां स्वरूपं" कीर्त४स्तान्तरवैरिवारो निखिलनररिपुगणो लक्षणं स्वरूपं यस्य एवंविधो योऽपायनिकायो दोषसमूहस्तस्य व्युदासो निरासस्तस्य सूचनादिति विग्रहः । १ सकृदिति, एकवारम् । २ पडिवनगाथा, योगो ज्ञानदर्शनचारित्ररूपो येषामस्ति ते योगिनो महात्मानः साधवः, प्रतिपन्नचरमतनवोऽपि, तद्भवसिद्धिगामिनोऽपि यस्य भगवतस्तीर्थकृतोऽतिशयलेशमपि श्रीसमवसरणमहादिकं दृष्ट्वा भवाभिमुखमनसो जायन्ते, तीर्थकरसं४/पत्प्राप्तये एकवारं गर्भवासमपि वांछन्ति, तं जिनं नमत इति गाथार्थः । Page #12 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥३॥ यिष्यामीति सम्बन्धः, प्रतिपन्नमकीकृतं दर्शनं सम्यक्त्वं स्वर्गापवर्गसौधाधिरोहसोपानपंक्तीयमानं यैस्तेषां कुलकवृतिः स्वरूपं विधेयविधिविशेषरूपम् 'इह' प्रकरणे कीर्तयिष्यामि । एकवचनेन शास्त्रकृता खस्यौद्धत्यं परिहृतम्, मालम्. अत्र पूर्वाऽभीष्टदेवतानमस्कारविधानेन मंगलमभिहितं । प्रतिपन्नदर्शनानां वरूपं कीर्तयिष्यामीत्यभिधेयं । प्रयोजनं चानन्तरपरम्परभेदाद् द्विधा, पुनरेकैकं कर्तृश्रोतृभेदाद् द्विधैव, तत्र कर्तुरनन्तरप्रयोजनं सत्त्वानुग्रहः, श्रोतुश्च सम्यक्त्ववदाचारपरिज्ञानं, परम्परं तु द्वयोरपि सम्यक्त्वग्राहिश्राद्धाचारप्रकाशनानुष्ठानाभ्यां परमपदप्राप्तिः, सम्बन्धस्तु गुरुपर्वक्रमलक्षणः प्रकरणाभिधेययोर्वाच्यवाचकभावलक्षणः सम्बन्धः खयमभ्यूह्य इति गाथार्थः ॥ १॥ अङ्गीकृतसम्यक्त्वश्राद्धवासखरूपमाह| तिविहाय हुंति वासा दुविहा ते डंति दवभावेहिं । दवम्मि दुविहा ते वि हु गासपवाहेसु विन्नेया॥२॥ ___ व्याख्या-श्रमणोपासकानां “वासा" ग्रासप्रवाहभावभेदात, त्रिविधा भवन्ति, तदेव सूत्रकारः खयं|विवृणोति 'दुविहेति' ते च वासा द्रव्यभावाभ्यां द्रव्यतो भावतश्चेति प्रकारेण द्विविधा भवन्ति, तत्र द्रव्यतो द्वौ प्रकारावाह-"दवम्मि दुविहेति" 'तेऽपि' वासाः सुगन्धिचूर्णरूपा 'हु' स्फुटं ग्रासप्रवाहाभ्यां द्रव्यतो| | १ स्वर्गापवर्गेति, स्वर्गापवर्गावेव सौधे मन्दिरे तयोरधिरोहसोपानपंक्तीयमानं सोपानपंक्तिरिवाचरदित्यर्थः। २ विधेयेति, बोद्धव्यः कर्त्तव्यश्चासौ विधिविशेषश्च त्रिकाल चैत्यवन्दनादिकः स एव रूपं स्वरूपं यस्य तत् तथा । ३ गुरुपर्वक्रमेति, गुर्वानायलक्षणः। Page #13 -------------------------------------------------------------------------- ________________ द्विधा विज्ञेयाः, तत्र एते गुरवोऽतिशायिनः श्रूयन्ते, अत एतेषां पार्वादहं वासक्षेपं शिरसि कारयामि येन मम ग्रासो भोजनादिसंपत्तिर्भवतीत्यनया बुद्ध्या ये निक्षेप्यन्ते श्रावकेण वासास्ते ग्रासवासाः, प्रवाहतो गडरिकाप्रवाहेण अमी लोका वासक्षेपं कारयन्ति, अहमपि कारयामीत्यनेन प्रकारेण परमार्थाऽनभिज्ञेन भाववर्जितेन श्राद्धेन गुरुपाॉनिक्षेपिता वासाः प्रवाहवासा उच्यन्ते, एवं द्रव्यतोग्रासप्रवाहभेदाभ्यां द्वौ प्रकारौ जायेते स्म, ॥२॥ तृतीयवासप्रकारव्याख्यानाय गाथाद्वयमाहभावंमि य सुहगुरुपारतंतवसओ सया वि विसयंमि। विहिणा जिणागमुत्तेण जेसिं सम्मत्तपडिवत्ती ३४ तेसु सुवासा ते इंति परमपयवासहेऊणो जेण । जणियाणंतप्पणगा सयलकिलेसंतकरणखमा॥ ४ ॥ &| व्याख्या-'भावे' भावपूर्वकं वासा इति शेषः, अग्रेतनगाथास्थं "सुवासा ते टुति" इत्यादि इह सम्बध्यते, 'चः' पुनरर्थे भावे च भावपूर्वकं पुनस्ते सुवासा भाववासा भवन्ति इति सम्बन्धः, भाववासभवनप्रकारमाह'सुहगुरुपारतंतवसओ' शुभाः संविग्नगीतार्थाश्च ते गुरवश्च शुभगुरवस्तेषां पारतच्यं तदायत्तता तस्य वशस्तस्मात् सद्गुरुपदपद्मपर्युपास्तिपरायणमिति भावार्थः, एतदेवोक्तम् "सुगुरूणं संपयाओ पारतंतं इह विणिद्दिढं। १ सुगुरूणां संप्रदाय आम्नाय इह जिनप्रवचनपारतन्त्र्यं विनिर्दिष्टं कथितमतस्तेषां गुरुगां परतत्रैरनुष्ठानं कर्त्तव्यमित्यर्थः ।। Page #14 -------------------------------------------------------------------------- ________________ पवन्दम- तेसिं परतंतेहिं अणुहाणं होइ कायचं ॥१॥'सदापि अपिशब्द एवार्थे सदैवेत्यर्थः 'विसयंमीत्यादि विषय शब्देन श्रीतीर्थकरा गणधरा युगप्रधानाचार्याश्चाभिधीयन्ते, अत उक्तम्-"विसओ पुण तित्थयरा आयरिया ॥४॥ गणहरा जुगप्पवरा । अणासायणाय भत्ती बहुमाणो होइ कायवो ॥१॥” अत्र समीपे सप्तमी, यथा गङ्गायां घोष इत्यत्र, अतो विषये श्रीअष्टमहाप्रातिहार्यपूजाविराजमानानाम् अम्लानकेवलज्ञानमुकुरोदरसंक्रान्तस मस्तलोकालोकानां श्रीतीर्थकराणां गणधरेन्द्राणां वा तदभावेऽसारसंसारापारपारावारपारीणताभिलाषुकाराAधकास्तोकलोकवितीर्णसिद्धिबन्धूसम्बन्धानामाचार्याणां प्रतिबोधप्रदानत्रोटितसांसारिकसम्बन्धानां ज्ञानदर्श नचारित्रादिमगुणग्रामप्रयत्नरत्ननिधीनां श्रीयुगप्रधानानां समीपे वा, विधिना जिनागमोत्तेन जिनानामागमः ४ सिद्धान्तस्तत्रोक्तः प्रणीतस्तेन, स चावश्यकचैत्यवन्दनखाध्यायापूर्वपठनसध्यानसाधर्मिकवात्सल्यादिल-8 क्षणः यत उक्तम्-"आवस्सयचिवंदण सज्झायापूवपढणसज्झाणं । साहम्मियवच्छलं एवमाई विही भणिओ ॥१॥" येषां भव्यजीवानां सम्यक्त्वप्रतिपत्तिः सम्यक्त्वाङ्गीकारो भवति, तेषां प्रतिपन्नसम्यक्त्वानां श्रावका १ विसओ पुण गाहा, विषयः पुनस्तीर्थकरा आचार्या गणधरा युगप्रवराः कथ्यन्ते इति स्वयं ज्ञेयं तेषामित्यर्थवशाद् गम्यम् , तेषां Int तीर्थकरादिनामनाशातनादिकाऽशातनावर्जनादिका भक्तिबहुमानमन्तरङ्गप्रातिहार्यमपि कर्त्तव्यं भवतीत्यर्थः । २ ज्ञानदर्शनेति, ज्ञानदर्शMनचारित्राणि आदिमानि प्रथमानि येषामेवंविधा गुणमामा गुणराशयस्ते एव नवानि रत्नानि तेषां निधानानामित्यर्थः । KARAKASARAN G+ + Page #15 -------------------------------------------------------------------------- ________________ | काणां ते सम्यक्त्वप्रतिपत्तिनिरतिचारप्रतिपालनरूपाः शुभपरिणामविशेषाः । सुवासा भाववासा भवन्ति, किं| विशिष्टाः परमपदवासहेतवः, परमपदे मोक्षे यो वासो वसनं तत्र हेतवः, पुनः किंविशिष्टा जनितानन्तपञ्चकाः' जनितमनन्तपञ्चकम् अनन्तज्ञानानन्तदर्शनानन्त सुखानन्तवीर्यानन्तसम्यक्त्व लक्षणं यैस्ते तथा, पुनः किंविशिष्टाः 'सकलक्लेशान्तकरणक्षमा : सकलक्लेशानां रागद्वेषादीनामन्तो विनाशस्तस्य करणं तत्र क्षमाः समर्थाः, एषु विशेषणेषु परस्परः पञ्चानुपूर्व्या हेतुहेतुमद्भावः, तद्यथा यत एव सकलक्लेशान्तकरणक्षमा, अत एव जनितानन्तपञ्चकाः, यत एव जनितानन्तपञ्चका अत एव परमपदवासहेतवो, यत एव परमपदवासहेतवो अत एव ते सम्यक्त्वप्रतिपत्तिनिरतिचारप्रतिपालनरूपाः सुवासा भाववासा इति गाथा भावार्थः ॥४॥ शुभगुरुपारतन्त्र्यवशत इति वदता सूत्रकृता पञ्चमहाव्रतधुराधरणधुरन्धराः पचंविधाचारसमाचरणचतुराः सर्व| सावद्यव्यापार परिहारपरायणाः द्विचत्वारिंशद्दोषाकलुषाहारस्वीकारचणाः षत्रिंशदाचार्यवर्यगुणगणमणि १ पश्यविधाचारेति, ज्ञानदर्शनचारित्रतपोवीर्य लक्षणाचारभेदेन पश्चविधाचारः । २ द्विचत्वारिंशदिति, द्विचत्वारिंशत् आधाकमि| कादिदोषैः पिण्डविशुद्धिप्रसिद्वैरकलुषस्यादुष्टस्याहारस्य स्वीकारेण ग्रहणेन प्रसिद्ध इत्यर्थः । ३ षट्त्रिंशदिति, षट्त्रिंशद्गुणाः, देसकुलजाइरूवी इत्यादिगाथोक्ताः । **%%%%%%%**%* Page #16 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-विपणयः, सकलसंविग्नचक्रचूडामणयो वर्तमानसकलसिद्धान्तसिन्धुमधुररसरसनाऽगस्तयो विचित्रशास्त्रनि-कुलकवृत्ति कनिष्कषणकषदृषत्सखशेमुषीविशेषावशेषितबृहस्पतयो हदि अनिरवद्यमार्गप्ररूपणप्राप्तरूपाः षोावश्यका- | मङ्गलम् ॥५॥ दिक्रियाकलापविभावसुविभाखरीकृतात्मजातरूपस्वरूपाः सिंहवत् खस्य परस्य च गम्भीरभवकूपात् समुद्धरणपटवः सद्गुरवः सर्वकालं सम्यक् वरिवस्यनीयाः, विचित्रोत्सूत्रसंसूत्रणनोटितपवित्रचारित्रमित्रमैत्रीसम्बन्धाः सततविहितत्रिदिवशिवकमलानिबन्धनसद्दर्शनसभाजनेन शिथिलसम्बन्धा अमेन्दामोदमेदुरवदनभरंवेरा इव समस्तवस्तुविस्तारविकाशनध्यानज्ञानभारं षोढावश्यकादिक्रियाकलापशैथिल्येन निःफलं वहन्तः सर्वदाऽवद्यमार्गप्ररूपणा चतुरं निरर्गलं वचः प्रणिगदन्तः खस्य परस्य च शृगालबालकवद्गम्भीरभीषणभवकूपनिपातहेतवः कुगुरवः मुक्तिकान्ताकरपीडनविधि विधीप्सुभिर्विवेकिभिव्यजन्तुभिः सर्वादरेण सर्वदा परिहरणीया इति प्रत्यपादि, अत्रार्थे सिंहगालयोः कथानकं सकलसकर्णकर्णगोचरीक्रियते तथाहि-शिरःस्थपुष्पसं १ वर्त्तमानेति, वर्तमानसकलसिद्धान्तसिन्धोः मधुररसस्य रसनसमास्वादनागस्तयः। २ विचित्रेति, विचित्रशास्त्राण्येव निष्कं स्वर्ण तस्य निष्कर्षणं परीक्षणं तत्र कषषतूसखः कषपट्टकसदृशोऽयं शेमुषीविशेषो मतिविशेषस्तेनावशयितो निर्जितो बृहस्पतिर्यैस्ते, । तथा । ३ हृद्य-18 | निरवद्यमार्ग प्ररूपणां प्राप्तरूपाः पण्डिताः । ४ षोडेति, पोढावश्यकादिक्रियाकलाप एव विभावसुर्वहिस्तेन विभास्वरीकृतमात्मा जीव एव जातरूपं सुवर्ण तस्य स्वरूपं यैस्ते तथा । ५ अमन्देति, अमन्दश्चासौ आमोदश्च सौरभ्यं च तेन मेदुरः स्फीतः। ६ सिंहशृगालयोः कथा Page #17 -------------------------------------------------------------------------- ________________ भारसौरभोद्गारभासुरैः। पुन्नागैः पुरवत्कान्तं, कान्तारं काऽप्यराजत ॥१॥ मृगारिहतवन्येभकुम्भविस्रस्तमौक्तिकैः । यस्मिंस्तिलकिता भूमिर्वेश्यावद् भाति भोगिनी ॥२॥ शिवाफेत्कारविस्तारिप्रतिखरभृतो गुहाः। यत्र ढक्का मृगेन्द्राणां, वाद्यमाना इवाबभुः ॥३॥ मत्ताङ्गा यत्र मातङ्गा निघ्नतो महतस्तरून् । कथयामासुरसतां, महत्त्वस्यातिनिन्द्यताम् ॥४॥ शार्दूलदीर्णसारङ्गकस्तूरीसौरभस्पृशः । पैटवासं पथिकानामादधुर्यत्र मारुताः॥५॥ पञ्चभिः कुलकम् ॥ विचित्रास्तत्र गोमायुप्रमुखाः प्राणिनः सुखम् । अध्यूषुः खेलनजुषो हर्येषु मनुजा इव ॥६॥ तान्यदा दारुणतापभीष्मो ग्रीष्मर्तुरास्थां कलयांचकार । अजस्रलूकानिलवातशुष्कतडागवापीनदवारिवारः॥७॥ खेदोदबिन्दुसंदोहदम्भाद्यताम्बुशोषणे। कृतसन्ध इवाङ्गेभ्यः सूर्योऽम्भो नि। १ क्वापि कस्मिन्नपि भूभागे कान्तारं वनं पुरमिव रेजे, कीदृशं वनं पुन्नागैर्वृक्षविशेषैः कान्तं मनोज्ञं । पुरं तु पुन्नागैः पुरुषवरैः कान्तं, कीदृशैः पुन्नागैः शिरःस्थति, शिरस्थश्चासौ पुष्पसंभारश्च पुष्पसमूहश्च तस्य सौरभोद्गारः सौरभप्रसरस्तेन भासुरैः शोभमानैरित्यर्थः ।। २ मृगारयः सिंहास्तैर्हता ये वन्या वनोद्भवा इभा हस्तिनस्तेषां कुम्भास्तेभ्यो विस्रस्तानि पतितानि यानि मौक्तिकानि तैस्तिलकिता संजाततिलका भूर्यस्मिन् वने वेश्यावत् शुभा कीदृशी भूः भोगिनः सर्पास्तत्सङ्गिनी वेश्यापि तिलकशोभिता भवति, तथा भोगिनो भोगवन्तो ये नरास्तत्सङ्गिनी भवतीत्यर्थः। ३ पटवासमिति, पटवासः पटसौरभ्यमित्यर्थः । ४ गोमायुप्रमुखा इति शृगालप्रमुखाः । ५ अध्यषुरिति । वासं चक्रुः । ६ तत्रान्यदा आस्थामिति स्थितिं कलयांचकार रचयामास । अजस्रति, अजनं सन्ततं यल्लुकानिलस्य वातान्तेन शुष्कस्तडागवापीनदीवारीणां वारः समूहो यत्र स तथा । ७ कृतसन्धः कृतप्रतिज्ञः। Page #18 -------------------------------------------------------------------------- ________________ चैत्यवन्दना रकासयत् ॥ ८॥ संसूत्रयन् मित्रनिकारभावं, विस्तारयंस्तामसमांसलत्वम् । दृशः पिधानं विदधच्च पांशुर्यस्मिन् &खलाचारमलंबभार ॥ ९॥ रजखलाऽऽशासंङ्ग शङ्के कर्तुमकामुकः। खकरप्रसरं यत्र संजहार दिवाकरः॥१०॥मङ्गलम्। ललाटंतपमार्तण्डमण्डलद्युतिपीडितम् । लोकमालोक्य फलदाः, शङ्के कारुणिका इव ॥११॥ वार्तेलान्दो-16 कलनोडीननिजपल्लवराजिभिः। यत्रातपत्रं विततं, रचयामासुरम्बरे ॥ १२॥ युग्मकम् ॥ अन्यदा तृषिता स्तत्र, भ्रमन्तो जम्बुका निशि । अपश्यन्नम्बुसंक्रान्तचन्द्रबिम्बं महावटम् ॥ १३ ॥ असौ सुधाकरः सारसुधासारकरैः करैः। निवारयति नस्तापं, नैदाघं घनवजलैः॥१४॥ आत्मोपकारिणमतः, कूपान्तः पतितं द्रुतम् । १ संसूत्रयन् यस्मिन् प्रीष्मे पांशुः धूलिः खलस्य नीचस्याचारं बभार, कीदृशः पांशुः संसूत्रयन् कुर्वन् मित्रस्य निकारभावं तिरस्कार, खलपक्षे मित्रस्य सख्युः, पुनः कीदृशः पांशुस्तामसस्य तमःसमूहस्य मांसलत्वं पीनत्वं विस्तारयन् , खलपक्षे तामसस्याऽज्ञानसमूहस्य Mमांसलत्वं विस्तारयन् , पुनः कीद्गू पांशुः दृशो दृष्टेः पिधानं स्थगनं विदधत् , खलपक्षे दृशःज्ञानस्य पिधानमित्यर्थः । २ रजस्खला | रजःपुजसमाकुला ऋतुमती वा स्त्री रजस्वला या आशा दिशः तासां संगः सम्बन्धस्तं स्वकरप्रसरमिति, स्वकराणां स्वकान्तीनां प्रसर-1 | स्तम् । कामुकोऽपि हि पुमान् रजस्खलायाः स्त्रियाः संग विरुद्धमिति कृत्वा कर्तृमनिच्छन् स्वकरप्रसरं स्वहस्तप्रसरं तदङ्गस्पशोय व्यापारित संहरतीत्यर्थः । ३ ललाटंतपो ललाटवर्ती योऽसौ मार्तण्डः सूर्यस्तस्य मण्डलं बिम्बं तस्य द्युतिस्तया पीडितं, फळदा वृक्षाः। ४ वातूलो ॥ छावातसमूहस्तेन यदान्दोलनं चालनं तेन उड्डीना ये निजपल्लवास्तेषां राजिभियंत्र कानने आतपत्रं छत्रमम्बरे आकाशे रचयामासुरित्यर्थः । ५ जम्बुकाः, शृगाला अम्बुनि संक्रान्तं चन्द्रबिम्बं यत्रैवंविधमहावटं महावृक्षमपश्यन्नित्यर्थः । 453 Page #19 -------------------------------------------------------------------------- ________________ * अमुं निष्कासनाधानात् , प्रत्युपकुर्म आदरात् ॥ १५॥ ध्यात्वेति तेऽथ ध्यायन्तस्तस्योपायं बहिष्कृतौ । तदर्थे । सिंहमेवैकं चतुरं निरचिन्वत ॥ १६ ॥ त्रिभिर्विशेषकम् ॥ ततः संभूय भूयांसः, शृगाला हरिणाधिपम् । विधुः कूपे पपातेति, भक्तिनम्रा व्यजिज्ञपन् ॥१७॥अमन्दजगदानन्द दायिनोऽस्य सितद्युतेः । ज्योत्स्लया दिनदेशीय, निशीथिन्यां रमामहे ॥ १८॥ प्रभो प्रसद्य सद्योऽतः, समुद्धर सुधाकरम् । व्यापजलनिमग्नं तं, पुमांसमिव सज्जनः ॥१९॥ महतां विपदं हन्तुं, महान्तः कुशलाः खलु । ग्रीष्मतापं भुवो हन्तुर्विना मेघेन कःक्षमः॥२०॥5 त्रिभिर्विशेषकम् ॥ ततस्तान् स्माह सिंहोऽपि लास्वैको मम बालधि । तस्याप्यन्यः परोऽन्यस्य, यावदन्त्यस्य चन्द्रमाः॥ २१ ॥ एवं कृते प्लुतेनाहं, युष्मांश्चन्द्रं च हेलया । कूपान्निष्काशयिष्यामि, पुमानिव वरत्रया ॥२२॥ युग्मम् ॥ इति सिंहगिरं श्रुत्वा, पथ्यां तथ्यां मितां मताम् । तथैव विदधुस्तेऽपि सुशिष्या इव सद्गुरोः॥२३॥ कूपान्निष्काशयामास, प्लुतमात्रेण तान हरिः। नहि क्वचिदसामर्थ्य, तादृशां विदितौजसाम् ॥ २४ ॥ कालक्षेपात् क्षपानाथे, मस्तकात् परतो गते । अपश्यन्तः कूपमध्ये, पश्यन्तश्च नभोगणे ॥२५॥ जम्बुका रजनीजानि, हृष्टतुष्टाश्च कूजिरे । सिद्धिसौधारूढकार्यः, को नाम नहि हृष्यति ॥ २६॥ युग्मम् ॥ क्रीडन्तःपुनरन्येयुर्निश्यवक्षन्त जम्बुकाः । कूपाम्बुरजनीनाथप्रतिबिम्बकरंबितम् ॥ २७ ॥ ततोऽस्तोकशोकसिन्धुनिमग्नास्ते १ संभूय मिलित्वा भूयांसः शृगाला हरिणाधिपं सिंहं विधुश्चन्द्रः कूपे पपातेति व्यजिज्ञपन्नित्यर्थः। २ रजनिजानि चन्द्र नभोऽगने पश्यन्त इति सम्बन्धः सिद्धिरेव सौधं गृहं तत्रारूढं कार्य यस्य स तथा सिद्धकार्य इत्यर्थः । 'चैत्यव. २ Page #20 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥७॥ :564564644 मुहुर्मुहुः । इतस्ततः पर्यटन्तो व्यषदन् व्यालपन् भृशम् ॥ २८ ॥ आत्म॑मान्यनात्मनीनो नवीनः कोऽपि जम्बुकः | कूपमण्डूकसंकाशस्तानूचेऽथ शुचाकुलान् ॥ २९ ॥ शशाङ्कसहितान् युष्मान्, केशरीव पराक्रमी । अहं निष्कासयिष्यामि मा कुरुध्वं शुचं मुधा ॥ ३० ॥ युग्मम् ॥ एवमूचुः शृगालास्तं, प्रवृद्धा दीर्घदर्शिनः । सरलैवमतिः प्रायः, स्थविराणां हि वल्गति ॥ ३१ ॥ वातूलतूलवतुच्छ न त्वं केशरिविक्रमम् । कर्तुं शक्नोषि रे, वैन्यसैरिभस्य विडालवत् ॥ ३२ ॥ युग्मम् । स ततः सस्मयं स्माह तनुवज्जीर्णबुद्धयः । सुरंगाधूलिवद् रेरे धीर्वो हृद्येव | हीयताम् ॥ ३३ ॥ सस्मराणां सस्मयानां, निविडाभिनिवेशिनाम् । हितोपदेशा वैफल्यं, भजन्ति, तुषवापवत् ॥ ३४ ॥ मुमूर्षुरेष न हितोपदेशं शृणुते ध्रुवम् । देवो हि दुर्म्मतिं दत्ते, चपेटां न कपोलयोः ॥ ३५ ॥ इति नि - श्चित्य ते सर्व उदासांचक्रिरेतराम् । विपाकविरसं जातु न कार्यं कुर्वते बुधाः ॥ ३६ ॥ त्रिभिर्विशेषकम् ॥ मुमूर्षव इव व्यात्तयमाननमिवावटम् । तस्य लांगूलमादाय, क्रोष्टारः प्राविशन्नवाः ॥ ३७ ॥ हरिणेव ते दत्तेतेन सोऽन्येऽपि जम्बुकाः । भग्नकूर्परदन्तोष्ठा न्यपतन् कूपकोटरम् ॥ ३८ ॥ अनुभूय व्यथां गुर्वी, ते जग्मुर्य| ममन्दिरम् । अनालोचितकार्याणां नायैतिः शुभकारिणी ॥ ३९ ॥ गम्भीर भैरव भवाटवकोटराद् यो निष्काशयत्यविरतं हरिवत् परं स्वम् । कर्मेभकुम्भतटपाटनपाटवं तं भव्या सदाऽऽदरपराः सुगुरुं भजध्वम् ॥ ४० ॥ | उच्छृंखलः स्खलित नीतिरधीनिधानं संसारकूपपतने खलु यो निदानम् । स्वस्यापरस्य च शृगाल इवाभिमानी १ आत्ममानी अहंकारी अनात्मनीनोऽनात्महितः । २ वन्यसैरिभस्य वनमहिषस्य । ३ आयतिरुत्तरः कालः । कुलकवृत्तिः मङ्गलम्. ॥ ७ ॥ Page #21 -------------------------------------------------------------------------- ________________ दूरेण तं त्यजत भोः कुगुरुं प्रवीणाः ॥ ४१ ॥ इति सुगुरुकुगुरुविषये सिंहशृगालयोः कथाः समाप्ताः ॥ विषये इति पदेन सूत्रकारेण श्रीतीर्थकर गणधरयुगप्रवरागमानां समीपे सम्यक्त्वप्रतिपत्तिर्विधेयेति प्रतिपादयिता, समस्तजीवाजीवादिसुक्ष्म पदार्थसार्थप्रकाश कश्रीजिनागमलोचन विकलानाम् उत्सर्गतो मासकल्पविहाराधाकर्मिकोद्देशिकाद्याहारपरिहारकारणतो नित्यवाससेवाधाकमिको द्देशिका द्यङ्गीकारेत्याद्युत्सर्गापवादभा| वविषयविवेकाकुशलानां गड्डरिकाप्रवाहतः प्रतिलेखनाप्रमार्जनादिदर्शविधसाधुसामाचारीसमाचरणपराणां प्रत्र||ज्याविध्युपस्थापनाविधिप्रायश्चित्तविधिगच्छनिर्वाहविधिप्रमुखविधिविशेषाऽपरिमलितमतीनां खचित्तकल्पिताहंकारकरीन्द्राधिरोहतो गीतार्थशिरोमणिमन्यानामगीतार्थगुरूणां सन्निधौ सम्यक्त्वप्रतिपत्तिर्न कर्त्तव्या । अगीतार्थगुरुवश्च सामस्त्यदेश भेदाभ्यां द्विधा भवन्ति, तत्र सामस्त्यतोऽगीतार्थगुरवः सर्वथा जैन सिद्धान्तरहस्य|मनाकलयन्तः लोकरञ्जनाय क्रियाकलापमाचरन्तो भव्यजनानशुद्धमार्गे प्रवर्त्तयन्तः सर्पपुच्छिका इव खं परांच १ उत्सर्गत इति, उत्सर्गमार्गेण मासकल्पविहाराधाकमि कोद्देशिकादिदोषदुष्टाहारपरिहारः कार्यः तथा कारणतोऽपवादतोऽशिवादिषु आधाक मिकोद्देशिकादि यदुष्टाहारंगीकारः कार्य इत्याद्युत्सर्गापवादविषयो यो विवेकस्तत्र कुशलानामित्यर्थः । २ दशविधसाधुसमा - चारीति, इच्छा १ मिच्छा २ तहकारो ३ आवस्सिया य ४ निसीहिया ५ आपुच्छणा य ६ पडिपडिपुच्छा ७ छन्दना य ८ निमंतणा ९ उवसंपया य || १० || कालसामायारी भवे दसविहायो एषा दशविध समाचारी । Page #22 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- जन्मजरामरणादिदुःखबहुलसंसारपातेन विनाशयन्ति । अत्रार्थे सर्पशीर्षकपुच्छिकाकथानककदलीफलदानेन कुलकवृत्तिः भव्यजीवकर्णपालिवालिकानानन्दयामि तथाहि मङ्गलम्. - अस्माभिर्निविडां छायां, पान्थातिथ्याय निर्मिताम् । मास्म शयदुष्णांशुरिति यत्र रवेः करान् ॥१॥ कलैर्दलैर्निजैः सान्द्रयरुन्धत महीरुहः। चकाशामास विपिनं, कापि तद्भूमिमण्डनम् ॥२॥ तत्र स्फारस्फटाटोपभीषणोऽभूत् भुजङ्गमः । जङ्गमः कालकूटस्य, शङ्के कूट इवासितः ॥३॥ विद्युयोतचलत्पाणि, प्राणितास्वादनादिव । लोलं लोलायुगं बिभ्रद् यश्चिक्रीडमाकृतिः॥४॥ अन्यदा शीर्षकं स्माह, पुच्छिका परुषाक्षरम् । प्रकाशे तामसे वापि, समेऽपि विषमेऽपि च ॥५॥ रन्ध्रे भूमीभृतां मूर्ध्नि, सुखदुःखविभागिनी । छायावद नुगच्छामि, त्वामहं पृष्टगामुका ॥६॥ न भृत्येव भृतिक्रीता, न भार्येव विवाहिता । न हीना भवतः कापिटू लाकिमाग्रे सरता न मे ॥७॥ कियत्कालं पुरोभूय, भवतो ब्रजितास्म्यहम् । लोकेऽपि तुल्ययोस्तुल्या स्थादग्रे सरता यतः॥८॥ उत्तरे चतुरं चारु वचोऽवोचत् शीर्षकम् । पुरो गमनहेतुं मे त्वं निशामय मानिनि ॥९॥ कण्टकैः संकटं स्यूत, कर्कशैः कर्करोत्करैः। पर्यटच्छकटश्रेणिं, मुक्त्वा मार्गमटाम्यहम् ॥१०॥ शिखण्डिनकुला १ अस्माभिः पान्थाऽऽतिथ्याय कृतां छायां स्तर्या मास्म क्रशयत मा क्रशां करोतु इति यत्र वने रखेः करान् महीरुहानि अरुन्धा C ॥८॥ रुन्धन्ति स्मेति श्लोकद्वयसम्बन्धः। २ विद्युयोतवचलं विनश्वरं प्राणिनां प्राणितं जीवितं तस्यास्वादनादिव लालायुगं जिह्वायुगम् । ४|३ न कर्मकरीव भूतिः कर्मः, मूल्यं तया क्रीता । ४ स्यूतमिति व्याप्तं पर्यटन्ती भ्रमन्ती शकटश्रेणियंत्र स तथा तम् । भूतिः कर्मः, मूल्यं त विग्रदोतवचलं विनश्वरं प्राणिनां प्राणित फलोव इति यत्र बने रवेः करान् महीरहा Page #23 -------------------------------------------------------------------------- ________________ लवात, प्रमुखान् संमुखानरीन् । वर्जयामि वजनीयानन्यानपि समंततः ॥११॥ त्वं तु मुग्धे न जानासि, विलोचनं विनाकृता । नहि जानाति जात्यन्धो न्धकूपाद्यान् पुरःस्थितान् ॥ १२॥ चतुर्भिः कलापकम् । वृश्चिकेनेव5 दष्टा सा, कोपाटोपापराऽवदत् । सर्वं त्वमेव जानासि नापरः कोऽपि किंचन ॥ १३ ॥ वेष्टयित्वा तरोः शाखां, तन्वा साऽऽचष्ट दुष्टधीः। गच्छ खच्छन्दमन्यत्र समर्थेत्यनुशीर्षकम् ॥१४॥ गीतलुब्धिं कुरङ्गीव, मत्सीवामिषभक्षणम् । ग्रहं निजं न मत्ताङ्गी, प्राणान्तेऽपि विमुञ्चति ॥१५॥ चक्रवर्त्यपि शक्रोऽपि, समर्थोऽपि सुधीरपि ॥ कर्मरेखामिव स्त्रीणां, कुर्यान्नाग्रहमन्यथा ॥१६॥ ध्यात्वेति तत् पुरोऽवादीच्छीर्षकं हे पुरोभव । ततो ला हर्षप्रकर्षाच, रोमाश्चा साऽचलत् पुरः॥१७॥ रथचक्रेण रथ्यायां, सा न्यपेषि सशीर्षका । कदाग्रहग्रस्तहृदां, नोदक संपदात्मकः॥१८॥ खस्यापरस्य च भुजंगमपुच्छिकेव, सांसारिकप्रचुरदुःखनिबन्धं यः । गीतार्थताविरहितः कुगुरुः स सिद्धिसौधाधिरोहरसिकैर्भविकैविहेयः ॥ १९ ॥ इत्यगीतार्थगुरुविषये सर्पपुच्छिकाशीर्षकयोः कथानकं समाप्तम् ॥ २॥ देशतोऽगीतार्थगुरवः खल्पजिनागमपरिज्ञानेन सर्वज्ञंमन्याः केवलमुत्सर्गतोऽपवादतो वा भव्यजीवान् प्रवतयन्तो वैद्यपुत्र इव खस्य परस्य च विनाशाय संपद्यन्ते । तत्रार्थे वैद्यपुत्रकथानककुण्डलं सकलभविकलोककर्णशष्कुलीयोग्यं क्रियते, तथाहि-अमानदानविदितै राजितं नरकुञ्जरैः। विन्ध्याद्रिवनवदू रेजे, श्रीवसन्तपुरं १ उदर्क इति, तद्भवं फलं । Page #24 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥ ९ ॥ ॐ पुरम् ॥ १ ॥ दानं दातुं कृप्तयाञ्चा याचकाख्यां प्रपेदिरे । दानशौण्डा जना एव, यत्र लोको न चापरः ॥ २ ॥ युग्मम् ॥ तस्मिन् समरकण्डूलमत्तारिदमनात् किल । जज्ञेऽरिदमनो नाम भूशक्रः शक्रवदिवि ॥ ३ ॥ यो वैरिवारदुर्वार, प्रतापानिलमुच्छिखम् । तत्कान्तानैत्रवाष्पोधैर्व्यधापयदुदारधीः ॥ ४ ॥ राजहंसो यशो यस्य, स्वेच्छं भ्राम्यन् जगत्त्रये । वऋपद्मेष्वरिस्त्रीणामक्रीडत् पाण्डिमच्छलात् ॥ ५ ॥ अभूद् रूपपराभूतरम्भारम्भानिभोरुभाक् । सौभाग्यसुन्दरी तस्य, देवी सौभाग्यसुन्दरी ॥ ६ ॥ पुष्पचापो जगजेतुं यां चापलतिका - मनु । छलेन वेणिदण्डस्य संधत्ते स्मायसं शरम् ॥ ७॥ गुणैः शौर्यादिभिर्वर्यैर्मत्समानः परो नहि । इति वक्तुमिवैकोऽभूत्, तत्सूनुर्वीरसुन्दरः ॥ ८ ॥ सिद्धहस्तः सत्यवादी, महीवल्लभमानितः । सोमनामाभवद् वैद्योवैद्यविद्याविशारदः ॥ ९ ॥ कथाशेषः स जज्ञेऽथ कनीयसितनूद्भवे । प्राणान् प्राणभृतां हर्तुं, कालः कालस्य नास्ति यत् ॥ १० ॥ न्यषेधयत् धराधीशो वृत्तिं तत्तनुजन्मनः । यतः सांसारिणां प्रायो वल्लभं कर्म चर्म न ॥ १९ ॥ भिषकपुत्रः पराभूतो भूभुजा वृत्तिलोपतः । अगाद् देशान्तरं विद्याभ्यासार्थं तदनन्तरम् ॥ १२ ॥ अध्यैष्ट कष्टतः किंचिन्नष्टधीस्तत्र वैद्यकम् । एकं श्लोकं तत्राभूत् तमज्ञासीत् सर्वशास्त्रतः ॥ १३ ॥ पूर्वाह्णे वमनं दद्या| दपराह्ने विरेचनम् । वातिकेष्वपि रोगेषु, पथ्यमाहुर्मनीषिणः ॥ १४ ॥ वेदरीवनसंप्राप्तिप्राप्तखराज्यमानिनः । १ बदरीवनसंप्राप्त्या प्राप्तं स्वाराज्यं येन स तथा तमिवात्मानं मन्यते इत्येवं शीलायास्तस्य क्रोष्टुः शृगालस्य शृगालबालका हि फलभरावनाबदरीवनं प्राप्य प्राप्तस्वाराज्यपुरुषसमानमात्मानं मन्यते तुच्छत्वादेवमन्योऽपि यः स्वल्पर्द्धिप्राप्तावपि आत्मानं बहुमन्यते स तत्सदृश इत्यर्थः । कुलकवृत्तिः मङ्गलम् - 118 11 Page #25 -------------------------------------------------------------------------- ________________ कोष्ठस्तुल्यः स सर्वज्ञं मन्य आगानिजं पुरम् ॥१५॥ आदातुं पैतृकी वृत्तिमादायोपायनं वरम् । गत्वा राजसभा नत्वा, भूभुजं स व्यजिज्ञपत् ॥१६॥ गत्वा देशान्तरं देवी प्रसादात् तव सत्वरम् । अनवद्या अहं विद्याः, पपाठाशठमानसः॥१७॥ तस्य वृत्तिं व्यधाद् भूपः, प्रसन्नीभूय भूयसीम् । महान्तोहि श्रिते लोके, कल्पशाखिसनाभयः॥१८॥ अन्यदा भूभुजः सुनोः शरीरेऽभूद् ज्वरः खरः॥राज्ञि रके हि मुनिवत् तुल्याः कर्मों-18 दयः खलु ॥ १९॥ आदिदेश नराधीशस्ततस्तं भिषजोऽङ्गाजम् । तथा कुरु यथा भद्र भद्रीभवति मे सुतः॥२०॥ पूर्वाले वमनं दद्यादित्यादिश्लोकमेककम् । पूर्वाधीतं तत्त्वभूतं मन्यमानः स शून्यधीः ॥ २१ ॥ विरेच्य प्रथम पश्चान्नृपात्मजमवीवमत् । गन्तुकामोहि कौबेयों मूढो यात्यधिदक्षिणम् ॥ २२ ॥ औषधीनामसाध्योऽभूत्, सन्निपातगदस्ततः। मृदिखायुदरं मूर्खः, किं नोत्पादयते रुजम् ॥ २३॥ सुकुमारः कुमारोऽथ, जगाम यममन्दिरम् । शिरीषपुष्पं सहते, किं खरं करपीडनम् ॥ २४ ॥ तं राट्पुत्रवधात् क्रुद्धः शूलायामध्यरोपयत् । अविचारितकर्तृणामसको हि सुखादिका ॥ २५ ॥ वैद्यात्मभूरिव जिनागमलेशपाठात् खं सर्वशास्त्रकुशलं कलयन् कुधीर्यः।। राजाङ्गजातमिव देहिगणं दुरन्तदुःखं नयत्यविरतं स गुरुन सेव्यः ॥ २६ ॥ इति देशतोऽगीतार्थकुगुरुविषये वैद्यपुत्रकथानकं समाप्तम् ॥३॥ | श्रीगणभृत्प्रणीतसिद्धान्तानवद्यविद्याविलासमानसलसत्सातिरेकविवेकांकुशवशीकृतनिरंकुशमहामोहमत्त १ कल्पशाखीति, कल्पशाखिसदृश इत्यर्थः । २ कौबेर्यामिति, उत्तरस्यां दिशि । Page #26 -------------------------------------------------------------------------- ________________ चैत्यवन्दम॥१०॥ 5454ॐॐॐॐॐ मतङ्गजा अतस्तरङ्गितसंवेगभङ्गिशुभगं भावुकखान्तकोटरोहीकमानस्थानध्यानानलेन्धनायमानमकरध्वजा अपि कुलकवृत्तिः सुगुरवः कदाचिदनादिकालीनाविद्यावासनासंस्कारविस्फारविस्फुरितप्रमादवशतः श्रीजैनसिद्धान्ताऽशातनाकारि ज्ञानदर्शनचारित्रदुकूलनयनर्मल्यापहारि वाक्यपङ्कमण्डलं विस्तारयति । पश्चात्ते एव गुरवो गीतार्थोपदेशतः पश्चात्तापपुरस्सरः पारांचितप्रायश्चित्तनीरपूरविहितात्मशुद्धयः श्रीजिनशासनप्रभावनविधानजायमानकुन्देन्दुद्युतिसमानकीर्तिधवलितक्षितयः समस्तक्षितितलप्रसिद्धश्रीसिद्धसेनसूरितत्सिद्विवधूसम्बन्धनिबन्धनभूता भव्यजीवैः सदा समाराध्या एव । तत्समीपे च सम्यक्त्वप्रतिपत्तिर्विधेया अतः श्रीसिद्धसेन दिवाकरकथानकं प्रोच्यते तथाहि-अवन्तिविषयः क्षोण्या स्म बभस्तिप्रशस्तिवत् । सदर्थालंकृतिश्लोकवृत्ताऽऽावलिमण्डलम् ॥ १॥ लक्ष्मणश्रेणिसंश्लिष्टा साधुराजीवराजिता । सरसीव महोल्लालाऽभूदुज्जयिनीपुरी ॥ २॥ । १ मालव्यदेशः क्षोण्याः पृथिव्याः प्रशस्तिरिव विभातिस्म चकाशेः कीदृशो मालव्यविषयः सदर्थेति सच्छब्दः प्रत्येकं योज्यः ।। सन् संशोभना न्यायार्जिताऽर्था धनमलंकारा आभरणानि, यथा शास्त्रमाचारो येषामेवंविधा ये आर्यास्तेषामावल्या परस्परया मंजुलं प्रधानः, प्रशस्तिपक्षे सन्तः शोभनाश्चमत्कारिणोऽर्था अलंकाराश्चोत्प्रेक्षादयो येषु एवंविधा ये श्लोका वृत्तानि आर्याश्च तेषामवल्या परंपरया मंजुला मनोज्ञाः, अत्र च विषयस्य प्रधानत्वात् तदपेक्षया पुल्लिङ्गता ॥ ननु प्रशस्त्यपेक्षया स्त्रीलिङ्गता तत्र श्लोका अष्टाक्षरपादः वृत्तानि भूरिभे-1| ॥१०॥ दानि आयो मात्राच्छन्दांसि । २ लक्ष्मण अत्र मालव्यदेशे उज्जयनीनामपुरी अभूत का इव सरसीव महासरसीव कीदृशी पुरी लक्ष्मणा| लक्ष्मीवन्तस्तेषां श्रेणिमिः संश्लिष्टाः संयुक्ता साधवा सामीस्तेषां राजीभिरावलिमिर्वरा अजिता अजया वैरिवगैरितिगम्यते महैरुत्सवैरु Page #27 -------------------------------------------------------------------------- ________________ क्रीडाक्रीडालिषु प्रीताः क्रीडन्तोऽत्र जना बभुः । वृन्दारका इवोदारमन्दारोद्यानराजिषु ॥३॥ पौरा हारा है इवाराजन् , यंत्र हृद्याः शुचिश्रियः । मुक्तामया गुणाधाराश्चारुनायकबन्धुराः ॥ ४ ॥ सितांशुकांत्यलक्षेषु, विहारेषु निशासिंह । हेमकुम्भा नभोगङ्गाहेमपद्मभ्रमं व्यधुः ॥५॥ चतुर्भिः कलापकम् ॥ तत्रारिकुञ्जरेभारिविक्रमाभारिदोयुगः। विक्रमादित्यभूपोऽभूत् समर्थः समकर्मसु ॥६॥ परकायप्रवेशेन ध्रुवं ज्ञात्वेव वाञ्छितम् । अयाचितं याचकेभ्यो यथेच्छं यच्छति स्म यः॥७॥ वियोगिवैरिस्त्रैणोष्मबाष्पनिक्षारणादिव । निर्मलं यद्यशो वासो रेजे सद्गुणगुम्फितम् ॥८॥नमन्तः सर्वसामन्तभूपाला इव शासनम् । यदीयं पालयन्तिस्माऽ|ग्निवैतालादिचेटकाः॥९॥ चतुर्भि:कलापकम् मण्डलेश्वरसामन्तायैः, समन्तात् परिवृतः। हेमकुण्डलकोटीरलोला सरसी पक्षे लक्ष्मणा सारसास्तेषां श्रेणिभिः संशिनष्टाः साधुभिः प्रधानै सजीवैः कमलै राजिता महांत उल्लोलाः कल्लोला यस्यां सा| तथा । १ 'क्रीडा' क्रीडावनं धृन्दारका देवाः । उदारेति, उदाराणि उत्कटानि यानि मन्दाराणां कल्पतरुविशेषाणामुद्यानानि तेषां राजिषु ।। २ यत्र यस्यां पुर्या पौराः पुरलोका हारा इव रेजिरे, कीदृशाः पौरा हृद्या मनोज्ञास्तथा शुचिया॑यार्जिता श्रीर्येषां ते तथा मुक्ता आमया रोगा यैस्ते तथा, गुणानामाधारा आश्रेयाः चारुणा प्रधानेन नायकेन बन्धुरा मनोहराः, हारपक्षे हृद्या हृदयन्यासयोग्याः शुचिश्रियो निर्मलाश्रियो मुक्तामया मुक्ताफलनिर्मिताः गुणस्य दवरकस्याधाराः चारुणा नायकेनान्तर्मणिना बन्धुराः। ३ इह नगयो निशासु। रात्रिषु विहारेषु प्रासादेषु सितांशोश्चन्द्रस्य कान्तिमिाप्तेषु श्वेतवर्णतयाऽलक्ष्येष्वदृश्येषु तदूर्ध्वस्था हेमकुम्भा नभोगंगायां यानि हेमपयानि तेषां भ्रमं चक्रु इत्यर्थः । Page #28 -------------------------------------------------------------------------- ________________ चैत्यवन्दन तारहारपरिस्कृतः॥१०॥ श्वेतातपत्ररोचिष्णुस्तूयमानश्च वन्दिभिः। दिव्यवनपरिधानश्चारुचालितचामरः॥११॥ कुलकवृतिः स्वस्वामिसहचारित्वात्तुष्टैःपुष्टैस्तुरङ्गमैः । नृत्यदुभिरिव रिङ्गद्भिर्हेषयद्भिर्विराजतः॥१२॥ हस्तिमल्लाधिरूढो राडन्य॥११॥ दा राजवाटिकाम् । गच्छन्निन्द्र इवाद्राक्षीत् खां पुरीं छुपुरीमिव ॥ १३॥ चतुर्भिः कलापकम् ॥ विस्फारसारश दारं, स्वर्णभूषणभूषितम् । क्वचिन्नाद्यानिमेषाक्षं, स्त्रैणं दिव्यं स प्रेक्षत ॥१४॥ कचिद्वेश्याश्रये रम्ये, हHश्रेमणिमनोहरे । पण्ययोषितमैक्षिष्ट निकामं कामिकामितम् ॥ १५॥ अविगानमहागानकलाकौशलपेशलान् । वीक्षा बभूव गन्धर्वान् , खर्गन्धर्वानिव कचित् ॥ १६॥ अनिर्वेदचतुर्विधोद्गारमादधतः कचित् । भूदेवान् वसुधाधीशा, प्रेक्षां चक्रे विचक्षणः ॥ १७॥ राजमार्गापणश्रेणावपश्यत् काश्यपीपतिः । वरेण्यपण्यसंभारहारिणो व्यवहारिणः ॥ १८ ॥ उपशान्तरसावासान् , सदा निर्निद्रदर्शनान् । ददर्श कापि भूमीशः, सुसाधून विबुधानिव ॥ १९॥ तेषु नानासनासीनान्, मुनीनालेखितानिव । निरुद्धोच्छासनिःश्वासान् , कांश्चिदैक्षत-15 कौतुकान् ॥ २०॥धीरगम्भीरनादेन, देशनामृतवर्षिणः। ददर्श व्रतिनः कश्चित् , प्रावृषेण्यानिवाम्बुदान्॥२१॥ कांश्चित्तत्र गुरोः पार्थेऽधीयतः सुधियःश्रुतम् । सोऽपश्यत् प्रतिभोन्मेषान्मिषतोऽनिमिषानिव ॥२२॥ सदात्मव्यवसायाय, कांश्चित्तत्र चारित्रिणः । ससूत्रिण इवादाक्षीत् , सूत्रव्यावर्त्तने रतान् ॥ २३ ॥ दशभिः ॥११॥ कुलकम् ॥ तत्रैव मातृकासूत्रं, वृद्धमेकं तपखिनम् । उच्चैःस्वरेण घोषन्तं, वीक्ष्याऽभाषिष्ट भूमिपः ॥ २४ ॥ अयमस्मादृशां पुसा, पश्यतां यन्न पश्यति । किमधीत्य सुधीभूय, मुशलं पुष्पयिष्यति ॥ २५॥ ममावित् सोप GRUSSAGESSISSISSES Page #29 -------------------------------------------------------------------------- ________________ हासं तद्वाक्यं श्रुत्वा नृपोदितम् । खचित्ते चिन्तयामास, वृद्धोऽदः खिनमानसः॥ २६ ॥ समस्तपण्डिताध्यक्षं, मूर्योऽयमिति मे स्मितम् । राज्ञा चक्रेऽथवा सत्यं, यथार्थप्रतिपादनात् ॥ २७॥ ततः पाठेकतानस्य, वृद्धस्याजायत क्रमात् । पदानुसारणी लब्धिा, कर्मक्षित्युपशान्तितः॥२८॥ सुनावेव तया सद्यो विद्यानदी विगाय सः। अदृष्यं प्राप वैदुष्यं, स्थानमिष्टं यथा नरः ॥ २९॥ नृपोपहाससंस्कारादहंकारलवेऽप्यथ । तीर्थप्रभाव-18 नाहेतोः शुद्धश्राद्धेन धीमता ॥ ३० ॥ सौवर्ण मुशलं पुष्पोद्दामदामविभूषितम् । पत्रलिखितैकवृत्तं, कारयामासिवानसौ ॥३१॥ युग्मम् ॥ प्रतापवत् पुरस्तात् तं, कारयित्वा स वादधीः। पटहाद्यानि वाद्यानि विवादार्थमवीवदत् ॥ ३२॥ ततो भूरिपरिवारश्चतुष्कत्रिकचत्वरे । संचरिष्णुर्विवादाय, वादिनः स समात ॥ ३३ ॥ दृष्ट्वा दुर्वारगोवारप्रसरन्तं गभस्तिवत् । वावदूकाः समे घूका, इव मूकास्तिरोऽभवन् ॥ ३४॥ शूरवीर इवाभीरू राजवर्त्मनि संचरन् । जयश्रीमन्दिरद्वारं, राजद्वारं समाप सः॥३५॥ पूर्ववतुमिवान्येभ्यो वाद्यनादैस्तदागमम् । वर्द्धकैरिव भूपस्य श्रुतौ प्रावेशि तत्क्षणात् ॥ ३६॥ प्रतिहारं ततोऽप्राक्षीत् न्यायसाक्षी नरेश्वरः । आपूरितदिगाभोगः कोऽयं नादो निशम्यते ॥ ३७ ॥ ततो हष्टमनाः सद्यः, प्रतीहारो व्यजिज्ञपत् । विद्वज्जनचमत्कारिवृत्तान्तं वृद्धवादिनः॥ ३८॥ वृद्धं प्रवेशयेत्युक्ते महीपालेन कौतुकात् । प्रावेशयन् मुनि वृद्धं, प्रतीहारो मुदादरात् ॥ ३९॥ प्रविशन्तं ततस्तं नाग नृपः प्रेक्ष्योपलक्ष्य च । किमेतदिति संभ्रान्तवान्तः पप्रच्छ वृद्धतः॥४०॥ वृद्धस्तदनु दंतांशु दंभादुभावयन्निव । अम्लानं निजविज्ञानं, व्याजहार नराधिपम् ॥४१॥ वादाय पुष्पया Page #30 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-मासे सौवर्ण मुशलं मया । ऊवं विवादकण्डूलवादिशार्दूलसन्ततः ॥४२॥ तत्र रूप्यमये पत्रे, लिखितं कन-कुलकवृत्तिः काक्षरेः । वृत्तमेकं निरीक्ष्याथ वाचयामास भूपतिः॥४३॥ तथाहि, मद्गोऽशृङ्गं शक्रयष्टिप्रमाणं शीतोवहिर्मा-18| मङ्गलम्. रुतो निःप्रकम्पः । यद्वा यस्मै रोचते तन्न किंचिद् वृद्धो वादी भाषते कःकिमाह ॥४४ ॥ ततः सन्मानितो राज्ञा स दोषज्ञशिरोमणिः । कृतकृत्यः परावृत्य, निजोपाश्रयमागमत् ॥४५॥ ततः पुरोधसः पुत्रः सिद्धसेनोऽपमानतः । खचित्ते चिन्तयामास पुंसां जाड्यं विडंबना। यन्मयि द्विजराजेऽत्र सत्यपि मापसंसदि । अवलिवादिनागेन यथेच्छं श्वेतभिक्षुणा ॥ ४६॥ मयि पौरोधसे पुत्रे, विद्यमानेऽत्र संसदि । मुशलं पुष्पयित्वाऽयं कथं । श्वेताम्बरोऽगमत् ॥ ४७॥ तदहं यद्यधीत्याशु, विद्या विद्यावतो गुरोः । विवादेन जयाम्येतं, तदा भद्रं न चान्यथा ॥४८॥ विमृश्यैवं धरानेतुः, स्वपितुश्च निवेद्य सः। निजाकूतं ययौ पूतं, विद्वद्भिः पाटलीपुरम् ॥४९॥ मुदाभ्यस्य गतालस्यस्तत्र विद्याश्चतुर्दश । लक्ष्मीवत्यास्ततोऽवन्त्या उद्याने स समाययौ ॥५०॥ तत्र स्वयमव स्थाय, खप्रवेशाय सादरम् । तातयुक्तधरेशस्य पार्श्वेऽप्रेषीत् स मानवम् ॥५१॥ दैवयोगादथात्रैव वृद्धवादी समीयिवान् । ततो विद्यामदादू वाग्मी, तृणीयन् सर्वकोविदान् ॥५२॥ तदीयदर्शनात् सिद्धः कोपाटोपा-| रुणोऽभवत् । कुरङ्गानां परिवृढो, यथा शरभवीक्षणात् ॥५३॥ युगलकम् ॥ ततोऽभिमानमातङ्गोत्तमाङ्गोपरि-." संस्थितः। सिद्धवादीश्वरोऽवादीत्, प्रति तं प्रतिवादिनम् ॥५४॥ मम पार्श्वे समेहि त्वं, वृद्धवादिमतल्लिक । वादवातं चिरोत्पन्नं, सिद्धोऽहं स्फोटयामि ते ॥५५॥ ततो वृद्धः समागत्य, तं प्रति माह धीप्रभुः। अटव्यां को 5454555555755 Page #31 -------------------------------------------------------------------------- ________________ CAKAC विवादो, नो विना राजसभा शुभाम् ॥५६॥ सिद्धोऽथोचे विना वादं, वुध्यते नैभिरुत्तरैः । जगौ वृद्धोऽपि यद्येवं, तर्हि वादो भवत्विह ॥ ५७ ॥ परं सभ्यर्विना वादे, विजये च पराजये। निर्णयाभावतस्तूर्णं, सभ्यान सिद्ध विधेहि भोः ॥५८ ॥ मयाऽनेन समं गम्यं, पश्चाद् वैश्रवणालये । इतीव वृद्धयुक्तोऽगात्, सिद्धो वैश्रवMणालये ॥ ५९॥ कांश्चित्तालारसालीनान् कांश्चिदोलाधिरोहिणः । लीलयोल्ललतः कांश्चित्, कांश्चिन्नृत्यविधयिनः ॥६०॥ किं पुरिवादिनः कांश्चित् , कांश्चिद् दृहादिगायिनः । वैरिणस्तत्र गोपालान् वीक्ष्य सिद्धोऽभ्यधत्ततान् ॥ ६१॥ युग्मम् ॥ भो भो गोपालका यूयमावयोर्वादसभ्यताम् । सावधानं मनः कृत्वा, भजध्वं सममानसाः ॥१२॥ योयं विजेष्यते वादे, तच्छिष्यः स भविष्यति । इत्यङ्गीचक्रतुस्तौ स्राग गोपानाधाय साक्षिणः ॥ १३ ॥ इति वादब्यवस्थातोऽनन्तरं वृद्धवादिना । विदुषां चक्रिणा चक्रे, सिद्धो वादे पुरस्सरः ॥ ६४ ॥ चारुगीर्वाणवाण्याथ दिशो वाचालयन्निव । सिद्धसेनः सुधीसेनो वक्तुं प्रववृते कृती ॥६५॥ निशम्य सम्यगालापं तस्य गोपा व्यचिन्तयन् । किं दासेरकारटितं किं वा बालेयशब्दितम्॥६६॥गोमायुरटितं किंवा,किंवा वायसभा|षितम् । कुक्कुरकणितं किंवा किंवा दर्दुरसिंजितम् ॥३७॥ विकल्प्यैवं ततो वादात् ,सिद्धसेनोन्यषेधि तैः। प्रस्तावानुचितं कुर्वन् कोऽथवा न निषिध्यते ॥३८॥ प्रस्तावसदृशं वाक्यं, सभावसदृशं प्रियम्।आत्मशक्तिसमं कोपं, यो जानाति स पण्डितः॥६९॥ इति ध्यात्वा ततो वृद्धः, प्रस्तावोचितवेदिता । विहाय प्राक्तनं वेषं गोपवेषं व्यधात्तराम् ॥ ७० ॥ गोपालमण्डले तालारसं चारु समाचरन् । अपाठीत् सोऽथ रङ्गायांतराले दूहकावत् तम् ॥७१॥ तद्य ACAKAKKARKA चैयच.३ Page #32 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- था ॥ जहिं डूंगर तहिं खोहलाई,जहिं नई तहिं वलणाई। जहिं सुपुरिस तहिं घंघलई हिया विसूरइ काई ॥७२॥ कुलकवृत्तिः जेहिं कलंतरूसंचियउ गठिहि वद्धउ दम्मु । नवि खमणउ नवि सेवडउं गयउ अकत्थउ जम्मु॥७३॥ ततो वृद्धस्य ॥१३॥ पीयूषपूषासारकिरा गिरा । समन्तात् प्रीणिता गोपा निरुंच्छन्ति स्म तं मुदा ॥७४॥ वृद्धेन विजितं वादे, सिद्ध-15 सेनेन हारितम् । इत्याख्यान्तस्ततस्तालारसलीलां विनिर्ममुः ॥७५॥ गले धृत्वोचिरेतं ते सिद्ध रे स्थविरान्ति-टू कात् ॥ गृहीत्वा व्रतमस्मद्वत्, खगवीपालनं कुरु ॥७६ ॥ सिद्धसेनस्ततो गर्वपर्वताग्रादवातरत् । समभूमि|स्थितः खान्ते विमृशं सुधियाऽमृशत् ॥७७॥ सुधियां संस्कृता वाणी, वाणिनीव मनोहरा । बाला इव न गोपालास्तदूरसास्वादविन्दवः ॥ ७८ ॥ गोपाग्रे तामहं जल्पन्नूनं पठितवालिशः। प्रस्तावज्ञस्तु वृद्धोऽयम-16 Xन्तर्वाणिशिरोमणिः ॥ ७९ ॥ तदस्य शिष्यभावे खप्रतिज्ञानिश्चलस्य मे । ब्रीडा नास्तीति संचिन्त्य सिहो वृद्धं काव्यजिज्ञपत् ॥८॥ शीघ्रं प्रभो जैनदीक्षां, देहि मे देहि वत्सल । यया नावेव संसारपारावरं तराम्यहम् ॥८१॥ इति प्रोक्तो वृद्धवादी, दीक्षित्वा सिद्धमिद्धधीः । पृष्टे विधाय तं पुर्या, समागन्तुं प्रचक्रमे ॥ ८२ ॥ अथ खस्थानतोऽचालीत् भूपः सबलवाहनः । सन्मुखं सिद्धसेनस्य जनकादिपरीवृत्तः ॥ ८३ ॥ अथान्तराले भूपाल: सिद्धं वृद्धानुगामिनम् । वीक्ष्याऽवम् विस्मयात् सिद्ध नवो वेषः क एष ते ॥८४॥ सिद्धेनासौ च वृत्तान्ते,81 ॥ १३॥ प्रोक्ते भूपोऽब्रवीत् कवे ! वादं विधेहि भूयो मे, समक्षं नृपसंसदि ॥ ८५॥ पुनर्विवादशुश्रूषातृष्णां निष्ठा*पयन्निव । दन्तकान्तिसुधापूरैः, प्रत्युवाच स भूपतिम् ॥ ८६ ॥ आरण्यकानपि गोपान् , नालं रचयितुं नृप । Page #33 -------------------------------------------------------------------------- ________________ A न, राजा सावधिः । समाग्रतिनो पुल पुरीस्थांस्तान् कथं कारमस्मि तोषयितुं क्षमः ॥ ८७॥ उच्चैर्वचोऽपि नो युक्तं, प्रवक्तुं गुरुणा समम् । शिष्यस्य बुद्ध्यवक्रस्य, वक्रवादे च का कथा ॥ ८८॥ सकृद्वाद विधानेऽपि, स्ववीर्य लब्धवानहम् । इति मे गुणपात्रस्य, न त्रपाऽमुष्य दीक्षया ॥ ८९॥ अतःपरं शरण्यस्यास्यैव मे शरणं पदौ । अलसस्यापि सत्पुंसः, प्रतिज्ञा नान्यथा भवेत् ॥१०॥ इति संबोधितस्तेन, राजा सौवस्तिकादियुक । वृद्धसिद्धौ मुदा नत्वा, स्वकीयस्थानमागमत् ॥११॥ सिद्धोऽप्यधीतसिद्धान्तो गीतार्थो गुणशेवधिः । समारोप्यनुरूपत्वात् खपट्टे गुरुणा खयम् ॥९२॥ अध्यामधीः स सिद्धान्तान् , साधूनध्यापयन मुदा । अन्यदा वतिनो वृद्धान् , प्रोचे प्रज्ञाप्रकर्षतः॥९३ ॥ खसिद्धान्ता न शोभन्ते, प्राकृता गणभृत्कृताः। इति चेदनुजानीत, कुर्मेऽहं तर्हि संस्कृतान् ॥१४॥ प्रत्यूचुस्तेऽथ तं वाक्यादस्माद् यत् कर्म निर्मितम् । तद्यूयमेव जानीथ समयज्ञा न चापराः ॥९५॥ सिद्धोऽपि सिद्धगामित्वात् , पश्चात्तापादचिन्तयत् । सिद्धान्ताशातनातो हा, जज्ञेऽहं पङ्कपङ्किलः ॥ ९६ ॥ यत उक्तम्-बालस्त्रीमूढमूखाणां, नृणां चारित्रकांक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः॥९७॥ यदि पाराञ्चितप्रायश्चित्तं शोचमिवादधे । तदा शुद्धिर्भवित्री मे नान्यथाऽत्र कथंचन ॥९८ ॥ इति ध्यात्वाऽथ वृद्धभ्यो, गच्छंद दत्त्वा मुनीश्वरः । सिद्धसेनश्चिकीर्षुस्तद्वभूवान् व्यक्तवेषयुक् ॥ ९९ ॥ ततो मह्यां परिभ्रम्य, यावत् कांश्चन हायनान् । सिद्धसेनः पुनः पुर्यामवन्त्यामाययौतराम् ॥१०॥ विद्यामठे महाकालप्रासादस्यान्तिके ततः । एहिरे जाहिरे नित्यं, चकाराकारगोपनात्॥१०१॥ छात्रपञ्चशती तत्राधीयाना तमभाषत । किमु भोस्त्वमुपाध्यायं CADAISUALLERGROGAME Page #34 -------------------------------------------------------------------------- ________________ चैत्यवन्दन कलकति ॥१४॥ SALSALA नानमसि नचेश्वरम् ॥१०२॥ तानुवाच ततः सिद्धो, युष्मद्देवगुरू न मे । प्रणामं सहतस्तेन न नमस्यामि तद् द्वयम् ॥१०३॥ ज्ञात्वोदन्तं तमूचेऽथोपाध्यायइछात्रसंयुतः। विनेश्वरनमस्कार, स्थातुं रे नात्र लभ्यते ॥१०४॥ स प्रत्युवाच तान् पुर्याः को मां प्रस्थापयिष्यति । कश्च शम्भुनमस्कारं, कारयिष्यति भो बलात् ॥१०५॥स विनेय उपाध्यायस्ततः कोपारुणेक्षणः। शीघ्रं गत्वा नृपस्याग्रे तत्स्वरूपं व्यजिज्ञपत् ॥१०६॥ तदाकर्ण्य नृपोऽप्येत्य, सत्वरं स परिच्छदः। तं पप्रच्छाभिषेकोक्तं, सोऽवम् भूपैवमेव तत् ॥ १०७॥ भृकुटीभीषणो भूपो, द्वात्रिंशन्निगडान् रुषा । अङ्गेषु क्षेपयित्वास्य तमीशाग्रे न्यधापयत् ॥ १०८॥ विनेश्वरनमस्कार, मोक्षस्ते नास्ति भिक्षुक । इति मुक्त्वाभिमानं भोः शम्भुदेवं नमस्कुरु ॥१०९॥ विपाको मन्नमस्याया न भावी नृप सुन्दरः । इत्युक्ते तेन स माह यन्मतं तत् कुरु द्रुतम् ॥ ११ ॥ जिनशम्भुसमैर्वाक्यैर्द्वात्रिंशचक्रिरे ततः। द्वात्रिंशत्का नवास्तेन द्वात्रिंशद्वन्धभञ्जिका ॥१११॥ चकम्पे ताभिरष्टाभिरष्टाभिः प्रजगर्ज च । शम्भुसद्म ततोऽष्टाभिलिङ्गं धूमायते स्म तत् ॥११२॥ अष्टाभिः प्रज्वलदूज्वालानलेन स्फुटितस्ततः। निस्संसारादिनाथस्य, विम्बतल्लोचनामृतम् ॥ ११३ ॥राजलोकं समक्षं तन्नमस्कृत्य मुनीश्वरः । व्यक्तवेषोऽवदद् देवोऽयमेव मे नतेः सहः ॥ ११४ ॥ पुरोहितसुतोऽयं स इति ज्ञात्वा धराधिपः । समं समस्तलोकेनाऽनंसीत् तं चित्रकारिणम् ॥ ११५ ॥ झटित्यागत्य संघेन, सूरिनेमे सविस्तरम् । सिद्धसेनस्ततः शुद्धः, खं गच्छं पर्यपालयत् ॥११६॥ भृगुकच्छपुरेऽन्येधुर्व्यहार्षीत् स महर्षिराट् । ततस्तत्रत्यसंघस्तं संजुर्व्यज्ञपयन्मुदा ॥ ११७ ॥ अश्वावबोधतीर्थस्य ॥१४॥ Page #35 -------------------------------------------------------------------------- ________________ मुनिसुव्रतसद्मनः । यथोद्धारो भवेत् तूर्ण तथा यूयं प्रसीदत ॥ ११८॥ जीर्णोद्धारो महापुण्यो द्वारहेतुर्यतो भवेत् । इति संघेन विज्ञप्तश्चैत्योद्धारचिकीर्षया ॥११०॥ गत्वाऽवन्त्यां नृपद्वारे द्वाःस्थं सिद्धोऽभ्यधादिति । राजपार्श्वे द्रुतं गत्वा शीघ्रमेवं निवेदय ॥ १२० ॥ विक्षुर्भिक्षुरायातो, द्वारि तिष्ठति वारितः । हस्तन्यस्तचतुः श्लोकः किमागच्छतु गच्छतु ।। १२१ ।। द्वाःस्थेन राज्ञि विज्ञप्ते, राज्ञोक्तं मुच्यतामयम् । तेन मुक्तो नृपस्याग्रे, भूयः सिद्धोऽभ्यधाददः॥ १२२॥ अमी पानकरङ्काभाः सप्ताऽपि जडराशयः । त्वद्यशो राजहंसस्य पंजरं भुवनत्रयम् ॥१२३॥ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणः कर्णमायाति गुणो याति दिगन्तरम् १२४ भयमेकमनेकेभ्यः शत्रुभ्यो युगपत् सदा । ददासि तच्च ते नास्ति, राजन् चित्रमिदं महत् ॥ १२५ ॥ सर्वदा सर्वदोऽसि त्वं, मिथ्या संस्तूयते जनैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ १२६ ॥ हृष्टोऽथ विक्रमः स्माह, सिद्ध साध्यं निवेदय । भृगुकच्छविहारस्योडारः स्यात् भवता कृतः ॥ १२७ ॥ इत्युक्ते सिद्धसेनेन, सूरिणा धरणीधवः । रैकोर्टि दापयामास विहारोद्धारहेतवे ॥ १२८ ॥ तत् खर्ण सूरिवाक्येन, जगृहे तीर्थगोष्टिकैः । राजबह्याममुं श्लोकं, कायस्था लिलिखुस्तराम् ॥ १२९ ॥ धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये। सूरये सिद्धसेनाय, ददौ कोर्टि नराधिपः ॥ १३०॥ द्वितीयवासरे सूरिर्वरिवस्या कृते ततः। विक्रमादित्यराजेन्द्रः पौषधागारमागमत् ॥ १३१॥ तत्र जीवादितत्त्वानि, श्रुत्वा सूरिमुखाम्बुजात् । झटित्युन्मुक्तमिथ्यात्वो विक्रमोऽभूदुपासकः॥१३२॥ इत्थं तीर्थविभावना विरचना पीयूषयूषच्छटा स्नात्रक्षालितपापपङ्कपटलः श्रीसिद्ध Page #36 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥१५॥ सेनाभिधः । सूरिगच्छधुराधुरंधररमामात्वा पुनर्निममः शीलश्रीपरिशीलनोज्वलमनाः श्रीद्यामनागाअगात् ६ कुलकवृचिः &॥ १३३ ॥ इति श्रीजिनशासनप्रभावकश्रीसिद्धसेनसूरिकथानकं समाप्तम् ॥ ४॥ सूत्रकारेण विधिना जिनागमोक्तेनेति पदयुगलेनायमपि विधिः सूचितः। तथाहि-पूर्वमपारसंसारपारावारनिमज्जज्जन्तुवारनिस्तारप्रवहणसब्रह्मचारिणां सुगुरूणां वदनारविन्दात् सम्यक्त्वखरूपं सम्यक् श्रोतव्यं, तथाहिसम्यक्त्वं नाम आत्मनः शुभः परिणामविशेषः यद्वशादष्टादशदोषकालुष्याकलुषिते चतुस्त्रिंशदतिशयविभूषिते सर्वदर्शिनि सर्वज्ञे सर्वहिते सर्वमहिते त्रिभुवनजनमनोहार्यष्टमहाप्रातिहार्यपूजाविभ्राजिनि दुर्वणखवर्णरत्नमयप्रकारत्रयमध्यविराजनि मामासुरवरविरचितसेवदेवाधिदेववीतरागे भगवति श्रीतीर्थकरदेवे देवबुद्धिरुपजायते, रागद्वेषकलंकिते वरवर्णिनीचऋत्रिशूलजपमालिकादिधारिणि हरिहरब्रह्मादी देवबुद्धिर्न संपद्यते । पञ्चसमितिसमिते त्रिगुप्तिगुप्ते पश्च महाव्रतप्रतिपालकेऽष्टादशसहस्रशीलाङ्गधारके मुनिजने गुरुबुद्धिर्भवति, षड्विधजीवनिकायोपमईनिरते परिग्रहाऽऽरम्भाविरते मिथ्यामार्गोपदेशिनि जटाधरब्राह्मणावषन्नपार्श्वस्थादिद्रव्यलिङ्गिनि गुम्वुद्धिर्न जायते,जीवदयामूले संसारसागरनिमजजन्तुजातपोतकल्पे सकलखग्र्गा ।॥१५॥ पवर्गादिकमालावल्लीवितानप्रावृषेण्यपयोवाहसहोदरेऽनेकभवोपार्जितपापपङ्कप्रक्षालनसलिलपूरसहोदरे सर्वज्ञप्रणीते क्षान्त्यादिदशविधयतिधर्मे सम्यक्त्वमूलद्वादशत्रतरूपश्राद्धधर्मे च धर्मवुद्धिरुत्पद्यते । यज्ञहोमतीर्थस्नान Page #37 -------------------------------------------------------------------------- ________________ गोदानादौ धर्मबुद्धिर्न भवति, तत्सम्यक्त्वम् ,अत एव श्रीहेममूरिभिरुक्तम्-या देवे देवतावुद्धिगुरौ च गुरुतामतिः धर्म च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥१॥ अदेवे देवता बुढ़िया गुरुधीरगुरौ च या।। अधर्म धर्मवुद्धिश्च मि+ थ्यात्वं तद्विपर्ययात् ॥२॥ सर्वज्ञोजितरागादिदोषत्रैलोक्यपूजितः। यथास्थितार्थवादी च देवाहन परमेश्वरः॥३॥ व्यातव्योज्यनुपायोज्यमयंभरणमिष्यताम् ।। अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥४॥ ये स्त्रीशस्त्राक्षसवादिरागाद्यङ्ककलं किताः ॥ निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥७॥ नाट्याहाससंगीताद्युपल्लव विसंस्थुलाः॥ लम्भयेयुः पदं शान्तं प्रपन्नान प्राणिनः कथम् ॥६॥ महाव्रतधराधीरा भैक्ष्यमात्रोपजीविनः ॥ सामायिकस्था धर्मोपदेशका गुरुवो मताः॥७॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः। अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ८॥ परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः॥९॥ दुर्गतिप्रपत त्पाणिधारणादु धर्म गुच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥१०॥ तच सम्यक्त्वं त्रिधा भवति, तद्यथा-औपशमिकसम्यक्त्वं, क्षायौपशमिकसम्यक्त्वं, क्षायिकसम्यक्त्वमिति, तत्रोदीर्णस्य दर्शनमोहनीयस्य क्षये सति अनुदीर्णस्य दर्शनमोहनीयस्य आत्मना शुभपरिणामविशेषेण य उपशम उदयविष्कम्भणं तेन निवृत्तमोपामिक तल्लाभश्चैवं भवति, इह हि जन्मजरामरणेष्टवियोगानिष्टसंप्रयोगाधिव्याधिमहादुःखातुच्छमच्छकच्छपापूरिनचातुर्गतिकाऽपारसंसारपारावारे परिभ्रमन सर्वोऽपि जन्तुः प्रबलमोहनीयकर्मवशाद | अनादिवनस्पतिपु सूक्ष्मनिगोदापरपव्येषु अव्यवहारराशौ तथाविधजन्ममरणादिवेदनाव्रातमनन्तान Page #38 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- पुद्गलपरावर्त्तान् अनुभवति, ततः कर्मपरिणामनृपादेशात् तथाभव्यतानियोगेन बादरनिगोदपृथिव्यप्तेजोवायु-कुलकवृत्तिः प्रत्येकवनस्पतित्रसेषु चतुर्गतिषु छेदनभेदनताडनवुभुक्षापिपासाजन्मजरामरणाधिव्याधिभूरिभाराक्रमणगर्भवा॥१६॥ सशोकभयेष्टवियोगानिष्टसंप्रयोगाविषादादिप्रभूतवेदनाम् अनन्तकालं सर्वोऽपि जन्तुः संसारपादपबीजभूतमिथ्यात्वमोहनीयप्रत्ययाद् अनुभवति, ततस्तथा भव्यत्वपरिपाकवशात् चातुर्गतिकोऽपि जन्तुर्गिरिसरिदुपलघ|ञ्चनाघोलनाकल्पेनाऽनाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणसंज्ञकेन करणपरिणामोऽत्रेति वचनादध्यवसायविशेषेणाऽऽयुर्वर्जानि सर्वाण्यपि ज्ञानावरणादिकर्माणि पल्योपमासंख्येयभागन्यूनैकसागरोपमकोटिकोटिस्थितिकानि करोति, अत्र चान्तरे जीवस्य कर्मपरिणामजनितो घनरागद्वेषपरिणामरूपः कर्कशनिबिडचिरप्ररूढगुपिलवल्कलन-18 न्धिवत् दुर्भेद्योऽभिन्नपूर्वो ग्रन्धिर्भवति, उक्तं च घंचणा घोलणा जोगा जीवेण जया हविज कम्मठिई । खविया सबासागर कोडाकोडिं पमुत्तुणं ॥१॥नियवीयथोवमित्तं खवियं इत्थं तरम्मि जीवस्स। हवइ अभिन्नपूवो गंठी ए |वं जिणा विति॥२॥गंठित्ति सुदुन्भेओ कक्खडघणरूढगूढ गंठिच । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो M॥३॥इमं च ग्रन्थि यावदभव्या अपि यथा प्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति, न पुनर्मिन्दन्ति, यदुक्तमावश्यकटीकायामभव्यस्यापि कस्यचिद यथाप्रवृत्तिकरणतो ग्रन्धिमासाद्याऽहंदादिविभूतिदर्शनतः प्रयो ॥१६॥ जनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति,न शेषलाभ इति एतदन्तरं पुनः कश्चिदेव महात्मा समा पन्नपरमनिवृत्तिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारया इवापूर्वकरणरूपपरमविशुद्ध्या य Page #39 -------------------------------------------------------------------------- ________________ थोक्तरूपस्य ग्रन्थिभिदां विधाय मिथ्यात्वमोहनीयकर्मस्थितेरन्तर्मुहूर्त्तमुदयक्षणात् उपरि अतिक्रम्यानिवृत्तिकरणसंज्ञितेन विशुद्धिविशेषेणाऽन्तर्मुहर्त्तकालप्रमाणं वेद्य दलिका भावरूपमन्तरकरणं करोति, अत्र च यथाप्रवृत्तापूर्वानिवृत्तिकरणानाम् अयं क्रमः - यथा “जा गंठी ता पढमं गंठी समयछेउं हवइ वीयं । अनियट्टीकरणं पुण सम्मत्तपुरखडे जीवे ॥ १ ॥ " 'मंठि समय छेउत्ति' ग्रथिं समतिक्रामतो भिन्दानस्य इत्यर्थः, 'सम्मत्तपुरक्खडेत्ति' सम्यक्त्वं पुरस्कृतं येन तस्मिन्नासन्नसम्यक्त्वे एव जीवे अनिवृत्ति करणं भवतीत्यर्थः, तस्मिंश्चान्तरकरणे कृते सति, तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिद्वयं भवति - अन्तरकरणादधस्तनी स्थितिरन्तर्मुहूर्त्तप्रमाणा, तस्मादेव उपरितनी शेषा द्वितीया स्थितिः स्थापना, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव अन्तर्मुहूर्त्तेन तस्यामुपगतायामन्तरकरणप्रथमसमये एव औपशमिकसम्यक्त्वमवाप्नोति मिथ्यादलिकवेदनाभावात्, यथाहि - वनदवः पूर्वदग्धेन्धनमुषरं वा देशमवाप्य विध्यायति, तथा मिथ्यात्व वेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्योपशमिकसम्यक्त्वलाभः, उक्तंच "ऊसरदेसं दडिल्लियं च विज्झाय | वणदवो । पप्पइय मिच्छत्तस्सणुदए उवसमसंमं लहह जीवो ॥ १ ॥” उपशमश्रेण्यारूढस्य चौपशमिकं, तदुक्तम् " उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तमिति” तथा उदीर्णस्य मिध्यात्वक्षयेणानुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापत्तिलक्षणेन विष्कम्भितोदयत्वरूपेण च यन्निर्वृत्तं तत् क्षायोपशमिकं, तच्च एवं वर्णितविधिना लब्धेनोपशमिकसम्यक्त्वेन औषधविशेषकल्पेन मदनकोद्रववन्मिथ्यात्वमोहनीयं कर्म जीवः Page #40 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-शोधयित्वा त्रिधाकरोति, शुद्धमर्द्धविशुद्धमविशुद्धं चेति, स्थापना तत्र त्रयाणां पुञ्जानां मध्याद् यदा शुद्धपुञ्जदूकुलकवृत्तिः उदेति तदा तदुदयवशात् जीवस्य विशुद्धमहदभिहिततत्त्वश्रद्धानं भवति, तेन तथा क्षायोपशमिकं दर्शनं । ॥१७॥ सामानोति यदात्वर्धविशुद्धपुंज उदेति तदा तदुदयवशाजीवस्याविशुद्धमहदभिहितं तत्वश्रद्धानं भवति तदासी । सम्यक मिथ्यादृष्टिः,यदातु अविशुद्धपुञ्ज उदेति तदा मिथ्यादृष्टिः, अन्न चाविशुद्धपुञ्जादू विशुद्धार्द्धविशुद्धयोः पुञ्जयोः संक्रातिर्भवति,अर्द्धविशुद्धाच तदन्ययोर्द्वयोर्विशुद्धत्वाविशुद्ध एव नतु मिश्रे तदुक्तं "मिच्छत्तासंकंती है अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुं सम्मामिच्छं नउणा मीसं ॥१॥” तथा त्रिविधस्यापि दर्शनमोहनीयस्य क्षयेणाऽत्यन्तिकोच्छेदन निवृत्तं क्षायिकं, तच्च क्षपकश्रेणिमारोहतो भवति, इत्युक्तमापशमिकादि भेदतस्त्रिविधं सम्यक्त्वं, सिद्धान्ते चान्येऽपि वेदकरोचकादयः सम्यक्त्वभेदाः सन्ति, ते चात्र गन्थगौरवान्न प्रतन्यंते, तच्च सम्यक्त्वममीभिः पञ्चभिरतिचारैरकलुषं कार्य, तथथा-शंका-कांक्षा-विचिकित्सा-मिथ्यादृष्टिप्रशंसनं । तत्संस्तवश्च पञ्चापि सम्यक्त्वं दषयन्त्यमी ॥१॥ तत्र तीर्थकरदेवोक्तजीवादी तत्वनबके संदापकरण शंका, जिनदर्शनं शोभनमन्यान्यपि जटाधरादीनि दर्शनानिशोभनानिइति चेतति बुद्धि|जेल्पनं वा कांक्षा, अस्माद् यतिधर्मात् श्रावकधर्माद्वा भवान्तरे किंचित्फलं भविष्यति नवेति संशयो विचिकित्सा, अथवा साधूनां मलिनाङ्गादीनां जुगुप्मा विचिकित्सा, मिथ्यादृष्टीनां जटाधरादीनामतिशयं दृष्ट्वा । प्रशंसनं प्रशंसा, तैर्मिध्यादृष्टिभिः संस्तव: परिचयस्तत्संस्तव:, एतच्च सम्यक्त्वमांतरपरिणामरूपमप्रत्यक्षमपि Page #41 -------------------------------------------------------------------------- ________________ पर्वतनितम्बवर्तिवह्निवत् सततसान्द्रधुमेनेव अमीभिः पञ्चभिः लिङ्गैः प्रत्येकमनुमीयते, तथाहि-"उवसम-13 संवेगो चिय निवेओ तह य होइ अणुकंपा । अत्थिकं चिय पंच य हवन्ति सम्मत्तलिंगाई ॥२॥” तत्र मिथ्या भिनिवेशव्यावृत्तिरूप उपशमः । १। राज्यादिसांसारिकसुखमखिलमपि कृतकतयाऽनित्यं परिणामदारुणं च । मततो दुःखमेवेदमिति मत्वा तस्य मुक्ती आत्यन्तिकोऽभिलाषः संवेगः । २। नारकतिर्यनरामरदुःखानां श्रुति स्मृत्यनुभवैस्तन्मयमिवात्मानं मन्वानस्य कथममूनि पुनर्मम नाविभविष्यंतीति तेभ्यो मनसा-उद्वेगः निर्वेदः टू है।३ । लाभपूजाद्यलिप्सया कथममी मिथ्यात्वादिदौस्थ्यात् मोचयिष्यन्ते इति द्रव्यतो भावतश्च परदुःखप्रहा णेच्छाऽनुकम्पा । ४ । सर्वज्ञप्रणीतेषु जीवाजीवादितत्त्वेषु नवसु तथेति श्रद्धानमास्तिक्यं । ५। तथा सम्वक्त्वं नरेन्द्र इव मुकुटादिभिरमीभिः पञ्चभिर्भूषणैर्भूष्यते, यथा-स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पश्चास्य भूषणानि प्रचक्षते । १। सिद्धान्ते च सम्यक्त्वं सकलधर्मानुष्ठानमूलमतीवदुर्लभं च गीयते । यत उक्तम् "जह गिरिवराण मेरू सुराण इन्दो गहाण जह चन्दो । देवाणं जिणचन्दो तह सम्मत्तं च धम्मालणं ॥१॥ सर्व चिय सुलहमिणं रज्जं विजा धणं च धन्नं च । इकं जयम्मि दुलहं संमत्तं चत्तअइयारं ॥२॥ सम्मत्तम्मि य लद्धे ठइयाई नरयतिरियदाराई । दिवाणि माणुसाणि य सुक्खसुहाई सहीणाई॥३॥ सम्मद्दिट्ठी जीवो विमाणवजं न बंधए आउं । जइवि न सम्मत्तजढो अहवा वहाउओ नरए(पुचिं)॥४॥ इंदोवि ताण 8 पणमह हीलन्तो निययरिद्धिवित्थारं । मरणंते हु पत्ते सम्मत्तं जे न छड्डन्ति ॥५॥ छड्डन्ति निययजीयं तिणं व CCCCC Page #42 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥१८॥ मुक्खत्थिणो नउणा सम्मं। लब्भइ पुणो वि जीयं सम्मत्तं हारियं कत्तो ॥६॥ गयविहवा वि सविहवा सहिया कुलफवृत्तिः सम्मत्तरयणराएण। सम्मत्तरयणरहिया सन्ते वि धणे दरिद्दत्ति॥७॥ इत्यादि सम्यगदर्शनखरूपं सुगुरूणां मुखादा कर्ण्य तदनु च सम्यक्त्वप्रतिपत्तिचिकीर्षुभिर्भव्यजन्तुभिर्महर्द्धिकश्रावककारितनन्दिपार्श्वतः प्रदक्षिणात्रयं प्रदेयं, ततश्चैर्यापथिकी प्रतिक्रम्य क्षमाश्रमणदानपूर्वकं सुगुरुकरकमलेन खशिरसि वासक्षेपः कार्यः, ततः सुगुरुवचनानुसारेण चैत्यवन्दनां विधाय वन्दनकं च दत्त्वा आलापकानुचार्य सम्यक्त्वप्रतिपत्तिसूत्रमुच्चारणीयं तद्यथा-अहं भंते तुम्हाणं समीवे मिच्छताउ पडिक्कमामि, सम्मत्तं उवसमपन्जामि, न मे कप्पइ अजप्पभिई अन्नतिथिए वा अन्नतित्थियदेवयाणि वा अन्नतित्थियपरिगहियाणि अरहन्तचेइयाणि वा, वंदित्तए वा नमंसित्तएई लावा पुचिं अणालत्तएणं आलत्तए वा संलत्तए वा, तेसिं असणं वा पाणं वा खाइमं साइमं वा दाउं वा अणुप्प याउं वा तेसिं गंधमल्लाइ पसेउवा, अन्नत्थरायाभिओगेण गणाभिओगेण बलाभिओगेण देवयाभिओगेण गुरुनिग्गहेण वित्तीकंतारेणं दवओ खित्तओ कालओ भावओ, तत्थ दचओ दसणदवाइं अहिगिव, खित्तओ जाव |भरहमज्झिमखण्डे, कालओ जावज्जीवाए, भावओ जाव छलेण न छलिज्जामि, जाव सन्निवाए न भुज्जामि, जाव केणइ उम्मायवसेण एसो मे दंसणपालणपडिणामोन परिवडइ, ताव मे एसो दंसणभिग्ग हुत्तिवाम ततो गुरुदत्ताक्षतनिक्षेपवन्दनप्रदानालापकोचारणकायोत्सर्गकरणादिगुरुवचनानुसारेण सर्वे विधयाम, त्येवं ये सम्यक्त्वप्रतिपत्तिं विधाय श्रीश्रेणिकमहाराजवन्निरतिचारसम्यक्त्वं प्रतिपालयन्ति, सुरैरपि Page #43 -------------------------------------------------------------------------- ________________ साधाय श्रीश्रेणिकमहाराजवन्निरतिचारसम्यक्त्वं प्रतिपालयन्ति, सुरैरपि सम्यक्त्वाचालयितुं न शक्यन्ते च तेषाममी सम्यक्त्वप्रतिपत्तिरूपा भाववासाःश्रीतीर्थकरशचक्रधरादिरमासंपत्य मुक्तिसाम्राज्याय च संपद्यते, अत्रार्थे परमाहेतश्रीश्रेणिकमहाराजचरित्रं प्रतिपाद्यते, तथाहि-भरतक्षेत्रे पवित्रेऽहंदवचोऽम्बुदैः । पुण्यशालिरमाकोशो, देशोऽभून्मगधाऽभिधः ॥१॥ सुपर्वश्रेणिसंकीर्ण, सुधर्मास्थामनोरमम् । तत्राभूत् खःपुरमिव, श्रीकुशाग्रपुरं पुरा ॥२॥ यस्मिन् कुलमृगाक्षीणां, स्पर्द्धयेव सनातनम् । खैरिणीव्रतमत्याक्षीत्, कमला त्यक्तचापला ॥ ३ ॥ अभ्रंलिहविहारेषु, ध्वजा यत्र विरेजिरे । तत्कारकनृणां नृत्यत्कीर्तिचेलाञ्चला इव ॥ ४॥ कुरङ्गनयना यत्र, चलन्त्यः पथि मन्थरम् । रणन्नूपुरदम्भेन कामातोद्यान्यवीवदन ॥५॥ विक्रमाक्रान्तविक्रान्तभूमिपः परमाहेतः। अजनिष्ट नयिप्रष्टस्तत्र राजा प्रसेनजित् ॥६॥ यस्याज्ञां पृथिवीनाथाः, सुरशेषामिवाखिलाः। बिभरांचकुरिच्छन्तः कल्पमांगल्यमात्मनः॥७॥ प्रतापदहनो यस्य, विश्वोल्लंघनजांघिक: । वैरिकेश|रिणःस्थाने, नाशयामास लीलया ॥८॥ श्रीपार्श्वनाथतीर्थेश, देशनामृतसेकतः। विवेकवल्लरी यस्य, प्रारुरोह मनोऽवनी ॥९॥ खर्गापवर्गफलदं, सम्यक्त्वं व्रतमुत्तमम् । द्वादशव्रतवृत्या यः, प्राणवत् प्रत्यपालयत् ॥ १०॥ बुद्ध्येव यः पराजिग्ये, विना शस्त्रं युधि द्विषः। बादरप्राणरक्षाख्य, व्रतभङ्गभयादिव ॥११॥ राकाशशाक संकाश, यद्यशोराशिवाससा । संवनिता नवोढेव चकासामास रोदसी ॥ १२॥ अवरोधैवन्धुरांगजाताङ्गजगणरसी । स्वामिशाल: शालते स्म, लतौघैः सफलैरिव ॥ १३॥ सब्रह्मचारिणी शच्या, धारिणी सहचारिणी। Page #44 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ACREMACAAAACARRY तस्याखण्डलसत्प्रेमा, बभूवान्तः पुराग्रणीः॥१४॥ चिरत्नं शीलरत्नं मे, कोऽप्यन्यो मा ग्रहीदिति । आरक्षकमि-18 कुलकवृत्तिः वन्यास्थात या प्रेयांसं हृदोकसि ॥१५॥ अपरस्य करस्पर्श, नालं सोढुं सतीजनः । इतीव या हियां योनिरसूर्यपश्यतामगात् ॥ १६ ॥ इतश्च चैत्यचूलास्थध्वजाङ्गुल्याऽलकामिव । तजेयन् स्खश्रिया जज्ञे श्रीवसन्तपुरं पुरम् ॥ १७॥ धिया शौर्येण चारातीन् , विजित्य समराजिरे । सत्याभिधोऽभवत् तत्र जितशत्रुर्धराधिपः ॥१८॥ शीलशालीन्यकोलीन्यमुख्यसद्गुणशालिनी । प्रिया रूपेण नाम्ना च, जज्ञेऽस्याऽमरसुन्दरी ॥१९॥ नारीणां कामसंपत्ति, कुर्वन् कन्दपैसोदरः । तयोः सुमङ्गलः सूनुः, क्रमात् मांगल्यभूरभूत् ॥२०॥ मन्त्रिपुत्रस्तस्य जज्ञे, सवयाः सेनकाधिपः । कुलक्षणानां सर्वेषां, अक्षीण इव शेवधिः ॥ २१ ॥ स कुरूपः कुसंस्थानो ज्वालावत् पिङ्गाकुन्तलः । घूकवचिपिटघ्राणः, पिङ्गचक्षुर्बिडालवत् ॥ २२॥ दन्तुरः शूकर इव, लघीयः श्रुतिराखुवत् । उष्ट्रवल्लम्बकण्ठौष्टो, जलोदरी च तुन्दिलः॥२३॥ युग्मम् । यत्र यत्रागमत् तत्र तत्राऽहासि स नागरैः। हास्यलास्यं कस्य न स्यात्, यद्वा तादृक्षवीक्षणात् ॥ २४ ॥ कुरूपं विकृताकारं, दूरतोऽपि निरूप्य तं । सुमङ्गलकुमारोऽपि, मुहुर्मुहुरूपाहमत् ॥२०॥ मुमङ्गलराजपुत्रोपहामोदकमेकतः। वैराग्यं सेनको भेजे, मदाः कौमुम्भवस्त्रवत् ॥ २६॥ ततः प्रोद्भूतवैराग्यो, निरगात् सेनकः पुरात् । मरणं वा विदेशो वा, शरणं हि विरागिणाम् ॥ २७॥ ॥१९॥ निरीयुषि पुरान्मन्त्रिपुत्रे काले कियत्यपि । सुमङ्गलो निजे राज्ये, जनकेन न्यवेश्यत॥२८॥ सेनकः पर्यटन कापि, दृष्ट्वा कुलपति बने । तापसीभूय तत्पाद्ये, स्त्रीचकारोष्ट्रिकाव्रतम् ॥२९॥ तीव्राज्ञानतपोभिः स खमत्यन्तं कदर्थयत् । Page #45 -------------------------------------------------------------------------- ________________ वसन्तपुरमन्येद्युः संप्राप तापसाग्रणीः ॥ ३० ॥ मन्त्रिस्तापमत्यपूजयत् तं जनोऽखिलः । वैराग्यकारणं पृष्टो जनाग्रे चेति सोऽवदत् ॥ ३१ ॥ सुमङ्गलकुमारेण, रूपं मे जहमे पुरा । जज्ञे मे तेन वैराग्यं सत्यंकारस्तपः श्रियाम् ॥ ३२ ॥ तच्छ्रुत्वा तं नमस्कर्तुं, सुमङ्गलनृपोऽभ्यगात् । क्षमयित्वा पारणार्थं, न्यमन्त्रयत चादरात् ॥ ३३ ॥ राशे सो शीरनं तदर्थनाम् । कृतकृत्य यागाच, स्वसौयं वस्तुवायवः ॥ २४ ॥ पूर्णेऽथ मासक्षपणे पार्थिवप्रार्थनां स्मरन् । राइधवलगृहद्वारे शान्तात्माऽगात् स तापसः ॥ ३५ ॥ शरीरापाटवं जज्ञे, तदापि च महीपतेः । द्वारं च पिदधे द्वाःस्थः, कस्तदा भिक्षुमीक्षते ॥ ३६ ॥ स्वलितो द्वारपालेन, जलौघ इव सेतुना । पथा यथा गतेनैव, व्याजुघोट स तापसः ॥ ३७ ॥ निश्चित्य मासक्षपणं, जगाम पुनरुष्ट्रिकाम् । नवाकुप्यत् तपोवृद्धी हृष्यन्ति हि महर्षयः ||३८|| स्वस्थीभूतो द्वितीयेऽहि भूपो भक्तस्तपस्विषु । गत्वा नत्वा च तं भक्त्या, क्षमयित्वेदमब्रवीत् ॥ ३९ ॥ निमन्त्रितोऽसि पुण्यार्थ, पापमार्जि मया पुनः । निध्यर्थी हि खनन भूमिं निभीग्यो दश्यतेऽहिना ॥ ४० ॥ मयाऽन्यत्रापि पापेन निषिद्धं पारणं तव । ऋषिभिक्षाविघातेन, धिग मां नरक | पातुकम् ॥ ४१ ॥ तत्प्रसीद द्वितीयेऽपि, मासक्षपणपारणे । ममाङ्गनमलं कुर्याः, प्रतिपेदे तथेति सः ॥ ४२ ॥ द्वितीयमासक्षपणे संपूर्णे स नृपौकसि । ययौ देवान्नृपस्याभूत् प्रागवद् वपुरपाटवम् ॥ ४३ ॥ तथैव पिहिने द्वारे, व्याघुट्यागात् स उष्ट्रिकाम् । स्वस्थभूतोऽथ भूपस्तं न्यमन्त्रयत पूर्ववत् ॥ ४४ ॥ पूर्णेऽथ मासक्षपणे, तृतीयेऽपि स तापसः । तथैवागात् तथैवाभूद् राज्ञोवपुरपाटवम् ॥ ४५ ॥ राजभक्तैरचिन्तीदमायात्येष यदा Page #46 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥ २० ॥ यदा । तदा तदा भवत्यस्मत्प्रभोर शिवमेवहि ॥ ४६ ॥ ते चारक्षानधादिक्षंस्तापसो मन्त्रिरपि । प्रविशन्नप्यसौ सर्प इव निष्कास्यतां गृहात् ॥ ४७ ॥ कृते तैरेवमारक्षैर्निदानं तापसो व्यधात् । अहमेतस्य भूयासं, वधायोर्वीपतेरिति ॥ ४८ ॥ विपद्य तापसः सोऽभूत्, स्वल्पर्द्धिर्वानमन्तरः । भूपोऽपि तापसीभूय, तामेव गति| मासदत् ॥ ४९ ॥ सुमङ्गलः सुरश्युत्वा कमलिन्यां मरालवत् । कुक्षौ प्रसेनजिद्देव्या धारिण्याः समवातरत् ॥ ५० ॥ मितैः परिणाम हितैराहारैरमृतोपमैः । गर्भोऽवर्धिष्ट धारिण्याः कल्पदुरिव नन्दने ॥ ५१ ॥ शुभेऽहितनुजन्मानं, नयनानन्ददायिनम् । सुषुवे धारिणी देवी, प्राचीव रजनीकरम् ॥ ५२ ॥ जेमयित्वा बन्धुवर्गं प्रसे नजिदिलाधिपः । चकार श्रेणिक इति, नामात्मीयाङ्गजन्मनः ॥ ५३ ॥ गुणैः सार्धमवर्धिष्ट कुमारः श्रेणिकस्ततः । सवयोभिः समं क्रीडन् जयन्त इव ताविषे ॥ ५४ ॥ धनुर्वैद्यादिमा विद्या, अध्यैष्टाऽकष्टतोऽसकौ । पूर्वपुण्यपरिपाकजुषां हि किमु दुष्करम् ॥ ५५ ॥ क्रमेण वर्यसौन्दर्य, कमलाकेलिकाननम् । निसर्गमण्डनं तन्वा, | आससाद स यौवनम् ॥ ५६ ॥ राजाऽन्यदा खांगजानां राज्यार्हत्वं परीक्षितुम् । एकत्र पायसामत्राण्यशनार्थमदीदपत् ॥ ५७ ॥ प्रवृत्तानां कुमाराणां भोक्तुं भूपो व्यमोचयत् । व्याघ्रानिव व्यात्तवक्त्रान सारमेयान् भयंकरान् ॥ ५८ ॥ आगच्छत्सु श्वसूत्थायानश्यन् क्षोणीशसूनवः । किं चलन्त्यचला नाशु प्रेरिताः प्रलयानिलैः ॥५९॥ एकस्तु श्रेणिकस्तस्थौ तत्रस्थो बुद्धिशेवधिः । खोल्यते वात्यया हि न सुराचलचूलिका || ६० ॥ स्तोकं स्तोकं ददौ श्वभ्ये भ्रातृभाजनपायसम् । यावत्तल्लिलितुः श्वानस्तावत् सारमभुंक्त सः ॥ ६१ ॥ येन केनाप्युपायेन कुलकवृत्तिः ॥ २० ॥ Page #47 -------------------------------------------------------------------------- ________________ निरोत्स्पति परानसी। खयं तु भोक्ष्यति क्षोणीमिति लेन ररक्ष राह ।। ३२॥ भूपो भूयः परीक्षार्थ पुत्राणाम-18 न्यदा ददी । मोदकापूणेकरण्डानम्भःकुम्भांश्च मुद्वितान् ॥३३॥ मुद्राभिमामभञ्जन्तो भुञ्जीव मादकानिमान् । पयः पिबत मा कृतं छिद्रमित्यादिशत् सुतान् ॥ ३४ ॥ अपवरकक्षिसानां पुत्राणां श्रेणिकं विना । नाभुक्त नापियत् कोऽपि यदुधीः स्फुरति कस्य चित्।। ६५ । चलयित्वा चलयित्वा करण्डान् श्रेणिकस्तुतान् । प्रक्षरन मोदकक्षोदं भुजे तृप्तिसाधनम् ॥६६॥ रूप्यशुरुया घटस्याधो धृतथा तयाम्भसा । गलभिबिन्दुभिवुझ्या | प्रापयोऽपीत्थं पपी स च ।। ६७॥ पुत्रानाड्य पप्रच्छ राजा मुक्तिक्षणात्यये। यूयं भुक्तान वा तेऽपि यथावृत्तम चीकथन् ॥ १८॥ इत्थं परीक्षानियूढं श्रेणिकं श्रीप्रसेनजित् । खराज्याहतया भेने मध्येऽपरकुमारकम् ॥६९॥ श्रीकुशाग्रपुरे शीघं शीघ्रमग्नरुपद्रवः । उत्तस्थाविति नूपाल: कारयामास घोषणन् । ७०॥ यस्य यस्य गृहादग्निरुत्थास्यति पुरान्तरा। पुरान्निर्वासनीयः स सोऽस्मान् मय इवामवान् ॥ ७१ ॥ राज्ञ एवान्यदा सौधात् सूपकारप्रमादतः । उदस्थादग्निरग्निर्हि कस्यापि खो न सर्पयत् ।। ७२।। तस्मिन् प्रदीपने दीप्तिमासेदुषि धराधिकापः । यो यद् गृह्णाति मल्सौधात् तत्तस्येत्यादिशत्सुतान् ॥ ७३ ॥ कुमारा गजवाज्यादि समादाय यथारुचि। निरीयुः श्रेणिकस्त्वेका भंमा लात्वा बहिर्ययौ ॥ ७४ । किमेतत्कृष्टमित्युक्तो भूभुजा श्रेणिकोऽभणत् । चिहं जयस्य मंत्रेयं भूपालानां यथादिनम् ॥ ७० ॥ अस्या नादेन भूपानां दिग्यात्रा मङ्गलं भवेत् । रक्षणीया क्षमापाले रास्तदियमेवहि ॥ ७६॥लतवैवं महेच्छत्वप्रसन्नो हृदि भूपतिः। संभासार इत्यभिख्यां Page #48 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-४ श्रेणिकाय ददौ तदा ॥ ७७॥ उत्तिष्ठेद् यद्हादग्निर्निर्वास्यः स पुरादिति । स्ववचः स्मरन् भूपालश्चिन्तयामासि कुलकवृत्तिः । वानिदम् ॥ ७८॥ दाराः पुराणि रम्याणि जीवितव्यं च सत्तमाः । त्यजन्ति तृणवत् सर्वं न पुनः खंप्रतिश्रुतम् ॥२१॥ ॥ ७९ ॥ इति ध्यात्वा धराधीशो ग्रामणीरभिमानिनाम् । क्रोशेनैकेन नगराच्छिबिरं संन्यवीविशत् ॥८॥ तत्रायान्तो व्रजन्तो वा जना इत्थं मिथोऽवदन् । क व्रजिष्यथ यास्यामो वयं राजगृहं प्रति ॥ ८१॥ ततो राजगृहाभिख्यं तत्रैव नगरं नृपः । परिखावप्रसौधादृचैत्यरम्यमकारयत् ॥ ८२ ॥ राज्याहं तनयं मैनमन्ये राज्याईमानिनः । ज्ञासिषुरित्यवाज्ञासीत् श्रेणिकं भूपतिर्मुहुः॥८३ ॥ देशान् ददौ कुमाराणां पृथ्वीपालः पृथक पृथक् । न किंचिच्छ्रेणिकायादादू राज्यं दित्सुर्निजं हृदि ॥ ८४ ॥ ततः खतातविहितं परिज्ञाय पराभवम् । खचित्ते चिन्तयामास श्रेणिको मानिनां वरः ॥ ८५॥ पुरं राज्यं च मुक्त्वाऽहं गच्छाम्यन्यत्र कुत्रचित् । मानिनां मानभने हि विदेशः शरणं खलु ॥८६॥ ततो बाहुसहायोऽसौ निशि साहसिकाग्रणी । निःसृत्य खपुरादाप वेणातटपुरं क्रमात् ॥ ८७॥ तत्र च प्रविशन् भद्राभिधस्य श्रेष्ठिनोऽथ सः । द्रव्यलाभोदयो मूत्ते इवोपाविशदापणे ॥ ८८॥ गरीयानुत्सवः कश्चित् तदा च नगरेऽभवत् । खाद्यपेयदुकुलाङ्गरागताम्बूलयुगजनः ॥ ८९ ॥ प्रभूतग्राहकैः श्रेष्ठी स आसीद् व्याकुलस्तदा । बद्धाऽदाच्छ्रेणिकस्तस्मै स्राक पुटीपुटकादिकम् ॥९०॥|| ॥२१॥ |श्रेष्ठी कुमारमाहात्म्याद द्रव्यं भूयिष्टमार्जयत् । कल्पद्रोरिव नो फल्गु सङ्गः स्याद् भाग्यशालिनः ॥ ९१ ॥ अद्यावितथपुण्यस्य कस्यातिथिरसीत्यथ । श्रेष्ठिना श्रेणिकः पृष्टो बभाषे भवतामिति ॥ ९२॥ श्रेष्ट्यूचे कृतपु Page #49 -------------------------------------------------------------------------- ________________ योऽहमद्य यस्य गृहं भवान् । चिन्तामणिरिवानयेः प्राघूर्णकतयाऽगमत् ॥ ९३ ॥ खन्मयूखरत्नौघशालिने बीचमालिने । गृहागताय वकन्या नन्दाऽदायि मया मुद्रा ॥ ९४ ॥ इति स्वप्ने मया नन्दायोग्यो भर्त्ता समैक्षि यः । साक्षादसौ स एवेति श्रेष्ठी चेतसाऽचिन्तयत् ॥ ९५ ॥ युग्मम् ॥ संवृत्याहं ततः श्रेष्ठी नीत्वौकसि सगौरवम् । संखाप्य चारुवीराणि महायान भोजयत् ॥ ९६ ॥ तिष्ठन्यं च तने श्रेणिका श्रेष्ठिनान्यदा । नन्दामिमां | परिणय मत्सुतामित्यभाषत ॥ ९७ ॥ ममाज्ञातकुलस्यापि कथं दत्सेःसुनामिति । श्रेणिकेनोक्त ऊंचे स तब | ज्ञातं गुणैः कुलम् ॥ ९८ ॥ ततः श्रेष्ट्युपरोधेन लसदूधवलमङ्गलम् । नन्दाया भूपतिसुतञ्चकार करपीडनम् ॥ ९९ ॥ भुञ्जानो भोगभङ्गीं स सानन्दं नन्दया समम् । कुञ्जे कुञ्जरवत् तत्र श्रेणिको स्थान्नृकुञ्जरः ॥ १०० ॥ विवेद मेदिनीशोऽपि श्रेणिकोदन्तमादितः । चरैश्चारदृशो यस्माद् भवन्ति पृथिवीभुजः ॥ १ ॥ कृतान्तकिंकर | इवानिवार्यप्रसरोऽन्यदा । गदोऽभूत् भूपतेर्देहे को वा छुटति कर्मणः || २ || पर्यन्तसमयं स्वस्थ ज्ञात्वा राज्यधुरंधरम् । आनेतुं श्रेणिकं भूपः प्राहिणोदौष्ट्रिकान्निजान् ||३|| औष्ट्रिकेभ्यः समाकर्ण्य ताताङ्गाति सुदुःसहामू । नन्दां संबोधयामास यियासुः श्रेणिकः सुधीः ॥ ४ ॥ पाण्डुरकुड्या गोपाला वयं राजगृहे पुरे । इत्याकर्षक मन्त्राभान्यक्षराणि च सोऽर्पयत् ॥ ५ ॥ मा भूत् तातस्य रोगातर्मदर्त्तिरधिकेत्यरम् । उष्ट्रीं श्रेणिक आरुह्यागमद् राजगृहं पुरम् || ६ || प्रहृष्टः श्रेणिकं दृष्ट्वा राजा हर्षाश्रुभिः समम् । राज्येऽभ्यषेचत् सजलैः कलशैः कलधौतजैः ॥ ७ ॥ भवन्तु भगवन्तो मेऽर्हन्तः सिद्धाश्च साधवः । धर्मः केवलिप्रज्ञप्तः शरणं शरणार्थिनः ॥ ८ ॥ Page #50 -------------------------------------------------------------------------- ________________ कुलकवृत्तिः चैत्यवन्दन॥ २२॥ परमेष्ठी पिष्टकर्मा भावाहन परमेश्वरः । श्रीपार्श्वः शरणं मेऽस्तु शरणं जगतोऽपिहि ॥९॥ अष्टादशपापस्थानान्य असा व्युत्सृजाम्यहम् । ज्ञानादीनामतीचारान् कृतान्निन्दामि भावतः ॥१०॥ पुनरक्रियया सर्व प्रत्यक्षं परमे |ष्ठिनाम् । निन्दामि दुष्कृतं सर्व सुकृतं त्वनुमोदये ॥११॥ क्षमयाम्यखिलान् जीवान् तेऽपि क्षाम्यन्तु मां समे । | तेषु सर्वेषु मैत्री मे समस्तु समचेतसः ॥ १२ ॥ इत्थमाराधनासौधरसपानपरो नृपः । प्रसेनजित् जगाम द्या तादृशां किं दुरासदम् ॥१३॥ विश्वं विश्वंभराभारं बभार श्रेणिको नृपः । नन्दापि दुर्वहं गर्भ शुक्तिकेव सुमोक्तिकम् ॥ १४ ॥ सिन्धुरस्कन्धमारूढा ददाम्यभयमङ्गिनाम् । पुरेऽखिलेऽपीति जज्ञे नन्दाया दोहदोऽन्यदा |॥ १५॥ राजानं विज्ञपय्याऽथ भद्रेणापूरि दोहदः । रत्नगर्भेव साऽसूत पुत्ररत्नं शुभेऽहनि ॥१६॥ नान्देयस्थाथ सुदिने दोहदानुसारतः । नामाऽभयकुमारेति ददौ मातामहो मुदा ॥१७॥ साक्षीकृत्य कलाचार्य | कलावानिव सत्कलाः । सकला: कलयन्नेष क्रमाज्जज्ञेऽष्टवार्षिक:॥१८॥सवयाः कोऽपि कोपेन कलहे तमत|जेयत् । किं त्वं जल्पसि यस्याहो जनको ज्ञायते नहि ॥ १९॥ अभाणीदभयो भद्र भद्रश्रेष्ठी पिता मम । तव मातुः पिता भद्रः प्रत्युवाचेति सोऽभयम् ॥ २० ॥ नन्दा प्रत्यभयोऽप्यूचे मातः को मे पितेत्यथ । भद्रश्रेष्ठी |पिता तेऽयं नन्देति त्वभयं जगौ ॥ २१॥ तातस्तेऽभिहितो भद्रो न मदीयः स तेन तु । नन्दोक्ता नन्दननति निरानन्दाऽब्रवी दिदम् ॥ २२॥ देशान्तरात्समायातो मां परिणीय कश्चनः । गर्भस्थे त्वय्यगात् साकमौष्ट्रिकैः | कैश्चिदागतः ॥ २३ ॥ स यान् किंचिज्जजल्प त्वामिति पृष्टाऽभयेन सा । अक्षराण्याप्तिान्यतानीति पत्रमदशे Page #51 -------------------------------------------------------------------------- ________________ यत् ॥ २४ ॥ तद् विभाव्याभयो हृष्टोऽवदत् तातो ममेशिता । पुरे राजगृहे तत्र गच्छावो द्रुतमम्बिके ॥ २५ ॥ श्रेष्ठिनं भद्रमापृच्छय मान्दयो नन्दयान्वितः। अगात् समग्रसामग्रीयुक्तो राजगृहं पुरम् ॥ २६ ॥ निजाऽम्बां बहिरुद्याने विमुच्य सपरिच्छदाम् । प्रविवेशाभयः खल्पपरिवारयुतः पुरे ॥२७॥ इतश्च तत्रैव पुरे श्रेणिकः क्षोणिनायकः । शतपञ्चकमेकोनं मेलयामास मत्रिणाम् ॥ २८॥ राज्यकार्यधुराधुर्य चतुर्धा बुद्धिवन्धुरम् ।। तेष्वादिमं कर्तुकामः कंचिन्नरमुदक्षत ॥ २९॥ पुंरत्नस्य ततस्तस्य परीक्षार्थ क्षितीश्वरः । निजोमिकां निचिक्षेप शुष्ककूपस्य कोटरे ॥३०॥ आदिदेश स देशस्थान् जनानेतच्च भूपतिः। एतां यः कूपकण्ठस्थः करग्राहं ग्रहीष्यति ॥ ३१॥ तस्मै तत्कौशलालोके प्रमवरमना अहम् । दास्ये राज्याई कमलां पुत्रीं मत्रिषु धूर्यताम् ॥३२॥ मिथोऽथ कथयामासुर्नागरा दुष्करं ह्यदः। कर्षेत् हस्तेन यस्ताराः स इमामूमिकामपि॥३३॥ तत्रामरकुमाराभः सुकुमारशरीरकः । अथाभयकुमारोऽपि पुरे भ्राम्यन् समागमत् ॥ ३४ ॥ कुण्ठी स्याद् येषु कार्येषु विदुषामपि शेमुषी । तत्राप्यस्खलिता यस्य धीर्वाल्येऽपि व्यजृम्भत ॥ ३५॥ भूतभाविषु भावेषु भवत्सु च धियांनिधेः। यस्यातिशयज्ञानिवन्मनीषा कापि नास्खलत् ॥ ३६॥ यस्य सूच्यग्रसूक्ष्मापि कुशाग्रीयमतेर्मतिः। दम्भोलिरिव भूमीभृत्पक्षतक्षणमादधे ॥३७॥ चतुर्भिः कलापकम् ॥ किमेतदिति नन्दाया नन्दनोऽप्रश्नयजनान् । कूपाकस्थोम्मिकावृत्तं तेऽपि कृत्स्नमचीकथन् ॥ ३८ ॥ स स्माह सस्मितं पौरान सितयन् दन्तकान्तिभिः। नादीयते किमेषा भोः किमेतदपि दुष्करम् ॥३९॥ तन्निधाय जना युः कोऽप्यसाववदातधी। अस्योल्लासो हि समये Page #52 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥२३॥ | पुंसां शंसति कौशलम् ॥ ४० ॥ स्माहुस्ते स्वीकुरुष्वेमां मुद्रिकां तत्पणीकृताम् । राज्यार्द्ध कमलां कन्यां सचिवेषु च मुख्यताम् ॥ ४१ ॥ ततो नन्दानन्दनोऽपि कूपक्रोडस्थितोम्मिकाम् । आर्द्रगोमयपिण्डेन ताडयामास धीनिधिः ॥ ४२ ॥ ऊर्ध्वं ज्वलन्तं तत्कालं निक्षिप्य तृणपूलकम् । तद्गोमयं श्रेणिकसूः शोषयामास रंहसा ॥ ४३ ॥ कारयित्वाऽभयः कुल्यामन्तिक स्थितकूपतः । वारिणाऽपूपुरत् कूपं पौरांश्चाश्चर्यदानतः ॥ ४४ ॥ तरदू| गोमयपिण्डस्था मूमिकामभयो ललौ । सुप्रयुक्त उपायो हि सुधियां किं न साधयेत् ॥ ४५ ॥ ततश्च नागराः स्माहुर्विस्मयस्मेरलोचनाः । शिशोरप्यस्य धन्यस्य कीदृशं मतिकौशलम् ॥ ४६ ॥ विकटमदोत्कटकरिघटतटपा| टनकर्म केशरिकिशोरः । लघुरपि लीलाललितः कलयति कल विक्रमाक्रान्तः || ४७|| निजसौरभेण ककुभः सुरभयते सुलघु केतकीकुसुमम् । तस्माद् वयोऽप्रमाणं परं प्रमाणं गुणोत्कर्षः ॥ ४८ ॥ युग्मम् ॥ ततश्च मुद्रिकारक्षाका| रिणः सत्वरं नराः । गत्वा विज्ञपयामासुः प्रणम्य क्षितिरक्षिणे ॥ ४९ ॥ देव केनापि बालेनाऽयालेन मतिकौ - | शलात् । जगृहे मुद्रिकारत्नमुक्तरीत्याऽवटोदरात् ||१०|| श्रेणिको विस्मितः शीघ्रमाजुहावान्तिकेऽभयम् । समागतं निरीक्ष्यामुं मुदाऽभूद् द्विगुणाङ्गकः ॥ ५१ ॥ तमालिंग्योपवेश्याङ्के नृपोऽभाषत साञ्जसम् । वत्स त्वं कुत | आयासी बलेऽपीदृशधीनिधिः ॥ ५२ ॥ अभाणीदभयो भूपं सुधामधुरया गिरा । राजन्नन्नागमं वेणातटा| ख्यान्नगरादहम् ॥ ५३ ॥ अपृच्छद् भूपतिर्भूयः किं भद्र श्रेष्ठिनन्दना । नन्दाख्याऽस्ति पुरे तत्र किं साऽसृत च जातकम् ॥ ५४ ॥ नृपं प्रोचेऽभयो नन्दा तत्रास्त्येवेति वेद्यहम् । कलाकेलीयमानं च सा नन्दनमजीजनत् । कुलकवृत्तिः ॥ २३ ॥ Page #53 -------------------------------------------------------------------------- ________________ ॥५६॥ किं नामा किं वयाः कीदृग पृष्टे राज्ञेति सोऽवदत् । मन्नामा मद्बया राजन् मत्समः सर्वथा गुणी॥५६॥ दृष्टे मय्येव दृष्टः स किं राजन् बहुधोदितः । निश्चिकायाचलाधीशस्ततस्तं खतनूरुहम् ॥५७ ॥ पुत्रदर्शनतो भूपश्चश्चदूरोमाञ्चकचकः । अभूदुद्वमिः किं न स्यादृर्मिमालीन्दुवीक्षणात् ॥५८॥ मुहुर्मुहुः समालिंग्य समाघाय च मूर्धनि । हर्षाश्रुभिर्नूपोऽसिञ्चत् स्नेहेन स्लपयन्निव ॥ ५९॥ वत्स ते कृशलं मातुरिति पृष्टे नृपेण सः । व्यजिज्ञपदिदं राज्ञः पुरो विरचिताञ्जलिः ॥ ६॥ भृङ्गीवानुस्मरन्ती सा स्वत्पदाम्बुजसङ्गमम् । पितरायुष्मती मेऽम्बा बायोचानेऽस्ति संप्रति ॥ ६१॥ ततो नन्दा समानेतुं न्ययुंक्ताग्रेऽभयं नृपः । प्रेमसंप्रेरितः पश्चाद् भूपा लोऽपि खयं ययौ ॥ ६२॥ शैथिल्यलोलवलयां कपोललुलितालकाम् । अनञ्जनदृशं बद्धचूलिकां मलिनांशुकाम् ॥ ६३ ॥ दधतीं तनुतां तन्वा द्वितीयेन्दुकलामिव । ददर्श मेदनीनाथो नन्दामुद्यानगां मुदा ॥ ६४ ॥ पट्टकुञ्जर मारोह्याऽऽनन्दानन्द सनन्दनाम् । पुरे प्रावेशयद् भूपस्तारतोरणगोपुरे ॥६५॥ शुभगं भावुका जज्ञे राज्ञी नन्दा खसूनुना । अभयेन भुवो भर्तुर्वैडूर्येणेव रत्नभूः ।। ६६ ॥ पट्टराज्ञीपदे न्यस्य तां भोगान् बुभुजे नृपः । नानाविधांस्तया सार्द्ध सीतयेव रघूद्वहः ॥ ६७॥ सुतां वसुः खसेनाया धौरेयत्वं खमन्त्रिषु । राज्यस्याई च राजाऽदादभयायोररीकृतम् ॥ ६८॥ तातभत्त्या पदातित्वं मन्वानः खस्य चाभयः । पराजय्यं पितुराज्यं सज्जधीनिरवाहयत् ॥ ६९ ॥ दोर्दण्डखण्डिताखण्डदेषिषण्डश्रियो नृपाः । कुञ्जरा इव वार्येव यद्धिया वश्यतां ययुः ॥७०॥ देवानामप्यगम्यानि दुर्गानि परिपन्थिनाम् । खमतिश्रेणिनिश्रेण्या खारोहाणि चकार यः ॥ ७१॥ यन्म Page #54 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- श्रुतिमात्रेण कीलिता इव सर्वतः । भूभुजङ्गा विहस्ताङ्गा मुमूर्षव इवाऽभवन् ॥ ७२ ॥ यवुद्धिदापिका कापि कुलकवृत्तिः दीप्यमाना दिवानिशम् । मरुभिरप्यविध्याप्या विध्यापयति या परान् ॥ ७३ ॥ चतुर्भिाकलापकम् ॥ अन्यदा ॥२४॥ चेल्लणां कन्यां श्रीचेटकनृपात्मजाम् । रूपनिर्जितस्वःस्त्रैणां श्रेणिकः परिणीतवान् ॥ ७४ ॥ पर्वेन्दुसुन्दरमुखी वरेन्दीवरलोचना । प्रदीपकलिकाकान्तनासापुटविराजिनी ॥ ७५ ॥ सुवर्णफलकाकारकपोलस्थलशालिनी ।। |बिम्बोष्ठी कुन्दकलिकादन्ती बन्धुरकन्धरा ॥ ७६ ॥ कुम्भिकुम्भस्थलस्थूलकुचमण्डलमण्डना । शृंगाररसवाप्याभनाभिः पृथक कटीस्थितिः॥ ७७॥ कदलीकाण्डकान्तोरूः कोमलांघ्रिसरोरुहा । सर्वाङ्गसुन्दरा साऽभूत् विदधे सर्वोत्तमाकृतिः ॥ ७८ ॥ यल्लावण्यपयः पीत्वा युवानो रसवेदिनः । चित्रं न बहमन्यन्त सुधामधुरतामपि ॥७९॥ ततश्चेल्लणया देव्या समं श्रेणिकभूपतिः । भोगानभुंक्त शच्येव विन्दारकगणाधिपः॥८॥ व्यन्तरायुरतिक्रम्य मन्त्रिसूः क्षपकोऽथ सः । उत्पेदे चेल्लणाकुक्षी सिंहखप्नेन सूचितः ॥८१॥ दोषेण तस्य | गभेस्य भत्तेमांसादनेऽभवत् । दोहदश्चेल्लणाया राक्षस्या अपि यो नहि ॥८२ ॥ चेल्लणा भर्तृभक्तत्वान्नोचे| | कस्यापि दोहदम् । अपूणेदोहदा क्षैषीत् क्षयव्याधिमतीव सा ॥८३ ॥ स गर्भः पात्यमानोऽपि दुदोहदवि-14 रक्तया । देव्या चेल्लणया पापमप्याश्रित्यापतन्नहि ॥ ८४॥ शुष्यदङ्गीं नृपो दृष्टा तां निर्जललतामिव । अप्रश्न-IN | ॥२४॥ कायत् तन्निमित्तं गिरा प्रेमसुधाकिरा ॥ ८५॥ किं केनाप्यभिभूताऽसि स्खलिताज्ञाऽसि वा क्वचित् । दुःखमं प्रैक्षि वा किंचित् भग्नकामाऽसि च प्रिये ॥८६॥ एवं भूमीवल्लभेन चेल्लणा प्रश्चिताग्रहात् । कथंचन समाचख्यो SASAASAASAASAASAASAS Page #55 -------------------------------------------------------------------------- ________________ 4 0- दोहदं स्खलदक्षरम् ॥ ८७॥ दोहदं पूरयिष्यामीत्याश्चास्य श्रेणिकः प्रियाम् । अभिधत्ते स्म पीयूषपूषचारुगि-12 राऽभयम् ॥ ८८॥ स्वमातुः पूर्यतां वत्स दोहदोऽतीयदृष्करः । पूरयिष्ये त्वत्प्रसादाभयोऽप्यूचिवानिति ॥८९॥ युग्मम् ॥ ततोऽभयः श्रेणिकस्योदरोपरि शशामिषम् । न्यास्थचावृत्तं तच विदधे गुप्तिवृत्तितः ॥९०।। अभयः स्थापयामास चेलणां विजने ततः । दत्तं तन्मांसमत्ति स्म श्रेणिकं जानतीव सा ॥ ९१ ॥ मांसं तस्यां| |च खादन्त्यामेव वैतथ्यनाटकी। भूयो भूयो भुवो भा चक्रन्दच मुमूच्छे च ॥९२॥ इस्थमभयस्य बुद्ध्या चेल्लणा पूर्णदोहदा । आः पतिभ्यहमाः पापेति व्यषीदत् पुनः पुनः ॥ ९३ ॥ देव्यै नृपोऽपि तत्कालमदर्शयत् हैखमक्षतम् । तदर्शनादहष्यत् साजिनीवार्कदर्शनात् ॥ ९४ ॥ पूणे काले जातमात्रं कान्ताकुशलकारणात् ।। अशोकवनिकायां सा तनूदुभवममूमुचत् ॥ ९५॥ मुक्त्वा तं बालकं तत्र दास्यायान्त्यथ भूभुजा । पृष्टा कुत्र गताऽसीति यथाजातमुवाच सा॥९६॥ अशोकवनिकां गत्वा दीप्यमानं सुतं नृपः । वीक्ष्य जग्राह हस्ताभ्यां जहर्षे निधिलाभवत् ॥ ९७ ॥ आगत्य चेल्लणामूचे नृप औचित्यशालिनि ? । श्वपचैरप्यकार्य किं दुष्टं कर्मेदमाचरः॥९८ ॥ दुश्चारिण्यपि या स्त्री स्याद् धर्मकौलीन्यवर्जिता । कुरूपं गोलकं काणं त्यजत्येवं सुतं न सा ॥१९॥ चेल्लणोचे तव खामिन डिम्भदम्भेन वैर्यसौ । यस्मिन् गर्भस्थितेऽप्यासीद् दोहदः पतिघातकृत् ॥२०॥ तेनौज्झि जातमात्रोऽयं कुलीनानां हि योषिताम् । पत्यङ्गकुशलेच्छनां किं पुत्रेणापरेण वा ॥१॥ चेल्लणामन्वशाद् राजा चेत् त्यक्ष्यस्यादिमं सुतम् । तदा स्युस्तनयास्तेऽन्ये वुवुदा इब न स्थिराः ॥२॥ एवं खवल्लभा Page #56 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥२५॥ देशादनिच्छन्त्यपि चेल्लणा । स्तन्यदानादिना सूनुं तं सर्पवदपालयत् ॥ ३॥ कान्त्या चन्द्र इवाशोकवनिकायांकुलकत्तिः व्यलोक्यसौ । अशोकचन्द्र इत्याख्याऽस्येति चक्रे महीभुजा ॥४॥ अशोकवनिकामध्ये त्यक्तस्यास्य तदागुलीम् । कनिष्ठां कुर्कुटोऽभक्षत् मृणालदलकोमलाम् ॥ ५॥ तदा रुदतस्तस्यांगुली पूतिप्लुतामपि । भूपोऽक्षिपन्मुखे स्नेहान् न्यवर्त्तत स रोदनात् ॥६॥ रूढवणापि तस्यासीत् सांगुलिः कृणिता ततः। क्रीडद्भिर्वालकैः प्रोचे कृणिकाभिधयाऽथ सः॥७॥ सुतौ हल्लविहल्लाख्यौ क्रमेणाऽसूत चेल्लणा। तेजःश्रीभासुरौ पूर्वा सूर्यचन्द्रमसा-टू साविव ॥ ८॥ कलाकलापकुशलाः कुणिकाद्याः सुतास्त्रयः। मूर्त्ता इव पुरुषार्थाः सदा राज्ञोऽन्वचारिषुः ॥९॥ क्रीडाक्रीडेषु वापीषु नगरोपवनेषु च । त्रयोऽक्रीडन् सोदरास्ते त्रिदशा इव नन्दने ॥१०॥ तातद्विषे कृणिकाय|3 प्राहिणोद् गुडमोदकान् । सदा हल्लविहल्लाभ्यां चेल्लणा खण्डमोदकान् ॥११॥ प्रागभवीयनिदानस्य परिपाकातु | कृणिकः । अमंस्त श्रेणिको मह्यं प्रेषयद् गुडमोदकान् ॥१२॥ गुणश्च वयसा तुल्यां कुलीनां राज्यकन्यकाम् ।। पद्मावत्यभिधां राजा कूणिकं पर्यणायत ॥ १३ ॥ बभूव श्रेणिकस्याथ धारिणी सहचारिणी। रणद्गुणगणातोद्यनादापूरिन दिगमुग्खा ॥ १४ ॥ तस्याः कुक्षाववातारीच्छरीरी कोऽपि पुण्यवान् । शुक्लोज्वलमहाकारगजखमो-16 18|॥२५॥ पसूचितः ॥१५॥ गर्भानुभावतो देव्या दोहदः समपद्यत । जंजन्यमानपर्यन्यवृष्टिभ्रमणलक्षणः ॥१६॥ धारिणी धरणीशाय रहसि व्याजहार तम् । आदिदेशाभयं सोऽपि सहि तत्साध्यसाधकः ॥ १७॥ सुधान्धसं समाराध्य पूरयामास शुद्धधीः । अभयो दोहदं देव्या दुःसाध्यं महतां हि किम् ॥ १८॥ कायकान्त्या तिरस्कु 16 Page #57 -------------------------------------------------------------------------- ________________ कार्वन् प्रदीपान सूतिसद्मनः । श्रिया प्रद्युम्नवद् देव्या समये सुपुवे सुतः ॥१०॥ दोहदार्थानुसारेण पितरौ चक्रतुः क्रमात् । तस्य मेघकुमाराख्यां सुग्नमैधत सोऽप्यथ ॥२०॥ इतश्चैकः पुरा विप्रः प्रारंभे यष्टुभध्वरम् । ता दासं नियुक्तकं दासोऽप्येवं तमृचिवान् ॥ २१ ॥ मह्यं ददासि शेषं चेत्तदा स्थास्यामि नान्यथा । विनोऽप्यगीचकारतद् दासोऽस्थाद् यज्ञपालकः ।। २२ ।। लब्धं शेषं ददौ सोऽपि साधुभ्यः सर्वदा मुदा । तद्दानपुण्यतो देाभूतोऽभुंक्त दिवःश्रियम् ॥२३ ॥ दासजीवो दिवश्च्युत्वा नन्दिपेनाभिधः सुतः । श्रेणिकस्याऽभवत् सोऽपि विमो भूरिभवेऽभ्रमत् ॥ २४ ॥ इतश्चैकन कान्तारे करियूथे गरीयसि । एको यूथाधिपः स्याना हस्तिमल्लनिभोऽभवत् 2॥ २५ ॥ माऽमी भूवन् युवानोऽस्य वशायूथस्य नायकाः। इत्याकृताज्जातमात्रान् सुतानयममारयत् ॥ २६ ॥ एकस्या यूथवासिन्या हस्तिन्या उदरेऽन्यदा । अवातरत् विप्रजीवो गर्भिणीसाऽप्यचिन्तयत् ॥२७॥ पापिमनाऽ नेन पुत्रा मे बहवोऽग्रेऽपि मारिताः। अमुं केनाऽप्युपायेन रक्षिष्याम्यधुनांगजम् ॥ २८ ॥ इति निश्चित्य सा गावातभग्नपादेव हस्तिनी । बभूव मायया कुण्टा मन्दं मन्दं ययौ पथि ॥२९॥ अन्य यूथपतेर्भाग्या मा स्म भूदसकाविति । स्तोकं स्तोकं व्रजन यूथनाथस्तां पथ्यपालयत् ॥३०॥ साऽतीव मन्दगा भूत्वा हस्तिनी तस्य हस्तिनः। अर्द्धयामेन यामेन मिलदहा व्यहेन वा ॥ ३१॥ अशक्तैव बराकीयं मिलति से चिरादपि । इतीभः स विशश्वास वंच्यते को न मायिभिः ॥३२॥ दूरगे यूथपे तस्मिन्नन्यदा सा करेणुका । तृणपूलकमाधाय मृघ्नोऽगात् तापसाश्रमम् ॥ ३३ ॥ मस्तकन्यस्तपूलाऽसौ पतंती तत्र तापसैः । प्रा.रज्ञायि काऽप्येषा बराकी शरणार्थिनी ।। Page #58 -------------------------------------------------------------------------- ________________ • चैत्यन्नन्दन॥२६॥ ॥ ३४ ॥ भव हस्तिनि विश्वस्ता प्रोक्तेत्थं तापसैस्ततः । सुखं तत्राश्रमे तस्थौ पितृधाम्नीव पुत्रिका ॥ ३५ ॥ अन्यदाऽसूत तनयं तं त्यक्त्वा तापसाश्रमे । स्वयं स्वयूथेन समं व्यचरत् सा तथैवहि ॥ ३६ ॥ सा तस्मै कलभायादादागत्यागत्य चान्तरा । स्तन्यं तेन प्रवृद्धिं स व्याससादाश्रमद्रुवत् ॥ ३७ ॥ नीवाराणां सुपक्कानां शलक्याः कवलैस्तथा । अपोषयन्निजं पुत्रमिव तं तापसाः सदा ॥ ३८ ॥ कलशैः सिञ्चतो वृक्षांस्तापसांस्तान् नि|रीक्ष्य सः । सिषेच पयसापूर्याऽऽपूयाऽसौ च करं करी ॥ ३९ ॥ इत्थमाश्रमजान् वृक्षान् प्रत्यहं तस्य सिञ्चतः । | सेचनक इति ख्यातिं वितेनुस्तापसास्ततः ॥ ४० ॥ यौवनं सदनं स्थान आससाद स वारणः । वीक्षांचक्रे नदीतीरे यूथेशं तातमन्यदा ॥ ४१ ॥ जराजर्जरदेहं तं युवाऽलावीत् स वृक्षवत् । पशूनां मोहमूदानां विवेको हि कुतो भवेत् ॥४२॥ यूथनाथः स्वयं जज्ञे कृतघ्नोऽचिन्तयद् द्विपः । मन्मातेवाऽ परा काऽपि करिणीनं प्रसोष्यति ॥ ४३ ॥ तापसाश्रममाश्रित्य सा प्रच्छिन्नं निजार्भकम् । वर्द्धयिष्यति चेन्मेऽसौ ऽनर्थभूतो भविष्यति ॥ ४४ ॥ उन्मूलयामि निर्मूलं तस्मादाश्रममेवहि । विमृश्येति झटित्येष तं मूलादुदमूलयत् ॥ ४५ ॥ त्रिभिर्विशेषकम् ॥ ततस्ते तापसाः सर्वे मिलित्वा श्रेणिकान्तिके । गत्वा पूञ्चक्रिरे चौरविलुप्ताः पथिका इव ॥ ४६ ॥ दैत्यवद् देव | दुर्दान्तो मदान्धः सितसिन्धुरः । त्वय्याश्रमगुरौ सर्वमभांक्षीदस्मदाश्रमम् ॥ ४७ ॥ भूभुजा निहताशेषप्रत्यूहव्यूह संगमाः । अनुतिष्ठन्ति राजेन्द्र सुखमाश्रमिणो व्रतम् ॥ ४८ ॥ यत उक्तम् ॥ दुर्बलानामनाथानां बालवृद्धतपखिनाम् । अनाय्यैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥ ४९ ॥ प्रजानां धर्मषड्भागो राज्ञो भवति रक्षितुः । कुलकवृत्तिः ॥ २६ ॥ Page #59 -------------------------------------------------------------------------- ________________ ॥ | अधर्मादपि षभागों यो न रक्षति मेदिनीम् ॥ २० ॥ तुपारभूधरस्कारगण्डशैलसहोदरः । गलन्मदजलामोदभ्रमद्भ्रमरभासुरः ॥ ५१ ॥ प्रलम्बदन्तमुसलः करेपन न्यूनवालधिः । विंशत्या नखरैश्चारुर्दीपपिङ्गविलोचनः ॥ ५२ ॥ लघुग्रीवश्चन्त उच्चकुम्भस्थलस्थितिः । मल्लक्षणः क्षितिं प्राप्त हवैरावणवारणः ॥ ५३ ॥ पट्टकुञ्जरता योग्यः स च तं हस्तिराट् नृपः । विषयेषु हि रत्नानि जायन्ते भूपभाग्यतः ॥ २४ ॥ चतुर्भिः कलापकम् ॥ इत्युक्तस्तापमै राजा गत्वाऽन्तर्वणमाशु नम् । बध्वा निन्यं निजे राज्ये किमसाध्यं हि भूभुजाम् ||१५|| ततोऽभूदाश्रमे क्षेममिति ते हृष्टमानसाः । तापसा एय नागं तमालानितमनर्जयन् ।। ५६ ।। पालितो लालितोऽस्माभिवर्द्धितः पोषितो भवान् । स्वस्थानोन्मूलको रे त्वं कृतनोऽभूः कृशानुवत् ॥ २७ ॥ अस्माकमाश्रमो भनि कृतनेन च यत्त्वया । तत्कर्मणः फलं ह्येतत्प्राप्तोऽस्यालानबद्धताम् ॥ ५८ ॥ सिन्धुरोऽपि हृदा दध्यौ ध्रुवमेतैस्तपखिभिः । पूत्कारोपायमाधाय दशां नीतोऽहमीदृशीम् ॥ ५९ ॥ रम्भास्तम्भमिव स्तम्भमभांक्षीदरुणेक्षणः । बन्धनत्रोटनं क्रुडः स चक्रे विशतन्तुवत् ॥ ६० ॥ सोऽभ्याश्रमं दध्यावेव करमुत्क्षिप्य विक्षिपन् । दूरेणेतस्ततः | सर्वास्तापसान् वमधूनिव ॥ ६१ ॥ नृपस्तं नागमानेतुं यादैः सुतैः सह । आश्वगान् मृगया प्राप्तमृगवन्तमवेष्टयत् ।। ६२ ।। मदोन्मत्तः करीन्द्रोऽथ स प्रलोभनतर्जने । पिशाचकीव नामस्त पहूनामपि सादिनाम् ।। ६३ ।। नन्दिषेणस्य वाचं स समाकर्ण्य विलोक्य च । जातावधिरभूच्छान्तोऽजानात् प्राग् जन्म तत्तथा ॥ ६४ ॥ ६५ ॥ नन्दिषेणस्य वाक्येन दन्तघातादिकाः क्रियाः । प्रकुर्वन् शिक्षित इव स आलानमुपाययौ ॥ ६६ ॥ अपरेऽपि हि Page #60 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- कालाद्याः कलाख्याः विक्रमादभुताः। अभूवंस्तनया राज्ञोऽन्तः पुरीणां स्फुरदुणाः ॥ ६७ ॥ इतश्च केवलालोककुलकत्तिा विलोकितजगत्त्रयः । सेव्योऽहं पूर्विकापूर्व सुपर्वासुरराजिभिः॥३८॥ चारुचामीकरस्मेरनवाम्भोजधृतक्रमः। ॥२७॥ खगतश्रीधर्मचक्रचामरातपवारणः ॥ ६९॥ मोहान्धकारविस्तारतिरस्कारदिवाकरः । संसारसागरक्रोडब्रुड-2 जन्तुतरण्डकः ॥७०॥ अशेषजीवराजीवराजी राजीवबन्धुवत् । बोधयन् समवासार्षीत् तत्रोद्याने जिनोऽन्तिमः है|॥७१ ॥ चतुर्भिः कुलकम् । रूप्यवर्णमणिमयशालत्रितयशालितम् । सुराः समवसरणं विश्वश्रीशरणं व्यधुः॥ ॥७२॥ आयोजनं जानुदन्नं सुरभीकृतदिङ्मुखम् । कुसुमप्रकरं तत्र किरन्ति स्म दिवौकसः ॥ ७३ ॥ रोदसीं । प्लावयदिव तृलरत्नप्रभोम्मिभिः । रत्नसिंहासनं सद्यो विचक्रय॑न्तरामराः॥७४ ॥ हसन्तीमिव पीयूषमयूखा-18 तिमण्डलम् । श्वेतच्छत्रत्रयीं चक्रुस्त्रलोक्यैश्वर्यसूचिकाम् ॥ ७५ ।। सिंहासनमलं चक्रे ततः श्रीज्ञातिनन्दनः । चित्रभानुरिवोदश्चदुदयाचलचूलिकाम् ॥ ७६॥ ततो वापयामास श्रेणिकं वनपालकः। देव देवाधिदेवोऽद्य 2 | पुरोद्याने समागमत् ।। ७७॥ प्रीतिदानं प्रदायास्मै श्रेणिकोऽपि ससंभ्रमः । ससुतोऽगात् प्रभुं नत्वा यथास्था-18 नमुपाविशत् ॥ ७८ ।। सुधामाधुर्यसौन्दर्य पश्यतो हरया गिरा । प्रभुादशपर्षत्सु रचयामास देशनाम् ॥७९॥ तद्यथा-दुःखजालजलापारे ऽहंकारमकराकरे । प्रोन्मत्तमारदुर्वारचौरचारभयंकरे ॥ ८०॥ चतुर्गति-तता-वर्त्त-12 गर्त्तव्यतिकरोद्धरे । इष्टानिष्टविप्रयोगसंयोगगिरिडम्बरे ॥ ८१॥ संसारसागरे भूरि मूर्छामूर्छालमानसः । मज्जनोन्मजने कुर्वन् मोहकल्लोललोलितः॥ ८२ ॥ जातुचिज्जातचैतन्यो जन्तुः पुण्यरयोदयाद् । दृङ्मूलसंय ॥२७॥ Page #61 -------------------------------------------------------------------------- ________________ शादधर्मनावमवाप्नयात ॥८३ ॥ तमामाद्यानवोन पथा सद्यः शरीरिणः । आसिादयन्त्यनिर्वाणसख निवा-12 पत्तनम् ॥ ८४॥ साधुश्राव्रतवातं ये तु कतुमनीश्वराः ।हगरत्न सावकामीण विधेयो महादरा चिरकालीनमिथ्यात्ववासान्धतमसच्छिदे। एकोहि दृक्परिणामः सहस्राशुरिश्वरः॥८६॥ युग्मम् । भगवददेशनां श्रुत्वा सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रीअभयकुमारायाः श्रावकधममुनमा श्रीमान मेघवामा रोऽपि संसारोद्विग्नमानसः । मंक्षु दीक्षामुपादिश्सुः पितरी खो व्यजिज्ञपत् ॥१०॥ प्राज्यराज्यस्फरनष्णा भजगी खस्थमानसम् । यावद् दशति नो मां साक् तावल्लास्यामि संयमम् ॥११॥ ऊपता पितालोपी-* दृशसाहसः । शिरीषपुष्पसंकाशः क त्वं काऽस्तुकर व्रतम् ॥९२॥ पुनवभाण घोऽपि पितरीमाथिका सदा सत्त्वैकतानस्य नरस्य किमु दुष्करम् ॥ ९॥ भवपाथोधिपोताभमनुजानतमीसा सेमिनासो द्रुतमादात्तदाज्ञया ॥ १४ ॥ रात्री मेघकुमारोऽथानुज्येष्ठं न्यस्तसंस्तरे । प्रमो घट्यत ॥९५।। ततोऽध्यासीदसौ निःखं मुनयो घट्टयन्ति माम् । धनिनां ह्यारो ॥९६॥ इत्थं चिन्तयतो रात्रिजगामास्य कथंचन । दीक्षां त्यक्तुमनाः प्राता सामाजिक विज्ञाय तदभिप्रायं श्रीवीरोऽभिदधेऽथ तम् । भग्नः संयमभारात् कि स्मरसि ग भवान्न किम् ॥१८॥ इतो भवे ४ीततीये त्वं वैताठ्यभुव्यभूगंजः । मेरुप्रभाभिधो दावातीऽम्बुपातुं सरस्यगाः ।। १० ।। तत्सरः परमग्नस्त्वं प्रती भेन हतोऽयलः । सप्ताहान्ते मृतो विन्ध्ये दन्त्यभूदाख्यया तया ।। ३००॥ दृहा पायानलं जातिस्मत्योन्मल्या Page #62 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- मद्रुमादिकम् । नद्यां वयूथरक्षार्थमकार्षीः स्थण्डिलत्रयम् ॥ १॥ अन्येधुरुत्थिते दावे धावंस्त्वं स्थण्डिलान्यभि । कलकवृत्तिः द्वे तत्र स्थण्डिले पूर्णे पूर्वायातैमूंगादिभिः॥२॥ व्यतीत्य ते तृतीयेऽगाः स्थण्डिले तत्र संस्थितः । कायकण्डू॥२८॥ यनार्थं च पादमेकमुदक्षिपः॥ ३ ॥ अन्योन्यपशुसंमर्दात् प्रेरितस्तावकस्य तु । समुत्क्षिप्तस्य पादस्याधस्तात् । शशक आगमत् ॥४॥ पादाधःस्थं शशं दृष्ट्वा दयापूरितमानसः। उत्क्षिप्तपाद एवास्थास्त्रिपदीभृन्मुकुन्दवत्।। ॥५॥ सार्द्धदिनद्वयाद् दावे शान्ते शशादयोऽगमन् । त्वमपि क्षुत्तृषाक्रान्तः पयःपानाय धावितः ॥ ६ ॥ |चिरोलस्थानखिन्नैकपादत्वान् न्यपतोऽवनौ । त्वं वुभुक्षातृषाक्रान्तख्यहेणाऽऽप पराशुताम् ॥७॥ शशकोपरिकारुण्यपुण्याद् राजसुतोऽभवः । दुःप्रापं प्राप्य चारित्रं मुधा किं नयसेऽधुना ॥८॥ त्रातुं शशकमप्येकमस्थाः कष्टं तथा तदा । मुन्यंघ्रिघटनाकष्टादधुना व्यषदः कथम् ॥९॥ एकजीवाभयत्यागफलमीदृक्षमासदः। प्रापः संप्रति चारित्रं सर्वजीवाभयप्रदम् ॥१०॥ मा मुश्च प्रतिपन्नं खं संसाराम्बुधिमुत्तरम् । सिंहत्वेन व्रतं लात्वा सिंह| त्वेनैव पालय ॥११॥ इति वीरगिरा मेघकुमारोऽभूद व्रते स्थिरः। मिथ्यादुष्कृतमदित तपोऽतप्यत दुस्तपम् ॥१२॥ प्रतिपाल्य व्रतं सम्यङ्मृत्वाऽभूद विजयेऽभरः। श्यत्वा ततो विदेहेपत्पब मुक्तिं स यास्यति ॥ १३ ॥ श्रीवीरदेशनासारधौतमोहमलोऽन्यदा। समादित्सुतं नन्दिषेणोऽवक पितरावदः ॥१४॥ भवभ्रान्तश्रमस्पृष्टः प्रमाद-| ॥२८॥ मृदुलानिले । सुषुतो विषयारण्ये मोहनिद्रामुपेयिवान् ॥ १५॥ कषायभुजङ्गैदुष्टैः संचरद्भिनिरंकुशम् । दष्टो गतमतिजेन्तुने जागर्ति कथंचन ॥ १६॥ गुरुविन्दारकेणाथ कृपया देशनामृतः । सिक्तो गतविषो जन्तुश्चेतना Page #63 -------------------------------------------------------------------------- ________________ है लभते पुनः ॥ १७॥ श्रीवीरेणाहमप्येवं सुप्तः संप्रतिबोधितः । पितरौ व्रतमादास्ये मोहनिद्राविषामृतम् ॥१८॥ खएवं स्वमातापितरी संबोध्य श्रेणिकाइभः । व्रतोद्यतो नन्दिषेणः खस्थदेवतयोदितः ॥ १९॥ भोग्यकमेवतो वत्स सांप्रतं सांप्रतं न ते । व्रतं लातं दृढं कर्म नाभुक्तं क्षीयते यतः ॥ २०॥ भोग्यकर्मक्षये पश्चाचारित्राचरणे रुचि । वत्स कुयोंः कृता काले क्रियाहि फलदायिनी ॥ २१॥ कर्मणश्च गले पादौ दत्त्वाऽऽधास्ये मनीषितम् । सदा सत्त्वैकतानस्य पुंसः कर्मापि शङ्कते ॥ २२॥ चारित्रावारकं कर्म साधुमध्ये स्थितस्य मे। करिष्यति किमिप्रत्युक्त्वा सोऽगात् वीरपदान्तिके ॥ २३ ॥ कान्तानां यौवनस्थानां हित्वा पञ्चशतीमसौ । श्रीवीरेण निषिद्धोऽपि तत्पाचे व्रतमग्रहीत् ॥ २४ ॥ पार्थे गुरोरथाधीत दशपूर्वश्रुतः श्रुतः। स दुस्तपं तपः कुर्वन् व्याहार्षीत् |स्वामिना समम् ॥ २५ ॥ भोग्यकर्मोदयात् तस्य भोगेच्छाऽभूद् बलादपि । निषेद्धं तां मुनिश्चक्रे षष्ठादि विविधं तपः ॥ २६ ॥ बलाद् भवद्विकारोऽसौ खोबन्धनमथाकरोत् । चकार बन्धनच्छेदं देवता व्रतवारिणी ।। M॥ २७ ॥ नतः खमस्य शस्त्रेण शस्त्रं कुठं व्यधाच सा । भक्षयतो विषं तस्य निर्ममे तच पुष्टिदम् ॥ २८॥ पर्वताग्रात् स आत्मानमपातथदथान्तरे । धृत्वा तं देवतोवाच किं न स्मरसि मदचः ॥ २९॥ नालं भोगफलं कर्माऽभुक्त्वा क्षेतुं जिना अपि । मुधैव तत्प्रतीपं त्वमेवमुत्तिष्ठसे सदा ॥ ३०॥ इत्युक्तः स तयैकाकिविहारप्रतिमाधरः। विजहार पुरग्रामश्मशानोपवनादिषु ॥३१॥ चतुर्थाष्टमषष्ठादितपः कुर्वन्ननेकधा। जगाम नगरेऽन्येयुः षष्ठपारणके मुनिः ॥ ३२ ॥ उच्चनीचकुलेष्वेष भ्रमन्नज्ञानतोऽविशत् । वेश्यावेश्म ततो धर्मलाभ इत्यब्र Page #64 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥ २९ ॥ * वीन् मुनिः ॥ ३३ ॥ धर्मलाभेन नोऽर्थो न द्रम्मलाभो गवेष्यते । इति वेश्योपहासेन मानाद्रिं सोऽधिरूढवान् ॥ ३४ ॥ हसत्यसौ वराकी मां किं विचिन्त्येति स मुनिः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नजातमपातयत् ॥ ३५ ॥ | द्रम्मलाभोऽयमित्युक्त्वा निर्ययौ स गृहाद् बहिः । वेश्या ससंभ्रमा साऽप्यनुधायेति तमभ्यधात् ॥ ३६ ॥ अमेय स्वापतेयस्य दानात् त्वं मत्प्रियोऽभवः । गन्तुं न लभ्यतेऽन्यत्र प्रसद्याचैव तिष्ठ भोः ॥ ३७ ॥ दुस्तपं तप उज्झित्वा भुंक्ष्व भोगान् समं मया । प्राणान् प्राणप्रभुं त्वाहं विना त्यक्ष्यामि सर्वथा ॥ ३८ ॥ इत्युक्तो वेश्यया भोगान् जानन्नपि विषाधिकान् । कर्मणोऽप्रतिमल्लत्वान्मेने तद्वचनं मुनिः ॥ ३९ ॥ चेन्न प्रतिबोधयिष्यामि प्रत्यहं दश वाधिकान् । दीक्षां भूयस्तदादास्ये प्रतिज्ञामिति सोऽकरोत् ॥ ४० ॥ तदावासे वसन् मुक्तलिङ्गोध्यायन्ननुक्षणम् । स सुराया अर्हतोऽपि वाचं व्रतनिवारिकाम् ॥ ४१ ॥ निर्विशन् वेश्यया सार्द्धं भोगान् भव्यान् दशाधिकान् । संबोध्य प्रेषयामास दीक्षार्थं वीरसन्निधौ ॥ ४२ ॥ भोग्यकर्मण्यथ क्षीणे तस्य बोधयतो न च । अवुध्यत जनाष्टकजातीयो दशमो न तु ॥ ४३ ॥ भोजनावसरे वेश्या दिव्यां रसवतीं व्यधात् । सिद्धा रसवती स्वामिन् भुंक्ष्वेति तं व्यजिज्ञपत् ॥ ४४ ॥ अपूर्णाभिग्रहो भोक्तुं नोत्तस्थौ किन्तु बोधयन् । सोऽस्था हकं नरं नानोपदेशैर्धर्मबन्धुरैः ॥ ४५ ॥ वेश्या जगाद तं पूर्वा शीतला रसवत्यभूत् । पुनाराध्यं मया धान्यं विलम्बावसरो नहि ॥ ४६ ॥ नन्दिषेणोऽवदद् वेश्यां नाबोधि दशमो मया । दशमो ह्यहमेवाच तल्लास्यामि व्रतं पुनः | ॥ ४७ ॥ ततः क्षीणं भोग्यकर्म जानानो मुनिपुङ्गवः । श्रीवीरचरणोपान्ते गत्वा चारित्रमग्रहीत् ॥ ४८ ॥ कुलकवृत्तिः ॥ २९ ॥ Page #65 -------------------------------------------------------------------------- ________________ खश्चरितमालोच्य पालयित्वाऽमलं व्रतम् । दिवि देवश्रियं प्राप नन्दिषणो महामुनिः ॥४९॥ क्रीडातडागवापीषु पुरोपवनभूष्वथ । सह चेल्लणया क्रीडजलक्रीडादिभिर्नृपः ॥ ५॥ प्रत्यहं चेल्लणादेव्या रहसि स्नेहरं- हसा । बबन्ध मूर्ध्नि धम्मिलं स्नेहबन्धमिवात्मनः ॥५१॥ मृगनाभिद्रवनव्यैः प्रसाधक इव स्वयम् । कपोलतलयोर्देव्या विदधे पन्नवल्लरीः ॥५२॥ सौगन्ध्यबन्धुरां पुष्पमालिकां ग्रन्थितां स्वयम् । मूर्ती प्रीतिमिव न्यासीत् । कण्ठे देव्या नरेश्वरः॥ ५३॥ चतुर्भिः कलापकम् ॥ अथ विभाक्रान्तिकृते शीतलानिलवाहनः । प्रसर्पन्निव सर्वत्र शिशिरतुः समाययौ ॥५४॥ ज्वलत्कामानलोत्तप्तकान्ता कान्ताङ्गसङ्गिषु । न भोगिषु पदं लेभे शिशिरतुर्विजृम्भितम् ॥ ५५ ॥ निखानां शिशवो यत्र शीतं पेष्टुमिवाखिलम् । दन्तैर्दन्तान् स्पृशन्तोऽग्निं प्रातर्विप्र| इवाभजन ॥५६॥ अपूर्वः कोऽपि कामाग्निर्यत्र जज्वाल देहिषु । हिमे पतति यः प्राप प्रौढिमानं समं ततः॥ ॥ ५७॥ श्रीवीरः समवासार्षीत् तदा राजगृहे पुरे । चतुर्विधाऽमरकोटिनरकोटिपरिस्कृतः ॥५८॥ नमस्कर्तु महावीरं नन्ददानन्दकन्दलः । देव्या चेल्लणया सार्द्धमपराहेऽचलनृपः ॥ ५९॥ दंपती तौ च वन्दाते भक्तिसारं जगद्गुरुम् । धन्यंमन्यौ च वल्गेते सौधं प्रति तदैवहि ॥ ६०॥ अपश्यतां सहमानं मुनि शीतपरीषहम् । प्रतिमास्थं जलोपान्त्ये सुराचलमिवाचलम् ॥ ६१ ॥ उत्तीर्य वाहनात् साधुं मूतं तप इवोद्धरम् । विनयेन नमस्कृत्य तो खधाम समीयतुः ॥ ६२ ॥ दन्दह्यमानकर्पूरागुरुधूमाधिवासितम् । विलासवेश्म भूपोऽगात् क्लप्ससन्ध्योचितक्रियः ।। ६३ ॥ काश्मीरजेनाङ्गरागमङ्गे वर्मेव निर्ममे । अपहस्तयितुं भूपः शिशिरर्तुविजृम्भितम् ॥ ६४॥ Page #66 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-ज्वलत्कामाग्निसंतप्तचेल्लणाकुचमण्डले । न्यस्तहस्तस्तया शीर्षाच्छीर्षकीकृतदोलतः॥६५॥ सुध्वाप भूपतिः| कुलकवृत्तिः पूर्वं ततश्चेटकराट्सुता। पेष्टु शीतमिवाश्लिष्याशिथिलं प्राणवल्लभम् ॥६६॥ युग्मम् ॥ बहिर्बभूव निद्रायां : ॥३०॥ प्रच्छदाचेल्लणाकरः। निद्रां शरीरशैथिल्यहेतुमाहुर्मनीषिणः ॥ ६७॥ कृशानुनेव शीतेन काष्टदाहेन तत्करः । स्पृष्टस्तव्यथया देवी जजागार च चेल्लणा ॥ ६८॥ उच्चैः सीत्कारमाधाय शीतार्ता चेल्लणा निजम् । पाणिपनं हृदि न्यस्य भूपस्य प्रच्छदान्तरा ॥ ६९ ॥ देवी सीत्कारमात्रेण जगतीवल्लभः क्षणात् । जजागार महान्तो हि खल्पनिद्राः खभावतः॥ ७० ॥ चेल्लणा चिन्तयित्वा तं प्रतिमास्थं महामुनिम् । निरुत्तरीयं प्रोवाच स कथं हा भविष्यति ॥७॥ तप्तत्रपूपमं श्रुत्योः श्रुत्वा तद्वचनं तथा । स्वचेतसि नराधीशश्चिन्तयामासिवानदः॥७२॥ अस्या नूनं मनस्यन्यः प्रेयानस्ति रिरंसितः । शीतग्रस्ता स्मरन्तीयं यमेवमनुशोचति ॥ ७३॥ संतपन्नीय॑या चैवं राजाऽतीयाय यामिनीम् । इष्टैकवल्लभा ईष्यालवो हि खलु कामिनः ॥ ७४ ॥ अन्तरन्तःपुरं प्रेष्य चेल्लणां |चण्डशासनः। नृपः प्रातः समाहय प्रोचेऽभयमिदं वचः॥ ७५ ॥ अन्तःपुरमिदं वत्स विनष्टं विद्धि धीधन ।। सन्ध्याभ्ररागवत् पुंसि क्षणरागा हि योषितः॥ ७६॥ अतः प्रज्वल्यतां सर्व झटित्यन्तः पुरं मम । अमेध्यलव संमृष्टं भोज्यं बुज्झन्ति भोगिनः॥ ७७॥ युग्मम् ॥ अनीमातृमोहात् त्वं मा भूरित्यभिधाय राट् । श्रीवीर-IN॥३०॥ स्वामिनं नन्तुं महद्ध्यो श्रेणिको ययौ ॥ ७८ ॥ अभयो विमृशद बुद्ध्या सर्वाः सतीमतल्लिकाः । मातरो में खभावेन पितुराज्ञा च तादृशी ॥७९॥ संभावितं त्वसंभाव्यं पितृपादैः करोमि किम् । तथापि चित्रमुत्पाद्य 25646 -C4 Page #67 -------------------------------------------------------------------------- ________________ चैत्यव. ६ कालक्षेपः करिष्यते ॥ ८० ॥ बुद्ध्याऽऽलोच्येति शुद्धान्तोपान्त्यजीर्णवशाकुटीम् । अभयोऽज्वालयद् दग्धः शुद्धान्त इति घोषयन् ॥ ८१ ॥ इतञ्च श्रेणिकोऽपृच्छच्छ्रीवीरं चेल्लणा सती । असती वा जिनोऽवादीचेलणा हि महासती ॥ ८२ ॥ निशीथे चेल्लणाख्यातवचनाकृतमादितः । श्रेणिकक्षोणिभृत्पृष्टं निजगाद जगद्गुरुः ॥ | ॥ ८३ ॥ श्रुत्वेदं श्रेणिको नत्वा द्रुतं श्रीज्ञातिनन्दनम् । पश्चात्तापं समापन्नोऽधावीद् राजगृहं प्रति ॥ ८४ ॥ | तथा प्रदीपनं कृत्वाऽभ्यायान्तमभयं नृपः । अपृच्छदस्मदादेशः किं त्वया विहितोऽहितः ॥ ८५ अभयेनैवमित्युक्ते राजोवाच स्वमातरः । दग्धा जीवसि किं पाप किं न प्रदीपनेऽविशः ॥ ८६ ॥ अभयोऽभिदधे तात | श्रुत्वार्हद्वचनस्य मे । पतङ्गमरणं नार्हमादास्ये समये व्रतम् ॥ ८७ ॥ अभविष्यत् त्वदादेशो यद्येवमपि च प्रभो । तदा पतङ्गमृत्युं चास्म्यकरिष्यं न संशयः ॥ ८८ ॥ अकृत्यं मदिराप्येवं किमकार्षीरिति ब्रुवन् । श्रेणिको भक्षितविष इवामूर्च्छत् पुनः पुनः ॥ ८९ ॥ सिषेच शीतलाम्भोभिरभयः श्रेणिकं स्वयम् । स्वस्थीभूते नृपे चोचे | क्षेममन्तःपुरेऽस्ति ते ॥ ९० ॥ राजोचे मम पुत्रस्त्वं सत्योऽभय महामते । समागच्छत् कलङ्को मे दूरं येनापसारितः ॥ ९९ ॥ पारितोषिकसद्दानं दत्त्वाऽभयाय भूपतिः । चेल्लणालोकनात् रक्तो विलासभुवनेऽगमत् ॥ ॥ ९२ ॥ अन्येद्युः श्रेणिको दध्यौ चेल्लणा महिषी मम । कर्त्तव्यः कोऽन्यराज्ञीभ्यः प्रसादोऽस्या विशेषवान् ॥ ॥ ९३ ॥ एकस्तम्भं तदेतस्याः प्रसादं कारयाम्यहम् । क्रीडत्वेषा स्थिता तत्र विमानस्थेव निर्जरी ॥ ९४ ॥ इति ध्यात्वाऽभयं भूप आदिशचेल्लणाकृते । एकस्तम्भं सदारम्भं प्रसादं कारयाद्भुतम् ॥ ९५ ॥ अभयः स्तम्भयो Page #68 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-ग्योच्चकाष्टाहरणहेतवे । व किं क्षिप्रमादिक्षत् सोऽप्यगात् तत्कृते वनम् ॥९६॥ तस्मिन्नेकैकशः पश्यन् सर्वानु-कुलकवृत्तिः रिहानसौ। महाद्रुमेकमद्राक्षील्लक्षितं दिव्यलक्षणैः ॥९७॥ ध्यौ च शाद्वलः सान्द्रच्छायः पुष्पी फली गुरुः । ॥३१॥ बृहच्छाखो तनुस्कन्धः सामान्योऽयं न भूरुहः॥९८॥ निर्देवतं नहि स्थानमपि यादृशतादृशम् । असदृक्षस्त्वयं वृक्षो देवताधिष्ठितः स्फुटम् ॥ ९९ ॥ तपस्यापूर्वमेतस्याराधयाम्यधिदेवताम् । छिन्दतोऽमुं यथा न स्यादशिवं मम सप्रभोः॥४०॥ एवं विमृश्य निर्मायोपवासं वर्द्धकिर्व्यधात् । सुगन्धिवस्तुभिस्तस्य भूरुहस्याधिवासनाम् ॥१॥ ततस्तदर्थसिद्ध्यर्थ रक्षार्थ स्वाश्रमस्य च । तत्तव्यन्तरस्तृर्णमेत्याभयमदोऽवदत् ॥२॥ न छेद्यो मे दुमो भद्र वर्द्धकिं तं निषेधय । एकस्तम्भं महासौधं विधास्याम्यहमेवहि ॥ ३ ॥ मन्दरस्येव तस्याधो भद्रशा-13 लिमिवोल्वणम् । सदा फलिनमुद्यानं करिष्यामि च दैवतम् ॥ ४॥ एवमुक्तोऽभयस्तेन वनादू वर्द्धकिमादयत् । साध्ये सिद्ध विनायासं तक्रियोपक्रमो हि कः॥५॥प्रपन्नं सौधमाधत्त व्यन्तरः सवनं ततः । वागवद्धाः किं न कुर्वन्ति निर्जराः किंकरा इव ॥ ६॥ ससर्व वनं सौधं भूधवायाभयस्तदा । दर्शयामास राजापि प्रसन्नः | स्म गदत्यदः ॥७॥ प्रासादे वांछिते वत्स दिव्यकाननमप्यभूत् । उपक्रान्ते क्षीरपाने शर्करापतनं ह्यदः ॥८॥ प्रासादे चेल्लणा तत्र सर्वतुफलपुष्पिते । उद्याने च गतवीडं चिक्रीडो/भुजा सह ॥९॥ तत्पुरस्थास्नुमातङ्गपते-12 विद्यावतोऽन्यदा। सहकारफलावाददोहदोऽजायत स्त्रियाः॥१०॥ सोचे मातङ्गमाम्राणि देहि पूरय दोहदम् ।।४ सोऽवादीदयि मूढा त्वमाम्राण्यसमये कुतः ॥ ११॥ मातङ्गयुवाच मातङ्गं सर्वर्तुफलपुष्पिते । अत्रैव चेल्लणो Page #69 -------------------------------------------------------------------------- ________________ द्याने सन्त्याम्राणि सहस्रशः ॥ १२॥ तदैव चेल्लणोद्यानसन्निधौ स समागमत् । अतितुङ्गांश्च माकन्दान् ददर्श फलितान मुदा ॥ १३ ॥ रात्रौ पचेलिमाम्राणां शाखा आकर्षविद्यया । आकृष्याम्राणि लात्वासौ विकर्षण्या-18 मुचच्च ताः ।। १४॥ आम्रफलानि लात्वाऽदात् स मातङ्गो निजत्रियै । जलसिक्तेव भूः साऽभूत् पुष्टाङ्गा पूर्णदोहदा ।। १५ ।। वेश्मेवभूषितश्रीकं विच्छायं भूतकाननम् । शुष्कशाब लूनफलमपश्यञ्चल्लणा प्रगे ॥१६॥ ततः सा तत्समाचख्यौ श्रेणिकाय महीभुजे । श्रेणिकोऽभयमाय ददौ शिक्षामिमां पुनः ॥१७॥ अदृष्टपद संचारं चूतचौरं गवेषय । शक्तिर्यस्येदृशी तस्माद् भाव्यन्तःपुरविप्लवः ॥ १८ ॥ महामात्य महावुद्धे प्रस्तावोऽयं समस्ति ते । क्षते नष्टे रवेविम्बं यतः पुंभिर्गवेष्यते ॥१९॥ एवमुक्तोऽभयो नित्यं मध्ये राजगृहं भ्रमन् । चौरंगवेषयामास न लेभे तं च कुत्रचित् ॥ २० ॥ पर्यटन नगरेऽन्येधुरभयश्चौरलिप्सया। ययौ संगीतकं पौरः कार्य|माणं कुतुहलात् ॥ २१ ॥ पौरदत्तासनासीनोऽभयः पौरजनान् जगी । नटा न यावदायान्ति तावदाकर्यतां कथा ॥ २२ ॥ श्रीवसन्तपुरे जज्ञे जीर्णः श्रेष्ठ्यतिदुर्विधः। तस्य चैका बृहत्कन्या विवाहोत्सुकमानसा ॥२३॥ मावरार्थ कामदेवस्य पूजां कर्तुं समानयत् । पुष्पाणि चौरयित्वा सा बहिःस्थारामतोऽन्वहम् ॥ २४ ॥ आरामपा लको वीक्ष्य शाखिनः पुष्पवर्जितान् । नित्यं केनापि चोर्यन्ते पुष्पाणीति व्यचिन्तयत् ॥ २०॥ पुष्पचौरं धरिप्येऽहमद्येत्यारामपालकः । एकदाऽन्तर्हितो भूत्वा तस्थौ व्याध इव स्थिरः॥ २६ ॥ प्रागवदागत्य विश्रम्भात् तां पुष्पाण्यवचिन्वतीम् । वीक्ष्य रूपवती क्षोभमायादारामिकः क्षणात् ॥ २७॥ धृत्वा तां बाहुनोचे स रमख Page #70 -------------------------------------------------------------------------- ________________ चत्यवन्दन ॥३२॥ मयका समम् । अन्यथा त्वां न मोक्ष्यामि पुष्पक्रीती मया ह्यसि ॥२८॥ ऊचे वृहत्कुमारी तं मा मा मां स्पृश-14 शकुलकवृत्तिः पाणिना । कुमार्यस्मि न पुंस्पर्शमद्याऽप्यर्हामि मालिक ॥२९॥ मालाकरो जगौ भद्रे नवोढा मम सन्निधौ । पूर्वमागच्छसि त्वं चेत् तदा मुश्चामि नान्यथा ॥ ३०॥ तां तथेति प्रपेदानां कन्यका मालिकोऽत्यजत् । ततश्चाक्ष तकौमारा हृष्टा सा खगृहं ययौ ॥ ३१॥ अन्यदा भाग्यसौभाग्यात् कृष्टः कोऽपि युवेश्वरः। श्रेष्ठिसूर्वीक्ष्य तांदू कन्यां परिणिन्ये सवितरम् ॥ ३२॥ विलासभवनं प्राप प्रियं व्यज्ञपयच सा । मालिकाग्रे मया पूर्वमेतच प्रतिशुश्रुवे ॥ ३३ ॥ तव पार्श्व समेष्यामि नवोढा प्रथमं प्रियात् । तद्वाक्यरज्जुबद्धां मां तत्पार्चे प्रेषय प्रिय ॥३४॥ आहो स्वच्छाशया सत्यसंगरेयं मम प्रिया । इति संस्तुत्य भत्रों सानुमता प्राचलत् ततः॥ ३५॥ सलीलं पथिटू यांती सा वस्त्रभूषणभूषिता । निशामुखे धनायभिररुध्यत मलिम्लुचैः ॥ ३६॥ ततः सा मालिकोदन्तमुक्त्वो वाच मलिम्लुचान् । कान्तादिष्टां नवोढां मां गच्छन्ती मालिकान्तिके ॥ ३७॥ मुश्चत सांप्रतं भो भो भ्रातरोऽ-15 ङ्गीकृतार्थिनीम् । व्याघुटन्त्या-उपेयुष्या गृहीध्वं भूषणानि मे ॥ युग्मम् ॥ ३८ ॥ खच्छचित्तां प्रतिज्ञातकारिणीमवलामिमाम् । व्याघुटन्तीं गृहीष्याम इति सा ऽमोचि तस्करैः ॥ ३९॥ कृतसप्तोपवासेन रक्षसाऽरोधि सा पथि । पुरो यान्ती कुरङ्गीव शार्दूलेन जिघत्सुना ॥४०॥ रक्षोऽपि पूर्ववृत्तान्तं तस्या आकर्ण्य विस्मितः। तत्याज तां परावृत्तां भोक्ष्यामीति विचिन्तयन् ॥४१॥ सा जगाम तमारामं मालाकारं बभाण च । अङ्गीकृतभवद्वाक्यान्नवोढा त्वां समागमम् ॥४२॥ यद्युक्तं तद् विधेहि त्वं शीघ्रं मतिमतां वर । त्वदायत्तं शरीरं मे Page #71 -------------------------------------------------------------------------- ________________ जीवितव्यं च संप्रति ॥४३॥ नारी मतल्लिकाऽसौ च प्रतिज्ञातार्यकारिणी । पूज्येयं मातृवदिति तां श्रुत्वा मालिकोऽमुचत् ॥४४॥ मालिकोदन्तमाख्याय रक्षसोऽग्रे वलन्त्यसी । व्याजहार महाधाष्ट्यात् तात भक्षय मामिति ॥४५॥ मालिकादप्यहं हीनसत्त्वः किमिति चिन्तयन् । राक्षसोऽप्यमुचन्नत्वा भक्ष्यां तां सौवमातृवत् ॥ ४६॥ चौराणां पश्यतां तस्या वत्म तत्पार्श्वमागमत् । तान् साऽवम् भ्रातरः सर्वे सर्वखं मम गृह्यताम् ॥४७॥ मालिकेन यथा मुक्ता यथा मुक्ता च रक्षसा । चौराग्रेऽखिलमूचे सा तत् ते श्रुत्वैवमब्रुवन् ॥४८॥ वयं न हीन सत्त्वाः स्मो मालिकाद् राक्षसादपि । भद्रे तद्गच्छ तूर्ण नस्त्वं खसेति व्यसर्जयन् ॥४९॥ गत्वा गेहे खकान्ताय सा बभाण नितम्बिनी। तस्करराक्षसारामपालकानां तथा कथाम् ॥ ५० ॥ जना विचार्य तब्रूत क एषां साह४ासी भवेत् । किं तदाऽथवा चौरा राक्षसो मालिकोऽथ किम् ॥५१॥ ईर्ष्यालुभिर्जनैरूचे भर्ता दुष्करका रकः । येनाभुक्ता नवोढा सा प्रैषि स्त्री परभुक्तये ॥५२॥ ऊचे बुभुक्षया क्षामै रक्षो दुष्करकारकः । अति क्षुधातुरेणापि येन सा भक्षिता नहि ॥५३॥ विटेरारामिकः प्रोचे तदा दुष्करकारकः न सोपबुभुजे येन खयमेवागता निशि ॥ ५४॥ आम्रचौरेण चावाचि चौराणां साहसं महत् । अलुण्ठितैव यैर्मुक्ता सा सर्वाङ्गविभूषणा ॥५५॥ ज्ञात्वाऽभयोऽपि तं चौरं धारयित्वा च पृष्टवान् । अपाहारि त्वयाऽऽम्रालिः कथं रे पश्यतो हर ॥५६॥ विद्याबलादिति प्रोक्ते तेन स्तेनेन मच्यथ । राज्ञ आख्याय तत्सर्व तस्करं तं समापयत् ॥५७ ॥ श्रेणिको न्यगच्चौरः प्राप्तो नान्योऽपि मुच्यते । किं पुनः शक्तिमानेष निग्रहार्हो हि निश्चयात् ॥ ५८॥ अथ Page #72 -------------------------------------------------------------------------- ________________ ॥३३॥ प्राप्य छलं मन्त्री तातं विज्ञप्तवानिति । आददीध्वमतो विद्यां पश्चाद् युक्तं विधास्यते ॥ ५९॥ ततः खस्योप-18 कुलकवृत्तिः वेश्याग्रे तं मागङ्गपतिं तदा । विद्यां पठितुमारेभे तन्मुखान्मगधाधिपः॥६०॥ उच्चासनासिनो राज्ञः पठतोऽपि हि सा हृदि । विद्या चकार नावस्थामुच्चदेशे पयो यथा ॥ ६१॥ ततः कोपान्नरेन्द्रस्तं तर्जयामास तस्करम् । कूट किमपि रे तेऽस्ति विद्या नायाति यन्मम॥१२॥ स्माहाभयः पितुर्विद्यागुरुवा ह्यसको गुरौ । विनयेन विना विद्या नैति पुण्यं विनर्द्धिवत् ॥ ६३॥ सौवसिंहासने देव मातङ्गोऽप्येष आस्यताम् । बद्धाञ्जलिः स्वयं भूमावस्याग्रे चोपविश्यताम् ॥६४॥ नीचादप्युत्तमा विद्या ग्राह्याऽन्येनेति नीतिवत् । विद्यार्थी भूपतिस्तस्य प्रतिपत्तिं व्यधादिमाम् ॥ ६५ ॥ उन्नामत्यावनामत्यौ विद्ये तन्मुखतः श्रुते । संतस्थाते नृपस्वान्ते दर्पणे प्रतिबिम्बवत् ॥६६॥ विज्ञप्याथ नृपं मन्त्री विद्यागुरुतयाश्रितम् । तं चौरं मोचयामास कारुण्यामृतसागरः ॥६७॥ अन्यदा भव्यराजीवराजीराजीवबान्धवः। श्रीज्ञातनन्दनस्तत्र पुण्यतः समवासरत् ॥ ६८॥ ततश्च तं नमस्कामञ्जनाद्रि|सहोदरैः । इभैरापूरयन् सर्वा दिशो वर्षा इवाम्बुदैः ॥६५॥ चङ्गैस्तुङ्गैस्तुरङ्गौघैर्वल्गुनृत्यभिरग्रतः । नतकै|रिव रङ्गोा सर्व विमापयन् जनम् ॥ ७॥ सामन्तमस्तकस्थास्नुश्रीकरश्रीकरीचयः। कुर्वाणः प्रचलचूतखण्डभ्राजिष्णुभूतलम् ॥७२॥ वैतालिकवजैः वर्णभूषणावलिभूषितः । स्तृयमानो नवैः काव्यययौ राजगृहेश्वरः॥2 ॥३३॥ ॥७२॥ चतुर्भिः कलापकम् ॥ तदा चैकाऽर्भिका काचिज्जातमात्रोज्झिताऽध्वनि । ददृशे सेनया राज्ञो दुर्गन्धा ६ है पूतितोऽपि हि ॥ ७३ ॥ तद्गन्धमसहा घातुं घ्राणं सा समवस्त्रयत् । कोऽथवानिष्टमादातुं सौवपाणि प्रसारयेत् SALARAKARMERMANC★ Page #73 -------------------------------------------------------------------------- ________________ ॥७४ ॥ पृष्टः परिच्छदः सौवः किमेतदिति भूभुजा । शसंस जातमात्रां तां दुर्गन्धामुज्झितां पथि ॥ ७॥ | नित्यमन्त्यजिनेन्द्रास्याच्छुतद्वादशभावनः । अगहों तत्परो राजा तां निरीक्ष्य पुरोऽगमत् ।। ७६ ॥ श्रीसमवमृतौ गत्वा नत्वा श्रीवीरतीर्थपम् । अपृच्छत् समये तस्या दुर्गन्धायाः कथां नृपः ॥ ७७॥ त्रिलोकीलोकसंसारतापं निर्यापयन्नथ । दन्तकान्तिसुधासारैः श्रीवीरस्तीर्थपोऽब्रवीत् ॥ ७८ ।। पर्यन्तदेश उद्दामे शालिग्राम धनेश्वरः । धनमित्रोऽजनि श्रेष्टी धनश्रीस्तस्य नन्दनी ॥ ७९ ॥ श्रेष्ठिना चान्यदारब्धे धनश्रीपाणिपीडने । ग्रीष्मत्तौ साधवस्तत्र विहरन्तः समागमन् ॥८०॥ साधूनामन्नपानादिप्रतिलाभनहेतवे । धनश्रीः नाक प्रव-18 वृते पित्रादेशत आदरात् ॥ ८१॥ धर्मस्तिमितवस्त्राणां ततस्तेषां तपस्विनाम् । अजिघन्मलगन्धं सा कुर्वती प्रतिलाभनाम् ॥ ८२ ॥ सुचिसदवासवासाः सा सर्वभूषणमण्डिता । खांगरागांगशृंगारसंमोहादित्यचिन्तयत् ।। &|॥ ८३ ॥ धर्मः श्रेष्ठो हि सर्वीयः सर्वः सर्वज्ञभाषितः । अश्रेष्टं प्राशुकाम्भोभिरपि स्नानादिवर्जनम् ॥८४ ॥1 एवं साध्वङ्गदुर्गन्धनिन्दनोद्भवदुष्कृतम् । अनालोच्याप्रतिक्रम्य धनश्रीर्मृत्युमासजत् ।। ८५ ॥ अभूद् राजगृहे ४ वेश्योदरे सा दु:ग्वदायिनी । गर्भपातौषधैः पीतैरपि गर्भो न सोऽपतत् ॥८६॥ तत्कर्मोदयदुर्गन्धा शकृद्वद खोदरोद्भवा । जातमात्राऽप्यसौ मात्रा मुमुचे मेदिनीतले ॥ ८७॥ पुनः पप्रच्छ भूनाथ इत्थं चरमतीर्थपम् । सुखिनी वा दुःग्विनी वा भाविनीयमतःपरम् ॥८८॥ ततोऽभाणीद् विभुर्दु ग्वं पर्यभोज्यऽनया समम् । भाविनी : सुखिनी चैषा यथा शृणु तथा नृप ॥८९॥ भगिष्यति तवैवाष्टवर्षाण्यग्रमहिष्यसौ । इदं जानीह्यभिज्ञानं राज Page #74 -------------------------------------------------------------------------- ________________ चैत्यवन्दन |स्तदुपलक्षणे ॥९०॥ दीव्यतोऽन्तःपुरे न्यायसिन्धोस्ते पृष्ठरोधसि । या चटिष्यति हंसीव भूप जानीहि तामि-13 कलकवृत्तिः माम् ॥११॥ अहो अद्भुतमेषा मे कथं भार्या भविष्यति । चिन्तयन्निति भूपोऽगाजिनं नत्वा निजौकसि ॥१२॥ दुर्गन्धायाश्च दुर्गन्धः कर्मनिर्जरयाऽगमत् । दृष्टाऽनपत्ययाऽऽभीर्या चैकयोपाददेऽथ सा ॥ ९३ ॥ तया स्वकुक्षिजातेव वध्यमाना क्रमेण सा । वरेण्यरूपलावण्या यौवनोद्भवतोऽभवत् ॥ ९४ ॥ कौमुद्या उत्सवो जज्ञे पुरे राजगृहेऽन्यदा । द्रष्टुं तमुत्सवं साऽगात् सह मात्रा पुरान्तरा ॥ ९५ ॥ विशदांशुकसंवीतसर्वमूती नृपाभयौ।। केल्या घनाश्रये तत्र पुष्पदन्ताविवेयतुः ॥९६॥ भूभुजो जनसंमर्दै वीरचर्याविहारिणः । पाणिर्विगलदाभीरीपुत्र्या हृदि घनस्तने ॥ ९७ ॥ अनुरागानृपस्तस्या उत्तरीयाञ्चले द्रुतम् । सत्यं कारमिवोरोढुं खाङ्गुलीयमवन्धयत् | ॥ ९८॥ आदिशचाभयं व्यग्रहृदो मे नाममुद्रिका । जहू केनापि तद्ग्राह्यस्त्वया तत्तस्करोऽचिरात् ॥ ९९॥ रंगद्वाराणि रुद्धाऽथाभय एकैकशो जनान् । शोधयामास वस्त्रास्यकेशपाशादिकर्षयन् ॥ ५००॥ आभीरीत-12 नयायाश्च तस्या वस्त्रादिशोधयन् । सोऽपश्यदश्चले बद्धां तातनामाङ्कितोमिकाम् ॥१॥ ततः पप्रच्छ तां मन्त्री मुद्राऽग्राहि कथं त्वया । कौँ पिधाय साप्यूचे वेद्मि नो किंचिदप्यदः ॥ २॥ दृष्ट्वा रूपवती तां चाभयो दध्यौ पिताऽकरोत् । एतस्यामनुरक्तः सन् मुद्रिकावन्धनच्छलम् ॥३॥ ध्यात्वेत्यभय आनीय तां ताताग्रेऽब्रवीदिति । |॥३४॥ सेयं चित्रं ययाऽचोरि मुद्रिका कथयामृतम् ॥ ४॥ ततः स्मित्वा नृपोऽभाणीन्मयेयं परिणेष्यते । श्रूयते यदुपा-18 देयं स्त्रीरत्नं दुष्कुलादपि ॥५॥ ततस्तां श्रेणिकः सद्योऽकुलीनां रूपशालिनीम् । परिणीयानुरागेण निजाग्रम Page #75 -------------------------------------------------------------------------- ________________ हिषी व्यधात् ॥ ६॥ देवीभिर्दीव्यतो राज्ञोऽन्यदाक्षरित्यभूत् पणः । जिताऽवकासिनाधेयमन्यपृष्टाधिरोहणम् | ॥७॥ अन्या राज्यः कुलोत्पन्ना व्यजयन्त नृपं यदा ।न्यधुस्तदा निजं वासस्तत्पृष्टे जयसूचकम् ॥ ८॥ वेश्यासुता तु राज्ञी सा विजिग्ये भूपमन्यदा । अध्यारुरोह निःशका तत्पृष्टं राजहंसवत् ॥९॥राजा जहास तत्स्मृत्वा श्रुतं भगवतो वचः। ततः सोत्तीर्य पप्रच्छादराद् हासकारणम् ॥ १०॥ श्रेणिकोऽपि जिनाख्यातं तस्याः पूर्वभवादिकम् । खपृष्टारोहपर्यन्तं वृत्तान्तं तत्पुरोऽवदत् ॥ ११॥ तच्छ्रुत्वा भवनिर्विण्णा लात्वाऽनुज्ञां प्रियस्य सा । प्रव्रज्य वीरपादान्ते तपस्तत्वा शिवं ययौ ॥ १२॥ कश्चित् कुष्ठयन्यदागत्य प्रणिपत्य गलत्तनुः । नाथांध्योलगयन् पूतिमुपवीरमुपाविशत् ॥ १३ ॥ विभावशातनानिष्ठं कुष्ठिनं श्रेणिकस्तथा। निरीक्ष्याध्यात्ममादध्यावयं बध्यो मयोत्थितः॥१४॥ तदा च वीरनाथेन क्षुते स्माह म्रियख सः। चिरंजीव महीनाथ श्रेणिकेन क्षुतेऽवदत् ॥ १५॥ अभयेन क्षुते जीव वा म्रियखेति सोऽब्रवीत् । मा जीव मा म्रियखेति कालसौकरिकक्षुते ॥१६॥ प्रभु प्रति म्रियखेति वचः श्रुत्वा रुषा नृपः । आदिदेश भटान ग्राह्य उत्थितः पाप्म्यसाविति॥१७॥ वीरं प्रणम्य कुष्ठी स उत्थितो देशनात्यये । अरोधि सुभटैः सद्यः पारिपन्धिकवत् तदा ॥१८॥ दिव्यरूपधरः कुष्ठी स तेषां पश्यतामपि । द्वितीयभाखदाभासं कुर्वन्निव नभस्यगात् ॥ १९॥ तवृत्तान्ते भटैरुक्ते विस्मितेन महीभुजा । * कोऽसौ कुष्ठीति विज्ञप्तः खाम्यूचे घुसदित्ययम् ॥ २०॥ अपृच्छत् पृथिवीनाथस्तीर्थपं पुनरादरात् । कथं देवो बभूवैष कुष्ठी वाऽजन्यसौ कथम् ॥२१॥ अथेत्थं भगवानाख्यद् वत्स देशेषु विद्यते। कौशाम्बीति पुरी तत्र शता Page #76 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥ ३५ ॥ नीको नृपोऽजनि ॥ २२ ॥ तस्यां बभूव भूदेवः सेड्डुको बालिशावधिः । निःपुण्यग्रामणीः शश्वत् परदौर्विध्यशेवधिः ॥ २३ ॥ ब्राह्मण्याऽभाणि गर्भिण्या सोऽन्यदा सृतिकर्मणे । समानय प्रिय क्षिप्रं मह्यं गुडघृतादिकम् ॥ ॥ २४ ॥ अथ तां स जगादैवं कलासु मम कौशलम् । नास्त्येव तद्विना जातु न गृह्यन्ते धनेश्वराः || २५ || उवाच सा च तं विप्रं नरेन्द्रं संश्रय द्रुतम् । विना कल्पद्रुमं कोऽन्यं याचते प्रार्थनापटुः ॥ २६ ॥ अथैवमुररीकृत्य विप्रः प्रववृते नृपम् । संसेवितुं फलैः पुष्पैर्वरेच्छुरिव देवताम् ||२७|| चम्पेशेनान्यदा सैन्यैः कौशाम्बी रुरुधेऽमितैः । प्रावृषेण्याम्बुवाहेनादभैरत्रैर्विपद्यथा ॥ २८ ॥ शतानीकोऽप्यनीकेन सहान्तः पुरि तस्थिवान् । प्रस्तावमेव कांक्षन्ति वीरा विजयवांच्छिनः ॥ २९ ॥ खेदखिन्नोऽथ चम्पेशः स सैन्यो बहनेहसा । स्वस्थानं गन्तुमारेभे वर्षाकाले मरालवत् ||३०|| तदा चारामपुष्पाण्युच्चिन्वन् सेडुक ऐक्षत । गच्छन्तमतिविच्छायं चम्पेशं चन्द्रवत् प्रगे ॥ ३१ ॥ स एत्य सत्वरं राज्ञ इति विज्ञप्तवांस्तव । रिपुः क्षीणवलो यात्यरिराशिस्थ इव ग्रहः ||३२|| उत्तिष्ठसेऽधुना चेत् त्वं तदा जेष्यसि वैरिणम् । समयो हि विजिगीषूणां दुःसाध्यस्यापि साधकः ॥ ३३ ॥ साध्वेतदिति मन्वानो नृपः सर्ववलेन सः । निर्जगाम रिपुग्रामसंग्रामग्रामणीः क्षणात् ॥ ३४ ॥ ततः शत्रुवलं पश्चादपश्यन्नतिम्म तत् । घनमण्डलवञ्चण्डवातसंपातसंगमात् ॥ ३५ ॥ तदा चम्पाऽधिपञ्चैकाङ्गधार्येव पलायत । जीवन्नरो भवेद् भद्रशतभाजीति संस्मरन् ॥ ३६ ॥ तस्य सर्वस्वमश्वेभकोशायादाय भूपतिः । प्रीतो विवेश कौशाम्बीं मानसं राजहंसवत् ॥ ३७ ॥ नृपः प्रीतोऽथ तं विप्रं बभाषे किं ददामि ते । भणिष्यामि प्रियां पृष्ट्वेत्यूचे सोऽपि प्रिया कुलकवृत्तिः ॥ ३५ ॥ Page #77 -------------------------------------------------------------------------- ________________ ॐCREACANCHARANG मुखः ॥ ३८॥ ततः स्वगृहमागत्य राजादिष्टं प्रियापुरः। तदूचे सोऽथ सा चित्ते शुद्धबुद्धया व्यचिन्तयत ॥३९॥ |ग्राहयिष्येऽमुना भूपाद् यदि ग्रामपुरादिकम् । दारानन्यान् विधायासौ तदा मां मोक्ष्यति द्रुतम् ॥४०॥ इत्या*लोच्य तमूचे सा याचवाग्रासनेऽशनम् । दक्षिणायां च दीनारमालोचं चैकदाऽन्वहम् ॥४१॥ स तथैवार्थ यामास नृपं दानसुरद्रुमम् । पकमाम्रवणं मुक्त्वा किं नोष्ट्रोऽत्ति शमीतरुम् ॥४२॥ प्रसन्नमानसो राजा ददौ तस्मै तदर्थितम् । क्रमक्रमेण सोऽप्यासीद् धनाढ्यः पुत्रपौत्रयुक् ॥ ४३ ॥राजमानाजनैः सर्वैय॑मयत स वाडवः। राजमान्यस्य सत्कारं को न वा विदधात्यलम् ॥४४॥ ततोऽसौ दक्षणालोभाद् वमित्वा भुक्तभोजनम् । बहुशो बुभुजे लोभ्यथ वा किं न करोति हि ॥ ४५ ॥ सदा परिणताहारच्छर्दनोद्भवदामयैः। नष्टच्छायोऽभवद् विप्रोमयवत् पामयामितः॥४६॥ अमेध्यपुञ्जवद् गुञ्जन्मक्षिकाकुलसंकुलः। गलदंत्रिकरघाणः क्रमात कुष्ठी बभूव सः॥४७॥ अतृप्तोऽग्निरिवाभुंक्त भूभुजोऽग्रे तथैव सः। अन्यदैवं महीनाथो विज्ञप्तः सचिवेश्वरैः ॥४८॥ देवायं वाडव: कुष्ठी संचारी चायमामयः। तेन युष्माकमग्रेऽस्य नाशितुं योग्यता प्रभो ॥४९॥ अन्येऽपि रूपवन्तोऽस्य नीरुजः सन्ति नन्दनाः। प्रतिज्ञापूत्तये खस्य तेभ्यः कमपि भोजयः॥५०॥ एवं कुरुध्यमित्युक्ते राज्ञा तैर्भणितो द्विजः। स्थापपित्वा खके स्थाने सुतमस्थात् वयं गृहे ॥५१॥ गृहादपि बहिः पुत्रैः स्थापितोऽसौ कुटीरके । बहिःस्थितस्य तस्याज्ञां पुत्रा अपि न चक्रिरे ॥५२॥ दारुपात्रे ददुस्तस्मै भोजनं यच्च किंचन । घ्राणंपिधाय तद्वध्वो जुगुप्सां विदधुः सदा ॥५३॥ मबदेतेऽपि गाःस्युर्यथा धारयाम्यहं तथा। इति संचिन्त्य Page #78 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- ॥३६॥ सो सोऽवोचदन्यदा निजनन्दनान् ॥५४॥ खिन्नोऽस्मि जीवितात् पुत्राः कुलधर्मोऽस्त्ययं पुनः । देयो मन्त्रोक्षितइछागः कुटुम्बाय मुमूर्षुभिः॥५५॥ द्रुतमानीयतां छाग इति श्रुत्वातिहर्षिताः। तत्सुताः पशुमानिन्युः पशवः शृंगवर्जिताः ॥५६॥ स खाङ्गोद्वर्त्तिताहारवर्तिकाभिः सदा पशुम् । तथा ऽचारीद् यथा सोऽपि पशुः कुष्ठयभवत्तराम् ॥ ५७॥ हत्वा ददौ स तेभ्यस्तमजानन्तस्तदाशयम् । तेऽपि वुभुजिरे मूर्खाः कुष्ठदुष्टाश्च जज्ञिरे ॥५८॥ खसाधनकृते तीर्थ यास्यामीत्यभिधाय तान् । ऊर्ध्वास्योऽगाद् द्विजोऽरण्यं मत्सराकुलितोक्षवत् ॥ ५९॥ सोऽथ तृष्णातुरो वारिवीक्षणार्थमितस्ततः । भ्रमन्नानाद्रुमावेशे देशे हृदमुदैक्षत ॥ ६०॥ तत्र तीरे तरुस्तत्र पत्रपुष्पफलाकुलम् । ग्रीष्मतिग्मांशुरुक्तप्तं काथवद् वार्यपाद् द्विजः ॥११॥ यथा यथा पपौ विप्रस्तत्पयः स मुहुर्मुहुः। विरेचः कृमिभिः साई तुन्दाजज्ञे तथा तथा ॥ ६२॥ दिनैः कतिपयैः सोऽथ नीरोगस्तदुहृदाम्बुना। पुनर्जज्ञे मनोज्ञाङ्गः पुष्पकालतुंना द्रुवत् ॥ ६३॥ पश्चादुल्लाघताहृष्टो गृहं प्रत्याययौ द्विजः। पुर्यां विशन् स्फुरत्कान्ति: परिरेक्षि च विस्मितः ॥३४॥ विप्रः पृष्टश्च पूर्लोकः कथं रे त्वं पुनर्नवः । दृश्यसे मुक्तनिर्मोको भुजंग इव भासुरः। ॥६५॥ ततोऽसौ दम्भसंरम्भकोषिदमन्यमानसः। देवताराधनादासमुल्लाघोऽस्मीत्यभाषत ॥ ६६॥ गृहागतोऽथ स प्रीतः पुत्रानैक्षिष्ट कुष्ठिनः। तानूचे च मयावज्ञाफलं चैवेदमापि वः॥६७॥ तेऽप्यूचुस्तात विश्वस्त-18 चित्तेष्वस्मासु किं त्वया । ईदृशं प्रत्यपाकारि शत्रुणेवातिदारुणम् ॥ ६८॥ ततोऽसौ लोकदुवाक्यप्रस्थराऽऽपतनासहः । निःसृत्य स्खपुरा भूयो ययौ राजगृहे पुरे ॥ ६९॥ तत्रत्यनगरद्वारद्वारपालकसन्निधौ। विप्रः सोऽस्था Page #79 -------------------------------------------------------------------------- ________________ दिलव ७ दुपस्थानः सौबा जीवनहेतवे ॥ ७० ॥ अन्यदा यामागच्छ्रं ततो दौवारिकः पुरात् । श्रोतुं मद्देशानामगात् तं धृत्वा निजकर्मणि ॥ ७१ ॥ द्वारदुर्गापहारं स क्षामकुक्षिर्बुभुक्षया । आजन्माभुक्तपूर्वीव कणेहत्याहरद् द्विजः ॥ ७२ ॥ अथग्रीष्मसंतापादत्याहाराच जातया । तृषाग्रस्तः पिशान्येव भूदेवोऽभूत्तदार्दितः ॥ ७३ ॥ द्वाःस्थभीतस्ततः स्थानात् प्रपादिषु ययौ न सः । शुकतालुपुट: लध्यानस्त जलचारिणः ॥ ७४ ॥ जलं कुत्रेति | पूत्कुर्वन् मृत्वाऽसावुदपद्यत । त्वत्पुरद्वार सोपानवापीवारिणि दर्दुरः ।। ७५ ।। भूयोऽपि वयमायाम विहरन्तोऽन ते पुरे । निःससार सशृंगारः पूर्जनो बन्दितुं च नः ॥ ७३ ॥ पूर्वारिहारिणीवकाच्छुत्वास्मन्नाम दर्दुरः । हृदीदं चिन्तयामास काप्यग्रेऽश्राव्यदो मया ॥ ७७ ॥ अहापोहयुक्तस्य क्षणं पुष्करिणीजले । क्लिष्टस्मृतिरिवोत्पदे तस्य जातिस्मृतिस्ततः ॥ ७८ ॥ ततो दध्यौ हृदीदं सोनागा आगात्स तीर्थवः । द्वारे विमुच्य मां द्वाःस्थो यं प्रणन्तुं स्वयं ययौ ॥ ७९ ॥ द्रटुमेनममी येन यान्ति लोकास्तथाऽस्यपि । गमिष्यामीति संचिन्त्य निर्जगाम खधामतः ॥ ८० ॥ प्रकुर्षत्लुतिं भूयो भूयो राजपथ सः । राजंस्तेऽश्राघातात् कीदाशभवनेऽगमत् ॥ ८१ ॥ ततोऽद्भक्तिभावात् स दर्दुरांकोऽभवत् सुरः । भावतः प्रागभाजां हि दुःप्रापं किं भवेदिह ॥ ८२ ॥ अथानुश्रेणिकं श्राद्धाः शुद्धसम्यक्त्वशालिनः । सौधर्मेंद्रः सुधयां प्रशंसां करोदिमाम् ॥ ८३ ॥ तद्वचोऽश्रद्धया भूप त्वद्दृष्टेश्वानाकृते । दर्द इहायासीद् बुवासी कौतुकालः ॥८४॥ गोशीर्षचन्दनेनाच ममानेन विनि|र्ममे । तचैव दृगविमोहाय पूतिलेपमदर्शयत् ॥ ८५ ॥ इतीर्थपतेर्वाभिः सुधाभिरिव भूपतिः । क्षालितात्मा Page #80 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥ ३७ ॥ प्रसन्नः सन् पुनः पप्रच्छ तीर्थपम् ॥ ८६ ॥ युष्मदादिक्षुतेऽनेन म्रियखेत्याद्यवाचि किम् । महः खर्भूर्भुवः खामी ततः खामीत्यभाषत ॥ ८७ ॥ भवो मे स्वार्थशून्योऽयं मृतौ शिवमनश्वरम् । इत्यसौ मां समुद्दिश्य म्रियखेति तदाभ्यधात् ॥ ८८ ॥ जीवतः प्राज्यराज्यं ते मृतो घर्मा गमिष्यसि । इति राजेन्द्र जीवेति त्वां प्रति प्रवभाण सः ॥ ८९ ॥ वितनोति गुणान् जीवन मृतः सर्वार्थमेष्यति । इत्यमात्यमनूचे स जीव वा त्वं म्रियख वा ॥ ९० ॥ | जीवन् जीवव्रजं हन्ता गन्ता माद्यवतीं मृतः । कालसौकरिकं सोऽतोऽभ्यधान्मा जीव मा मृथाः ॥९१॥ तदाकर्ण्य विषण्णोऽथ नृपो वीरं व्यजिज्ञपत् । नाथ नाथे त्वयि स्यान्मे प्रपातो नरके कथम् ॥ ९२ ॥ जगत्खाम्याचचक्षेऽथाधो बद्धायुर्भवानतः । तत्र गन्ता ध्रुवं वहाँ मन्त्राहात इवोरगः ॥ ९३ ॥ शुभं वाऽप्यशुभं वा प्रागबद्धं यत्कर्म कर्मठम् । अवश्यं तत्तथा वेद्यं नान्यथा भवितव्यता ॥ ९४ ॥ भविताऽऽद्यो जिनो भाव्यर्हचतुर्विंशतौ भवान् । | पद्मनाभाभिधोऽस्मद्वन्मा विषीदेति भूपते ॥९५॥ पुनर्वीरं नृपोऽपृच्छत् प्रकारः कोऽपि सोऽस्ति मे । रक्ष्योऽस्मि दुर्गतेर्येन मुग्धपान्थ इवोत्पधात् ॥ ९६ ॥ खाम्यथावोचदुर्बीश कपिला ब्राह्मणी यदि । दाप्यते भवता दानं मुनिभ्यो भावपूर्वकम् ॥९७॥ चेन्निर्वत्तयसे सूनां कालस्करिकात् तथा । तदा ते नरकापातो न स्यान्न पुनरन्यथा ॥ ९८ ॥ नरेन्द्रोऽथ जिनेन्द्रेण प्रणीतां देशनामिमाम् । हृद्यादधन्मुदा हृद्यामचालीत् खालयं प्रति ॥ ९९ ॥ अत्रान्तरे परीक्षार्थी दर्दुरांको महीपतेः । सरस्यदर्शयत् साधुं कुर्वाणं धीवरक्रियाम् ॥ ६०० ॥ तं दृष्ट्वाऽथ महीनाथो भीतः शासन हीलनात् । एकाक्येव मुनिं साम्ना तदकृत्यान्यवर्त्तयत् ॥ १ ॥ अग्रे गच्छन्नृपः साध्वीं गर्भिणीमापणा कुलकवृत्तिः ॥ ३७ ॥ Page #81 -------------------------------------------------------------------------- ________________ De ध्वनि । तद्देवमाययाऽपश्यद् याचमानं घृतादिकम् ॥ २॥ तीर्थापभ्राजनाभीरुगोपस्तद्गोपनोद्यतः । खवेइमैकान्तदेशे तां नीत्वा स्वयमुपाचरन् ॥ ३॥ साधुसाध्वीकुचेष्टाभिदृष्टाभिरपि मानसम् । विज्ञायाविकृतं तस्य प्रत्यक्षः सोऽभ्यधाददः ॥ ४॥ देवैरपि नृदेव त्वं सम्यक्त्वान् न चाल्यसे । अपि कल्पान्तवातूलैः वर्णशैलश्चलेत् किमु ॥५॥ सुरेन्द्रेण सभायां त्वं राजकुञ्जर यादृशः । अस्तावि तादृगेवैक्षि नान्यथा तादृशां वचः ॥६॥ स प्रसन्नो नृपालायादादष्टादशवक्रितम् । दिव्यहारं खकण्ठस्थं गोलयोयुगलं तथा ॥७॥ त्रुटितं यस्त्वमुं हारं |संधाता स विनंक्ष्यति । इत्युदित्वा नृपस्याग्रे दुर्दरांकस्तिरोऽभवत् ॥ ८॥ श्रेणिकश्चेल्लणादेव्यै दिव्यहारं तम-16 प्पयत् । महानन्दात् तथा नन्दाराध्यै गोलकयामलम् ॥ ९॥ गोलाभ्यां बालिकेवास्मि रमिष्ये किमिति क्रुधा। स्तम्भेनाहत्य साऽभांक्षीद गोलकद्वितयं तदा ॥१०॥ कान्तं कान्तिमदेकस्माद् देवदृष्यं निरत् ततः।कुण्डलद्वन्द्वमन्यस्माद् भासुरं पुष्पदन्तवत् ॥ ११॥ देवी नन्दाऽथ सानन्दा तवयं समुपाददे । भवेद् भाग्यवतां नूनमसंभाव्यमपि क्षणात् ॥१२॥ कपिलां च नृपोऽलापीच्छ्रद्धया प्रतिलाभय । साधूनन्नादिना यत् त्वां करोमि कम-18 लावतीम् ॥ १३ ॥ प्रत्यलापीन्नृपालं सा धत्से मां यदि रैमयीम् । बध्नासि वा तथापीदं कुकर्माहं करोमि न ॥१४॥ कपिलायाः वरूपं तद्विज्ञायोभुजा ततः। कालसौकरिकः प्रोचे सामदानपुरःसरम् ॥१५॥ सूनां यदभार्थमाधत्से निकर्कशमहोनिशम् । तमर्थमस्मि दास्यामि सूनां-मुश्च वराक रे ॥१६॥ सौनिकोऽप्यवदद् भूप को हि दोषोऽस्ति सूनया । यत्रैकजीवघातेन जीवा जीवन्ति भूरयः ॥१७॥ ततस्तं मगधाधीशो निधायान्धावटे ******** * ***** Page #82 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- ॥३८॥ हठात् । वीरं विज्ञापयामास संजुर्विरचिताञ्जलिः॥१८॥ कालसौकरिकात् सूनां रक्षयामासिवानहम् । वीरो कुलकवृत्तिः विश्वत्रयीदीपो महीपं प्रत्यपादयत् ॥ १९॥ मृत्तिकामहिषान् पश्चशत संख्यान् हिनस्त्ययम् । इति श्रुत्वा नृपो दध्यौ धिर मे कर्मविनिर्मिमतम् ॥ २०॥ तदा सकुण्डलद्वन्द्वं क्षौमयुग्मं प्रमद्वरा । नन्दा खमन्दिरे देवी साक्षाद् देवीय पर्यधात् ॥ २१ ॥ ततश्च चेल्लणादेवी दिव्यवेषविभूषिताम् । नन्दां वीक्ष्याचचक्षे तल्लोभादित्यवनीपतिम् ॥ २२ ।। दिव्यं सकुण्डलं वासो मह्यं दापय नन्दया । संपूर्णों दिव्यशृंगारः सहारो येन मे भवेत् ॥ २३ ॥ तामुवाच नृपस्तुभ्यमस्यैवास्मि विभागतः । ददौ हारादितत्कं तद्वस्त्राद्यं दापये कथम्) |॥ २४ ॥ रुष्टाऽथ चेल्लणा राज्ञे प्रासादे मृत्यवेऽचटत् । गवाक्षविवरेणाधः पतितुं च निरक्षत ॥ २५॥ ततः साऽधस्तलेऽपश्यद्वेश्यया महसेनया । अठारोही प्रजल्पन्तौ स्लेहनिर्भरया गिरा ॥२६॥ तान् दृष्ट्वा चिन्तयामासाहुरेते यच्छृणोमि तत् । खवश्यं च करिष्यामि मृत्यु पश्चादपीति सा ॥ २७ ॥ तेषां वाक्यानि शुश्राव सावधा-12 नाऽथ चेल्लणा । महसेनाथ वेश्याऽऽदावारोहं प्रत्यपादयत् ॥ २८ ॥ मह्यं देह्यङ्गभूपायै नाथ चम्पकमालिकाम् । येन तद्भूषिता भानि सर्ववेश्यासु पर्वसु ॥ २९॥ चेन्न दास्यसि मद्यं तां मरिष्यामि तदाथवा । त्यक्ष्यामि स्वामिति प्रोक्त आरोहः प्रत्युवाच ताम् ॥३०॥ प्रिये यद् रोचते तुभ्यं तत् कुरुष्व मनोमतम् । तुभ्यं चम्प-||॥३८॥ कमालां तां नास्मि दास्यामि राभिया ॥३१॥ मेंठेनावाच्यथारोहः साम्ना यो नात्र गृह्यते। दण्डेनैव स निग्राह्यः पलाशो वटुना यथा ॥ ३२॥ पप्रच्छारोह आरोहन्मुत्प्ररोहोऽथ मेंठकम् । वटुकोऽयं पलाशदुर्येन न्यग्राहि Page #83 -------------------------------------------------------------------------- ________________ निष्ठुरम् ॥ ३३ ॥ इति पृष्टोऽवदन्मेंठ: सकाकषर्णयादरात् । अजन्युदीच्यदेशेषु द्विजो जाड्यनिकेतनम् ॥ ३४ ॥ तेन देशान्तरेऽन्येधुर्गच्छतैक्षि प्रपुष्पितः। पलाशोहर्षितेनाथ तहीजं जगृहे गृहे ॥ ३५॥ उप्तं सिक्तं च तहीजं पलाशोऽभूद गुरुः क्रमात् । सोऽवर्धिष्ट न चापुष्पत् सिच्यमानोऽपि सर्वदा॥३६॥ अन्यदा तेन रोषणादाहि मूलेऽस्य पावकः । तेन रूक्षोऽभवत् सद्यः पलाशद्रुः पुपुष्प सः॥३७॥ एवमाख्यानकं श्रुत्वा मंठाद् हस्ति|पको हृदि । ध्यावेषापि दण्डस्य योग्या नूनं विपत्रवत् ॥ ३८॥ अथारोहं पुनर्मेठोऽभ्यधात् तद्धितया धिया । नरः स एव यः स्वस्य हितकारीह सर्वथा ॥ ३९ ॥ पशुरप्यात्महितं यो विधत्तेऽन्यहितं च सः। यथाऽकार्षीत् पुरा छागो ब्रह्मदत्तस्य चक्रिणः॥४०॥ अथारोहस्तमप्राक्षीत् कथं छागः खपथ्यकृत् ।। बभूव ब्रह्मदत्तस्य हितकारीति कौतुकात् ॥ ४१ ॥ अथ हस्तिपकं मेंठः सौवसौहार्दतोऽभ्यधात् । न कदाप्यापदापील्यं काम्पील्यं स्मास्ति पत्तनम् ॥ ४२ ॥ ब्रह्मदत्तोऽभवत् तत्र द्वादशश्चक्रपाणिकः । अन्यायिनो भुवोsधस्तादू वास्तव्यानपि योऽन्वशात् ॥ ४३ ॥ अन्यदा तत्र जात्याश्वा वैपरीत्येन शिक्षिताः विक्रयार्थ समाजग्मु|श्चक्र्यगात् तानिरीक्षितुम् ॥४४॥ अथैकं कौतुकाचयारुरोहाश्वमतल्लिकाम् । तेनातिवाहितः सोऽथ महाटव्यां निचिक्षिपे ॥४५॥ चक्रपाणिरथ श्रान्तो यावदश्वं मुमोच तम । स्वहस्तात तावदश्वोऽपि पादैस्तैरेव तस्थिवान् | || ४६ ॥ अवरुह्य ततश्चक्री तृषाक्रान्तः परिभ्रमन् । हारिवारिभृतं तत्रापश्यदेकं महासरः ॥४७॥ धौताङ्गः |पीतनीरोऽथ सुस्थितस्तत्र चक्रभृत् । उपाधिक्ष घरच्छायामनुश्रान्त्यपनुत्तये ॥४८॥ अथ चक्रधरोऽद्राक्षीन्नागी Page #84 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥ ३९ ॥ मम्बुविनिर्गताम् । एकं गोणसनागं च वटकोटरनिःसृतम् ॥४८॥ पन्नगेन समं नागीं क्रीडन्तीं वीक्ष्य विस्मितः । | चक्री व्यचिन्तयच्चित्ते एषा दुश्चारिणी स्फुटम् ॥ ४९ ॥ क्रुद्धोऽथ चक्रपाणिस्तन्मिथुनं मैथुने रतम् । निजघान | स्वहस्ताभ्वकशया सहसा बलात् ॥ ५० ततो यावद् ययौ नंष्ट्वा तद् युग्मं निजवेश्मनि । तावच्चत्र्यन्तेऽनीकं पृष्ठलग्नं समागमत् ॥ ५१ ॥ अथ चक्रवृतश्चक्रधरः खपुरमागमत् । दिवामध्ये सभं स्थित्वा निश्यगात् त्वरतौकसि ॥५२॥ | तत्र चक्रधरः पृष्टः पहराज्ञ्या रहःस्थया । देव्याऽटव्यां त्वया किंचिद् ददृशेऽश्रावि वाद्भुतम् ॥ ५३ ॥ चक्र| पाणिरथारण्यनागनागीसमुद्भवम् । दुश्चरित्रादि शिक्षां तां देव्यै वृत्तमचीकथत् ॥ ५४ ॥ ततश्च कायचिन्तार्थं चक्री यावन् निरेंद् बहिः । ददर्श त्रिदशं तावच्चलत्कुण्डलमण्डितम् ॥ ५५ ॥ अथ चक्रधरं जातविस्मयं सोऽमरोऽभ्यधात् । तुभ्यं तुष्टोऽस्मि पुण्येन चक्रपाणे वरं वृणु ॥ ५६ ॥ अथापृच्छत् सुरं चक्री तुष्टस्त्वं केन हेतुना । ततो | देवोऽब्रवीदेवं प्रसन्नास्यसरोरुहः || ५७ || कुशीलनिरता नागी याऽन्वशासि त्वया तदा । अरण्यसरसस्तीरे | सा भुजंगी मदङ्गना ॥ ५८ ॥ तव पार्श्वात् तयागत्य रुदत्या मायया भृशम् । मदग्रेऽथ भुजंग्यैवं जगदे गद्ग | दखरम् ॥ ५९ ॥ क्रीडासरोवरे क्रीडां कुर्वाणाऽस्मि यदृच्छया । ददृशे ब्रह्मदत्तेन ययाचे च रतेच्छुना ॥ ६० ॥ | अनिच्छन्त्यस्मि तेनैवं प्रभविष्णौ प्रिये त्वयि । विद्यमानेऽप्यनाथेव कशाभिः परिताडिता ॥ ६१ ॥ ततः क्रोधादहं यावत् त्वद्बधार्थमिहागमम् । तावच्छ्रुश्राव तद्वृत्तं देव्यग्रे भवतोदितम् ॥ ६२ ॥ अतो हेतोः प्रसन्नोऽहं | तुभ्यं चक्रधराधुना । इत्युक्ते तेन देवेन ततश्चयब्रवीददः ॥ ६३ ॥ यथाहं सर्वजीवानां भाषां वेद्मि तथा कुलकवृत्तिः ॥ ३९ ॥ Page #85 -------------------------------------------------------------------------- ________________ कुरु । ततो देवोऽभ्यधादेवं नृदेवं चक्रिणं प्रति ॥ ६४ ॥ विज्ञास्यति भवान् भाषाः सार्वजीवीर संशयम् । अन्याग्रे तज्ज्ञातां वक्ता चेत्तदा ते मृतिर्ध्रुवम् ॥६५॥ एवमङ्गीकृते चक्रभृता देवश्चकार सः । खापनिध्यापितस्येव खरूपस्याप्रदृश्यताम् ॥ ६६ ॥ वज्रीव सौवसाम्राज्यं भुंजंश्चक्रधरोऽन्यदा । ग्रीष्मन्तौ वासवेश्मान्तरंगरागं प्रचक्रमे ॥६७॥ पत्युरग्रे तदा चैवं काप्यूचे गृहकोलिका । अतोऽङ्गरागतः किंचिन्मयं देयुष्मशान्तये ॥ ६८ ॥ प्रियोऽवग् राइभिया तुभ्यं न दास्येऽहं विलेपनम् । सोचे न चेदिदं मह्यं दाता मम तदा मृतिः ॥६९॥ चक्री जहास तच्छ्रुत्वाऽष्टच्छद् राज्ञी च कारणम् । हसितस्य यतो जातु सतां नाकस्मिकं स्मितम् ॥ ७० ॥ चत्र्याख्यद्धासहेतुं न वक्ष्येऽहं । ते पुरः प्रिये । तदुक्तौ मे भवेन्मृत्युः शिरः फोटाद् यतो ध्रुवम् ॥ ७१ ॥ तवाग्रहाच्च चेद् वक्ष्ये चितारुढो नचान्यथा । साऽवगेवमपि ब्रूहि चत्रवथाकारयच्चिताम् ।। ७२ ।। चन्दनागुरुकाष्ठौधरचितां प्रति तां चिताम् । सदेवीकोऽचलच्चक्री स्त्रीवशः किं न किंकरः ॥ ७३ ॥ यवक्षेत्रसमानीतान् कचिद् वीक्ष्य यवान् नवान् । अत्रान्तरेऽवदत् काचिच्छागी छागं प्रियं प्रति ॥ ७४ ॥ अस्माद् राशेर्यवग्रासौ मह्यमानीयतामिति । छागोऽवक् चक्रिसद्वाजवाजियोग्या यवा थमी ॥ ७५ ॥ वीक्ष्यसे त्वं यवानेवं रक्षकान् नैव घस्मरे । दुग्धं पश्यति मार्जारी लगुडं नैव |पृष्टगम् ॥ ७६ ॥ अतस्तदूरक्षकातङ्कान्न गृहीष्याम्यहं यवान् । जिघत्सालोलुपे छागे रण्डे तुण्डं वशीकुरु ॥ ७७ ॥ छाग्यूचे मद्वचश्चेन्नासि कर्त्ता मे तदा मृतिः । सोऽप्युवाच म्रियखेति त्वां विनापि सृतं मम ॥ ७८ ॥ छागी प्रोवाच पश्यैष षट्खण्डभरताधिपः । स्त्रीवाक्यात् स्नेहतो मर्त्तुं श्मशानं व्रजति द्रुतम् ॥ ७९ ॥ स्नेहहीनोऽसि Page #86 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- निःसत्त्वो वल्लभात्मीयजीवितः । करोषि नैव मद्वाक्यं धिर धिक ते पुरुषाकृतिम् ॥ ८१ ॥ पुनः प्रावादि छागेन जात्या छागोऽहमाहितः। चेष्टयैष नृपच्छागः स्त्रीकार्याम्रियतेऽत्र यः॥८२॥ तत्पाश्र्वे संचरंश्चक्री श्रुत्वा सर्व ॥४०॥ तयोर्वचः । छागकण्ठे निचिक्षेप वकण्ठात् वर्णमालिकाम् ॥ ८३॥ व्यावृत्य व्याहरचक्री राज्ञी रे निजजीवितात् । यदि श्रान्ता तदाऽस्यस्यां चितायां प्रविश द्रुतम् ॥ ८४ ॥ भुञ्जतः प्राज्यसाम्राज्यं ममोद्दामबलोकसः । | कियत्यो वरवर्णिणन्यो भविष्यन्ति भवादृशः ॥८५॥ इत्युक्त्वा चक्रिणा सापि भग्नमाना न्यवत्तेत । मृत्योश्चक्री सदेवीकोऽगात् यथाऽथ तथागमत् ॥८६॥ इत्थं श्रुत्वा कथां मेंठादारोहश्चक्रिवत् प्रियाम् । वेश्यां चामानयत् साऽपि चक्रिस्त्रीवान्वगात् प्रियम् ॥ ८७॥ ऊर्ध्वस्थचेल्लणादेव्याऽप्येवं श्रुत्वा कथायुगम् । संबुद्धा सौवहारण तृप्ता नृपमतोषयत् ।। ८८॥ कालेन चेल्लणाहत्तो हारो हर्ष इवात्रुटत् । बहुवक्रं च तं प्रोतुं यः कश्चन शशाक न W॥ ८९ ॥ सन्धातुं यः समर्थस्तं सोऽपि तं सन्धाति न । नृपाग्रे पूर्वभणिताद् भीतस्त्रिदशवाक्यतः ॥ ९० ।। अन्यस्मिन् वासरे राज्ञा पटहो दापितः पुरे । यः सन्धास्यत्यमुं हारं नृपाल्लक्षं स लप्स्यते ॥ ९१ ॥ वषष्टिानवकातिजेजे तिष्ठति द्वितीयं मम । तन्मुक्त्वा जीवितव्याशां लक्षं गृहामि भूपतेः ॥९२ ।। इति ध्यात्वा द्रुत गत्वा स्थांवरो राजवत्मेनि । अपृच्छत पटहं लोभी किन्न कान्नरोऽथवा ॥ १३॥ नृपमत्यस्ततो नीतो मणिकारा नृपा|न्तिके। ऊचे प्रभो देहि लक्षं हारः संधास्यते मया ॥९॥ अवादीत स्थविरं राजा लक्षार्दू वं गृहाण भा। हार लापोते च लक्षाद्धे तुभ्यं दास्येऽसि निश्चितम् ॥९५॥ नृपाल्लात्वा स लक्षार्द्ध हारसन्धानमादधौ । बुद्धिप्रयोगतः ॥४०॥ Page #87 -------------------------------------------------------------------------- ________________ &ापश्चात् तत्क्षणान्मृत्युमाप सः॥९६॥ तस्मिन् मृतेऽथ तत्पुत्रा नृपाच्छेषं ययाचिरे । राज्ञोचे यस्य दातव्यं । स मृतो व्रजतालयम् ॥ ९७ ॥ मृत्वा श्रेष्ठी मणिकारस्तत्रैवाजनि वानरः । भ्रमन्निजगृहं दृष्ट्वा जातिस्मृतिमुपाययौ ॥ ९८॥ मूर्छानिमीलिताक्षः स पतितो भुवि तत्सुतैः । कृतोपचारः स्वास्थः सन्नक्षराण्यलिखद् यथा ॥ १९॥ सोऽहं युघ्नत्पिता मृत्वाऽभवमत्रैव वानरः । ब्रूथ पुत्रा नृपाल्लब्धं शेषं खं नेति तेऽभ्यधुः ॥ ७० ॥ तच्छ्रुत्वा वानरः क्रुद्धो देव्या हारं ललौ छलात् । ददौ च सौवपुत्रेभ्यस्ततोऽभूचेल्लणाकुला ॥ १ ॥ देवीप्रोचे नृपं हारं गतं नाथ निभालय । सोऽन्वेषितश्च सर्वत्र न लेभे कापि पुरुषैः ॥२॥ ततो राजाऽभयं स्माह चेल्लणाहारमर्पय । प्रेक्ष्य सप्तदिनीमध्ये चौरदण्डोऽन्यथा तव ॥ ३॥ एवमुक्तोऽभयो नित्यं चतुष्कत्रिकचत्वरे । हारं गवेषयामास न लेभे कापि तं पुनः ॥ ४॥ सप्तमाहि निशीथिन्यां ततः श्रेणिकनन्दनः! गत्वा पौषधशालान्तःप्रपेदे पौषधव्रतम् ॥५॥ तस्यां सुस्थितसूरिः शिवसुव्रतधनयोनकर्षियुतः । जिनकल्पग्रहणार्थ वसती वसति स्म वशिराजः ॥ ६॥ संसारोद्विग्नचित्तः स तुलनापञ्चकोद्यतःकायोत्सर्ग व्यधाद् वीरो रात्री वसति सन्निधौ ॥ ७॥ मणिकारसुतीतैस्तस्यां रात्रौ ददेऽथ सः । हारश्छन्नं वानरायान्धकारोद्योतकारकः ॥८॥ उपाश्रयबहिः स्थानोः कण्ठे सुस्थितसद्गुरोः। वानरेण दिशां वीक्ष्य हारो न्यक्षेपि तत्क्षणात् ॥९॥ यामिन्याः प्रथमे यामेऽतीते शिवमुनिर्गुरुम् । उपासितुं समायातो हारकण्ठं तमैक्षत ॥१०॥ स्थित्वा विभ्यत् क्षणं तत्र वसत्यन्तर्विशन्मुनिः । क्षुब्धो नैषेधिकीस्थाने भयमित्यब्रवीन्मुहुः ॥११॥ साधुः पृष्टोऽभयेनैवं भवतां Page #88 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥ ४१ ॥ | स्यात् कुतो भयम् । पूर्वानुभूतमेतर्हि स्मृतमित्थं जगाद सः ॥ ११ ॥ कथमित्यभयेनोक्तं शिवसाधुरवोचत । धनधान्यजनाकीर्णा जज्ञेऽवंती महापुरी ॥ १२ ॥ तत्र निःखौ वणिकपुत्रावभूतां प्रीतिमत्तमौ । शिवदत्तशिवाभिख्यौ भ्रातरौ शीलशालिनौ ॥ १३ ॥ जग्मतुस्तौ खार्जनायान्यदा सौराष्ट्रमण्डले । कालेनार्जि घनं वित्तं ताभ्यां क्लेशेन तत्र च ॥ १४ ॥ निक्षिप्य नकुले वित्तं कव्यां बध्वा च तं पथि । वारकेण वहन्तौ तौ चेलतुः स्वं पुरं प्रति ।। १५ ।। उभयोर्यस्य पार्श्वे तद्वित्तं स ध्यातवानदः । मारयामि द्वितीयं चेत् तदेदं स्यान्ममाखिलम् | ॥ १६ ॥ कुर्वन्तौ तावसद्भावमवन्तीनगरी बहिः । शिप्रातीरे समायातौ तदासीत् तच्छिवान्तिके ॥ १७ ॥ ततो दध्यौ शिवश्चित्ते धिगिदं द्रविणं प्रति । यत्कृते दुष्टभावोऽभूदीहर मे सोदरं प्रति ॥ १८ ॥ छोटयित्वा ततः कट्या नकुलं दोषसंकुलम् । निचिक्षेप महाशोणे मत्स्यकच्छपपूरिते ॥ १९ ॥ तद् दृष्ट्वा शिवदत्तोऽवक शिव भो नकुलस्त्वया । क्लेशार्जितधनाकीर्णः शोणेऽस्मिन् किं निचिक्षिपे ॥ २० ॥ शिवोऽवादीत् ततो भ्रातर्नकुलं विभ्रतो मम । त्वयि प्राणाधिके बन्धौ मानसं पापकार्यभूत् ॥ २१ ॥ शिवदत्तोऽभ्यधात् सौम्य साधु चक्रे त्वया ह्यदः । निक्षेप्सीर्नकुलं यच वारिपूर्णे महाहृदे ॥ २२ ॥ त्वद्वद्धि मेऽपि चेतोऽभूद् दुष्टं नकुलधारिणः । अत एव धनं प्राहुर्मलिनं मुनिपुंगवाः ॥ २३ ॥ नकुलोऽगालि मत्स्येन पतन् वारिणि दैवतः । विक्रीयमाणं मत्स्यं तमाददे च शिवखसा ॥ २४ ॥ ततो महानसे गत्वा प्राघूर्णाय तयोः स्वसा । तं मत्स्यमच्छिदत् तस्मान्नकुलः | सहसापतत् ॥ २५ ॥ संगोपितस्तया खाङ्के नकुलः षाखरेण तम् । विदित्वा भ्रातृजायाऽवक ननान्दः प्रापि किं त्वया । कुलकवृदिः ॥ ४१ ॥ Page #89 -------------------------------------------------------------------------- ________________ ॥२६॥ न किंचिदिति तत्प्रोक्ते सोचे कोडं प्रदर्शय साच नादर्शयत्। स्वातंततोऽभूत् कलहस्तयोः॥२७॥ अथाकर्ण्य कलिं श्वश्रूः पुत्रीपक्षं प्रकुर्वती । मुशलेन हता वध्वा मूर्ध्नि पश्चत्वमासदत् ॥२८॥ पुत्र्याऽपि कोपतो भातृजाया | खड्नेन मर्मणि । तथाऽघानि यथा सापि दीर्घनिद्रां समासजत् ॥२९॥ उत्तिष्ठन्त्यास्ततस्तस्या नकुलो भूतलेऽपतत् । तं वीक्ष्याथ शिवो दध्यौ चेतसीति विषादतः ॥ ३० ।। स एव नकुलोऽयं यो मयाऽक्षेपि हृदे पुरा । अहहानर्थदं वित्तं दृष्टमात्रसपि क्षणम् ॥ ३१॥ धन्यास्ते कृतपुण्यास्ते वर्णनीयास्त एवहि । अनर्थमूलमर्थं यमुक्त्वाऽग्राहि व्रतं पुरा॥३२॥ ततोऽम्बादारसंस्कारं कृत्वा भ्रात्रा समं शिवः। संसारसरणे भीरुः प्रावाजी गुरुसनिधौ ॥३३॥ सोऽहं मनिन् शिवः साधुः पूर्वकालभवं भयम् । स्मृत्वा नैषेधिकीस्थाने तदेवाकथयं भ्रमात् ॥ ३४ ॥ इति शिवकथानकम् ॥ | द्वितीये च निशायामे सूरि संसेव्य सुव्रतः । मुनिर्महाभयमिति प्रोचे वसतिमाविशन् ॥ ३५॥ अभयेन मुनिपृष्टः पूर्ववन्यगच्च तम् । अङ्गदेशे श्रियां कोशे ग्रामोऽभूल्लोकसंकुलः ॥ ३६॥ तत्रावात्समहं श्रीमान् बली कौटुंबिकाग्रणीः । अन्यदा चौरपल्लीतो धाटी तत्र समागमत् ॥३७॥ धाटीभयेन ग्रामीणा नेशुरस्थां खवेश्मनि । प्रच्छन्नोऽस्मि तदा चौरास्तेऽपि मद्गृहमाययुः ॥३८॥ अवादीन्मत्प्रिया चौरान गृहस्थं मामजानती। न मां गृह्णीत किं यूयमिति ते तां च निन्यिरे ॥ ३९॥ पल्लीपतेर्ददुस्ते तां स चक्रे सौववल्लभाम् । धाट्या उपद्रवे शान्ते ग्रामः स्वस्थानमागमत् ॥ ४०॥ मित्राद्यैस्तत्र वास्तव्य र्यामोचनहेतवे। प्रेरितोऽस्मि ययौ पयां ताम Page #90 -------------------------------------------------------------------------- ________________ 28 5- चैत्यवन्दन-निच्छन् खचेतसा ॥४२॥ पल्लीवास्तव्यवृद्धायाः कस्याश्चित् सदने दिनान्। अतिवाह्य बहून् वृद्धा भक्त्याऽभाषिकुलकवृत्तिः मयान्यदा ॥ ४३ ॥ मातः पल्लीपतेःपाचे मम तिष्ठति वल्लभा । तदने ब्रूहि गत्वा त्वं पतिस्तेऽत्र समागमत् ॥४२॥ ॥४४॥ मदुक्तं वृद्धया तस्या अग्रेऽवाचि तयोदितम् । अद्य पल्लीपतिस्तम्यामन्यत्र कापि यास्यति ॥४५॥ त्वमद्यैवात्र मद्भा सहागच्छेर्निशामुखे । तयेति कथिते तस्याः पार्थेऽगां वृद्धया समम् ॥ ४६॥ पल्लीपतिस्तदा गेहादन्यत्र कापि तस्थिवान् । वीक्ष्य मां मुदितेवाऽभूत् सा चादरमदर्शयत् ॥४७॥ मामुपविश्य खट्वायां पल्ली-18 नाथस्य भक्तितः। विधाय पादशोचं मे सोपाविक्षन्मदन्तिके ॥४८॥ अत्रान्तरे कुतोऽप्यगात् पल्लीनाथो गृहान्तराद् । खट्वाया मामधो भागे स्थापयामास सा भयात् ॥४९॥ पल्लीनाथस्य शय्यायामुपविष्टस्य पादयोः। क्षालनं सा विधायैवं वक्तुं प्रववृते पुरः॥५०॥ यद्येति मम भर्त्तात्र तदा तस्य करोषि किम् । त्वामर्पयामि त्वगर्ने मानात् तेनेत्यभाषि सा ॥५१॥ तस्या भृकुटिनिक्षेपाद् भावं विज्ञाय चित्तगम् । पल्लीपतिःपुनःप्रोचे हास्यमेतन्मया कृतम् ॥ ५२ ॥ ममाभिप्राय एषोऽस्ति चेत् तं प्रेक्षे इहागतम् । तदाहं तस्य गृह्णामि त्वचं बन्धन पूर्वकम् ॥ ५३ ॥ सा तन्निशम्य संतुष्टा शय्याधो मामदर्शयत् । वेण्यानिष्कर्ण्य बद्धोऽहं स्तम्भे तेनार्द्रचर्मणा &॥५४॥ तन्नियुक्ता नरा जनुर्यष्टिभिर्मुष्टिभिश्च माम् । सुप्तेषु तेषु मत्पुण्यैराकृष्टःश्वा तदा ययौ ॥५५॥ स लेह- ॥४२॥ बान्धवेनेव शुनाऽखाद्यत बन्धनम् । ततोऽहं मुत्कलीभूतः पावें पल्लीपतेर्ययौ ॥५६ ॥ तस्य खङ्गं गृहीत्वोग्रं निष्काष्योत्थापिता मया । तथा दुष्टा प्रिया पल्लीपतिर्जागर्ति नो यथा ॥ ५७ ॥ प्रोक्ता च खड्गमुत्पाव्य चेत् त्वं Page #91 -------------------------------------------------------------------------- ________________ पूत्कारयिष्यसि । तदा छेत्स्यामि खड़ेनामुना ते मस्तकंध्रवम् ॥५८॥ युग्मम् ॥ भणित्वेत्यग्रतः कृत्वाऽहं तां खग्रा मसंमुखम् । प्रतस्थे त्वरितं दूरं गते मयि निशा ययौ ॥ ५९॥ प्रभाते पृष्टभीत्याहं प्राविशं वंशजालकम् । तत्र हपृष्टे भटैर्युक्तः पल्लीनाथः समाययौ ॥६०॥ विज्ञायि तेन मे मार्ग आयान्त्या प्रिययाऽध्वनि । निक्षिप्तवस्त्रख ण्डौघेरभिज्ञानाय दुष्टया ॥ ११॥ सोऽथ खड्गप्रहारैर्मा जर्जरीकृतविग्रहम् । कीलकैः कीलयामास पञ्चांग्यां पृथिवीतले ॥६२॥ पश्चाद ययौ गृहीत्वा तां पल्ली पल्लीपतितम् । उन्मुक्तजीविताशस्याऽगात् पार्श्वे वानरो मम ॥ ६३ ॥ स बन्धुरिव मां दृष्ट्वा पीडितं कीलितं तदा । मूर्छानिमीलिताक्षः सन् पृथिव्यां दुःखितोऽपतत् ॥६॥ चिरेण चेतनां लब्ध्वा गत्वाऽन्यत्राजगाम सः। औषधीयुगलं लात्वा मां चिकित्सयितुं द्रुतम् ॥६५॥ निःशल्यमेकयौषध्या व्रणमुक्तं द्वितीयया। कृत्वा मां सोऽलिखत् पृथ्व्यां स्वं वक्तुं वर्णमालिकाम् ॥६६॥ त्वदृग्रामे सिद्धकमोख्य आसं वैद्यसुतः पुरा । मृत्वा कर्मवशाजज्ञे सोऽहं वानरपुंगवः॥ ६७॥ मया पूर्वभवोऽज्ञायि जातिस्मृत्या तवेक्षणात् । औषधीयुगलेन त्वं प्रगुणोऽकारि तत्क्षणात् ॥ ६८॥ भूयो मे शृणु वृत्तान्तं कपिनाहं बलीयसा । एकाक्यकारि केनापि लावा यूथं ममाखिलम् ॥ ६९॥ चेत् त्वं यूथपतिं हत्वा यूथनाथं करोषि माम् । तदा मदुपकारस्याऽनृणीभवसि नान्यथा ॥ ७० ॥ कृत्वा तद्वचनं गत्वा छन्नः पल्लीं च तां पुनः। हत्वा आपल्लीपति पत्नीं लात्वाऽहमगमं गृहम् ॥ ७१॥ इत्थं स्त्रीदृष्टचेष्टातो विषयोद्विग्नमानसः। व्रतं जग्राह मुक्त्वाऽहं वर्णमालिका सोऽहं वा त्वं प्रगुण चैत्यव.८ Page #92 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-गृहिणीगृहबान्धवान् ॥७२॥ पूर्वानुभूतमेतच मया स्मृत्वा महाभयम् । प्रोचे नैषेधिकीस्थाने महाभयमितिकुलकवृत्तिः भ्रमात् ॥७३॥ इति द्वितीयं सुव्रतमुनिकथानकम् ॥ ॥४३॥ तृतीयेऽथ निशायामे धनदाख्यो मुनिर्गुरुम् । उपास्य पौषधागारं विशन्नतिभयं जगौ ॥७४ ॥ इत्थं श्रुत्वाऽभयोऽवोचत् कुतस्तेऽस्ति भयं मुने । पूर्वानुभूतमेतन्मे इत्यूचे धनदो मुनिः ॥७५ ॥ ऊचेऽभयोऽथ तं भीतिरनुभूता कथम् त्वया । बभाषे धनदः साधुः शृणु श्राद्धशिरोमणे ॥७६ ॥ अवन्तीनिकटग्रामे क्षत्रियः कुलपुत्रकः । अहमास पुरा शौर्यविक्रमाक्रान्तशात्रवः ॥७७॥ अवन्तिपुरिवास्तव्या महिष्टकुलसंभवा । परिणिन्ये मया कन्या यौवनं समुपेयुषा ॥ ७८॥ अन्यदा तां समानेतुं खङ्गहस्तोऽहमागमम् । अवन्तीबहिरुद्याने इमशानावनिसन्निधौ ॥७९॥ तत्रापश्यं वधूमेकामुत्तरीयावृताननाम् । रुदन्तीं करुणारावं शलाविद्धनरा- न्तिके ॥ ८०॥ मया दयाचित्तेन किं रोदिषीति सोदिता । गद्गदगीझरनेत्रा प्रोचेऽदो मम सन्मुखम् ॥ ८१ ॥ जो य न दुक्खं पत्तो जो य न दुक्खस्स निग्गहे समत्थो । जो न दुहिए दुहिओ कह तस्स कहिजए दुक्खं ॥ ८२॥ इत्येवं तदनः श्रुत्वा कृपामासेदुषा मया। प्रोचे भद्रे ममाप्येका गाथामाकपणेयेमिकाम् ॥ ८३ ॥ अहयं दुक्खंपत्तो अयं दुक्खस्स निग्गहे समत्थो । अयं दुहिए दुहिओ ता मज्झ कहिजए दुक्ख ॥ ८४ ॥ ॥४३॥ ४ायद्येवं शृणु तहीदं योऽयं ना शुलिकोपरि। स मे भर्ताऽद्य रुष्टेन राज्ञा प्रापि दशामिमाम् ॥८५॥ जीवत्येष प्रियोऽ द्याप्येतन्निमित्तं तु भोजनम् । लात्वा गां न भोजयितुं शक्नोम्येनं कथंचन ॥८६॥ ततोऽहं निष्फलारम्भा लग्ना Page #93 -------------------------------------------------------------------------- ________________ संशोच्य रोदितुम् । दयालुना त्वया पृष्टा स्त्रीणां हि रुदितं बलम् ॥ ८७॥ अतः कृत्वा प्रसादं मे स्कन्धे स्थापय मां निजे । जेमयामि स्वहस्तेन येनाहं प्राणवल्लभम् ॥ ८८॥ गवेषणीयमूर्ध्व न संमुखं मे त्वयाऽनघ । न लज्जामि तव स्कन्धे स्थिताहं येन सुस्थिता ॥ ८९॥ खङ्गं मुक्त्वा महीपृष्ठे स्कन्धे सा स्थापिता मया। शूलिकारोपि तस्यांगं चिच्छेद छुरिकाकरा ॥९० ॥ भूयो भूयोऽप्यमृगबिन्दून् पततः सौवमूर्धनि । कलयन्नपि विश्वस्तः स्थिरस्तस्थौ गिरीन्द्रवत् ॥ ९१ ॥ निर्विण्णेन चिरादूर्व क्षणं प्रैक्षि मया ततः । दृष्टं च चेष्टितं तस्या भीमाया भयहेतुकम् ॥९२॥ निपात्य तां ततः पृथव्यां भयकम्प्रसमाङ्गकः । पूर्वमुक्तमसिं तत्र विस्मार्याऽहं । प्रनष्टवान् ॥ ९३ ॥ वेगेनायान् प्रतोल्यन्तीतोऽहं यावदागमम् । सा तावन्मदसिं लात्वा तत्रायान्मम पृष्ठतः| ॥९४ ॥ तयैकोरु ममाच्छेदि प्रतोलीबाह्य संस्थिता । क्षणात् खड्गप्रहारेण भूरुहैकप्रदेशवत् ॥ ९५॥ तां गृहीत्वा 3 लययौ साऽहं तत्रैव पतितः श्वसन् । द्वारदुर्गा पुरोदीनं व्यलपं करुणखरम् ॥ ९६॥ कुलदेवतयाऽलापि कृपयाहं तदा तया । अस्माकं शाकिनीनां च व्यवस्थैषाऽत्र वर्त्तते ॥९७॥ द्विपदश्चतुःपदो वा प्रतोल्या बहिरस्ति यः। |स तासां यस्तु मध्येऽस्ति प्रतोल्याः स समोहिनः ॥९८॥ अतः प्रतोलीमध्यस्थः पादोऽरक्षि मया तव । तद्बहिःस्थश्च ते पादः शाकिन्याऽघाति दुष्टया ॥९९॥ अहं विज्ञपयामास तत्रस्थां कुलदेवताम् । सेवकखलेते देवि ममांप्रिं प्रगुणीकुरु ॥८००। प्ररुरोह मदीयोऽधिः कुलदेव्या प्रसादतः । अचिन्त्यं देवदेवीनां महिमानं जगुबुधाः ॥१॥ प्रणम्य तां कुलदेवीं गत्वा श्वशुरमन्दिरम् । विलोक्य पिहितं द्वारं छिद्रेरैक्षि मया तदा KRAGAR Page #94 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥ ४४ ॥ ॥ २ ॥ श्वश्रूं ददर्श कान्तां च सौवीं प्रदीपरोचिषा । खादयन्त्यौ मुदा मांसं पिबन्त्यौ मद्यमादरात् ॥ ३ ॥ अत्रान्तरे मम श्वश्रा प्रोचे मांसमिदं यथा । अतिमिष्टमतिखादु काप्यभून्न तथाऽन्यदा ॥ ४ ॥ अथ मत्प्रिययावाचि जामातुस्ते तदीदृशम् । तया च्छिन्नोरुपर्य्यन्तो वृत्तान्तो जगदे च मे ॥ ५ ॥ भीतोऽतः खगृहे गत्वा संवेगावेगरङ्गितः । ललौ गुर्वन्तिके दीक्षामस्मार्षं चास्मि तद्भयम् ॥ ६ ॥ इति तृतीयं धनदसाधुकथानकम् ॥ चतुर्थेऽथ निशायामे पर्युपास्य निजं गुरुम् । विवेश पौषधागारं संक्षुब्धो मुनियोनकः ॥ ७ ॥ भयातिभयमित्यूचे तदानीं मुनिरुच्चकैः । पूर्ववदभयेनोक्तः खचरित्रं जगाद सः ॥ ८ ॥ अवन्त्यां धनदत्तोऽभूत् सुभद्रा तस्य वल्लभा । तत्सुतो योनकाख्योऽहं मत्कान्ता श्रीमतीति च ॥ ९ ॥ मदीयं पादशौचाम्बु सादरं सा | पपौ सदा । अनुरक्तमनास्तस्या ललंघेऽहं वचोऽपि न ॥ १० ॥ एवं काले गतेऽनल्पेऽन्यदाऽहं जगदे तया । मृगपुच्छ जीवमांसश्रद्धाऽभून्मे प्रियाधिकम् ॥ ११ ॥ यदि सा त्वत्प्रसादान्मे पूर्णा नारं भविष्यति । तदा मे मरणं भावि यथारुचि विधेद्यतः ॥ १२ ॥ मया सा जगदे ते स्युर्मृगपुच्छाः क मण्डले । ब्रूहि त्वं पूरये वांछां येन शीघ्रं तव प्रिये ॥ १३ ॥ सोचे राजगृहे सन्ति श्रीश्रेणिकन्नृपकिसि । मृगपुच्छा इमे जीवा वाजिशालासु भूरयः ॥ १४ ॥ जीवत्या चेन्मया कार्यं तदा तत्र व्रज द्रुतम् । ततो राजगृहोद्याने तद्वाक्यादहमागमम् ॥ १५ ॥ अद्राक्षं तत्र विश्रान्तो विलासान् पेशलान् बहुन् । कामुकान्वितवेश्यानां त्रिदशाप्सरसामिव ॥ १६ ॥ तन्मध्यादथ वेश्यैका रूपसौन्दर्यशालिनी । नाम्ना मगधसेना द्वारा जहे विद्याभृता तदा ॥ १७ ॥ ततोऽस्याः परि कुलकवृत्तिः ॥ ४४ ॥ Page #95 -------------------------------------------------------------------------- ________________ वारेण पूचके जनताग्रतः । द्रुतं धावत केनापि हियते स्वामिनी हि नः ॥१८॥ इति श्रुत्वा मयाकृष्यः कर्णान्तं |च धनुः शरम् । विमुच्य खेचरोऽमारि दुरात्मा सोम्बरस्थितः ॥ १९ ॥ तत्पाणेमगधसेना पपात सरसीजले ।। बाहुभ्यां जलमुत्तीर्य सा मत्पावे समागमत् ॥ २० ॥ ऊचे कोमलवाण्याऽहं स्नेहपूरितया तया । खामिन् कृत्वा प्रसादं मे एह्यत्र कदलीगृहम् ॥२१ ।। मजितो जेमितो दत्तवस्त्रस्तत्र गतस्तया । शयनीये सुखं तिष्ठेत्यूचे स्नेहकिरा गिरा ॥ २२ ॥ त्वमागतः कुतस्त्रातः किं वा तेऽत्र प्रयोजनम् । इति पृष्टे खवृत्तान्तं जगादाहं तदग्रतः॥ २३ ॥ ततो मगधसेनोचे मामृजुर्नाथ वेत्सि न । खनार्यास्त्वमनाव्या भावं दुश्चरिता हि सा ॥ २४ ॥४ सुशीला यदि सा स्यात् त्वं तस्याः स्याद् यदि च प्रियः। तदा निःसार्यसे गेहात् कथं त्वं छद्मना तया ॥ २५॥ बभाषे तामहमिदं मा भाणीरग्रतो मम । तस्याः शीलगुणोऽनन्यनारी तुल्योऽस्ति मे स्फुटः ॥२६॥ प्रति-13 तामनुरक्तं मां ज्ञात्वा मगधसेनया। भावज्ञया दधे मौनं मत्वा मेऽनुपदेश्यताम् ॥ २७॥ यत उक्तम् । | रत्तो दुट्ठो मूढो पुष्विं उग्गहिओ य चत्तारि । उवएसस्स अणरिहा अरहो पुण होइ मज्झत्थो ॥ २८ ॥ ततश्चूडा|मणि बध्वा मस्तके मे जगाद सा । प्रविशामः पुरी शीघ्रमुत्सूरं वर्ततेऽधुना ॥ २९॥ ततः सा मयका साई | रथारूढाविशत् पुरीम् । लोककोलाहलारावतूर्यनिर्घोषशोभिताम् ॥३०॥ तेन नादेन संक्षुब्धो दुष्प्रेक्षः प्रलयाधिवत् । करमुल्लालयन लोकं कां दिशीकं गजो व्यधात् ॥ ३१॥ हस्तिशिक्षावता हस्ती वशीचके मया | क्षणात् । साधुवादः पुरीलोकाल्लेभे चानुपमस्ततः ॥ ३२ ॥ जनेन रञ्जितेनाहं स्तूयमानोऽथ राजवत् । पस्त्यं Page #96 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥४५॥ मगधसेनाया विमानोपममागमम् ॥ ३३ ॥ तया सस्नेहया प्रोचे ममाग्रे कान्तया गिरा। श्रीश्रेणिकनृपस्याग्रे-कुलकवृत्तिः द्याऽस्ति मे नृत्यवारकः ॥ ३४ ॥ त्वमागच्छ मया साकं कान्तं नृत्यं विलोकय । मयोचे तत्र गच्छ त्वं स्थास्याम्यत्रास्मि निद्रितः॥ ३५॥ इत्युक्ता सा नृपस्याग्रे गत्वा नृत्यं प्रचक्रमे । मृगपुच्छपलं लातुं ययौ गुप्तोऽस्मि मेदुरम् ॥ ३६॥ प्रेक्षणीयकसक्तेषु शक्तेषु नृषु भूपतेः । मृगपुच्छपलं तच ललावस्मि जुगोप च ॥ ३७॥ यावलग्नोऽस्मि निस्स मलक्ष्यारक्षकैस्ततः । बध्वा च बन्धनैर्बाढं नृपस्याग्रे न्यवेदि च ॥ ३८ ॥ राज्ञाऽपि रङ्गभङ्गो |भून्मेति कृत्वा खचेतसि । न किंचिद्यावदादेशि तावत्तत्र दधे स्मि तैः॥३९॥ ततः सुनृत्यनैपुण्यात् तुष्टो राजा वरत्रयम् । ददौ तस्यै तया स्नेहान्मन्निमित्तमयाच्यदः॥४०॥ मृगपुच्छपलग्राही मम जीवितदायकः । कुत्र|तिष्ठति मे कान्तो मचूडामणिमण्डनः॥४१॥ इति तद्बदनाम्भोदनिर्यातवचनामृतम् । मनोहत्य निपीयोचे वर्ते कान्तेऽहमत्र सः॥४२॥ तत इत्थं महीशको विज्ञप्तो विज्ञया तया । वरत्रितयमध्यान्मे प्रभो देहि वरद्वयम् x॥४३॥ राज्ञा सोचेऽथ यत् किंचिच्चित्ते ते तच्च मार्गय । अवादीत सा महीपालं भक्तिबन्धुरया गिरा ॥ ४४ ॥x वरेणैकेन गोस्वामिन् जीवितव्यं प्रदीयताम् । अम्मै पुरुषाय मृगपुन्छमांसापहारिणे ॥४५॥ द्वितीयेन वरेणतं मह्यं देहि प्रभो प्रियम् । नृपाल्लब्धप्रसादात् सा स्वीकः सह मया ययौ॥४६॥ बहुकालं तया भोगान् भुक्त्वाऽहं| ॥४५॥ प्रबभाण ताम् । प्रियेऽनुमन्यसे चेत् त्वं गच्छामि खपुरं तदा ॥४७॥ तयोचे स्वपुरं यासि चेल्लात्वामा तदा ब्रज । एवमस्त्विति संमेने मयापि प्रणयात् तदा ॥४८॥ मोचयित्वा तयात्मानं तृतीयेन वरेण तु। नृपात् समग्र SALAAAAAAAAA Page #97 -------------------------------------------------------------------------- ________________ सामग्रीं ग्राहयामास सा तदा ॥ ४९ ॥ प्रतस्थेऽतस्तया सार्द्धमवन्त्या बहिराययौ । मुक्त्वाऽस्मि तत्र तां रात्रौ ख | लात्वाऽगमं गृहम् ॥ ५० ॥ तत्राद्राक्षं सुखात् सुप्तां परपुंसा समं प्रियाम् । ततोऽस्मि तं विटं कोपाज्जघान च | निजासिना ॥ ५१ ॥ स्थितः प्रच्छन्नमैक्षेऽहं तया क्षणविबुद्धया । खंडीकृत्य विटस्याङ्गं गर्त्तायां निदधे क्षणात् ॥५२॥ धूल्या संपूर्ण तां गत्तां तदूर्ध्वं पीठमुच्चकैः । विधाय तच्च लिहवा सा मण्डयामास तत्क्षणात् ॥५३॥ दृष् तत्सकलं तस्यां सुप्तायां बहिरागमम् । पुरस्तान्मगध सेनायास्तद्वृत्तान्तमचीकथम् ॥ ५४ ॥ राजगृहं तया सार्द्ध प्रत्यावृत्याऽहमाययौ । स्थित्वा तत्र कियत्कालमुज्जयिन्यां समागमम् ॥ ५५ ॥ जनकं जननीं बन्धुश्चानन्य वच| नादिना । अज्ञापयन् खमाकूतं गृहिणीगृहमागमम् ॥ ५६ ॥ कपटप्रकटानन्दा सा मां प्राप्तं गृहाङ्गणे । जगाद | चिरकालात् त्वं किमगा जीवितेश्वरः ॥ ५७ ॥ मयोचे त्वत्कृते कान्ते प्रैक्षि सर्वत्र तत्र तत् । मृगपुच्छपलं कापि न प्रापी यद् दिनैरपि ॥ ५८ ॥ असिद्धकार्य आगन्तुमनिच्छन्नपि चेतसा । तव प्रेमगुणाकृष्टो निकषात् त्वां | समागमम् ॥ ५९ ॥ ततो निजगृहे स्थास्नुरहमद्राक्षमेकदा । नैवेद्येन तथा पीठं पूज्यमानं मुदादितः ॥ ६० ॥ ततो मया निजे चित्ते पर्य्यभावि तदेदृशम् । तस्मिन् जारेऽनुरक्तेयं तत्पीठं पूजयत्यलम् ॥ ६१ ॥ अन्येद्युः सा | मयाऽभाणि मन्निमित्तं प्रिये कुरु । घृतपूरान् घृतापूर्णान् बहुखण्डान्वितान् नवान् ॥ ६२ ॥ यावत्तांश्च न भोक्षेऽहं प्रथमं श्रद्धया त्वया । तावन्न देयमन्यस्मै तन्मध्यात् किमपि प्रिये ॥ ६३ ॥ तयोचे भणसीदं किं किं त्वत्तोऽपि मम प्रियः । अन्यः कोऽप्यस्ति दास्यामि यस्मै भोजनमादितः ॥ ६४ ॥ भोजनावसरे भोक्तुं विष्टरेऽह Page #98 -------------------------------------------------------------------------- ________________ चैत्यवन्दन मुपाविशम् । सा चोत्तीर्णघृतपूरमध्यादेकं करेऽग्रहीत् ॥६५॥ दग्धा दग्धेति जल्पंती पीठे प्रक्षिपति स्म कुलकवृत्तिः तम् । मयोचे रे तवाद्यापि चेतस्यस्ति स एव हि ॥ ६६ ॥ इत्युक्ते मयका कोपज्वलनप्लुष्टमानसा । सा जग्राह ॥४६॥ घृतपूर्णपाकपात्रं ज्वलद्धृतम् ॥ ६७ ॥ मम प्राणप्रियो जन्ने त्वया रे क्रूरकर्मणा । तद्वत् त्वां मारयिष्यामीत्यूचे सा मां प्रति क्रुधा ॥ ६८॥ घृतपात्रमथोत्क्षिप्य घृतपूर्ण ममोपरि । सा निचिक्षेप तत्सर्पिर्ददाह मम विग्रहम् |॥६९॥ ततः पितृगृहे गत्वाऽहं चित्कित्सामकारयम् । क्रमेण सजदेहोऽथ वैराग्याद् व्रतमाददे ॥७०॥ इत्थं पूर्वमनुभूतं भयातिभयमीदृशम् । स्मृत्वा नैषेधिकीस्थाने जगदे तदिदं मया ॥७१॥ इति योनकमुनिकथानकम् ॥ 2 इत्थं कथा श्रुतिसमाहितसौवचित्तः संपूर्य पौषधमघौघरुगोषधः स्वम् । मन्त्री प्रगे बहिरगाद वसतेर्निजं च हारं ददर्श गुरुसुस्थितसूरिकण्ठे ॥७२ ॥ तं दृष्ट्वा विममर्श सौवहृदये मन्त्री धियां शेवधिः सूरेः कण्ठमुदीक्ष्य हारकलितं प्रातजना नागराः। कारो जिनधर्महीलनमति ध्यात्वा भयात् साधुभिः शंकेऽभाणि भयादिगीः खच-| रितं प्रोचे च तद्प्तये ॥ ७३ ॥ लात्वा गुप्ततयाऽथ हारमचिरान्मन्त्री ददी भूभुजे, तल्लाभान्मुदितो महीभृद|धिकं प्रीतो भवन्मन्त्रिणे । बुद्धयैवाथ पितुर्विधीन् विरचयन्नत्यैदमात्यो मुदा कालं वैबुधवृन्दयुग दिविषदा नमन्त्रीव मल्यालयः ॥ ७४ ॥ तदा च मन्त्रिकोटीरो भवचाराद भयातुरः। प्रत्यहं चिन्तयामास संवेगावेगभागदः|| |॥४६॥ ॥ ७५ ॥ कदाचित् तद्दिनं भावि यस्मिन् सद्गुरुसन्निधौ । गृहीत्वा संयम दिष्ट्या विहरिष्येऽत्र जन्मनि ॥७॥ |एवं भावयतो नन्दानन्दस्यान्तिमो जिनः। उद्याने समवासार्षीजगजनसुरद्रुमः ॥७७॥तच्छ्रुत्वा भूपतिर्भूत्या Page #99 -------------------------------------------------------------------------- ________________ नन्दानन्दनसंयुतः । वन्दितुं श्रीमहावीरं ययौ हर्षप्रकर्षतः॥७८॥ वन्दित्वा श्रीमहावीरमौषीत् साभयो नृपः । संसारसागरद्रोणीमिमां वाणीमधीशितुः ॥७९॥ दीपार्चिस्तुल्यमायुः सपदि सविपदः संपदः । संप्रपन्ना वाताम्राभ्रालिकल्पः सुजनपरिजना श्लेष एषोऽखिलोऽपि । राणमानो भ्रूसमानः सकलमपि बलं विद्युल्लेखलोलम् किन्तु स्थास्नुर्निकामं भवति भवभृतां सैष चारित्रधर्मः ॥८०॥ यत्राधेयमिदं मदप्रमथनं शुद्धं दृढं दर्शनं । |पश्चोरुव्रतपालनं प्रशमनं भावारिनिर्नाशनम् । कुतृष्णादिपरीषहौघसहनं प्रोद्यत्तपः साधनं प्रायश्चित्तविशोधनं विनयनं नाना प्रमादासनम् ॥ ८१॥ निष्कलङ्कमिदं यस्तु चारित्रं पालयत्यलम् । विनिर्माय खकान्तं सोऽ-18 |चिरात् सिद्धिमश्नुते ॥ ८२॥ चन्द्रिकामिव तां पीत्वा चकोर इव मन्त्रिराट् । विषवद् विषयान् हातुं विशेषाकादुत्सुकोऽभवत् ।। ८३ ॥ देशनान्ते जिनं नत्वा नन्दानन्दात्मजान्वितः । वल्गु वल्गुहयश्रेणिः श्रेणिको गृह-1 मागमत् ॥८४॥ अथागत्य महामात्य उपोचीपं जगावदःगार्हस्थ्यविमुखं तातानुमन्यख व्रतोऽसि माम् ॥८॥ ततस्तं श्रेणिकोऽभाणीद वत्स स्वच्छगुणाकर । गृहाणेदं निजं राज्यं किमेवं भाषसे पुनः ।।८६ ॥ अथामात्योऽभ्यधात् तातं खान्तसंतोषहेतवे । नरकान्तायराज्यायै तस्मै मेऽस्तु नमो नमः ॥ ८७॥ किंच ताताऽस्ति राजा चेद् भवामि न मुनिस्तदा । यद् भगवान् जगावन्त्यं राजर्षि श्रीउदायनम् ॥ ८८ ॥ यदा जयामि कारीन्द्र | दारुणाऽऽतङ्ककारिणः । सान्वयोऽहं तदैव स्यामभयः संज्ञया प्रभो ।। ८९॥ प्रभौ वीरे सतीदानीं त्वयि तातेऽपि चेदहम् । कर्म क्षित्वा न मोक्ष्यामि प्रस्तावोऽयं कुतः पुनः ॥९०॥ अतस्तातानुजानीहि येन गृह्णामि संयमम् । Page #100 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-स्थित्वा खड्गाग्रवत् तत्र पौरुषं सार्थयामि च॥९॥इत्यत्याग्रहतो राज्ञाऽनुज्ञातो वीरसन्निधौ।संत्यज्य कफवद् राज्यं कुलकवृत्तिः प्रव्रज्यामाददेऽभयः॥९२॥ नन्दाऽप्यात्त प्रियानुज्ञां दत्त्वा हल्लविहल्लयोः । सक्षौमे कुण्डले दीक्षां विरक्ताऽथा॥४७॥ ग्रहीन्जिनात् ॥९३॥ चारित्रं निरतीचारं कृत्वा मृत्वा च मन्त्रिराट् । सुरः सर्वार्थसिद्धेऽभूत् ततश्युत्वा च सेत्स्यति ॥ ९४ ॥ वीरान्तके कुमारेऽथाभये प्रव्रजिते तदा। इति ध्यौ महीपालः श्रेणिकः सौवचेतसि ॥ ९५॥ समभूद् गुणभूः सूनुरभयः सर्वसूनुषु । स चादाय व्रतं खार्थं साधयामास शुद्धधीः ॥ ९६॥ शेषपुत्रेषु धीपात्रे है कुत्र पुत्रे महौजसि । निधास्यामि निजं राज्यं नृपामेषहि क्रमः ॥ ९७॥ अगुणज्ञोऽपि राज्याहः स्यात् पुत्रः3 पृथिवीभृताम् । गुणज्ञश्चेत् तदा राज्ञोऽगण्यपुण्यमहोदयः॥९८॥अभयेन विनेदानी खान्तविश्रान्तिभूर्मम । गुणज्ञः कोऽणिको ह्येष राज्ययोग्यो न चापरः॥९९॥इति निश्चित्य भूपालो ददौ हल्लविहल्लयोः । तावष्टादशचक्राख्यहा-IN कारसेचनकद्विपी॥९००॥ तदा च कृणिकोऽप्यूनबुद्धिरेवममन्त्रयत् । कालाद्यैरात्मनस्तुल्यैर्धातृभिर्दशभिः सह ॥१॥ |वृद्धोऽप्ययं पिताऽऽत्मीयो राज्यतृष्णां न मुश्चति । स्कन्धदघ्ने स्थिते पुत्रे नृपोह्यर्हति संयमम् ॥ २॥ धन्यः स एव पुण्यात्माऽभयः सात्विकशेखरः । यस्तारुण्येऽपि तृणवत् राज्यस्य श्रियमत्यजत् ॥३॥ न पुनजनको राज्यभोगलुब्धो दिवानिशम् । अपि सर्वाङ्गसंसर्गा नेक्षते यो निजां जराम् ॥४॥ तस्माद् वध्वाय तातं खमा-131॥४७॥ दादो राज्यमुल्बणम् । अत्र दोषो न कोऽप्यस्ति विवेको न यतः पितुः ॥५॥राज्यं भागेषु निम्माय पालयामो-16 वयं समे । तातस्त्वन्तहं बद्धोऽब्दशतान्यपि तिष्ठतु ॥६॥ इत्यालोच्य रहस्तेऽथ दुष्टा निःशङ्कमोकसि ।। Page #101 -------------------------------------------------------------------------- ________________ संस्थितं जनकं बाढं वबन्धुः पापकर्म च ॥ ७॥ क्रूरहृत्कूणिकोऽप्सीत् कीरवत्पञ्जरेऽथ तम् । नादात् तत्रा|सितुं तस्य पानकं भोजनं च सः॥ ८॥ प्राग्वैरात् कूणिकः पित्रेऽदात् पूर्वाहापराहयोः । शतं कशाप्रहाराणां |स्वयं प्रति दिनं हठात् ॥९॥ ददौ गन्तुं न कस्यापि कूणिकः श्रेणिकान्तिके । मातृदाक्षिण्यतः किन्तु चेल्लणां न न्यषेधयत् ॥१०॥ शतधौतसुरातिम्यत्केशपाशाऽथ चेल्लणा । तत्काल मजितेवागात् प्रत्यहं भूपसन्निधौ ॥११॥8 निक्षिप्य केशपाशान्तःशिरोमाल्यमिवान्वहम् । कुल्माषपिण्डिकां सैकां प्रीत्या निन्ये तदन्तिके ॥ १२ ॥ प्रच्छन्नं चेल्लणा पत्ये ददौ कुल्माषपिण्डिकाम् । आसाद्यतामपि क्षमापोऽमस्त मोदकवत् तदा॥१३॥ तया पिण्डिकया चक्रे भूपतिः प्राणधारणाम् । आलानबद्धदन्तीव तृणपूलान्यदत्तया ॥१४॥ नेत्राम्बुभिः समं देवी प्रियप्रेमानुबन्धतः । केशेभ्यस्तत्सुराबिन्दून् पातयामास पाणिना ॥ १५॥ पततस्तान् पपौ बिंदून पिपासुर्वसुधा|धिपः। प्रावृषेण्याम्बुदोन्मुक्तोदबिंदूनिव चातकः ॥१६॥ तत्सुराबिन्दुपानेऽपि कशाघातव्यथां नृपः। तदाऽमंस्त न तृष्णां च ह्यापधुरुरणुर्गुणः ॥ १७॥ एवं दैवापनीतां तां दुर्दशामसहन्नृपः। प्रति प्रागुग्रकर्माणि कस्य स्यात् प्रतिमल्लता ॥ १८॥ कूणिकोऽपि निजभ्रातृयुतोऽखण्ड्यपराक्रमः । एकच्छवं निजराज्यम् पालयामास चक्रिवत् H॥ १९ ॥ अन्यदा कौणिकी देव्यसूत पद्मावती सुतम् । चेटीवर्धापिकाऽऽगत्य तस्याग्रेऽवक सुतोद्भवम् ॥२०॥ प्रसन्नः कूणिकस्तस्यै कृत्वा वस्त्राद्यनुग्रहम् । चक्रे जन्मोत्सवं सूनोर्दिष्ट्योदायीति नाम च ॥ २१ ॥ सन्नेत्रकौमुदानन्दामोददायी स बालकः। अवर्धिष्ट सिते पक्षे द्वितीयेन्दुरिवोचकैः ॥२२॥ तेनोदायि कुमारेण कटीसं Page #102 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥ ४८ ॥ स्थास्नुना सदा । पाञ्चालिकान्वितस्तम्भशोभां बभार कूणिकः ॥ २३॥ भुञ्जानोऽपि शयानोऽपि तिष्ठन्नपि चरन्नपि । कूणिकस्तं शिशुं पाणेर्नामुञ्चन्मुद्रिका मिव ॥ २४ ॥ अन्यदोपाविशद् भोक्तुं कृणिकः पुत्रवत्सलः । न्यस्योदायि कुमारं तं मुदा वामोरुमस्तके ॥ २५ ॥ कूणिके भूपतावर्द्धभुक्ते सोऽमूत्रयच्छिशुः । घृतधारेव तन्मूत्रधारा तद्भाजनेऽपतत् ॥ २६ ॥ मा पुत्रमूत्रवेगस्य भंगोऽभूदिति कूणिकः । तदाऽचालीन जानुं खमङ्गभूरागः ईदृशः ॥ २७ ॥ मूत्रमिश्रमधान्नं तत्करेणोत्तार्य कूणिकः । भुंजानः शेषमाचख्यौ तत्रस्थां मातरं प्रति ॥ २८ ॥ मातरस्मिन् शिशौ यादृक् वात्सल्यं मम विद्यते । तादृगन्यस्य कस्यापि सुतेऽभूद् भावि वर्तते ॥ २९ ॥ कष्टादाचष्ट माताऽथ रे | पापिष्ठ निकृष्टहृत् । न तथा वेत्सि तातस्यात्यन्तेष्टस्त्वमभूर्यथा ॥ ३० ॥ दुर्दोहदात् पितुः शत्रुं ज्ञात्वा त्वां गर्भगं तदा। गर्भपातो मया रेभे भर्त्तुः कल्याणकांक्षया ॥ ३१ ॥ न तथापि च्युतः किन्तु प्रत्युतोपचितोऽस्यभूः । तादृक्कामोऽपि मेऽपूरि त्वत्पित्रा त्वद्दिदृक्षया ॥ ३२ ॥ तातघातीत्यवेत्य त्वं जातमात्रो मयोज्झितः । पुनस्त्वं पुत्र वात्सल्यात् पित्रा निन्ये गृहे स्वयम् ॥ ३३ ॥ कुक्कुटीपिच्छविकाली कृमिकुलाकुला । पूतिलिप्ता तदा तेऽभूदत्यन्तारतिकारिणी ॥ ३४ ॥ तादृशी तेऽङ्गुली स्वास्ये त्वत्पित्रा प्रेमतो दधे । रतिस्ते तावदेवाभून्मुखान्तर्यावदङ्गुली ॥ ३५ ॥ सदा मिष्टान्नपानाद्यैः पित्रा रे सन्मनोरथैः । आबाल्यात् पालयामासे यत्नात् स्वमिव जीवितम् ॥ ३६ ॥ त्वन्निमित्तं निजं राज्यं कृत्वैवं येन पालितः । त्वया रे प्रत्युपकारि तस्य बन्धादिभिर्वरम् ॥ ३७ ॥ इत्युक्तः कूणिको मात्रा तदा प्रस्तावविज्ञया । पश्चात्तापादुवाचैवं धिङ्मामस्त्वविवेकिनम् ॥ ३८ ॥ कुलकवृत्तिः 1186 11 Page #103 -------------------------------------------------------------------------- ________________ द्रुतं गत्वा निजं तातं क्षमयित्वा च संप्रति । पुनर्दास्ये पितू राज्यं न्यासार्पितमिवादरात् ॥ ३९॥ इत्युक्त्वा) सोऽर्द्धभुक्तेऽप्याचम्य सूनुं समर्प्य च । धाच्या उत्तस्थिवांस्तातान्तिके यातुं तदातुरः ॥ ४०॥ निगडांस्तातपा-3 दानां भक्ष्यामीत्यभिसन्धया। अयोदण्डं स आदायाधावीच्छ्रेणिकसंमुखम् ॥४१॥ यामिकाः संस्तुताः पूर्वमायान्तं वीक्ष्य तं जगुः। श्रेणिक दण्डपाणिस्तेऽद्येति सूनुः समुत्सुकः ॥ ४२ ॥ ततो दध्यौ स केनापि दुर्मारेण हनिष्यति । मामिति द्रुतमायाति कूणिको दण्डपाणिकः ॥ ४३ ॥ ततो यावद् दुरात्मैष मां विनाशयते नहि। प्रेषयामि स्वयं तावत् प्राणान् प्रवासिकानिव ॥ ४४ ॥ विषं तालुपुटं दत्त्वा जिह्वाग्रे श्रेणिकस्तदा । विपद्य |नारको जज्ञे रौद्रध्यानपरायणः ॥ ४५ ॥ सोढा चतुरशीत्यष्टसहस्राण्यथ स व्यथाम् । घाद्यप्रस्तटे तस्मादु त्यात्र समेष्यति ॥४६॥ अत्रैव भरते भाव्यहचतुर्विशतौ ततः । श्रीपद्मनाभो नाम्ना स भविष्यति जिने-18 श्वरः॥४७॥ सोऽथ देवासुरैः सेव्यः कृत्वा संघं चतुर्विधम् । क्षिप्त्वा सर्वाणि कर्माणि सिद्धिसम्बन्धमेष्यति ॥४८॥ यद्वच्छ्रेणिकभूभुजा निजभुजाक्रान्तारिभूमीभुजा चित्तान्तर्दधिरे सुराधिपसुराधीशस्तुता भासुराः।। श्रेयापत्तनवासदाः सुविशदाः श्रीभाववासाः सदा ध्येयास्तेऽपि तथा हृदात्र सुहृदा संगं विमुच्य हृदा॥४९॥8 कर्तुं न शक्ताः सुतपोमुखं चेत्तदा जना भोः शुभभावपूर्वम् । जिने गुरौ तद्भणिते च धर्म स्थैर्य दृगेतन्मनसा विधेयम् ॥ ५० ॥ इत्थं श्रेणिकभूपतेः सुचरितं नानाकथापूरितम् । श्रुत्वा साध्वनुमोदयन्ति हृदये शुद्धावबोधोदये । प्राप्याभीष्टकरं द्यरत्नवदरं श्रीक्षायिकं सुन्दरं सम्यक्त्वं परिभुज्य चेष्टकमलां सेत्स्यन्ति ते निर्मला: Page #104 -------------------------------------------------------------------------- ________________ चैत्यचन्दन ॥ ४९ ॥ ॥ ९५९ ॥ इति युगप्रवरागमश्रीजिनचन्द्रसूरिशिष्यलेश श्रीजिनकुशलसूरिविरचितायां चैत्यवन्दन कुलकवृत्तौ भाववासप्रतिपालनाख्यानकं श्रीश्रेणिकमहाराजकथानकं समाप्तम् ॥ अथ सम्यक्त्वाङ्गीकारे श्राद्धानां साधूनां च यत्र चैत्ये प्रतिदिनं सामान्येन गन्तुं कल्पते, यच चैत्यं शिवाय भवति, यत्र च चैत्यकारणान्तरादेव पर्वदिनेष्वेव गन्तुं कल्पते । एवं चैत्यविशेषमभिधित्सुराहआययणमनिस्सकडं विहिचेइयमिह तिहा सिवकरं तु । उस्सग्गओववाया पासत्थोसन्नसन्निकयं ॥ ६ ॥ आययणं निस्सकडं पव्वतिहीसुं च कारणे गमणं । इयराभावे तस्सत्ति भावबुद्धित्थमोसरणं ॥ ७ ॥ व्याख्या- 'आययणं' इत्यायतनम् । आयो दर्शनज्ञानादिलाभः, तन्यते - विस्तार्यते येन यत्र वा तदायतनं, यत्र मूलोत्तरगुणभ्रष्टाः साधवो न वसन्ति तदायतनं चैत्यमुच्यते । तच्चावपन्न पार्श्वस्थादीनां निश्राकृतमपि भवति, अतस्तद् व्यवच्छेदार्थमाह-- 'अनिस्सकडं' अनिश्राकृतं निश्रयाऽवषन्नपार्श्वस्थादीनां निमित्तेन तद्भक्तश्रावकैर्द्रव्यव्ययेन कृतं निश्राकृतं न निश्राकृतं तदनिश्राकृतं यत्र श्रावका एव लेखकोद्ग्राहणिकादिचिन्तां कुर्वन्ति तदनिश्राकृतमिति भावः । अनिश्राकृतमविधिचैत्यमपि भवत्यतस्तद्व्यवच्छेदार्थमाह – 'विहिचेइयं ' विधिचैत्यं विधिः सिद्धान्तप्रणीतरीतिः, “रात्रौ नन्दिर्न बलिप्रतिष्ठे न मज्जनं न भ्रमणं रथस्य । न स्त्रीप्रवेशो न च लास्य लीला साधुप्रवेशो न तदत्र चैत्ये ॥ १॥" इत्यादिखरूपस्तेन युक्तं चैत्यं विधिचैत्यमुच्यते, 'इह' जिनशासने कुलकवृत्तिः ॥ ४९ ॥ Page #105 -------------------------------------------------------------------------- ________________ 445 'त्रिधा' पूर्वोक्तविशेषणत्रयोपेतं देवगृहं शिवकर, शिवं मोक्षं करोतीति शिवकरं मुक्तिसाम्राज्य संपादकमित्यर्थः, तु शब्द एवार्थे शिवकरमेव, अथवा पुनरर्थे स च भिन्नक्रमोऽपवादत इत्यस्मात् परत्र योजनीयः, 'उस्सग्गओ' इति उस्सर्गतः सामान्यपदेनातस्तस्मिन् चैत्ये सम्यगदृष्टिश्रावकैर्यनिभिश्च शिवप्राप्तये प्रतिदिनं गन्तव्यम् । 'अववाया' इति, अपवादतस्तु अपवादपदेन पुनः 'पासत्थोसन्नसन्निकयमिति, पार्श्वस्थावपन्नसंज्ञिकृतं पार्श्वस्थाचावपन्नञ्च पार्श्वस्थावषन्नास्तेषां संज्ञिनः श्रावकास्तैः कृतं निष्पादितमिति किं तदग्रेतनगाथायामाह - 'आययणं निस्सकडमिति' आयतनं निश्राकृतम्' अत्र चैत्यमिति शेषः, निश्रया पार्श्वस्थावपन्नादीनां लेखके कृतं निश्राकृतं यत्र पार्श्वस्थावषन्नादि द्रव्य लिङ्गिसाधवो लेखकोद्ग्राहणिकादिचिन्तां कुर्वन्ति तन्निश्राकृतं, तदपि यदि कीदृशं स्यादित्याह - 'आयतनं' यत्र देवगृहे साधवो न वसन्ति तदायतनं, तदेवं विधं चैत्यं कीदृशं भवति शिवकरं, पार्श्वस्थावषन्नादिभक्तश्राद्धकारिते निश्राकृतेऽपि चैत्ये आयतने सम्यगदृष्टिश्रावकैः सुविहितसाधुभिश्च कारणान्तराद है बिम्बनमस्करणार्थं गम्यते इति भावार्थः । एनमेवार्थं सूत्रकारः स्वयमेवाह- 'पवतिहीसुं च कारणे गमणमिति' पर्वतिथिषु अष्टमीचतुर्दशीचतुर्मासक पर्युषणादिषु 'कारण इति' अत्र वा शब्दशेषः, कारणे च राजामात्यादिमहार्दिक श्रावकनिर्मापितमहापूजा प्रेक्षणार्था कारणप्रभावनादिलक्षणे सम्यगहष्टिश्रावकैर्यतिभिचायतने निश्राकृते चैत्ये गमनं कर्त्तव्यं । यत उक्तम्- 'चेझ्यपूया रायानिमंतणं सन्निवायख | वग कही । संकियपत्तपभावणपवित्तिकजाइ उहाहो ||१||” अत्रैव कंचिद्विशेषमाह - 'इयराभावे' इति इतरस्य Page #106 -------------------------------------------------------------------------- ________________ चैत्यवन्दनविधि चैत्यस्याभावे 'तस्सत्तिभावयुड्डित्थमिति' तस्यायतननिश्राकृतचैत्यस्य कारका ये संज्ञिनः श्रावकास्तेषां 8 कुलकवृत्तिः भाववृद्ध्यर्थमायतननिश्राकृते चैत्ये सुविहितगुरुभिः 'ओसरणमिति' कोऽर्थो व्याख्यानं कर्तव्यं, यत्र विधिचैत्यंत ॥५०॥ न भवति, आयतननिश्राकृतचैत्यकारकश्रावकाच व्याख्यानार्थ सद्गुरुमाकारयन्ति, सद्गुरवश्च तेषां श्रावकानां भाववृद्ध्यर्थमायतननिश्राकृतचैत्ये गत्वा व्याख्यानं कुर्वन्ति इति भावः । यत उक्तं 'निस्सकडे ठाई गुरू कयवइ8 सहिए परावए वसही। जंतु पुण अणिस्सकडं पूरिति तहिं समोसरणं ॥१॥ पूरिंति समोसरणं अन्नासह निस्स चेइयतुं पि । इहरा लोगविरुद्धं सद्धाभंगो य सड्ढाणं ॥२॥” अथ विधिचैत्ये सति निश्राकृतचैत्ये प्रतिदिनगमने प्रायश्चित्तमाह8 विहिचेइयम्मि सन्ते पइदिणगमणे य तत्थपच्छित्तं। समउत्तं साहूण पिकिमंगमबलाण सड्डाणं ॥८॥ | व्याख्या-ग्राममध्ये नगरमध्ये वा विधिचैत्ये सति, विद्यमाने प्रतिदिनं गमने, तत्र निश्राकृतचैत्ये प्राय|श्चित्तं पश्चलघुप्रायश्चित्तरूपं साधनामपि स्यात्,किं पुनरङ्ग इति सम्योधने, 'अबलानां तथाविध ज्ञानदर्शनादिधमेबलरहितानां, श्राद्धानां-श्रावकाणां, यतः श्रावकाणामबलानां मनांसि निश्राकृतचैत्यपूजाप्रेक्षण नमस्कारा ॥५०॥ |दिप्रयोजनागतलिङ्गिसाधुस्तोकातिशयदर्शने सति तदुपरि श्रद्धाबन्धुराणि स्युरतः श्राद्धानां प्रायश्चित्तं स्थाने स्थाने समागच्छत्येव ॥ ८॥ ग्रन्थांतरे च श्रुतधरैः सामान्येन च पश्चधा चैत्यं प्रत्यपादि, तथाहि "भत्तीमंगल-IN Page #107 -------------------------------------------------------------------------- ________________ चेइअ निस्सकडअनिस्सकडचेइए वावि । सासयचेइय पंचममुवइ8 जिणवरिंदेहिं ॥१॥” भक्तिकृतचैत्यं । ।१। मङ्गलकृतचैत्यं ।२। निश्राकृतचैत्यम् ।३। अनिश्राकृतचैत्यं । ४। शाश्वतचैत्यं । ५। तत्र भत्तया श्रीतीर्थकराणां श्रीभरतेश्वरचक्रवर्तिप्रमुखपरमार्हतश्रावकैरमेय स्वापतेयव्ययेन श्रीअष्टापद-श्रीशजयप्रमुखमहातीर्थेषु, स्वस्यान्यस्य च सम्यक्त्वप्राप्तये स्थिरीकरणाय च यत् कारितं तद् भक्तिकृतं चैत्यमुच्यते । मङ्गलार्थं समस्तसंघमाङ्गलिक्याय यत्कृतं चैत्यं तन्मङ्गलचैत्यमुच्यते । तच्च यथा जातं तथा कथानकेन प्रकटी क्रियते तथाहि-तेजःपुनविराजिष्णुजिष्णुनायक बन्धुरा । अभूद् भूवनिताहारलतेव मथुरापुरी ॥१॥ अनीतिमपि सौवोर्वी सन्नीतिं विदधत् सदा । बभूव तत्र भूपालः श्रीशत्रुदमनाभिधः ॥२॥ माऽपहार्षीच्छ्रियं कश्चिदस्या इति समंततः । उत्संगीकृत्य यां तस्थौ प्राकारो बुद्धिमानिव ॥ ३॥ लक्ष्मी जहार मे सर्वा मेषेति मकराकरः। वेष्टयित्वा स्थितो यां तुलां लातुं खातिकामिषात् ॥४॥ तत्रोत्तस्थावथान्येद्युारिमानिकतान्त्रिकैः । अनिषेध्या प्रयोगाद्यैः कालसध्येव भीषणा ॥ ५॥ शवश्रेणिभिराकीपर्णा पतत्पक्षिकुलाकुला । श्मशानभूमिकेवाभूद् भैरवा मथुरापुरी ॥६॥ शिशुयुवा जरीलोको नीयते स्म यमालयम् । दुर्वारमारिवेगेन दवेनेव वनाग्निना ॥७॥ तत्र पौरमहाभाग्यमन्त्राहूताविवान्यदा । धर्मरुग् धर्मघोषाख्यौ चारणर्षी समयतुः ॥ ८॥ समुल्ललासकल्याणं सकलेऽपि पुरे क्षणात् । क्षणोति हि मुमुक्षूणामागमो श्रेयसांगणम् ॥९॥ मुहुर्विजहतुः साधू सिद्धान्तरसवारिधी । एकत्र नहि तिष्ठन्ति समयज्ञास्तपोधनाः ॥१०॥ उज्जजम्भे पुनारिः संप्राप्तप्रसरा ततः। उपद्रवं Page #108 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ननु क्षुद्रा छिद्रमासाद्य कुर्वते ॥ ११॥ साक श्रेयस्काम्यया पौराः खां पुरं चारणी मुनी । द्रुतमानाययामासुः कुलकवृत्तिः स्वार्थे को हि विलम्बते ॥ १२॥ प्रह्वीभूय ततः पौराः सादरं तौ व्यजिज्ञपन् । निवर्त्तते यथा मारिस्तथा यूयं ॥५१॥ प्रसीदत ॥ १३ ॥ ततस्तावूचतुः पौरानुत्तरंगेषु सद्मसु । अहंबिम्बं प्रतिष्ठाप्य प्रत्यहं तत्समर्चत ॥ १४॥ अत्रामुत्रापि कल्याणं येन स्याद् भवतां सदा । तैस्तथा विहिते सद्यः श्रेयोऽभूत् तत्र मण्डले ॥१५॥ एवं यदाऽर्हतं बिम्बं सुगुर्वादेशतस्तदा । मथुरापूर्जनैश्चक्रेऽभूत् तन्मङ्गलचैत्यकम् ॥१६॥ यदुक्तं "जिणविंबपइट्टाए महुरानयरीए मंगलाई तु । गेहेसु चच्चरेसु छन्नवइ ग्गाममोसु ॥ १७ ॥ इति मङ्गलचैत्यकथानकं संपूर्णम् ॥ निश्राकृतचैत्यमनिश्राकृतचैत्यं च पूर्वमेव व्याख्यातमिति न पुनरिह व्याख्यायते, शाश्वतचैत्यं च श्रीनन्दीश्वरद्वीपवक्षस्कारवैतात्यमेरुपर्वतादिषु वर्तमानमृषभवर्धमानचन्द्राननवारिषेण्येति नामधेयजिन बिम्बविभ्राजमानं ४सकलदेवासुरव्यन्तरकिंनरविद्याधरविसरपूज्यमानं, तथा जगत्स्वाभाव्यादतीताऽनागतवतमानकालेषु यच्छ|श्वदभवति तच्छाश्वतं चैत्यमुच्यते, एतदपि ग्रन्थान्तरोक्तं सामान्येन पश्चधा चैत्यं सत्रकारणायतनादिविशेष-| णपदैः संग्रहीतमेव, तथाहि-निश्राकृतानिश्राकृतचैत्यभेदौ सूत्रकारेण साक्षात्सूत्रपदेन प्रतिपादितौ, भक्तिचै-12 ॥५१॥ त्यमङ्गलचैत्यशाश्वतचैत्यानि तु आयतनविधिचैत्यपदाभ्यां संगृहीतानि, अथ सम्यग्दृष्टिश्रावकैः साधुभिश्च यत्र|8 |चैत्ये कथमपि न गम्यते यत्र गतानां च सम्यक्त्वहानिर्भवति, तचैत्यस्वरूपं सविस्तरं व्याचिख्यासुराह MAMACHAMASALAALC Page #109 -------------------------------------------------------------------------- ________________ मलत्तरगुणपडिसेविणो य ते तत्थ सति वसहीसु । तमणाययणं सुत्ते सम्मत्तहरं फुडं बुत्तं ॥९॥ व्याख्या-'मूलुत्तरगुणेत्यादि' मूलगुणाः पञ्चमहाव्रतादिप्रतिपालनरूपाः सप्ततिः प्रकाराः, तदुक्तम् “वय ।। समणधम्म । १० । संजम । १७ । वेयावचं । १० । बंभगुत्तीओ।९। नाणाइतिगं । ३ । तव । १२ । कोहनि-४ ग्गहाई।४। चरणमेयं ॥१॥” उत्तरगुणा अपि पिण्डविशुद्ध्यादिरूपाः सप्ततिप्रकाराः, तदुक्तम् "पिण्डविसोही।४।। समई । ५। भावण । १२ । पडिमा य । १२ । इंदियनिरोहो।५। पडिलेहण । २५ । गुत्तीओ।३। अभिग्गहा।४। चेव करणं तु ॥१॥" तान् मूलोत्तरगुणान् 'प्रति प्रतिकूलं वैपरीत्येन सेवंत इत्येवंशीला येते मूलोत्तरगुणसेविनः मूलोत्तरगुणविराधकाः साधवो यत्र देवगृहे सन्ति तिष्ठन्ति वसतिषु तदनायतनं, सूत्रे सिद्धान्ते औघनियुक्तिकल्पनिशीथादौ प्रत्यपादि, तथा चौघनियुक्तिप्रभृति सिद्धान्तगाथा-"वज्जित्तुं अणाययणं आययणं गवेसर्ण सया कुज्जा । तं पुण अणाययणं नायचं दवभावेहिं ॥१॥" दवे रुहाइ घरं अणाययणं भावओ दुविहमेव ।। 8 लोइयलोगुत्तरियं तइयं पुण लोइयं भणिमो ॥ २॥ खरिया तिरिक्खजोणी तालायरसमणमाहणसुसाणे । वागुरियं वाह गुम्मिय हरिएस पुलिंदमच्छंधा ॥३॥” अस्या विषमपदव्याख्या लिख्यते 'खरिया' वेश्या 'तिरिक्खेत्यादि गोमहिष्यादयः, तालायराश्चारणाः, समणाः शाक्यादयः, माहणाः--प्रतीताः, सुसाणे स्मशानं, वागुरियं मृगजालं, 'वाहा' व्याधाः 'गुम्मिय' गुप्तिपालाः, हरिएसः, चाण्डालः पुलीन्देति गाथार्थं । मच्छंधा हू Page #110 -------------------------------------------------------------------------- ________________ कुलकवृत्तिः चैत्यवन्दन- मत्स्यबन्धकाः, अह लोगुत्तरियं पुण अणाययणं भावओ मुणेघवं । जे संजमजोगाणं करिति हाणी समस्थावि ॥४॥ नाणस्स दंसणस्स य चरणस्स य जत्थ होइ वग्घाओ । वज्जिज्जवजभीरू अणाययणं वजओ खिप्पं ॥५॥ ॥५२॥ जत्थ साहम्मिया बहवे भिन्नवित्ता अणारिया । मूलगुणपडिसेवी अणाययणं तं वियाणाहि ॥६॥ जत्थ साह म्मिया सवे भिन्नवित्ता अणारिया। उत्तरगुणपडिसेवी अणाययणं तं वियाणाहि ॥७॥ जत्थ साहम्मिया बहवे भिन्नवित्ता अणारिया लिंगवेसपडिच्छिन्ना अणाययणं तं वियाणाहि ॥ ८॥ इत्यौधनियुक्तौ "वुड्डा वासो हैरई धम्मे अणाययणवज्जणा । निग्गहो य कसायाणं एवं वीरस्स सासणं ॥१॥” इति निशीथभाष्ये, तदना यतनं कीदृशमुक्तं, सम्मत्तहरं, सम्यक्त्वं हरति सम्यक्त्वहरं सम्यक्त्वविनाशकं, ननु सिद्धान्ते भगवतां त्रिजगदत्र भगवतां श्रीवीतरागाणामहतां चैत्यदर्शनेन बिम्बदर्शनेन च मिथ्यादृशामपि बोधबीजलाभ उपवर्ण्यते, अत एव वसतिमार्गप्रकाशिभिः श्रीजिनेश्वरसूरिभिरभ्यधायि पञ्चलिंग्यां-"नायजियवित्तेणं कारेमि जिनालयं महारम्मं । तईसणाओ गुणरागिणो जंतुणो वीयलाभोत्ति ॥१॥' कारेमि बिंबममलं दह्र गुणरागिणो जओ बोहिं । सज्जो लभिजमन्ने पूयाइसयं च दट्टणं ॥२॥" तत्कथमत्र मूत्रकारणाहतां चैत्यं सम्यक्त्वहरं प्रत्यपादि सत्यमेतत्परं सिद्धान्ते श्रीगणधरैः श्रुतधराचार्यश्च शुद्धयतिधर्मश्रावकधर्मसंविग्नपाक्षिकधर्मरूपाः सम्यक्त्व मूलास्त्रय एव मोक्षमार्गाःप्रणिजगदिरे,शेषास्तु ब्राह्मणजटाधरमूलोत्तरगुणभ्रष्टद्रव्यलिङ्गिसाधवो मिथ्यादृश एव, अत एव श्रीउपदेशमालायां धर्मदासगणिनोक्तं 'सावजजोगपरिवजणाइ सबुत्तमो जईधम्मो । वीओ साय ॥५२॥ Page #111 -------------------------------------------------------------------------- ________________ गधम्मो तईओ संविग्गपक्खपहो॥१॥" सेसा मिच्छदिट्ठी गिहिलिंगकुलिंगदवलिंगेहिं ।जह तिन्नि य मुक्खपहा संसारपहा तहा तिन्नि ॥२॥” अतो यदि मूलोत्तरगुणभ्रष्टसाध्वधिष्ठितचैत्ये सम्यग्दृशः श्राद्धाः साधवश्च गच्छन्ति तदा तेषां द्रव्यलिगिनां महिमातिशयं दृष्ट्वा व्याख्यानं च श्रुत्वा तान् प्रशंसन्ति, खचेतसि विस्मयं है यदा कुर्वन्ति तदा तेषां सम्यक्त्वमालिन्यं संपनीपद्यते। अतो युक्तमुक्तम् अनायतनं सम्यक्त्वहरमिति, अधुना यत्र देवद्रव्यनिष्पन्ने मठादौ द्रव्यलिगिनो वसन्ति तत्स्वरूपं, तत्रानायतने सूत्रसंवादेन गमनप्रतिषेधं चाहजत्थ वसन्ति मढाइसुचियदबनिओगनिम्मिएसु च। साहम्मिणो त्ति लिंगेण सा थली इय पकप्पुत्तं १० तमणाययणं फुडमविहिचेइयं तत्थ गमणपडिसेहो। आवस्सयाइ सुत्ते विहिओ सुसाहु सड्ढाणं ॥११॥ व्याख्या--यत्रेति समीपाधिकरणे सप्तमी यद्देवगृहसमीप इत्यर्थः, वसन्ति मठादिषु कीदृशेषु 'चियदत्वनिओगनिम्मिएसु' चैत्यद्रव्यस्य नियोगोव्यापारनं-वेचनं तेन निमितेषु निष्पादितेषु चः पुनरर्थे,के वसन्ति साधमिकाः, केन लिङ्गेन रजोहरणादिकेन मूलोत्तरगुणभ्रष्टा द्रव्यलिङ्गिन इत्यर्थः, देवगृहम् अणाययणं थली सेत्यादि अक्षरैः प्रकल्पे निशीथाध्ययने सा थलीत्युक्तं प्रतिपादितं, यथा स्थल्या वन्दनादिकं निष्फलम् , एवं द्रव्यलिङ्गिप-5 रिगृहीतचैत्यबिम्बनमस्करणमपि निष्फलमित्यर्थः, अत एततत्पूर्वोक्तविशेषणोपेतं चैत्यमनायतनं मूलोत्तरगुणभ्रष्टैद्रव्यलिङ्गिभिः परिगृहीतत्वात्, पुनः कीदृशं 'स्फुटमविधिचैत्यं' सिद्धान्तप्रणीतविधेरभावात् , ताम्बूला Page #112 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥५३॥ दिनाऽशातनाप्रवृत्तेश्च 'सुसाहु सड्डाणमिति' प्रान्ते वर्तमानमप्यत्र सम्बध्यते, सुसाधूनां सुश्रावकाणां च तत्रा-कुलकवृत्तिः नायतनचैत्यगमनप्रतिषेधो विहितः प्रतिपादितः, तथाहि-"असंजयं न वंदिजा, मायरं पिउरं गुरुं । सेणावई पसत्यारं, रायाणं देवयाणि य ॥१॥ 'ओसन्नो पासथो होइ कुसीलो तहेव संसत्तो । अहछंदो चिय एए अवंदणिज्जा जिणमयम्मि ॥२॥' इत्याद्यनेकगाथाभिरावश्यकसिद्धान्ते सुसाधूनां सु श्रावकाणां च मूलोत्तरगुण-दू भ्रष्टद्रव्यलिङ्गिपार्श्वस्थावषन्नादिसाधुवन्दनकनमस्करणसंसर्गादिकरणं विस्तरेण प्रतिषिद्धमस्ति, अनायतनदेवगृहे च मूलोत्तरगुणभ्रष्टद्रव्य लिङ्गिन एव वसन्त्यतः सुसाधुश्रावकाणां तत्र गमने दाक्षिण्यादिकारणवशात् 3 मूलोत्तरगुणभ्रष्टसाधुनमस्करणालापसंसग्गादिकं च जायते, अत आवश्यकादिसिद्धान्ते भ्रष्टसाधुनमस्करणादौ निषिद्धे तन्नमस्करणसंसग्गोदिकारणेऽनायतनदेवगृहे सुसाधूनां सुश्रावकाणां च सुतरां प्रतिषेध उक्तः, | "अहं भंते तुम्हाणं समीवे मिच्छत्ताओ पडिकमामि, सम्मतं उवसंपज्जामि, (ति) नो मे कप्पइ अजप्पभिइ अन्न उत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा” इत्यादि सम्यक्त्वप्रति|पत्तिसूत्रालापकेन च श्रीभद्रबाहुवामिभिरावश्यकसिद्धान्ते सुसाधुश्रावकाणामनायतनचैत्यगमनप्रतिषधः प्रत्यपादि, यतो द्रव्यलिङ्गिनामपि उत्सूत्रकारित्वेनान्यतीर्थिकत्वात, 'आवस्सयाइ सुत्ते' इति आदिपदेन "वुड्डा- ॥५३॥ वासो रई धम्मे अणाययणवजणा। निग्गहो कसायाणं एयं वीरस्स सासणं ॥१॥ इति गाथया निशीथभाष्येण G |चानायतनचैत्यगमनप्रतिषेध उक्तो ज्ञेयः, तदेवमावश्यकादिसिद्धान्तानुसारेणेमाभिर्गाथाभिः । सूत्रकारेण पर -5 Page #113 -------------------------------------------------------------------------- ________________ तीर्थगमनवदनायतने सुसाधुश्रावकाणां गमनप्रतिषेधकप्रतिपादयता चैत्यवासस्य जिनप्रवचनप्रतिपन्थिमहामिथ्यात्वमोहितमतिधूर्तजनपरिकल्पितत्वमत्र सूच्यते, तथाहि सकललोकालोकस्थसमस्तवस्तुस्तोमप्रकाशककेवलालोकवति निखिलमामर्त्यदितिजयतिविततिवन्दितांघ्रिपंकेरुहयुगले सकलत्रैलोक्यानुशास्तरि भगवति श्रीवर्द्धमानजिनवरेन्द्रे मुक्तिसाम्राज्यमुपेयुषि कियत्र सम्बत्सरशलेपु अलिकान्तेपु दशमाश्चर्यवशात् , प्रबललोभवासनाच्छादितहृदयविवेकलोचनैनिःशूकचक्रचूडामणिभिरधमाधमैरैहलौकिकसुखबहुमानिभिर्नामाचार्यैरुपाध्यायसाधुनामधारिभिश्च द्रव्यलिङ्गिभिः "चेईदत्वविनासे रिसिधाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी वोहिलाभस्स ॥१॥ जिणपवयणवुड्किरं पभावगं नाणदंसणगुणाणं । भक्वन्तो जिणदवं अणंतसंसारिओ होइ ॥१॥ दुन्भिगन्धमलस्सावि तणुर (ग)प्पेस पहाणिया उभओ वाउवहो चेव ते न हँति न चेइए ॥३॥ आसायणमिच्छन्तं आसायणवजणा य सम्मत्तं । आसायणानिमित्तं कुछह दीहं च संसारं ॥४॥” इत्यादि सिद्धान्तरहस्यमवगणय्य चैत्यवासः पर्यकल्पते, हिंगुशिवदृष्टान्तेन लोकैश्चादृतः, अतो हिंगुशिवकथानकेन सकलसकर्णकर्णपालीप्राघूर्णकातिथ्यं वितन्यते,श्रेणीभूय मिथः प्रेम्ला लक्ष्मणैः परिपूरितम् । महासर इवास्ति स्म श्रीवसन्तपुरं पुरम् ॥ १॥ यथार्थपार्थिवो जज्ञे तत्र श्रीशत्रुमर्दनः । विश्रुतं यशसात्मानं चके राज्यं च यः। |श्रिया ॥२॥ पुरगोपुरदुर्गार्चाकारी कुसुमपालकः । तत्रैको मालिकोऽवात्सीद् धनी दुर्गावलिग्रहात् ॥३॥|8 है अन्येचुर्नागरा जग्मुः क्रीडार्थ नगरादू बहिः । सहस्राम्रवणे भद्रशाले विद्याधरा इव ॥ ४ ॥ जीरकक्षारहिंग्वा-1 Page #114 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥ ५४ ॥ व्यं करंबवटकादिकम् । भोजनार्थं जनाः सर्वे सह निन्युः प्रमद्वराः ॥ ५ ॥ गच्छद्भिस्तैः प्रतोलीस्थ दुर्गाग्रे वटकादिकम् । स्तोकमेकैकशो दत्तं भूर्यभूत् समवायतः ॥ ६ ॥ ततस्तदात्मसाच्चक्रे सर्वं कुसुमपालकः । आहरच्च कणेहत्य जन्मादृष्टमिवाग्रतः ॥ ७ ॥ तदादिक्षन्नृपो भृत्यान् राजवर्त्म विशुद्धये । तच्छुद्धिं ते द्रुतं कृत्वा नृपालाग्रे व्यजिज्ञपत् ॥ ८ ॥ प्रौढपट्टगजारूढस्ततः सान्तः पुरो नृपः । सहस्राम्रवणेऽगच्छत् क्रीडार्थं सपरिच्छदः ॥ ९ ॥ तत्र प्रववृते क्रीडा स पौरस्य महीपतेः । सामरस्यामरेशस्य पारिजातवने यथा ॥ १० ॥ ततः कुसुमपालोऽगाद् | वाटिकायां करण्डकम् । लात्वा तं चम्पकाशोकादिभिः पुष्पैर्बभार च ॥ ११ ॥ ततः सोऽभिपुरं गच्छन्नतुच्छाहारभक्षणात् । राजमार्गस्थितो जज्ञे कायचिन्तासमाकुलः ॥ १२ ॥ विजनं वीक्ष्य तत्रैव पुरीषमुत्ससर्ज सः । पुष्पप्रकरमध्याच्च तदूर्ध्वं भयविह्वलः ॥ १३ ॥ आरक्षकादि कः कश्चिन्माद्राक्षीन्मामिति द्रुतम् । नष्ट्वा तदेश|तोऽग्रेऽगात् सकः कुसुमपालकः ॥ १४॥ क्रीडाक्रीडादथागच्छजनस्तं पुष्पसंचयम् । अजीर्णाहार हिंग्वादिदुर्गन्धं दृष्टवांस्तदा ॥ १५ ॥ तत्र कश्चिद् वसन्नूचे भो भोः पश्यत पश्यत । अयं हिंगुशिवो देवः स्वयंभूर्बहिरुत्थितः ॥ १६ ॥ महातीर्थमिदं भावि महामहिममन्दिरम् । अर्हत्यहमिदं नूनं प्रसूनप्रकरैर्नवैः ॥ १७ ॥ न प्रैक्षि पूर्व| मुद्याने गच्छद्भिरिदमात्मभिः । अधुनैव समुद्भूतं स्वप्रभावादिदं यतः ॥ १८ ॥ इत्युक्तास्तेन ते पौरास्तत्स्व| रूपमविन्दवः । तदुर्ध्वं पुष्पसंघातं चिक्षिपुर्भक्तिपूर्वकम् ॥ १९ ॥ पाश्चात्यैरपि तैस्तत्र प्रवाहाद् विदधे तथा । ततः क्रमेण तस्योर्ध्वं प्रासादो विदधे जनैः ॥ २० ॥ एवमज्ञाततत्त्वैस्तैः पूज्यमानं महादरात् । तत्तीर्थं प्राप कुलकवृत्तिः ॥ ५४ ॥ Page #115 -------------------------------------------------------------------------- ________________ ++ AARAKHARA विख्यातिं यथा सर्वदिशाखलम् ॥ २१ ॥ तथायं चैत्यवासोऽप्यतत्त्वज्ञैः परिकल्पितः। सातशीलैर्ययौ रूढिं भस्मकाद्यनुभावतः॥२२॥ इति हिंगुशिवकथानकं संपूर्णम् ॥ ७॥ अत एव श्रीआशापल्या पूर्वसैद्धान्तिकचक्रचूडामणिभिर्वादीन्द्रद्विपदघटाविद्रावणकेशरिभिर्निश्छद्मशुद्धक्रियाकारिभिः श्रीजिनपतिसूरिभिः श्रीप्रद्युनसूरिभिः सहायतनानायतनवादं कुर्वाणैः सकलान्याचार्यचक्रप्रत्यक्षम् औघनियुक्त्यादिसिद्धान्तानुसारेण सविस्तरमायतनं संस्थाप्यानायतनं निराचक्रे, अतोऽनायतनपरिहारे सर्वसाधुभिः सम्यग्दृष्टिश्रावकैश्च यतितव्यम् ॥१०॥ अथ चैत्यवासिनां मिथ्यादृष्टित्वे हेतुमन्येषां दुष्करक्रियाकारिणामपि मिथ्यादृष्टित्वं च प्रतिपादयन् गाथाद्वयमाह जो उस्सुत्तं भासइ सद्धहइ करेइ कारवे अन्नं । अणुमन्नइ कीरंतं मनसा वायाएकाएणं ॥ १२॥ मिच्छदिट्ठी नियमा सो सुविहियसाहुसावएहिं पि। परिहरणिजो जइंसणे वि तस्सेह पच्छित्तं ॥१३॥3 व्याख्या-यः साधुः श्रावको वा उत्सूत्रं सिद्धान्तविरुद्धं भाषते, मुग्धजनानामग्रे प्ररूपयति । यश्च शृण्वन्नुत्सूत्रं श्रद्धधाति, सत्यमेवैतदिति मनसि धारयति, यश्च करोति सिद्धान्तगीतार्थाचरणा विरुद्ध क्रियाकलाप समाचरतीत्यर्थः, कारयति च 'अन्यम्' अन्यपार्थात् उत्सूत्रं क्रियाकलापं निर्मापयतीत्यर्थः, तथोत्सूत्रं क्रिय-15 |माणं मनसा वचसा कायेन चानुमन्यते प्रधानं क्रियामेषः करोतीतिचिन्तनेन मनसा, शोभनोऽस्य क्रियाकलाप ++NCAKKARAN चैत्यव. १० Page #116 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- इति श्लाघनेन वाचा, मस्तकधूननहस्तसंज्ञादिना कायेन, इह जिनशासने योऽनुमन्यते, स सर्वोऽपि उत्सूत्र-कुलकवृत्तिः भाषणादिकारको नियमात् निश्चयेन मिथ्यादृष्टिः स्यात् , अतः सुविहितसाधुभिः सिद्धान्तानुसारिक्रियाका॥५५॥ रिमुनिभिः सम्यगदृष्टिश्रावकैरपि परिहरणीयः परिहर्तव्यः, किमिति उत्सूत्रभाषकादि संगः परिहरणीयः, ४ इत्याह-'यहंसणेऽपीत्यादि' यत् यस्मात् कारणात् तस्योत्सूत्रभाषिणो दर्शनेऽवलोकनेऽपि साधोः श्रावकस्य वा ४ प्रायश्चित्तं भवति, शास्त्रान्तरेऽपि उत्सूत्रभाषिणां साधूनां मिथ्यादृष्टित्वाद् दर्शनवन्दनादिप्रतिषेधः प्रतिपादितः, तद्यथा-"उस्मृत्तभासगा जे ते दुक्करकारगा वि सछंदा। ताणं न दंसणं पि हु कप्पइ कप्पे जओ भणियं का ४॥१॥ कढ करंति अप्पं दर्मिति दवं वयंति धम्मत्थी । इक्कं न चयहिं उस्सुत्तविसलवं जेण वुडंति ॥२॥ (उमग्ग)| है उस्सुत्तदेसणाए चरणं नासिंति जिणवरिन्दाणं। वावन्नदंसणा खलु नहु लम्भा तारिसा दह्र॥३॥ पयमक्खरं| पि इकं जो न रोवेइ सुत्तनिहिडं । सेस रोवंतोवि हु मिच्छद्दिट्टी जमालिच ॥४॥ अत एव सकलत्रैलोक्यपूज्यपादारविन्दस्य जगद्गुरोः श्रीवर्द्धमानवामिनोऽन्तेवासी श्रीगौतमवामिवहष्करक्रियाकलापकारी संपूर्णकादशाङ्गधारी मृरिपदोदयाद्रिशिग्वरांशुमालीजमालिः श्रीवीरवचनमेकमन्मत्रं प्रम्पयन्नाद्यनिहवो दर्शनवन्दना| दिव्यवहारवर्जनेन जिनशासनाद बहिश्चके, तथाहि-बभूव क्षत्रियकुण्डग्राम नाम महापुरम् । श्रीवीरजन्मना ॥ ५५॥ | विश्वे विश्वे विख्यानिमापयत् ॥१॥ शालः म्म शालते यत्र सुधोते-जितभित्तिभाक् । जात्यरूप्य भ्रम कुवन्नराणां दरदर्शिनाम् ॥ २॥ यत्र प्रामादप भोगोयदधमकालिमा । दृगदोषोच्छित्तये दधे कस्तृरीतिलक श्रि AACHCECACANCCESC46 CRICKANGANAMANC+ Page #117 -------------------------------------------------------------------------- ________________ यम् ॥ ३ ॥ पण्यपूर्णगृहे पत्र वणिजामापणालिषु । जनो साराणि साराणि वस्तृन्यादन्त कोऽपि न ॥ ४ ॥ सच्छाया भोगिनो भूरिविलासाः सुमनोरमाः । यत्रारामा बही रामा जनामध्ये बभुः सदा ॥ ५ ॥ श्रीसिद्धानृपाङ्गोद्भुस्तत्राभून्नन्दिवर्द्धनः । राजा न्यायप्रजाराज्य यशः सौभाग्यवर्द्धनः ॥ ६ ॥ प्रतापतपनो यस्य प्रफुल्लांकुबलावली । चकार भूरिभूच्छायोदयं यत्तदिहाद्भुतम् ॥ ७॥ तदीया भगिनी जज्ञे सुदर्शना सुदर्शना । जमालिस्तत्सुतः क्षात्रवंशां भोजांशुमाल्यभूत् ॥८॥ रूपसौन्दर्यकमला शालिनीं प्रियदर्शनाम् । सुतां वीरप्रभोरेष महय परिणीतवान् ॥ ९ ॥ यो रूपेण स्मरः साक्षाद् विक्रमेण त्रिविक्रमः । कलावत्त्वेन शीतांशुर्विवेकेन बृहस्पतिः ॥ १० ॥ भाग्य सौभाग्यमुख्यैस्तैर्गुणैर्विश्वमनोहरः । यो यामेयश्च जामाता श्रीवीरखामिनोऽभवत् ॥ ११ ॥ विहरन् वायुरिवासंग ः पुरग्रामाकरादिषु । श्रीज्ञातिनन्दनस्तस्मिन्नुद्याने समवासरत् ॥ १२ ॥ श्रीसमवसृतावगात् महद्धर्ज्या नन्दिवर्द्धनः । तेन सार्द्धं जमालिश्च वन्दितुं पश्चिमं जिनम् ॥ १३ ॥ स त्रिः प्रदक्षिणीकृत्य, नमस्कृत्य जिनं पुरः । आसांचक्रे ऽर्हतो व्याख्यां श्रोतुं सह जमालिना ॥ १४ ॥ दन्तकान्तिच्छलाज्ज्ञानाङ्करान् विस्फारयन् बहिः । संसारासारतामेवं, व्याचकार जिनेश्वरः ॥ १५ ॥ लक्ष्मीः कल्लोलवल्लोला, यौवनं क्षणनश्वरम् । रूपं विद्युत्स्वरूपं चास्येम च प्रेमबन्धुषु ॥ १६ ॥ रुजा संगं सदैवानं, बलं ध्वजलताचलम् । आयुर्वायुवदस्थास्नु, सुखं संध्याभ्रविभ्रमम् ॥ १७ ॥ जमालिस्तां समाकर्ण्य, भावनिद्रां जहौ क्षणात् । प्रातस्तूर्यरवं श्रुत्वा द्रव्यनिद्रामिवेश्वरः ॥ १८ ॥ ततो मात्रादिकान् बंधून्, संबोध्यासौ प्रबन्धतः । राट्पुत्रपञ्चशत्पादात्, ** Page #118 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- ॥५६॥ सहितः स्वहितं व्रतम् ॥ १९॥ पत्यो प्रव्रजिते वीरात्, संयमं प्रियदर्शना । ललौ पत्या हि मुक्तायाः, स्त्रियाः 1कुलकवृतिः स्याच्छरणं पिताः ॥ २० ॥ तया साधं च राट् पुत्री, सहस्रं संयम ललौ। शिवेच्छुः कोऽनुगन्ता स्यान्नशिवाध्वाभिगामिनः॥ २१॥ विश्वालोककरः स्वामी, विजहार पुनर्धरां ॥ लोकोद्योतकरो भानुः, पदं बध्नाति किं कचित् ॥ २२॥ जमालिश्च तपश्चक्रे, दुष्करं नियमानपि । अध्यष्टैकादशांगीं च, क्रमाद्वीरः क्रमानुगः ॥२३॥ पंचशत्या महर्षीणां, सहदीक्षामुपेयुषां । मध्ये व्यधात्तमाचार्यमन्यदा ज्ञातिनंदनम् ॥ २४॥ संसारतापनिर्वाप चंद्रिकामार्यचंदनाम् ॥ अन्वंचती तपोनिष्ठा, व्याहार्षीप्रियदर्शना ॥ २५॥ विहाँ पुनरन्येद्युः, जमालिस्सप-2 रिच्छदः । प्रणम्य श्रीमहावीरं, संजुर्विज्ञप्तवानदः ॥ २६ ॥ अनुजानीहि मां नाथ, पृथक्पृथ्वी विहर्तये । अनर्थ 8 भाविनं ज्ञात्वा, ततस्तूष्णीं व्यधात्प्रभुः ॥२७॥ पुनः प्रश्नेऽपि स खामि, मौनान्यूनमतिस्तदा । अवारितमनुज्ञातमित्यनिष्टमचिंतयत् ॥ २८ ॥ ततश्च स परीवारः, श्रीवीरः खामिपार्श्वतः। निर्गत्य विहरन्नुा श्रावस्त्यां स समागमत् ॥ २९॥ तबहिस्तिदुकोऽद्याने जमालेस्तस्थुषस्ततः । रूक्षशीतारसाहारैः सदा पित्तज्वरोजनि| ॥३०॥ सोऽनलंस्थातुमासीनः, श्रोतः कृष्टइवोऽपल। आदिदेशांतिपत्साधून , संस्तराधानहेतवे ॥३१॥ सेवका इव ते शिष्या, नृपाज्ञावदरोर्वचः। तथेति प्रतिपद्याशु, प्रक्रमंतेस्म संस्तरम् ॥ ३२॥ ज्वरेण व्यथितः। ॥५६॥ सोऽथ तान् पप्रच्छ पुनः पुनः। संस्तर: संसृतः पूर्णः किं वा नाद्यापि संमृतः॥३३॥ संसृतोऽयं संस्तरक इत्याख्य-18 न्मुनयोऽपि ते । जमालिवररोगा”, झडित्यागात्तदंतिके ॥ ३४ ॥ वीक्ष्य संस्तीर्यमाणं तं, सोऽनलंभूष्णुवि RC Page #119 -------------------------------------------------------------------------- ________________ ग्रहः । निपद्योद्भूतमिथ्यात्वः, क्रोधात्साधूनदोऽभ्यधात् ॥ ३५ ॥ रे रे भ्रान्तावयंभूरि, ज्ञातं तत्त्वमदोऽधुना ।। क्रियमाणं कृतं नैव, कृतमेव कृतं स्फुटम् ॥ ३६॥ संस्तीर्यमाणस्संस्तीर्णः, संस्तरो भवद्भिश्च यत् । जगदे तदस-13 त्यं भो, वक्तुं युक्तं न धीमताम् ॥ ३७॥ जायमानं च यत् ज्ञानं, क्रियमाणं कृतं तथा । प्रवक्यहन्नयुक्तं, तदध्यक्षेण विबाधतः ।। ३८ ।। पूर्वोऽपरक्षणबात, जायमाने च वस्तुनि । प्रारंभाद्यक्षणे जातमित्येवं कथ्यते कथम् ।। ॥ ३९॥ करोत्यर्थक्रियां यच्च वास्तवं वस्तु तद्भवेत् । तस्मिन्माद्यक्षणोत्पन्नेऽर्थे क्रियाकारितापि न॥४०॥ यद्यारंभेऽपि भोः कार्य, क्रियमाणं कृतं तदा। शेषकाले तदाधानेऽनवस्थादोषसंभवः॥४१॥ तद्युक्तियुक्तमेतत् भोः, कृतमेवकृतं ध्रुवम् । अजातस्य शिशोर्नाम दीयते नहि केनचित् ॥४२॥ निर्दोष मम तत्पक्ष, कक्षीकुर्वतु साधवः। नयुक्तमित्युपादेयं, गृह्यते युक्ति संगतम् ॥४३॥ स विचिंत्येति सत्यं न वक्यहन्निति नो मतम् । मिथ्या सोप्याह यदोषात् , दूषयंति गुरूनपि ॥४४॥ एवं त्रुवाणमुन्मुक्तसीमानमभिमानतः। जमालिं स्थविरा:स्माहुः, प्रतिकूलं किमात्थ भोः ॥ ४५ ॥ आरंभाचक्षणे जातं, नोच्यते वस्तुचेत्तदा । सर्वक्षणाविशेषान्न निष्पद्यत क्षणांतरे ॥ ४६॥ वस्तुनो लक्षणं प्रोचेऽर्थक्रियाकारिता त्वया । अभिधा ज्ञाननिष्पत्ती, तदप्यर्थवदेवहि ।। ४७ ॥ तद्यथा वस्तुतादृक्षं, कुर्वन्नारंभतो नरः। किं निर्मासीति पृष्ठःसन् पटाद्यभिधया भणेत् ॥४८॥ यच्चारंभे कृतकार्येऽनवस्थाकरणे पुनः । भूतानुत्पाद्य कार्याणां, करणात्सा वृथा ध्रुवम् ॥४९॥ युक्तायुक्तविवेकीन, छद्मस्थस्त्वादृशोहि यः। सोऽधीः कथमुपेत्याहङ्गाषितं सोपपत्तिकम् ।।५०॥ केवलादर्शसंक्रांतलोकालोकस्थवस्तुकः। अहद्वीरःप्रमाणं नो Page #120 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-वृथा ते युक्ति खेटनम् ।। ५१ ।। गुरुणां दृष्यतादोषैजल्पतः स्यात्तवैव सा । धूलिः क्षिप्ताभिचंद्र, किं क्षेप्नुः कलकवृत्तिः पतति नोपरि ॥५२॥ साध्वेव हि क्रियमाणं, कृतमित्यहतोऽदितम् । अन्यथास्य कथं विश्व, विश्वश्रद्धेय वाग्मिता ॥५७॥XM ॥५३॥ भवानपि च तद्वाक्याद्देवलोकसुखोपमम् । प्राज्यराज्यं परित्यज्य, प्रव्रज्यामाददे कथम् ॥ ५४॥ ४ तद्गत्वैतपि प्रायश्चित्तं लायर्हदंतिके । मानैषीनिष्पलं प्राप्त, संयमं जन्म च स्वकम् ॥ ५५ ॥ श्रद्धधात्यर्हतां यो नाक्षरमात्रमपि श्रुतम् । मिथ्यात्वं याति सोऽवश्यं, दुर्गतिं च ततः परम् ॥५६॥जमालिः स्थविररित्थं, बोधितोऽपि मुमोच न । कुमतं तत्तदा किं तु, तूष्णींचक्रेतरां शठः ॥५७॥ तदैव स्थविराः केऽपि, तमुन्मार्गप्ररूपिणम् ।। 3 मुक्त्वार्हत्संनिधौ जग्मुः, केऽपि तस्थुस्तदंतिके ॥ ५८॥ हित्वा द्वेधा गुरुं वीरं, तत्पक्षं प्रियदर्शना । अन्वगा-16 द्भर्तृरागोहि स्त्रीणां तातादिकाधिकः ॥ ५९॥ उक्तं च-धवानुरागोजनकादिरागान्महागरीयानिति सत्यमुक्तम् । |जमालिमत्वैदवमत्यवीरं गुरुं यदायोप्रियदर्शनापि ॥१०॥जमालिरथ कालेन, नीरुगंगाकदध्वधीः। पातयन कुमते तस्मिन् , प्रत्यहं मुग्धदेहिनः ॥११॥ हीलयनहतो वाक्यं,सर्वज्ञोस्मीति संगृणन् । विहर्तु सपरीवार:|प्रावतिष्ठाभिमानभाक ॥३२॥ यग्म-मोऽन्यदा पूर्णभदाख्ये वने चंपापरीवहिः। बीरं वप्रत्रयासीन, दृष्ट्वाभाणी, ४ान्मदाददः ॥६३॥ आरोपयस्त्वमुन्मार्ग, भगवन् गौतमादिभिः। शिष्यवंदैवतो नूनं, छद्मस्थाऽत करिष्यसि ॥ ६४ ॥ अहंतु केवलज्ञानदर्शनश्रीःपरीवृतः । सन्मार्ग स्थापयन्नहन सेत्स्याम्यस्मिन्भवेऽपि हि ।। ६५ ।। अथ तं गौतमम्वामी गुरुवीरपराभवं । नैव मोदमलंभृष्णुमध्ये संमजगाददः ॥६६॥ जमाले केवल ज्ञानी, यदिवं ॥५७॥ Page #121 -------------------------------------------------------------------------- ________________ वर्तसे तदा । नित्योवायमनित्यो वा लोको जीवश्च जल्प भोः ॥६७॥ प्रत्यलो नोत्तरं दातुं, जमालिर्व्यात्तवक्रकः । व्याकुलो निश्वसन् तस्थौ, ग्रीष्ममध्यं दिनेश्ववत् ॥ ६८ ॥ सच्छायः सर्वविद्वीरः, कृपालुस्तं जगावथ । जमालेवस्तुतोऽवेहि, लोकोयमुभयात्मकः ॥ ६९ ॥ लोको हि द्रव्यरूपत्वापेक्षयानित्य उच्यते । अनित्यः क्षणविध्वंसि, पर्यायापेक्षया पुनः ॥ ७० ॥ एवं जीवोऽपि जीवत्व, द्रव्यत्वादिह शाश्वतः । नरामरादि पर्याय, परिवर्तादशाश्वतः ॥ ७१ ॥ एवं जिने बुवाणेऽपि, मिथ्यामोहितमानसः । जमालिः सपरीवारो, निरगाद्देशनावनेः ॥ ७२ ॥ निन्हवत्वात् वहिश्चक्रे, ससंघेन तदा पुनः। चतुर्दशसमाः खामिः केवलज्ञानसंपदः॥७३॥ जमालिरथ सर्वज्ञं, मन्यः स्वैरविहारकृत् । स्वमतं स्थापयन् शश्वत्सर्वत्र व्यहरद्भुवि ॥ ७४ ॥ अभूत्सर्वत्र विख्यातिः, जमालिर्यज्जिनेशितुः । प्रत्यर्थी दुर्मतारोपान्मिथ्यादृष्टिरिति स्फुटम् ॥ ७५ ॥ अन्यदा विहरन्पुर्यां श्रावस्त्यां स पुनर्ययौ । तदीयोऽपवनेऽवास्थात्, परीवारपरीवृतः ॥ ७३ ॥ स्थानेस्थाने मतं तस्यारोपयंती समंततः । तच्छायेवानुगच्छंती, कुर्वती दुस्तरं तपः ॥ ७७ ॥ साध्वी सहस्रसंयुक्ता, साध्वी सा प्रियदर्शना । ढंकारख्यकुंभकारस्य तदा तस्थावुपाश्रये ७८ ॥ युग्मम्॥ मिथ्यात्वमोहितां वीक्ष्य, ढंकस्तां श्रावकाग्रणीः । दध्यौ केनाप्युपायेन, बोधयिष्याम्यमूमहम् | ॥ ७९ ॥ उच्चिन्वानोऽथ भांडानि, सच्छन्नं बुद्धिपूर्वकं । अन्येद्युरक्षिपद्दीपं तत्पटे शिखिनः कणम् ॥८०॥ खपटं दह्यमानं तं दृष्ट्वा सोवाच तं प्रति । भवद्वैगुण्यतो बाढं, पटोदग्धो ममाधुना ॥ ८१ ॥ सोप्यूचे साध्विमावादीरलीकं ते मते यतः । ईदृशं भणितुं युक्तं पटेदग्धेऽखिलेऽपि हि ।। ८२ ॥ दह्यमानं जिनैरेव, वस्तुदग्धं निगद्यते । Page #122 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-तदंगीकर्तुमुचिता, तद्गीरनुभवात्तव ॥ ८३ ॥ संजातबुद्धधीः सापि, तद्वचःश्रवणाजगी । चिरं मूढाप्यहं चारु, कुलकवृत्तिा बोधिता ढंक भोत्त्वया॥८४॥ धिग्मय यचिरं सत्यं, गर्हितं हाहतं वचः। मिथ्यासुदुष्कृतं तन्मेऽतःपरं शरणंच तत्तू ॥५८॥ ॥ ८५ ॥ ढंकोऽथ तामुवाचैवं, साध्विसाध्वितिविद्धिचेत् । अहंदहीश्रयाद्यापि, प्रायश्चित्तं कुरुष्व च ॥ ८६॥ तेनेति भणिता साथ, तथेति प्रतिपादिनी । मुक्त्वा जमालिमहतं, शिश्राय सपरिच्छदा ॥८७॥ हित्वा जमालिमन्येऽपि, साधवो बोधिताःसमे । ढंकेन श्रीमहावीरमन्वगुः स्थिरमानसाः॥८८॥ एकाक्येवाथ स भ्राम्यन् भूरिवर्षाणिभूतले । जनं प्रतारयामास, दुर्मतेन व्रतं चरन् ॥ ८९॥ दुष्कर्मा तदनालोच्य, प्रांते संत्यज्य भोजनं । मासार्द्ध स मृतः षष्ठे, कल्पे किल्बिषकोऽजनि ॥ ९० ॥ मिथ्याभिमानपरिकल्पित दुर्मतेन, श्रीसंघवाद्यमवगम्य जमालिमेवं । सम्यक्त्वशुद्धिरसिकाः भविकाः प्रयत्नात् , उत्सूत्रभाषियति संगतिमुज्झतासु ॥ ९१॥ इति श्रीउत्सूत्रभाषकसंस्तववंदनादिव्यवहारपरिहारविषये जमालिनिन्हवकथा समाप्ता । अधुना सम्यक्त्वप्रतिपत्ती सम्यग्दृष्टिश्रावकैः परिहर्तव्यानि, भवोरुहविस्तारमूलभूतानि मिथ्यात्वस्थानकान्याह "धम्मत्थमन्नतित्थे न करे तवन्हाणदाणहोमाई।" धर्मार्थ नरेन्द्रासुरेन्द्रसुरेन्द्रशिवकमलावरवर्णिनीपाणिपीडनभूदेवदेशीयधर्मपुरुषार्थप्रास्यर्थ अन्यतीर्थे मिथ्यादृष्टिदेवगृहादौ तपएकादस्युपवासपंचाग्निसेवनादिरूप, ॥५८॥ सम्यग्दृष्टिःश्रावको न कुर्यात् । यतो मिथ्यादृशां क्रोधाभिध्यातचेतसां, दुदातेन्द्रियाश्चकिशोराणां, विवेकलोचनविकलानां कन्दमूलफलभक्षणसचित्तजलपानवन्हिप्रज्वालनादिसावध्यव्यापारषडिधजीवोपमर्दनपराणां, ताप Page #123 -------------------------------------------------------------------------- ________________ XAASARALAACY मादीनां, षष्टारमादितपोऽपारममारपारावारनिपातहेतु: मिद्धान्ने श्रुनधरैर्गीयते । तथाहि, "नाणं चरित्त हीन लिंगग्गणं च दंमणविहणं । मंजमहीणं च नवं जो चरह निरच्छयं तस्म ॥१॥” तथा-अन्ये तीर्थ गंगायमुना सरस्वतीत्रिपुष्करपंचनदादिलौकिकतीर्थे सम्यग्दृष्टिश्रावको धर्मार्थ स्नानं न कुर्यात् । यतस्तत्र स्नाने अप्कायानेकपूतरमत्स्यकच्छपादिजीवविनाशेन घोरपापपंकेन शरीरिणां शुद्धदानशीलतपःसत्यवचो विकलानामधिकतरमात्मनो मालिन्यमेव संजायते । न कश्चन शुद्धिलेशोऽपि । यत उक्तं, “मिथ्यादृशामेव शास्त्र, आत्मानदीसंयमतोयपूर्णा सत्यावहाशीलतटादयोर्मी। तत्राभिषेकं कुरुपांडुपुत्र न वारिणा शुध्यति चांतरात्मा॥१॥” तथा मिथ्यादृष्टितीर्थे सुश्रावको गोदान तिलदानरूप्यदानसुवर्णदानपिण्डदानादि दानं न कुर्यात् । न दद्यादित्यर्थः । अतो मिथ्यादृष्टितीर्थे प्रायः पविधजीवनिकायरक्षारूपसंयमबहिष्कृतेभ्यः सकलसारासारवस्तुग्राहिभ्यः सागरवदु:पूरेभ्यः परमपरिग्रहारंभपरेभ्यः समस्तदेवासुरव्यंतरवशीकरणचतुरब्रह्मव्रतरहितेभ्यः पशुवन्नक्तंदिवं चतुर्विधाहारनिरतेभ्यो ब्राह्मणादिभ्यएव दानं दीयमानं न संसारसागरनिस्ताराय मंपनीपद्यते । प्रत्युत सकलक्लिष्टकमबन्धायैव भवति । तथाचोक्तं-"दाणं दिपणं नरवर अफलं, न जुहवइ एस परमत्थो । पत्ते तं पुन्नफलं हवइ अपत्ते अपुन्नफलं॥१॥” इंदियकसायगारव निम्महणो छिन्नबन्धणो धणियं । पंचमहत्वयजुत्तो, नाणाइ जुओ मुणी पत्तं ॥ २॥ जं तव संजमहीणं नियमवितणं च बंभपरिहीणं । तं सिलसमं अपत्तं वुडतं वोलए अन्नं ।। ३॥" तथा सम्यग्दृष्टिश्राद्धो घृतदधिगुलालादिभिः छागादिभिश्च नानात्रसस्थावरजीवविघातकारित्वान्नरकांधकृपप Page #124 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥ ५९ ॥ तनहेतुं होममपि न कुर्यात् उपलक्षणत्वान्न कारयेदिति च । तथा " होमाई ” इत्यत्रादिशब्देन सूत्रकारो भवोर्वीरुहमूलभूतानि अन्यान्यपि मिथ्यास्थानकानि सूचयति, तानि च चतुर्विधमिध्यात्वस्वरूपप्ररूपणेन पूर्वश्रुतधर| विरचितचतुर्विधमिध्यात्वकुलकगाथाभिः सविस्तरं प्रदश्यते । तथाहि लोइयलोउत्तरियं देवगयं गुरुगयं च उभयंपि । पत्तेयं नायवं जहक्कमं सुत्तओ एवं ॥ १ ॥ व्याख्या - मिथ्यात्वं लौकिकलोकोत्तर भेदात् द्विधा भवति, तथाहि लौकिकमिथ्यात्वं लोकोत्तरमिध्यात्वं च तद्विविधमपि प्रत्येकं देवगतगुरुगत भेदाद्विधा ज्ञातव्यं । एवं च मिथ्यात्वस्य चातुर्विध्यं समजनि । तद्यथा, देवविषयं लौकिकमिध्यात्वं, गुरुविषयं लौकिकमिथ्यात्वं, देवविषयं लोकोत्तरमिथ्यात्वं, गुरुविषयं लोकोत्तरमिथ्यात्वं । तत्राद्यभेदविषयाणि मिथ्यात्व स्थानकानि प्रतन्यंते हरिहरवंभाईणं गमणं भवणेसु पुयनमणाई | वज्जिज्जसम्मदिट्ठी तदुत्तमेयंपि निच्छयओ ॥ २ ॥ व्याख्या - विष्णु ईश्वर ब्रह्मादीनां गृहेषु गमनं पूजा नमस्कारादिकरणं च मिथ्यात्वस्थानं 'तदुत्तमेयंपीति' तैर्मिथ्यादृष्टिभिरुक्तमेतदपि वक्ष्यमाणं देवविषयं मिध्यात्वस्थानं वर्जयेत्, निश्चयतः सम्यग्दृष्टिः तदेवाहमंगलनामग्गहणं विणायगाईण कज्जपारंभे । ससिरोहिणिगोयाई विणायगट्टवण वीवाहो ॥ ३ ॥ &&& कुलकवृचिः ॥ ५९ ॥ Page #125 -------------------------------------------------------------------------- ________________ PARA**************THIS व्याख्या-कार्यारंभे हट्टोपवेशनादौ लाभादौमांगलिक्याथ विनायकादीनां नामग्रहणं, चंद्ररोहिण्यो गीतगा-13 नादि, विवाहे विनायकस्थानं छट्रीपूयण मा कुण ठवणवीयाइ चंददसियं च । दुग्गाईणोवाईयतुत्तलयगहायमहिमं च ॥४॥ व्याख्या-पुत्रजन्मादौ षष्ठीदिने, रात्री षष्ठीदेवता पूजन, विवाहादिमहोत्सवेषु मातृणां स्थापनं, शुक्लद्वितीयायां चंद्रप्रति दशिकादानं, चंडिकादीनामुपयाचितकरणं, तोतुलाग्रहादि पूजनम् चित्तट्टमि महनवमी रविहरनिक्खमणसूरगहणाई । होलियपयाहिणं पिंडपाडणं थावरे पूया ॥ ५॥ व्याख्या-चैत्रशुक्लाष्टमीनवमीदिने गोत्रदेवताविशेष पूजनं, माघशुक्लषष्ठ्यां सूर्य रथयात्रा, सूर्यचंद्रग्रहणादौ । विशेषतः लानदानप्रतिमादि पूजनानि, रजोमहोत्सवदिने होलिकायां प्रदक्षिणादानं, पितॄणां पिंडदानं, शनिवारे पूजार्थ विशेषतस्तिलतैलादिदानम् दुवट्ठमिसंकंती पूयारेवंतपंथदेवाणं सिवरत्ति । वच्छवारसिखित्तेसीयाए अच्चणयं ॥ ६॥ व्याख्या-भाद्रपदशुक्लदूर्वाष्टमीदिने विशेषपूजादिकरणं च, सूर्यसंक्रांतिदिने विशेषपूजालानदानादिः, रेवंतपंथदेवतयोः पूजनं, फाल्गुनकृष्णचतुर्दश्यां शिवरात्रौ रात्रिजागरणादि, भाद्रपदवदिवत्सद्वादशीकरणं, है क्षेत्रे शीताया हलदेवतायाः कृषिप्रारंभे अर्चनम् CARRICANSPIRICARRIGANGS Page #126 -------------------------------------------------------------------------- ________________ कुलकवृत्तिः चैत्यवन्दन॥६ ॥ देयससत्तमि नागपंचमी मल्लगाई मा कुणं । रविससिवारेसु तवो कुदिद्विगुत्ताई सुरपूया ॥७॥ व्याख्या-शुक्लसप्तम्यां वैद्यनाथादेर्देवस्य सप्तम्याश्च पूजनं उपवासादिकरणं, प्रतिगृहं स्त्रीभिः कणभिक्षा च, श्रावणे (फाल्गुने) शुक्लनागपंचम्यां नागपूजनं, पुत्रादिजन्मनि मातृशरावाणां बूढानामिकानां भरणं, आदित्यसोमवारयोरेकासनादितपःकरणं, मिथ्यादृष्टिगोत्रदेवता पूजा नवरत्ताइसु तवपूयमाइ ब्रहअट्रमग्गिहोमं च ।सुन्निणि रूप्पिणि रंगिणि प्रयाघय कंबलोमोहो॥८॥ ___ व्याख्या-आश्विनचैत्रमासशुक्लपक्षयोर्नवरात्रयोर्नागदेवता पूजा उपवासादिकरणं च । बुधाष्टम्यां अग्निकारिका करणं सुवर्णरूप्यरंगितवस्त्रपरिधानदिने सोनिनीरूपिनीरिंगिणीदेवता विशेषानाश्रित्य विशेषपूजालाहणिकादि दानं च, माघमासे घृतकंबलदानम्| कज्जलतईया तिलदभदाणमवि जंजलंजलीदाणो। सावणचंदणछट्टी गोपुच्छाइसु करुस्सेहो ॥९॥ व्याख्या--भाद्रपदकृष्णकज्जलतृतीया, शुक्लातुहरितालिका तयोःकजलीदेवतापूजादिः, मृतकार्थ जलांजलिदानं तिलदर्भदानं च, श्रावणशुक्लचंदनषष्ठी, गोपुच्छादौ हस्तोछेदः धात्वादिना हस्तक करणंअक्कछट्टी गोरीभत्तं च सवत्ति पियरपडिमाओ । उत्तरअयणं भूयाणमल्लगं गोमयतिइज्जा ॥१०॥ SACAREERACCORDCORE ॥६०॥ Page #127 -------------------------------------------------------------------------- ________________ व्याख्या-भाद्रपदमासे अर्कषष्ठीकरणं, माघशुक्लतृतीयायां गौरीभक्तं, सपत्नी पूर्वजपितृणां प्रतिमाकरणं, उत्तरायणदिने विशेषस्नानादिकरणं, भूतानां शरावदानं, आश्विनशुक्लगोमयतृतीयायाम् , देवस्स सुयणउहाण आमली कन्हपंडवाणं च । एक्कारसीतवाइं परतित्थे गमणखणकरणं ॥११॥ | व्याख्या-वासुदेवस्य खापे उत्थाने च, तथा फाल्गुनशुक्लपक्षे आमलक्यां-ज्येष्ठशुक्लपक्षे पाण्डवानां, एकादश्यां च सर्वमासेषु तासूपवासादिकरणं, परतीर्थे यात्रोपयाचितादिकरणम् । सद्धंमासियछम्मासियाइं पवदाण कन्नहलतिहओ।जलघडदाणं लाहणयदाणमविमिच्छदिट्रीणं ॥१२॥ व्याख्या-श्राद्धं मासिकषण्मासिकसांवत्सरिकाणि, प्रपादानं, धर्मार्थ परकीयकन्यायाः पाणिग्रहणकारणं, षष्ठ्यादितिथिष्वकर्तनं, दध्यविलोडनं च, मृतकार्थं जलघटदानं, मिथ्यादृष्टिगृहेषु लाहणकदानम्, । कोमारियाइभत्तं धम्मत्थं चच्चरीओ चित्तंमि । अस्संजयलोयाणं अखयतइया अकत्तणयं ॥ १३॥ | व्याख्या-कुमारिकाभोजनदानं, धर्मार्थ चैत्रमासे चचरीदानं, वैशाखशुक्लअक्षयतृतीयादिनेऽकर्त्तनं, लाहण कादिदानं च, संडविवाहो जिट्रिणिअमावसाए विसेसउ भजं । कूवाइखणणगोयरसहिंडणंपि य रहंतयई ॥ १४ ॥ CAKACAKACACC+C%ASA चैत्यव. ११ Page #128 -------------------------------------------------------------------------- ________________ चैत्यवन्दन व्याख्या-मृतकार्थे शंडविवाहः, ज्येष्ठ शुक्लत्रयोदश्यां ज्येष्ठिन्यां सक्तुकादिदानं, अमावास्यायाम् जामातृप्र कुलकवृत्तिः भृतीनां भोजनकारणं, धर्मार्थ कूपादिखननं, क्षेत्रादौ गोचरणदानं, विवाहे जन्ययात्रिकागमने सहिंडनक, ॥६१॥पितॄणां निमित्तं भोजनात् हंतकारदानं । वायसविडालमाई पिंडोत्तरुरोवणं पवित्तयओ। तालायरकहसवणं गोधणमहइंदयालं च ॥ १५॥ __ व्याख्या-काकमार्जारादीनां पिंडिकादानं, पिप्पलनिंबादिवृक्षरोपणं, भाद्रपदकृष्णचतुर्दश्यां पवित्रककरणं, अनंतव्रतं, तालाचरब्राह्मणादीनां कथाश्रवणं गोधनपूजनं इन्द्रजालदर्शनं, धम्मग्गिट्रय नडपिच्छणं च पाइकजुब्भदरिसणयं ॥ व्याख्या-धर्मार्थमग्निप्रज्वालनं, नटप्रेक्षणकादिनिदर्शनं, पदातियुद्धदर्शनं । इति लौकिकदेवगतमिथ्यात्वमुक्तम् । अथ लौकिकगुरुगतमिथ्यात्वमुच्यते। एवं लोयगुरूणवि नमणं दियतावसाईणं ॥१६॥ 18॥६१॥ व्याख्या-लौकिकगुरूणां ब्राह्मणतापसादीनां नमनं नमस्कारकरणं, ब्राह्मणाग्रे पाडण इति भणनं तापसाग्रे ओं नमः शिवायेति भणनं च, 156 Page #129 -------------------------------------------------------------------------- ________________ मूलस्सेसाज्जाए वाले भवनंमि वंभणाहवणं । तक्कहसवणं दाणं गिहगमणं भोयणाईयं ॥ १७ ॥ व्याख्या - मूल आश्लेषानक्षत्रजाते बालके गृहे ब्राह्मणाकारणं तदुक्तक्रियाकरणं च तेषां ब्राह्मणादीनां कथाश्रवणं, ब्राह्मणतापसादिभ्यो गोतिलतैलवस्त्रादिदानं, ब्राह्मणादिगृहेषु बहुमानार्थं गमनं, ब्राह्मणादिभ्योभोजनादिदानं, । अथ लोकोत्तरदेवगतमिथ्यात्व माह | एवं लोइयमिच्छं देवगयं गुरुगयं च परिहरिडं । लोउत्तरे विवज्जइ परतित्थिय संगहियबिंबे ॥ १८ ॥ | जत्थ जिनमंदिरंमि वि निसिप्पविसोवलाण समणाणं । वासोय नंदिवलिदाण पहाणनहं पइट्टा य ॥ १९ ॥ तंबोलाई आसायणाओ जलकीलदेवयंदोलं । लोइयदेवगिहेसु व वहई असमंजस एवं ॥ २० ॥ तत्थवि सम्म दिट्ठीणं सायरं सम्मरक्खणपराण । उस्सुतवज्जगाणं कप्पइ सवसाण नो गमणं ॥ २१ ॥ अथ लोकोत्तरगुरुगतंमिथ्यात्वमुच्यते, जे लोगुत्तमलिंगालिंगियदेहावि पुष्फतंबोलं । आहाकम्मं सर्व्वं जलं फलं चैव सच्चित्तं ॥ २२ ॥ भुंजंति घी पस ववहारं गंथसंग्रहं भूसं । एगामित्तन्भमणं सच्छंदं चिट्ठियं वयणं ||२३|| चेइयमढाइवासं वसहीसु विनिश्चमेव संद्वाणे । गेयं नियचरणाण ट्ठाविणम वि कणयकुसुमेहिं ॥ २४ ॥ तिविहं तिविहेणं मिच्छत्तं जेहि वज्जियं दूरं । निछयओ ते सड्डा अन्नेओण नामओ चेव || २५ || जिणवयमयाणुसारा एवं पालिंति जेउ सम्मत्तं । Page #130 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- ते सिग्धं निविग्धं पाविति धुवं सिवं सुहयं ॥ २६॥ अथ सम्यक्त्वांगीकारे सम्यग्दृष्टिश्राद्धो यानि धर्मकृत्या धमकृत्या-कुलकवृचिः नि यावज्जीवं यानि च षण्मासी यावन्निश्चयेन करोति तानि सूत्रकारोऽभिधित्सुकामः प्रथमं यावज्जीवाभिग्रहांदगीकारं दर्शयति । चियवंदणं तिकालं सकत्थएणवि सया काहं । सकलत्रैलोक्यपूज्यपादारविंदानां देवाधि देवानां श्रीतीर्थकरदेवानां भवग्रीष्मसंतापसंतप्तजंतुजातनिर्वृतिचंदनं परमपदपुरप्रस्थासु भविकलोकपथिकप्रवरस्पंदनं श्रीचैत्यवंदनं त्रिकालं प्रभातमध्यान्हसंध्यारूपेषु त्रिषु कालेषु शक्रस्तवेनापि सर्वदा सदा यावज्जीवं करिप्यामि, अहं सम्यक्त्वग्राहीश्राद्धः सूत्रकारणानेन गाथार्द्धन श्रावकस्य त्रिकालं चैत्यवंदनाभिग्रहो यावज्जीवं प्रथमोऽदर्शि । इदानीं सुश्रावकस्य षण्मासिकाभिग्रहांगीकारमाह-॥९॥ संपुन्नं चियवंदण, दोवाराओ करेमिछम्मासं । अहसयं परिमिट्ठीण, सायरं तह गुणिस्सामि ॥१॥” संपूर्णमित्यक्षरपदबिंदुमात्रालापकोपेतचैत्यवंदनसूत्रभणनपरिपूर्णा चैत्यवंदनां द्विवारं प्रभाते संध्यायां च सम्यक्त्वप्रतिपत्तिदिनादारभ्य षण्मासीं| यावत्करोमीति प्रतिपत्तव्यम् । इह जिनशासने हि श्रुतधरैः सिद्धांते चैत्यवंदना जघन्यमध्यमोत्कृष्टभेदात्रिधा प्रत्यपादि। तद्यथा-"नवकारेण जहन्ना, दंडगथुइजमलभिमानेया। संपुन्ना उकोसा विहिजुत्तावदणा होई !॥१॥" तत्र परित्यक्तान्य सकलगृहव्यापारः श्रीजैनधर्मकर्पूरवासितसप्तधातुहर्षप्रकर्षसंजातरोमांचकंचुकिताङ्ग:-संव ॥६२॥ गनिर्वेदपीयूषप्रवाहपूरितमानसः श्रावकः, श्रीदेवगृहे नेषेधिकीत्रयकरणपूर्व प्रविश्य यथास्थानं दशत्रिकाणि] सत्यापयन् संपत्समन्वितः तत्र सूत्रालापकान्मधुरवरेणोच्चारयन् जिनविन्यस्तदृष्टिः पदे पदे चैत्यवन्दनसूत्रार्थ ACCOMCGMCNMMCAMSAGAR Page #131 -------------------------------------------------------------------------- ________________ परिचिंतयन् सकलसंघमेलापके मूलनायकविप्रतिमाया दक्षिणभागे तिष्ठन् त्रिविधावग्रहमध्यादेकस्मिन्नवग्रह वर्तमानो दशाशातनाश्च परिहरन् परिपूर्णा चैत्यवन्दनां कुर्यात् । अथ दशत्रिकादिखरूपनिरूपणाय शास्त्रांतरगाथा लिख्यन्ते,-तन्नि निसीही तिन्नि य पयाहिणा, तन्नि चेव य पणामा । तिविहा पूया य तहा, अवत्थतिय भावणं चेव ॥१॥ तिदिसि निरक्खणविरई तिविहं भूमीपमजणं चेव तिक्खुत्तो । वनाइ तियं मुद्दा |तियं च, तिविहं च पणिहाणं ॥२॥ इय दहतियसंजुत्तं, वंदणयं जो जिणाणतिकलं । कुणइ नरो उवउत्तो, सो पावइ सासयं ठाणं ॥३॥ जिणभवणाइपवेसे, निसेह वि सया निसीहिया तिन्नि । मणवइतणूणमंते, |जिणुतिति पइक्खणा तेण ॥४॥ तिपणाम करणमेयं, जुत्तं मणवयणकायभेएणं। पुप्फामिसथुइभेया, तिविहा पूया इमा होई ॥५॥ छउमत्थसमोसरणस्थ, तहय मुक्खत्थतिन्निवत्थाओ। तिदिसि निरक्खण विरई, तिरिशानिरया कम्मभूमीसु ॥ ६॥ जो गुत्तिय भेएणं भूमीइ पमज्झणं तिहा भणियं । अक्खरअत्थोपडिमा, भणियं 8|| वन्नाइ तियमेयं ॥७॥ जिणमुद्दा जोगमुद्दा, मुत्तासुत्तीइतिन्निमुद्दाओ। कायमणोवयण, निरोहणं च पणिहाण |तियमेयं ॥८॥ चत्तारि अंगुलाई पुरओ; ऊणाइँ जत्थ पत्थिमओ । पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा [॥९॥ अण्णोणंतरि अंगुलिकोसागरेहिं दोहिं हत्थेहिं । पद्योवरिकुप्परसंहिएहिं तह जोगमुद्दत्ति ॥१०॥ मुत्तासुत्ती मुद्दा, समा जहिं दोवि गन्भियाहत्था । ते पुण निलाडदेसे, लग्गा अन्ने अलग्गत्ति ॥११॥ जिणपडिमाए वामम्मि, इत्थिया दाहिणे ठिओ पुरिसो। जिणवंदणं करेई, जहन्नओ नव य हत्थठिओ ॥ १२॥ जिणपडि Page #132 -------------------------------------------------------------------------- ________________ चैत्यवन्दनमाणमवग्गहनिद्दिठो होइ पुत्वसूरीहिं । उक्कोस सहिहत्थो, जहन्न नवसे समन्भिमओ ॥ १३॥ तंबोलपाण कुलकवृतिः भोयाण, पाणहत्थीभोगसुयणनिट्ठिवणो । सुत्तूचारं जूयं, वजाइ जिणमंदिरस्संतो ॥१४॥ इरियावहियाए, ॥६३॥ अप्पडिक्कताए न कप्पइ । किंचि चेइयवंदणसज्झावस्सयायाई-इत्याद्यागमवचनादैर्यापथिकी प्रतिक्रम्यैव परिपूर्णचैत्यवंदना विधीयते । अतः प्रथमत ऐर्यापथिक्या अष्टौसंपदः प्रतिपाद्यते, 'इच्छामिपडिक्कमिउ' मित्यारभ्य, 'विराहणाए' इतियावदेका संपत्। 'गमणागमणे,'इति द्वितीया। 'पाणकमणे, इत्यारभ्य, हरियक्कमणे,' इति यावत्तृतीया । 'उसाउत्तिंगे'इत्यारभ्य, 'संताणासंकमणे,' इति यावच्चतुर्थी। 'जे मे जीवाविराहिया,' इति पंचमी,।' "एगिदिया' इत्यारभ्य, पंचिंदिया, यावत्षष्ठी।'अभिहयावत्तिये' त्यारभ्य, तस्स मिच्छामि दुक्कडमिति सप्तमी।। तस्सुत्तरीकरणेण' मित्यारभ्य, 'ठामिकाउस्सग्गमिति, यावष्टमी । एतदेवोक्तं-'पढमा विराहणाए, गमागमणमि तह भवे बीया।हरियक्कमणे तईया, संकमणे तह चउत्थीओ ॥१॥"जीवा विराहिया पंचमी य, पंचिंदिया भवे छट्ठी। मिच्छामि दुक्कडं सत्त, अट्ठमी ठामि काउस्सग्गं ॥२॥ ततो अन्नत्थउससिएणं' इत्यादि दंडकं, 'अप्पाणं वोसिरामीति'पर्यंतं पठित्वा, श्रावकः कायोत्सर्ग कुर्यात्, कायोत्सर्गे चतुर्विंशतिस्तवं, चंदेसुसनिम्मलयरा, इति यावचिंतयेन्नमस्कारेण कायोत्सर्ग पारयित्वा चतुर्विशतिस्तवं परिपूर्ण पठेत् । तत उपविश्य|8॥६३॥ भूमिकान्यस्तजानुः मुखप्रदेशे योजितकरयुगलः शक्रस्तवं पठेत, तत्र च 'नमोत्थुण मित्यारभ्य भगवंताण-| मिति, यावत्प्रथमा संपत् । ततः सयंसंबुद्धाणमित्यंता, द्वितीया संपत् ततः पुरिसवरगंधहत्थीण, मित्यंता तृतीया ॐॐॐॐॐॐॐॐ Page #133 -------------------------------------------------------------------------- ________________ | संपत् ततो लोकपज्जोयगराण, मित्यंता चतुर्थी संपत् ततो बोहिदयाण, मित्यंता पंचमी संपत् ततः चाउरंत चक्कवहीण, मित्यंता षष्ठी संपत् ततो विउछाउमाण, मित्यंता सप्तमी संपत् ततो मुत्ताणं मोयगाण, मित्यंताऽष्टमी संपत् ततो जियभयाण, मित्यंता नवमी संपत् इत्येवं शक्रस्तवे नवसंपदः अनेन जिनान् शक्रः स्तौतीतिशक्रस्तवोऽयं भण्यते, ततो जे अईया सिद्धा, इति गाथामनागमिकीमपि पूर्वश्रुतधरविरचितामिति पदे पदे व्यवतिष्ठन्प|ठेत् तत ऋज्वीभूय अरहंतचेइयाण, मित्यादिदंडकं अप्पाणं वोसिरामीतिपर्यंतं भणेत् अत्र च दंडकैरष्टौ संपदः, तद्यथा, अरिहंतचेइयाणं, करेमि काउसरग, मित्येका संपत् ततो निख्वसग्गवत्तियाए, इति द्वितीया संपत् ततो | ठामिकाउ सग्गमित्यंता तृतीया संपत् ततो भमलिए पित्तमुच्छाए, इति चतुर्थी संपत् ततः सुहुमेहिं दिट्ठिसंचा| लेहि मितिपंचमी संपत् ततो हुज्ज मे काउसग्गो, इत्यंता षष्ठी संपत् ततो न पारेमीत्यंता सप्तमी संपत् ततो | अप्पाणं वोसिरामीत्यष्टमी संपत् ततः कायोत्सर्गे कुर्यात्, कायोत्सर्गे च पंचपरमेष्टिनमस्कारं चिंतयेत् ततो नमो अरिहंताणं भणित्वा कायोत्सर्ग पारयित्वा श्रीतीर्थकरदेवस्तुतिं कथयित्वा लोगस्सुज्जोय गरे, इत्यादि चतुर्विंशतिस्तवं सप्तगाथाप्रमाणं पठेत्, अत्र च सप्तखापि गाथासु पदे पदे एकैका संपत, सर्वसंख्यया अष्टाविंशतिः | संपदो भवति, ततः सङ्घलोए अरहंतचेइयाणमित्यादि दंडकं पठित्वा पूर्ववत्कायोत्सर्ग कृत्वा पारयित्वा च सर्वतीर्थकराणां स्तुतिमभिधाय, पुक्खरवरदीवडे, इत्यादि सूत्रं पठेत्, तत्र च गाथावृत्तेषु चतुः सख्येषु पदे पदे एकैका संपत्, सर्व संख्याया षोडशसंपदः, करेमि काउसग्गमित्यादि दंडकं पठित्वा पूर्ववत्कायोत्सर्गादि विधाय ज्ञान Page #134 -------------------------------------------------------------------------- ________________ चैत्यवन्दन कुलकवृचिः ॥६४॥ स्तुति पठित्वा, सिद्धाणं बुद्धाण, मिति सूत्रं पठेत् , अत्र च पंचसु गाथासु पदे पदे एकैका संपत्, सर्वसंख्या विंशति संपदो भवंति, ततो वेयावच्चगराणमित्यादि दंडकं पठित्वा पूर्ववत्कायोत्सर्गादि कृत्वाऽधिष्ठायकस्तुति भणेत्, तत उपविश्य पूर्वोक्तविधिना शक्रस्तवं कथयित्वा, जावंति चेइयाणं, इति गाथां सकलशाश्वताशाश्वतचैत्यवंदनसूचिकां पठेत् , तत ऋज्वीभूय, इच्छामि खमासमणो वंदिउं जावणिजाए, निसीहियाए मत्थएण वंदामि, इति भणन् क्षमाश्रमणं दत्त्वा, संजुःसन् जावंति केई साहु इत्यादि गाथाया अर्द्धतृतीयद्वीपसमुद्रवर्तिनोऽष्टादशसहस्रशीलांगधारिणः पंचसमितिसमितां स्त्रिगुप्तगुप्तान् पंचमहाव्रतप्रतिपालकांत्रिदंडविरतान् सकलसाधूनमस्कुर्यात्, ततो नमोऽर्हत्सिद्धाचार्यों इत्यादि भणित्वा श्रीअर्हत्स्तोत्रं कथयित्वा, मुक्ताशुक्तिकमुद्रया जय वीराय, इत्यादि दंडकं पठेत्, इत्येवं चैत्यवंदना संपनीपद्यते, येत्वेतां परिपूर्णचैत्यवंदनां यथोक्तविधिना भावसारं विदधति ते त्रिदशशऋचक्रवर्द्धचक्रवर्तिमांडलिकादिसकलसंसारिककमला: |पाणी कृत्य नित्यानन्दसुभगंभावुकया निर्वाणवरवर्णिन्या सह सदा विलसंति, येतु गृहचिंतापण्यव्यवहारादिव्यापारव्यासक्तचेतसोतरांतराक्षरपदालापकान्मुंचतो लुप्ताक्षरमात्राबिंदुचैत्यवंदनसूत्रमुच्चैःखरेण मीनेन चोचरन्तो| | दिगंतराण्यवलोकमाना जिनमुद्रादिमुद्रात्रयविरहिताःसंपत्खेव तिष्ठतःप्रवाहतश्चैत्यवंदनां कुर्वति'न ते यथोक्तचैत्यवंदनाफलभाजो भवंति, तेषां तु चैत्यवंदनाद्रव्यचैत्यवन्दनैव श्रुते,गीयते कचित्तु नगरपामादौ देवगृहायभावे सुश्रावकेण गृहप्रतिमायाः पुरतः पौषधशालायां स्थापनाचार्याग्रतो वा संपूर्णा चैत्यवंदनां विधेया, यस्तु गृहनि-18 Page #135 -------------------------------------------------------------------------- ________________ | वहपण्यव्यवहारादिव्याक्षेपान्नित्यं यथोक्तविधिना परिपूर्णा चैत्यवंदनां कर्तुमपारयन्निश्चयेन भावसारं जघन्यामपि चैत्यवंदनां करोति स निःखशिरोमणि धनदश्रेष्ठिवदिहलोकेऽपि धनधान्यादिकमलां हस्ते कृत्य प्रेत्यापि | स्वर्गापवर्गकमला ललनापाणिपीडनमवश्यं विदधाति, अत्रार्थे धनदश्रेष्टिकथानकम् । सकलभविकचक्रवालबालकस्तन्यपानमिव प्रतन्यते - तथाहि - इहैव भरतक्षेत्रे, ग्रामः सुग्रामनामकः । जज्ञे गोमहिषीवाजि, धनधान्यरमाकुलः ॥ १ ॥ हैयंगवीनं भुंजानाः' स्थूलं रूप्यनिभं दधि । क्षीरं धाराहतं नित्यं पिबन्तः प्रीतमानसाः ॥ २ ॥ यत्रोल्ललंतः क्रीडंतः, खेच्छया ग्रामवासिनः । स्वर्गादप्यधिकं सुखं, ग्रामवासममंसत ॥ ३ ॥ युग्मम्तत्राभूद्धनदनामा, श्रेष्ठी निःखशिरोमणिः । जज्ञुर्धुरीणेऽपि युगे, निःखा हि बहवो जनाः ॥ ४ ॥ तैलगोरसव|स्त्रान्नलवणेन्धनचिंतया । धर्मकृत्येऽप्रमत्तोऽभूद्धनदो धनवर्जितः ॥ ५ ॥ भव्यांभोरुहखण्डानि, बोधयन्तो गभस्तिवत् । आगच्छन्नन्यदा तत्र, दमघोषमुनीश्वराः ॥ ६ ॥ सूरेरागममाकर्ण्य, ग्रामीणास्तं दुकिरे । अवतीर्णं | गृहाभ्यर्णे, खर्द्धकेनद्युपासते ॥ ७ ॥ धनदः सूरिपादान्ते, गत्वा प्रहो व्यजिज्ञपत् । यथा दारिद्रदुःखेन मुच्ये स्वामिंस्तथा कुरु ॥ ८ ॥ सूरयो देशनां चक्रुः जनकर्णसुखावहां। नहि तत्तादृशं वाक्यं, दुःखाय स्यात्कदाचन ॥९॥ सुखाभिलाषिणः सर्वे, देहिनोऽत्र जगत्रये । विना धर्मं सुखं न स्यात्प्राणिनां भवचारिणाम् ॥ १० ॥ दानशीलतपोभावैः चतुर्धा तं सुपुत्रवत् । ऐहिकामुष्मिकसुखहेतुं प्राहुर्मनीषिणः ॥ ११ ॥ यस्त्वैतं कर्तुमीष्टेन, तेन कल्याणमिच्छुना । विश्वार्हार्हांघ्रियुग्मोऽर्हन्नभिवंद्योनुवासरम् ॥ १२ ॥ कर्णकच्योल केनोच्चैः पीत्वा तां देश Page #136 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-नासुधाम् । सूरि विज्ञपयामास, धनदो योजितांजलिः॥१३॥ भोज्यं मयाद्य प्रभृति वंदित्वा विमाहतम् । कुलकवृचिः कदाचित्तभावे च, दृष्ट्वा चैत्यमुतध्वजाम् ॥ १४ ॥ अन्येप्येवं जना लात्वा, नियमान् खगृहे ययुः । व्यहरन् । ॥६५॥ सूरयोऽन्यत्राप्रतिबद्धाःसमीरवत् ॥१५॥ जैनबिंबं नमस्कुर्वन् , प्रत्यहं चैत्यसंस्थितम् । धनदः पालयामास, नियम खंतनुजवत् ॥१६॥ अन्यदा ग्रीष्मसंतप्त, पृथ्व्यां कारुण्यमानिव । अवर्षदनवच्छिन्नधाराभिर्वारिदस्तदा ॥१७॥ ततो हृष्टा जनाःसर्वे, ग्रामिणाः कृषिकर्मणि । प्रावर्तन्त यतस्तत्तादृशामाजीविकोच्यते ॥ १८॥ धनदोप्यादधे क्षेत्रं, खल्पद्रव्यतया तदा । प्रायः खल्पर्धिकानां हि, निर्वाहः कृषिकर्मणा ॥१९॥ अन्यदा धनदः क्षेत्रं, गत्वा स्वयमचीकरत् । धान्यवापं यतो नृणां, ऐहिकार्ये महोद्यमः॥ २०॥ भोजनावसरे गेहाद्रोहिनी भक्तमानयत् । सौवं सस्मार धनदो, नियमं जीविताधिकम् ॥ २१॥ अथोत्थाय सरःपाल्यां, गत्वोचदेशमास्थितः। धनदः प्रेक्ष्य तचैत्यं, दृष्टदृष्टमदोवदत् ॥ २२॥ खनद्भिः सरो मनुजैस्तत्र लब्धं महा|निधिं । विभजद्भिर्वचाश्रुत्वा, धनदस्य व्यचिंत्यदः ॥२३॥ वयं ज्ञाता अनेनेऽति, राज्ञोग्रे चेद्वदिष्यति । जीवग्राहं तदा राज्ञा निग्रहीष्यामहे वयम् ॥२४॥ ततो धनदमाहय, तस्मै भागं प्रदाय च । ययुः सुस्थानिज धाम, नरास्ते | |निधिलामिनः ॥ २५॥ विधाय तेन वित्तेन, व्यवसायाननेकशः। धनदो धनधीभ्य, धर्मकर्मरतोऽभवत् ॥२६॥ त्रिकालं जैनबिंबार्चा, प्रकुर्वन् दुस्थितो धृति, संघपूजां गुरूपास्ति, पुण्यकोशं बभार सः ॥२७॥ प्रान्तेऽनशन Page #137 -------------------------------------------------------------------------- ________________ मासाद्य, निपीयाराधनासुधां । ध्यात्वा पंचनमस्कारं, धनदः प्राप सद्गतिम् ॥ २८ ॥ इति चैत्यवंदनविषये धनदश्रेष्ठिकथा समाप्ता__"अट्ठसयं परमिट्ठीणमित्यादि' सूचकत्वात्सूत्रस्येति न्यायात् पंचानां परमेष्ठिनां अर्हतसिद्धाचार्योपाध्यायसाधुलक्षणानां नमस्कारान् सकलसंपत्संप्रदानबूंदारककारस्कारान् दुष्कर्मकुंभिकुंभस्थलविदारणकंठीरवनरवरनिकरान् अष्टोत्तरशतसंख्यान सादरं षण्मासान् यावद्गुणयिष्यामि, अथ यावजीविकादिनियमप्रतिपत्तिमाह जावजीवं चउवीसं उद्दिमुटुंमि, चउद्दसीसुं च, पुंनिमवीयएगारसि, पंचमि दोकासणाइ तवं॥ १४ ॥ | व्याख्या-सम्यक्त्वप्रतिपत्तिदिनादारभ्य यावज्जीवं पंचपरमेष्ठिनमस्काराणां, चतुर्विशतिर्गुणयिष्यामि, इह हि |जिनशासने ये भविकलोकाः सकलजैनधर्मसारं समस्तं द्वादशांगीरहस्योद्धारं निखिलवर्गापवर्गकमलवशीकरणप्रकारं अशेषसंस्फुरन्मंत्रराजन्य (चक्रचक्र) धरानुकारं सर्वक्षुद्रोपद्रवतातविहिततिरस्कार, श्रीपंचपरमेष्ठिनमस्कारं एकाग्रचित्तेन ध्यायंति, तेषां भूतप्रेतपिशाचयक्षराक्षसमुद्गलचक्राणि, स्तंभनमोहनवशीकरणोच्चाटना| दिक्षुद्रमंत्राश्च, शाकिनीडाकिनीयोगिनीकपालिदुर्योगिदुर्मात्रिकदुस्तांत्रिकभ्रामंतिकादिविप्रतारकाचन प्रभवंति। किंतु प्रत्युत श्रीपंचपरमेष्ठिप्यानध्यानवशीकरणयोगचूर्णवशीकृतास्ते सकलकल्याणमाला प्ररोहाय संपद्यते शिवश्रेष्टिपुत्रस्य त्रिदंडिपुरुषवत्-तथाहि-वाड़ियेनात्त रत्नादि,महर्षि ददंभतः। फूत्करोत्यनुवेलंन्वभूत्तद्रत्नपुरं ANSARKERSASSES Page #138 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- पुरं ॥१॥ दमितारिनुपस्तत्र, जज्ञे जन्येऽरिभूभुजः। प्रदाम्यन् खभुजाभ्यां यो, यथार्था खाभिधां व्यधात् ॥२॥ कुलकवृत्तिः यशोभद्राभिधस्तत्र, श्रेष्ठ्यभूद्वर्धितर्द्धिकः। धर्मकल्पद्रुमेलीनो, यो युग्मीव महासुखी ॥३॥ अर्हडिंबार्चनं चक्रे, ॥६६॥ त्रिकालं यःसदादरात् । दिनांते च निशान्ते च, प्रतिक्रमणमादधे ॥४॥ सामायिक समादत्त, पर्वान्हे पौषधं च यः । मुनिवत्सर्वजीवेषु, प्रावर्तिष्ट समाशयः, ॥५॥ शिवोऽभूदंगभूस्तस्य, द्यूतादिव्यसनेषु यः । काकपाक-2 इवारक्तः, पुरीषावकरेष्विव ॥६॥ चंदनद्रुमवन्नित्यं, भुजंगैः परिवेष्टितः । स्वविनाशभयाच्छिष्ठदुर दूरं | * विहायियः॥७॥ अन्वशात्तं पिता नित्यं, वत्स धर्म विना नहि । अर्थकामावृते दुग्धं, नृणां द्धिघृते इव MIn८॥ वत्साधत्स ततः शश्वत्, त्रिसंध्यं देवपूजनं । वन्दनं द्वादशावर्त, विधिवचैत्यवंदनम् ॥९॥ तत्वस्य-12 दीपिका चारुकारुण्यरसकूपिकां । मिथ्यात्वोन्मंथिकां वत्स, सद्गुरोर्देशनां शृणु ॥१०॥ स इत्थं भणितः पित्रा, नाधाद्धर्म मनागपि । बुध्यते क्लिष्टकर्माः किं, सूपदेशशतैरपि ॥११॥ पुनरूचेऽन्यदा तं स, धर्मकृत्यानिवत्स ते । आदिश्यं तमयानित्यं, नचांगीचक्रिरे त्वया ॥१२॥ धर्मकृत्यं तदद्यक, कक्षीकुरु ममाग्रहात् । तात दाक्षिण्यतःसोप्यादिश्यतामित्यभाषत ॥ १३॥ यशोभद्रोप्यदोऽवादीच्छिवंप्रति शिवावहं । स्मरेः पंच|नमस्कार, संकटेविकटेस्थिते॥१४॥अंगीचकार तत्सम्यक, सोप्युद्भतशुभोदयः। उपादत्ते वच: प्रचिरुक्तमुच्चे:श्रवा अपि ॥ १५॥ यशोभद्रोऽथ कालेन, धर्मध्यानकतानहृत् । आयुःक्षये ययौ स्वर्ग, विविधाराधनाः स्मरन् ॥१६॥ कदाचिदथ वेश्याभिः कदाचित् यतकृन्नरैः। नटैर्विटैः कदाचिच्च, शिवश्चिक्रीड दुर्मतिः॥ १७॥ एवं| Page #139 -------------------------------------------------------------------------- ________________ व्यसनवेगेन, शिवः सर्वधनं ततः। गृहाद्वातलवत्तूलं, बहिष्ठानिरकासयत् ॥ १८॥ फाल्गुनेऽश्वत्थशाखीव, तदा द्रव्यैदेलैरिव । भ्रष्टो बभूव विच्छायः, समुक्तो बंधुपक्षिभिः॥१९॥ तं निरीक्ष्यान्यदा दीन, त्रिदंड्येकः परिभ्रमन् । सानुकंपइवाप्राक्षीत्, विच्छायः किं त्वमीक्ष्यसे ॥२०॥ एवं कपालिना प्रोक्ते, धनाथी करुणखरं। प्रत्युवाच शिवश्छाया, करं नास्ति धनं मम ॥२१॥ परिवाडपि तं प्रोचे, चेद्विधास्यसि मे वचः। अनुरक्ता कनी|व श्रीस्तदा ते भविता वशा॥ २२॥ एवमुक्त परिव्राजा.सोऽवगादिश्यतां वचः । त्वत्प्रसत्त्या पिशाचीव, दूर मे यातु निःखता ॥२३॥ त्रिदंड्यूचे तमेवं चेदखंडं शवमानय । तदो द्वंद्वं नरं प्राप्य शिवोप्यूचे त्रिदंडिने ॥२४॥ स तमूचे पुनः कृष्णचतुर्दश्यां निशि खयं । अद्यैनं नवनीतं च, प्रधानं रक्तचंदनम् ॥२५॥ करवीरस्य पुष्पाणि, श्मशाने त्वं समानयेः। शिवेन विहिते सोऽथ, श्मशानो- त्रिदंड्यगात् ॥२६॥ यत्रांतकोदरे साक्षात्, प्राज्व लज्जठरानलः । ज्वलचिताछलाद्वस्त, परासुग्रासजारकः॥ २७॥ द्राक पिशाचीपिशाचौघा, बीभत्साङ्गा विभीलाषणाः । यमस्यौकस्य भूर्यस्यां, किंकरी किंकराइव ॥ २८॥ विकीर्णकुंतला यत्र, यथा जाता भयंकराः । शाकिन्यो यमकन्यावत्, क्रीडोया क्रीडनं व्यधुः॥२९॥ कीनासात् श्वेश्वरा यत्र, सुप्रशत्या शवावली । प्राप्य भूताःप्रभूता:श्रा, प्रचक्रुः कलकलारवम्॥३०॥चतुर्भिःकलापकम्॥सद्दीपमंडलं तत्र, त्रिदंडीमण्डलं व्यधात् । करवीरसुमाभ्या , मण्डलस्य च मधेनि ॥३१॥ तस्य मध्ये न्यधात्खन, व्यग्रहस्तं शवं च सः । शवाध्यान वनीतेनाऽभ्यंकाय शिवमादिशत ॥ ३२॥ वयं निर्माय मायाव्यकतानं मानसं निजं । नासाग्रन्यस्तहग्मत्र, चैत्यव. १२| Page #140 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-रस सस्मार त्रिदण्डिकः ॥३३॥ अत्रान्तरे शिवो ध्यो, श्मशानं भूयुपद्रवं । सूचीभेद्योग्रभूच्छाया, कृष्णरात्रिःतालकतिः भयंकरा ॥ ३४॥ कपाली चैष निस्त्रिंशः, स निस्त्रिंशकरः शवः । एकैकं दारुणं चैतन्नूनं मे वधहेतवे ॥ ३५॥ ॥ ६७॥ सोऽथ भीतः पुनर्नष्टुं, सांप्रतं न तराम्यहं । किं कुर्वे किंब्रुवे चैवं, ध्यायंस्तातवचोऽस्मरत् ॥३६॥ अंतःस्वातं ततः क्षुद्रोपद्रवद्रावकारणम् । शिवः पंचनमस्कारं, शिवश्रीकारमस्मरत ॥ ३७ ॥ क्षणात् कपालिनस्तस्य, क्षुद्रम प्रभावतः । शवः किंचिच्चलित्वा स, पपातोदस्तमुक्तवत् ॥ ३८॥ तत्पातादात्मनः क्षुण्णं, कपाली कलयं स्तदा । जजाप स पुनः पापः, खमंत्रं स्थिरमानसः॥ ३९॥ जापपूर्ती शवः पूर्ववदत्तस्थौ पपात च । कपाली जातकोऽथ, विषण्णश्च शिवं जगौ ॥४०॥ मंत्रं त्वमपि रे किंचिद्वेत्सि नेत्यभ्यधाच्छिवः । कपाली लोभतोभृय|श्चक्रे जापं स्थिराशयः॥४१॥ अथोत्तस्थौ शवो भूयः, प्राभवन्न शिवं प्रति । सूर्यलोके हि किंदीप, रोचिषां स्यात्प्रभूष्णुता ॥४२॥ तस्यैवाथ शवश्छित्वासिना तेनाक्षिपच्छिरः । चिंत्यते यत्परस्मै हि, तत्वस्मै भवति स्फुटम् ॥४३॥ त्रिदंडिनोऽथ देहः स सुवर्णपुरुषोऽजनि । मणिमंत्रौषधीनां हि, गीयते महिमाद्भुतः॥४४॥ शिवश्चिक्षेप भूम्यंतस्तं हेमपुरुषं ततः। गृहप्राप प्रभाते चागण्यपुण्यरमोदयः॥४५॥ सर्व निवेद्य वृत्तांतं तं राज्ञे वान॥६७॥ दमितारये । हेमपूरुषमानिन्ये, राजादेशावधामसः ॥४६॥ अंगोपांगैस्ततः कृत्यैःप्रातः प्रातः पुननेवैः । जातेः पुष्पवदेतस्य महेभ्योऽभूच्छिवोऽचिरात ॥४७॥ सिताभ्रशभ्रमुत्तुंग, सौवपुण्यमिवोद्धरं । शिवोऽथ तेन वितेनाऽकारयद्देवमन्दिरं ॥४८॥ निजहृदि मरणांतेप्यापदांचक्रवाले, व्रतमिव परमेष्ठिनीनमस्यामवश्यम् । Page #141 -------------------------------------------------------------------------- ________________ | स्मरति य इह देहीसावधानो नितांत, शिव इव शिवभाजी भूतिभाजीव स स्यात् ॥ ४९ ॥ इत्यैहलौकिकश्रीपंचपर| मेष्ठिनमस्कारफलविषये शिवश्रेष्ठिपुत्रकथानकं समाप्तम् । येच प्राच्यभवोपार्जितागण्यपुण्यसंभारा निजखांतकांतव्यूढ प्रौढश्रीमज्जिनप्रवचन रहस्यप्राग्भाराः कृत्याकृत्यादिसमस्तवस्तुविज्ञान विज्ञविवेकलोचनाधारा मिथ्यात्विसत्व चुंबको पलसंघटना कुंठिताने कदुर्गतिप्रततिछिदुरविशु| सम्यक्त्वासिधारा भव्यप्राणिनः पंचसौगंधिकतांबूलमिव श्रीमत्पंचपरमेष्ठिनमस्कारं नक्तंदिवमुपवेशनेवोत्थानेवा स्थानेवा याने वा भोजने वा पयःपाने वा खापे वाऽवबोधे वा स्वकीयमुखां भोजादश्रांतं न परित्यजति तेषां श्रेष्ठिसु| गुप्तप्रसूतश्रीमत्याइव व्याघ्रव्यालजलानलमृगारातिचौरविषधरवराहादयो दुष्टसत्वाः कृशानुतापान्नवनीतिपिंडइव विद्रवति, अत्रार्थे सकलश्रद्धालु श्रावक लोकप्रमोदप्रदायिका श्रीमत्याख्यायिका लिख्यते- बभूव पोतनाभिख्यं, पुरं खच्छैर्जनैर्भृतम् । पाथोधिरिव पाथोभिस्तारकाध्येव तारकैः ॥ १ ॥ अभ्रंलिहः सुधाशुभ्राः, प्रासादाः | श्रीमदर्हताम् । यत्र पुण्यवतां पुण्य, कोशास्साक्षादिवाऽवभुः ॥ २ ॥ तत्रार्हतः सुगुप्ताख्यः, सुगुप्तेन्द्रियपंचकः । उवासोद्यद्गुणावासो, धर्मकर्मपरायणः ॥ ३ ॥ पात्रेभ्यो गुणपात्रेभ्यो, यो दानेन धनेन च पुष्कलेन समैर्लोकैर्व्याख्ये धनदाख्यया ॥ ४ ॥ श्रीमती श्रीमती जज्ञे, तत्पुत्रीशुद्धधीमती । शृताचारविचारैकतानमानसकोटरा ॥ ५ ॥ मिथ्यात्वं मास्मभून्मूलान्ममेत्याकृततो ध्रुवं । अभूदबालाप्यबालाया, सम्यग्दर्शनधारणे ॥ ६ ॥ अकलंकेंदुतुल्यास्या, वरेन्दीवरलोचना । अर्धचंद्राभभालश्रीः, प्रवालसदृशाधरा ॥ ७ ॥ कुंदसुं - । 1 Page #142 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥६८॥ दरदन्तालिः प्रदीपाकृतिनासिका । सुवर्णकेतकीवर्ण, विजित्वरवपुष्टरा ॥८॥ कंकेल्लिपल्लवोदाम, कामांकु-कलकवचिः शकदंबका। मुष्टिग्राह्योदरीपीन, स्तनीकर्मोन्नतांघिका ॥९॥रंभास्तंभसगर्भोरुः, पद्मनालभुजालता। पद्मिनीपत्रहस्तान्जा याभूधूनां मनोहरा ॥१०॥ चतुर्भिः कलापकम् ॥ तस्या दृष्टिधनुर्यष्ट्या, कटाक्षेषून्मनोभुवा । विमुच्यावेधि मिथ्याहक, श्रेष्ठितः कश्चिदन्यदा ॥ ११॥ ततस्तयधया तस्य, सशल्यस्येव नाभवत् । आसने शयने याने, भोजनेऽपि रतिः कचित्॥१२॥तदाकूतमथ ज्ञात्वा, तत्तातेन कथंचन । सुगुप्ताद्याचिता कृच्छ्रात्पर्येणाव्यात तेन सा ॥ १३ ॥ मिथ्यादृष्टिषु तिष्ठंती, श्रीमतीपरमाहती। स्मारं स्मारं नमस्कार, पंचानां परमेष्ठिनाम् ॥ १४॥ आसनं शयनं स्थानमुत्थानं भोजनं गमम् । वस्तुनिक्षेपणादानादिकं कर्म समं व्यधात् ॥१५॥ युग्मम्-श्रीमती तस्य गेहेऽपि, सान्योन्या बाधयान्वहम् । पुमर्थान् साधयामास, धर्मकामार्थलक्षणान् ॥१६॥ जैनधर्म दधानाया, इत्थमस्या शनैः शनैः। ननांद्रादिपरीवारः, प्रचुकोप पदे पदे ॥ १७ ॥ तथाप्यचलभावा सा, कमेवैचित्र्यचिंतनात् । खार्थ तत्याजनो धर्म, स्वार्थभ्रंशोहि मूर्खता ॥१८॥ ननांद्राद्युदितैस्तस्या, असद्दोषसानिरतरा क्रमाजज्ञप्रियो द्विष्टः, क्षद्वैः केन प्रतार्यते॥१९॥शीलादिगुणपात्रायाअपि तस्याः प्रियोऽन्यदा। धर्मद्विषाद्विरक्ताऽभूत्, धमेद्वेषो महान् यतः॥२०॥ उद्विवक्षः प्रियामन्यां तत्प्रियस्तद्वधेच्छया । पिधाय सोऽरगं |कुभ, न्यधागुप्तं गृहांतरे ॥२१ ॥ अथादिदेश तां भद्रे,? गृहान्तर्घटमध्यतः। पुष्पाण्यानीय मे देहि, देवानचामि यन तः ॥ २२ ॥ समादत्त प्रियादेश, श्रीमती धीमती मुदा। पतिवाक्यानुवर्तित्वं, मूलनीतिः कुल SCRECRCORRENA जैनधर्म धानाध्यचितनात् । स्वाक्षुद्रेः केन प्रताय उद्विवक्षुः प्रियामा देषाद्विरत माजज्ञे मियो दिखार्थ तत्याजनो माहादिपरीवारः, प्राधयामास, धर्मकामासमं व्य ॥६८॥ Page #143 -------------------------------------------------------------------------- ________________ स्त्रियाः॥ २३ ॥ ध्यायन्ती सा नमस्कारमंत्रं गृहान्तराविशत् । पिधानं पाणिनोत्तार्य, कुंभे हस्तं खमक्षिपत् PI॥ २४ ॥ तुष्टा शासनदेव्यस्यै, नमस्कारप्रभावतः। सर्प हृत्वा सुगन्धानि, चक्रे पुष्पाणि तत्क्षणात् ॥ २५ ॥ श्रीमती तानि लात्वादाद्विनीता वल्लभाय सा। चकितः संस्ततस्तत्र, गत्वा सर्व व्यलोकत ॥२६॥ दृष्ट्वा घटमसर्प तं, दिव्यसौरभवासिताम् । मीलयित्वाऽखिलं लोकं तं वृत्तान्तं जगाद सः॥२७॥ श्रीमत्या स महासत्या, लगित्वा पादयोः प्रियः। स्वागश्च क्षमयामास श्लाघयामास चेति ताम् ॥२८॥ मया पुष्पछलं कृत्वा धृत्वा हि | [ घटकोदरे । विदधे त्वद्वधार्थ यह्यलीकं क्षाम्य तत्प्रिये ॥२९॥ अहो ते मंत्रमाहात्म्यमहो ते पतिभक्तिता । अहो|8| ते धर्मधीरत्वमहो ते क्षांतिसौष्ठवं ॥ ३०॥ श्रीमत्यथ प्रियं प्रोचे, कोपः खल्पोऽपि नास्ति मे । जानीहि स्वहितं किंतु, कांताद्यापि गिरा मम ॥ ३१॥ ततस्तस्योपशान्तस्य, जैन धर्म जगाद सा । प्रस्तावे को हि नाख्याति, सज्जनः खजने हितम् ॥३२॥ ततः स सपरीवारोंऽगीचकाराहतवृषम् । को हि दृष्टफलं सालं रसालं न पिकः श्रयेत् ४ &॥ ३३ ॥ आभवं पालयित्वा तमतीचारविवर्जितम् । श्रेष्ठिस्तः सपरीवारो जज्ञे सुगतिभाजनम् ॥ ३४ ॥ नक्तंदिवं वचसि चेतसि सावधानाः, ध्यायन्ति पंचपरमेष्ठिनमस्कृतिं ये। ते श्रीमतीवत् जिनशासनदेवतानुभावादिहापि खलु तत्कफलं लभन्ते ॥ ३५॥ इति पंचपरमेष्ठिनमस्कारविषये द्वितीया श्रीमतीकथा संपूर्णा इह हि जगति ऐहलौकिकचेतश्चिन्तितार्थसार्थमात्रप्रदानप्रकटेभ्यः सुरतरुचिंतामणिकामधेनुकामघटेभ्योऽपि समधिकमहिमस्फारं स्वकीयामेयमवारिमपरिस्फुरिततुषारकरकरनिकरसहोदरयशोभरहारभूषितदिग्योषिद्वक्षः Page #144 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥६९॥ स्थलविस्तारं श्रीपंचपरमेष्ठिनमस्कारं ये क्रूरजीवापि शुभोदकर्मसम्पर्कवशात् प्रांत्यसमयेप्यासादयन्ति । ते कुलकवृत्तिः श्रीधरणेन्द्रइव नागेन्द्राविदितकमलालीलावतीरुपभुज्य क्रमक्रमेणमुक्तिकान्तया सहसर्वकालं विलसन्ति, अनाथै श्रीधरणेन्द्रकथा जनितामन्दानन्दप्रथा लिख्यते-इहैव भरतक्षेत्रे, पुरी वाराणसी बभौ । भोगार्थ भोगिनां भाग्यैराकृष्टेवामरावती ॥१॥हर्येषु हर्मिणां यत्र, स्फुटस्फटिकभित्तिषु । विचित्रास्वपि संक्रान्ताः, कान्ताश्चित्र भ्रमंती व्यधुः॥२॥ अहंच्चैत्येषु तुंगेषु, चरन्तौ शशिभास्करौ । आसीनाविव रेजाते, क्षणं यत्र श्रमच्छिदे ॥३॥ भूपालमण्डलीभालस्थलस्खलत्नखद्युतिः। तत्राभूदश्वसेनाख्यः, क्षितिपोक्षतशासनः ॥४॥बभार शासनं जैनमसावसुखलितं यथा । बलिनोऽपि महीपालास्तथैवास्यापि तत्दधुः॥५॥ तस्याग्रमहिषी वामा नाना वामानन्दीधितिः। सतीषु बिभ्रतीं रेखां प्रथमां समजायत ॥६॥ न रंभा न रतिर्न श्रीर्यस्याः साम्यपदं ययौ ।न तासामुदरक्रोडमलञ्च जिनेश्वरः॥७॥जगचेतश्चमत्कारकारिभिर्गुणराशिभिः। भेजे यस्यावपुः को वा सुस्थानं प्राप्य नाश्रयेत् ॥८॥ ज्ञानत्रितयराजिष्णुजिष्णुरान्तरवैरिणः । तमालदलनीलाङ्गः श्रीपार्श्वस्तत्सुतोऽभवत् ॥९॥ संसरत्सर्वसंसारिकारुण्यरससारणिः । नम्राऽसुरसुरश्रेणिः, सकौमार्य क्रमादगात् ॥ १०॥ प्रभावो यस्य बाल्येऽपि सूर्यस्येव प्रभाभरः। महानन्दकरो लोके, कस्य न प्रकटोऽभवत् ॥११॥ पंचाग्यादितपः कष्टं तप्यमानः सुदुस्त-18|॥६९॥ पम् । आजगामान्यदा तत्र, शठः कमठतापसः॥१२॥ मिथ्यादृष्टिजेनस्सर्वः, सर्वध्यों तन्निनंसया । अगात्सम्यग्विवेकोहि, क विना मुनिसङ्गमम् ॥१३॥ मरालवन्मृणालिन्याम, स्थितो वातायनक्षिती। पाश्चों विलोकय Page #145 -------------------------------------------------------------------------- ________________ सान्पुर्या, गच्छदागच्छतो जनान् ॥ १४ ॥ सुधासारगिरापृच्छत्, पार्श्वः पार्श्वचरं जनं । किमद्य भद्र गच्छन्ति, नागरा नगराद् बहिः॥१५॥ प्रत्यूचे पार्श्वगः पाव, कमठस्तापसो बहिः । आजगाम नमस्कतु तं गच्छन्ति पुरीजनाः॥१६॥ ध्यानज्ञानत्रयादर्शसंक्रान्तत्रिजगस्थितिः। आकर्ण्य तद्वचः पार्श्वश्चेतश्चिन्तामनाटयत् ॥१७॥ अधिगज्ञानं च हा कष्टं, पिधानं ज्ञानचक्षुषः। येनावृतो न जानाति, तत्त्वातत्त्वपथं नरः॥१८॥ वरिवस्यां विधायास्य, कमठस्य तपस्विनः । मिथ्याग्रहिलचेतस्का, जना यास्यन्ति दुर्गतिम् ॥ १९॥ तत्वाख्यानेन निःशेषानेतानिस्तारयाम्यतः । परोपकारसारं हि, जीवितव्यं सतां स्मृतम् ॥ २०॥ इति चेतसि निश्चित्य, भगवान् सपरिच्छदः। सन्निधौ कमठस्याशु, जगाम धामदीधितिः॥२१॥ कमळं प्रति निर्व्याजकारुण्यरसवारिधिः । व्याजहार कुमारोऽथ, सूक्तिवल्लिघनाघनः ॥२२॥ सिद्धिसाधनसाधीयांस्तपखिन् धर्म एष न। यस्मिन्निमज्जन जकन्तूनामुपघातो विधीयते ॥२३॥ अहिंसामूल एवालं, धर्मः कर्मद्रुमच्छिदे । न कुठारो विनाधारां, क्षमो वृक्षाव नीभिदे ॥ २४ ॥ एष एव विशेषोऽस्ति, धर्माधर्माध्वनोर्यतः। अवधप्रभवोह्येषः, परस्तु वधसंभवः ॥२५॥ चुकोप कोपनः सोऽपि, समाकर्ण्य प्रभूदितम् । नहि शीतज्वरः शीतसलिलैरुपशाम्यति ॥ २६ ॥ तथाप्यस्य प्रत्ययार्थमादिशत्खनरं विभुः । ज्वलज्ज्वलनकुंडस्थमिदमेधो द्विधा कुरु ॥२७॥ कुमारादेशमासाद्य, सद्यः सोऽपि तथा व्यधात् । विधेयाज्ञाविधेयैर्हि, राजवद्राजवाजिनाम् ॥ २८ ॥ अर्धदग्धः स्फुरद्गात्रा, कृष्णसर्पो भयंकरः। अर्द्धवैशसमापन्नो, निर्जगाम महेध्मतः॥२९॥ साय दापयामास, प्रथमं परमेष्ठिनाम् । नमस्कारं मनोहारं, परो Page #146 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-पकृतिदीक्षितः॥३०॥ सावधानं पन्नगोऽपि, नमस्कारामृतं पपौ। मध्ये मरुस्थलं श्रान्तः, पिपासुरिव जीवनम् कुलकवृतिः ॥ ३१॥ चक्षुश्रवा विपद्याभूत्, मंच पन्नगनायकः । कियदेतत्वयं तीर्थकरे कार्यकरेऽथवा ॥३२॥ कीर्तिको॥७ ॥ लाहलाद्वैतं, वितन्वाना जगद्गुरोः। विस्मेरा नागरा जर्जिनधर्मकमानसाः॥३३।। कषायकलुषःसोऽपि, तापसा पसदस्तपः। कृत्वा मेघकुमारेषु, विपद्य त्रिदशोऽभवत् ॥ ३४॥राज्यमुत्सृज्य समये, परिणीय व्रतश्रियम् । मध्ये वसुन्धरं धीरो विजहार जिनेश्वरः ॥ ३५॥ श्रीअस्ताचलचूलायां स्वर्णकुंभं विभाखति । निकषा नगरं किंचित्तस्थौ प्रतिमया प्रभुः॥३६॥ ज्ञात्वा विभंगज्ञानेन, श्रीपार्श्व प्रतिमास्थितम् । उपसर्गयितुं तत्राजगामकमठासुरः ॥ ३७ ॥ ब्रह्माण्डभाण्डगर्जाभिः, स्फोटयन्तइव स्फुटम् । ज्वलत्तडिद्दीपिकाभिः, बीक्षमाणव प्रभुम् ॥ ३८॥ घोरान्धकारपूरैश्च, पुरयन्तो भृशम् दिशः। पयोधराधोरणीभिर्दारयन्तो वसुन्धराम् ॥ ३९॥ & मिलत्प्रलयकालाब्दमालालीलानुकारिणः । रचयाश्चक्रिरे तेन, घनाः खांहश्चयाइव ॥४०॥ त्रिभिः कुलकम् ॥ शापयो मुसलधाराभिः, वर्षत्सु स्तनयित्रिषु । कंठदनं विभोर्जज्ञे, दधत्स्नात्रजलश्रियाम् ॥४१॥ अहो कटरिसौन्दर्य, सुन्दयोः सिद्धिसम्पदः। यत्कृते सहते खामी, स्वयमीदग्विडम्बनम् ॥ ४२॥ सिंहासनमथाचालीनिश्चलं पन्न-18 गेशितुः। तस्य प्रत्युपकारस्यावसरस्मरणाय वै ॥४३ ॥ विदित्वाऽवधिदीपेनासनकम्पनकारणम् । उपकण्ठ प्रभोः प्राप, धरणः सपरिच्छदः, ॥४४॥ मूर्ति स्फारस्फुटाचक्रछत्रं चरणयोरधः । वारिमात्र वारजन्मशषश्चक्रे जगद्गुरोः॥४५॥चारीकरणभङ्गीभिः, नृत्यनागमृगेक्षणम् । अग्रे सङ्गीतकं चक्रे, विश्वविस्मापकं विभोः ॥७० Page #147 -------------------------------------------------------------------------- ________________ ॥४६॥ ललाटपट्टघटितभ्रुकुटिप्रकटक्रुधः। धरणः माह शरणं, मृगयख सुराधमः ॥४७॥ शान्तमार्गस्थितं पाप, कदर्थयसि मत्प्रभुम् । किमहं दीक्षितो मूर्ख, प्रभुरक्षणदीक्षितः ॥४८॥ इन्द्रजालमिवाशेषं, मेघजालमसौ क्षणात् । संहृत्य स्वामिनं नत्वा, क्षमयित्वागसात्मनः ॥४९॥ इति नागेन्द्रहक्काभिः, कमठः कम्पविग्रहः । भयोदत्वतिनिर्मग्नः, खत्राणोपायमूढधीः ॥५०॥ जगाम निजकं धाम, स्मरन् पार्श्वगुणावलिम् । विजहेऽन्यत्र पाश्चोऽपि, नैकत्र स्थितिरीदृशाम् ॥५१॥ त्रिभिः कुलकम्-विशालशालमालाभिर्मालितं खर्णशालितं । धरणः कारयामास, चैत्यं तत्र जगत्प्रभोः॥५२॥ श्रीपार्श्वप्रतिमां तत्र, फणामण्डपमण्डिताम् । धरणः स्थापयामास, खपुण्यकमलामिव ॥५३॥ उपान्तपत्तनस्यापि, तद्दिनान्मेदिनीतले। अहिच्छत्रेऽति सत्यार्थाभिख्याविख्यातिमासदत् ॥ ५४॥ दैत्योपसर्गसंसर्ग, निवार्येवं जिनेशितुः। धन्यंमन्यो निजं धाम, जगाम भुजगाधिपः॥५५॥ भुजङ्गनेतुर्धरणस्य लक्ष्मीर्जगचमत्कारकरी बभूव । यस्यानुभावाविकास्तमेव नक्तंदिवं भावपराः स्मरन्तु ॥५६॥ इति श्रीपञ्चपरमेष्ठिनमस्कारपारलौकिकफलविषये श्रीधरणेन्द्रकथा समर्थिता - इह चिंतामणिकामघटकल्पद्रुमवत्सार्वकामिकस्य, सकलमंत्रराजाधिराजस्य, श्रीपञ्चपरमेष्ठिनमस्कारस्याने-2 कशो महिमानः श्रूयंते-तथाहि, जं किंचिपरमतत्तं, परमप्पयकारणंच किंचि । तत्थ इमो नवकारो ज्झाइजइ8 |परमजोगीहिं ॥१॥जो गुणइ लक्खमेगं पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगोत्तं सो बंधइ नत्थि संदेहो ॥२॥ नवसरि हुंति सुराणं विजाहर ते य नरवरिंदाणं । जाण इमो नवकारो सा सुव्वपइडिओ कंठे ॥३॥ Page #148 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥७१॥ जेण मरतेण इमो नवकारो पाविओ कयत्येण । सो देवलोयगंतुं परमपयं तंपि पावेइ ॥४॥ अतो ये क्रूरक-द कुलकवृतिः माणश्चौर्यपारदारिकत्वाद्यनेकव्यसनमग्ना अपि प्रांत्यसमये श्रीपञ्चपरमेष्ठिनमस्कारं प्राप्नुवन्ति, ते इंडिकचीरवद्देवादिसद्गतीः प्राप्य शाश्वतसौख्यभाजो भवन्ति । अत्रार्थे हुंडिककथा लिख्यते सुपार्श्वे पावतीर्थेशस्तूपाभ्यां या जगत्रये । जगाम परमां ख्याति, जज्ञे सा मथुरापुरी ॥१॥ यस्यां प्रांसुमहाशालकपिशीर्षालिमौलिषु । तारास्तारानिशि न्यस्ता, भ्रजिरे दीपिकाइव ॥२॥माभून्नो भूरिसंभूतं, वित्तं चित्तविमोहकृत् । इत्यदर्दानिनो यस्यां तदर्थिभ्योऽपि पुष्कलम् ॥३॥ नयेन पालयन शिष्टान् , दुष्टान्दण्डेन शिक्षयन् । सत्याभिधः क्षमाधीशस्तत्राभूच्छत्रुमर्दनः॥४॥ यस्यासिदंभतः पाणी, शङ्के कल्पलता बभौ । अन्यथा तत्प्रसत्याऽभूत्कथं तस्य मनोमतम् ॥५॥ जिनदत्ताभिधस्तत्र, श्रेष्ठ्यभूत्परमार्हतः। दानशीलतपोभाव, रूपधर्म इवाङ्गवान् ॥६॥ भवग्रीष्म भवद्भीष्म, दुःखोष्मापकृतेः कृते । कारुण्यकदलीसौधं, गुरुदेवं सिषेव यः ॥७॥ गुरुभ्यः कष्टतः प्राप्त, विवेक योहृदन्तरा । कदापि नामुचद्यनाद्विनिर्गमभयादिव ॥८॥ तत्रैवैकोऽभवच्चीयकलाकुशल-| |चेतनः। तस्करो हुंडिकाभिख्योऽलक्षकर्मविनिर्मितः॥९॥ अभैषीद्यो धनं लंठन् न मत्योनच भूपतेः। तस्य भीतिः कुतो यद्वा, सहायं यस्य साहसम् ॥ १०॥ पश्यतामपि सत्पुंसां, सारं दक्षतया हरन् । खां पश्यतोह-18|॥७१॥ राख्यां यो, यथार्थी विदधे भुवि ॥११॥ महर्धिकगृहे क्षात्रं, पातयन्नन्यदा च सः। बुबुधे तज्जनश्चक्रे, पूत्कारश्च तदोच्चकैः ॥१२॥ ततश्च राइनरैः सद्यः, पर्यवेष्ट्यंत तद्वहम् । काकैरिव दिवारूढघूकवृक्षमिवाभितः॥१३॥ Page #149 -------------------------------------------------------------------------- ________________ AAARRRRRRR जगृहे तैर्लोहखुरतस्करो भास्करोदये । कोहि रात्रिंचरःप्राणी, दिवा नहि निगृह्यते ॥१४॥ तं बध्वा ते जगू राज्ञे, राजा तानिदमब्रवीत् । वध्यभूमौ विडंब्यामुं, क्षपध्वं शूलिकोपरि॥१५॥ आरक्षिकास्ततः क्षिप्रं, राजादेशं विनिर्ममुः। कोह्याधत्ते हिताकांक्षी, राज्ञामाज्ञाविलंघनम् ॥१६॥ तं क्षिप्त्वा शूलिकायान्ते, प्रच्छन्नं मुमुचुश्वरान् । तच्छुद्धिकारिणां-पुसां निग्रहाय दुरात्मनः॥१७॥तादृक शूलाव्यथार्तस्याऽप्यातपासविमोक्षतः। तस्य जज्ञे तृषा तीव्रा, कष्टात्कष्टतरी हि तृट् ॥१८॥ ततश्च याचते तस्मै, राजभीत्या कोऽपि पार्श्वगः। पयो नादाद्यतः प्रायः, खसापेक्षादया नृणाम्॥१९॥ निजपुण्याकृष्टमिव,पार्श्वयान्तं दयानिधिम्। जिनदत्तं ययाचेऽम्बुं सदीनास्यस्तृषातुरः॥२०॥ प्रत्यूचे सोऽपि तं चौरं, यावदम्बुसमानये । तावत्त्वं सद्गतेर्हेतुम् , गुणयालं नमस्कृतिम् ॥२१॥ ततश्च गुणयामास, नमस्कारं स उच्चकैः। अत्रामुत्र हितं मंत्रं,प्रावतयति कोहि न ॥२२॥ यावच्छ्रेष्ठिय़हादागाल्लात्वाम्बुकरकं करे । तावत्स गुणयामास, नमस्कारं गुरुखरम् ॥२३॥ अप्राप्तेऽम्बुनि संप्राप्तः, पञ्चत्वं स नमस्कृतः। धाम्ना समृद्धयक्षेषु, देवीभूयोत्पद्यते ॥२४॥ इति वै जिनदत्तस्य, वृत्तान्ते तैश्चरैः पुरः। राज्ञ उक्ते स बध्यतामा-15 दिशत्प्रति तांश्चरान् ॥ २५॥ विडंबयितुमारेभे, रासभारोपणादिभिः। यावत्तैः स तदा यक्ष, स्तावत्प्रायुक्त सोऽवधिम् ॥२६॥ ततः सोऽवधिदीपेन, नमस्कारप्रभावतः । देवत्वमात्मनो ज्ञासीच्छ्रेष्ठिनस्तद्विडम्बनाम् ॥२७॥ ततः कोपाद्विकृत्यादि, तत्पुरोपरि नागरान् । नृपाद्यानित्यभाषिष्ट, स नभस्थस्तिरोहितः ॥ २८॥ मगुरुं जिन-18 दत्तं यद्दयालुं विगतागसम् । कथयत भो यूयं, तेनाहं प्रचुकोप वः ॥ २९॥ इत्यहं गिरिणानेन, चूरयि Page #150 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-ष्यामि वः समान् । समर्थः कोहि नाधत्ते, साहाय्यं खोपकारिणि ॥ ३० ॥ राजाद्यैर्मरणागीतै गाद्यैर्मानितो कुलकवृत्तिः हिसः। यक्षोऽवादीदमुं श्राद्धं, क्षमयध्वं द्रुतं जनाः॥३१॥ कारयध्वं च मच्चैत्यं, श्रावकप्रतिमायुताम् । शूला॥७२॥ भिन्नां च मन्मूर्ति, येन मुञ्चामि वः समान् ॥ ३२॥ इत्युक्ते यक्षराजेन, राजा पौरपरीवृतः। श्रेष्ठिनं क्षमयामास, वस्त्रायैस्सच्चकार च ॥ ३३॥ निजे गजे समारोप्य, जिनदत्तं तमाहतम् । प्रावेशयत्पुरे राजा, वाद्यनादे प्रसर्पति ॥ ३४ ॥ यथा हुंडिकयक्षस्य, चैत्यमुच्चैरसूत्रयत् । शूलाभिन्नां च तन्मूर्ति, स श्राद्धप्रतिमां नृपः॥३५॥ अथोऽपशान्तचित्तोऽभूत्स यक्षः पौरपूजितः। विनयेनानिरुष्टोऽपि, कोहि नैवोपशाम्यति ॥३६॥ इत्थं नमस्कारमहाप्रभावाचौरस्य तस्यापि च हंडिकस्य । प्रेत्य श्रियं यक्षसमृद्धिरूपं निशम्य भव्यास्तं स्मरन्तु ॥ ३७॥ इति श्रीपंचपरमेष्ठिनमस्कारप्रेत्यफलविषये हुण्डिकयक्षकथा समाप्ता । पञ्चानां परमेष्ठिनां वरनमस्कारं द्युकारस्करं, त्रैलोक्येऽप्सितपूरणे शिववधूवक्षोजहारोद्धरम्।येऽभ्यस्यन्ति जि नागमोक्तविधिना मानाष्टषष्ट्यक्षरम् , दिव्योद्यापनतोऽर्चयन्ति वृणुते सर्वेन्दिरा तत्करम् । इति परमेष्ठिनमस्कार-13 लाहलौकिकिकप्रेत्यफलविषये कथाचतुष्टयी समाप्ता ___ अथ तपश्चरणविषये अभिग्रहविशेषमाह-उद्दिमीत्यादि-अनोऽद्दिष्टशब्देन गोबलीवर्दन्यायेन यथा गाम् बलीवद चानयेत्युक्ते गोशब्देन बलीवर्दधेन्वोर्लब्धत्वात्पृथग्बलीवर्दशब्दोचारणेन गोशब्देन धेनुरुच्यते, इत्येवं लक्षणेनाष्टम्यादितिथीनामग्रतो नामग्राहं भणनादत्रोऽद्दिष्टशब्देनामावास्या प्रोच्यते, उद्दिष्टाचाष्टमीचतुर्दशी ॥७२ Page #151 -------------------------------------------------------------------------- ________________ चेतीतरेतरद्वंद्वः, ततोऽयमर्थः उद्दिष्टायाममावास्यायामष्टम्यां चतुर्दश्यां तथा पूर्णिमायां चेति सिद्धान्तोक्तचतुःपां तथा द्वितीयायामकादश्यां, पञ्चम्यां सम्यक्त्वप्रतिपत्तिदिनादारभ्य षण्मासान् यावत् श्रावकेण श्राविकया च येकाशनकमेकासनकादितपः कर्तव्यम् । षण्मास्याः परतोऽपि अष्टम्यादितिथिषु दयेकासनकैकासनकादितपो यथाशक्त्या विधेयम् । अष्टमीचतुर्दश्यादितिथयश्च ता एव गृह्यन्ते, याः सूर्योदयस्य वेलायां भव|न्ति-यत उक्तं दशाश्रुतस्कंधभाष्ये-पज्जुसणे चउमासे पक्खियपवट्टमीसु विन्नेया । ताओ तिहीओ जासिं उएइ सूरो न अन्नाओ॥१॥ पञ्चक्खाणं पूया जिणिंदचंदाण तासु कायवा । इहरा आणाभंगो आणाभंगाओ मिच्छत्तं ॥२॥ अन्यत्राप्युक्तम्-उदये या तिथिः प्रोक्ता, घटिकैकापि या भवेत् । सा तिथिः सकला ज्ञेया विपरीपता तु पैतृके ॥३॥ ननु द्वितीयादितिथिषु सिद्धांताप्रतिपादितासु किमिति-श्रावकेण द्वयेकासनादितपो विधीयते, उच्यते, प्रायो भव्यजीवेन द्वितीयादितिथिपश्चके परभवायुबंध्यते, अतो येकासनादितपः शुभात्मपरिणामजनकत्वेन शुभायुःकर्मबन्धहेतुत्वाद्भव्यर्विरच्यते-यत उक्तम्-महानिशीथे सिद्धान्ते-"भयवं बीयपमुहासु पंचम तिहीसु अणुट्ठाणं कयं किं फलं होइ।गोयमा बहु फलं भवइ, जे उणं जीवे पाएणं एयासु। तिहीसुपरभवायुयं बंधइ । तम्हा समणेण वा समणीए वा सावएण सावियाए वा विसेसओधम्माणुट्ठाणं कायवं"। इह हि श्रीमत्तीर्थकृतां शासने नानाभवशतोपार्जितनिकाचितार्जितदुःकर्मभूधरविदारणदारुणदंभोलिधारानुकारं, त्रैलोक्योदरविवर्त्यस्तोकलोककायकांतारान्तर्बलत्कामदावानलकवलनसजलजलधरासारप्रकारं, श्रीतीर्थकरपुरन्दरचक्रधर तातं ॥२॥ अन्यत्रा॥१॥ पञ्चक्खाजसणे चउमादी चैत्यव. १३ Page #152 -------------------------------------------------------------------------- ________________ चैत्यवन्दन कुलकवृतिः ॥७३॥ टिमादितपः प्राग्भवीयायनिजरा होइ कम्मुणो । वारयाणं न सा भवे ॥३॥ वासुदेवप्रतिवासुदेवबलदेवमाण्डलिकनरदेवप्रभृतिकमलाकलापलीलावतीविवाहविधिनिर्माणप्रवणब्राह्मणमण्डलं,आमर्पोषध्यादिलब्धिसन्दोहपद्मखण्डविकासने प्रचण्डमार्तण्डमण्डलं, नितान्तदुर्दान्तकरणाश्चकिशोरवशीकरणतुरगशिक्षाचतुरपुरुषायमाणं, वैमानिकज्योतिषिकभवनपतिव्यन्तरादित्रिदशसमाकर्षणाकर्षणमंत्रसाम्यं बिभ्राणं, चतुर्थषष्टाष्टमादितपः प्राग्भवीयदुष्कर्ममर्मनिर्मथनकर्मकर्मठं पूर्वश्रुतधराः कथयामासुः-यतउक्तम्-भगवत्यादिसिद्धान्तेषु-"चउत्थभोयणे जा य निजरा होइ कम्मुणो । बहुवाससहस्सेहिं पि नारयाणं न सा भवे ॥२॥ आयंविलभोयणे जाच निजरा होइ कम्मुणो । बहुवाससएहिं पि नारयाणं न सा भवे ॥३॥ अतो भविकजीवैः खशक्तिमगोपयद्भिः सूत्रसूत्रितविधिना सकलजीवरक्षाविधानकतानः, धनधान्यवरेण्यहिरण्यप्राज्यराज्यललितललनाकीर्तिपरस्पर्धायैहलौकिककारणकलापपरिहारपरायणैः, सर्वदा सर्वादरेण केवलकर्मनिर्जरार्थ बाह्याभ्यन्तरभेदात् द्वादशविधे तपाकर्मणि यतितव्यम् । किं पुनः पर्वदिवसेषु, यतो पर्युषणादिपर्वदिवसेषु अष्टमषष्ठमादितपो नियमेन भावसारं विदधति, ते नागदत्तश्रेष्ठिपुत्रवदैहिकामुष्मिकासंख्यसौख्यभाजो भवन्ति, अनार्थे नागदत्तश्रेष्टिपुत्रकथानकमुच्यते-वितानवातायनमुख्यमुख्यविच्छित्तसंशोभित |हम्येरम्यम् । सत्पण्यपूर्णाहविशालशालं,श्रीश्रीपुराभिख्यपुरं बभूव ॥१॥ त्रिलोकलोकाधिभुवां जिनानां, विहा-I सार,गवधिरोहलाभात् । ध्वजाः प्रहृष्टा इव यत्र नृत्यं, चक्रुर्मरुचालनकैतवेन ॥२॥ कामोष्मतृष्णातुरवल्लभानां, वात्सल्यमाधातुमिवाङ्गनौघः । हृदिस्थितो यत्र कुचच्छलेन वभार शृङ्गाररसोरुकुम्भौ ॥३॥ श्रीकान्तनामा ॥७३॥ Page #153 -------------------------------------------------------------------------- ________________ जनि तत्र शिष्टः, श्रेष्ठी गरिष्ठो गुणवज्जनेषु । निःशेषवाणिज्यविशेषविज्ञः, कलाकलापाकलना मनोज्ञः ॥ ४ ॥ तांबूलवत्सत्यवचो यदास्यं, नोज्झांचकारोद्धरसौर भाढ्यम् । वरेण्यमाधारमिहानुगुण्यान्मुञ्चेत्तरां कः प्रगुणो गुणोहि | ॥ ५ ॥ यो जातु चूडामणिवत् खमौलेनत्तारयामास जिनेश्वराज्ञाम् । तथाऽन्वहं दक्षिणपादपद्मात्, सुवर्णमुद्रामिव पात्रदानम् ॥ ६ ॥ श्रीकान्ताभूच्छ्रेष्टिनी तस्य कान्ता, शान्तखान्ता शीलशालीन्यकान्ता । वाद्यदीणागीः सुनीतिप्रवीणा, सर्वस्त्रीणामुत्तमाधिप्रहीणा ॥ ७ ॥ यस्या धातून् वासयामास सप्ताप्यर्हद्धर्मामैककर्पूरपूरः । प्रेक्षाशुद्धं वास्तवं वस्तु यद्वा किं किं सौवैः सद्गुणैर्वासयेन्न ॥ ८ ॥ स श्रीकान्त श्रेष्ठ्यथ द्रव्यलोभादिभ्योप्युच्चैर्दूरदेशान्तरेऽगात् । हृत्सन्तोषात्किं विना द्रव्यतृष्णा, देवर्व्यापि क्षीयते जातु पुंसाम् ॥ ९ ॥ विक्रीणानः सोऽतिलाभेन तत्रानीतं वस्तुस्तोममन्यच्च गृह्णन् । प्रापाकस्मान्मृत्युमत्राङ्गभाजां प्रस्तावाप्रस्तावताकास्ति मृत्योः ॥ १० ॥ श्रीकान्तस्यापुत्रिकस्यान्तरूपां वार्तां श्रुत्वा तामथ श्रीपुरेशः । तद्द्रव्यादानार्थमारात्तदीये, गेहे प्रेषीत्पुरुषान् पंचकुल्याः ॥ ११ ॥ पौराः संभूयाथ भूनाथमेवं, प्रोचुः खामिन्नस्य जाया सगर्भा । सूते सूनुं चेत्तदा खं न लेयं, लेयं सूतायां सुतायां तु तत्खम् ॥ १२॥ इत्युक्तस्तैर्नीतिविद्भूधवोऽपि, स्वीयैः पुंभि लेखयित्वा तदीयाम् । सर्वां लक्ष्मीमुन्मुमोचाशु यद्वा, मर्या जातृल्लंघयेत्किं समुद्रः ॥ १३ ॥ रत्नावनीवत् द्युतिशोभ्रमानं, कुलस्यालंकारकशुद्धमूर्तिम् । पुत्रैकरत्नं नयनाभिनन्दि, प्रासूत सा पर्युषणासमीपे ॥१४॥ तस्य प्रसूते| गृहमागताभिः, सुश्राविकाभिः सह वार्तयन्ती । सुश्राविका कापि जगौ करिष्येऽष्टमं तपः पर्युषणाक्षणाहे ॥ १५ ॥ Page #154 -------------------------------------------------------------------------- ________________ चैत्यवन्दन स बालकस्तां च निशम्य वार्तामीहामपोहं च हृदा दधानः। संप्राप्य जातिस्मृतिमात्मपूर्वभवं च सस्मारकुलकवृचिः तया समस्तम् ॥ १६॥ ततः स दध्यौ तपसदृशा प्राक, मया समारामिदं सुपर्वम् । आराधयिष्याम्यधुनापि ॥७४ ॥ जानन् स्वाभिग्रहं को हि भिनत्ति धीमान् ॥१७॥ एवं विमृश्य खहृदा स बालोप्यबालधीः स्वोष्टपुटौ प्रमील्य। इतस्थौ खमातुः स्तनमाददे न, रुरोद नो दर्शयते स्म नातिम् ॥१८॥ तथास्थितं तं जननी निरीक्ष्य, हृतार्थसारेव सुदीनवक्रा । चिकित्सयामास चिकित्सकोधैर्न तत्प्रतीकारममंस्त कोऽपि ॥१९॥ अथार्भकः पर्युषणाप्रभाते, मूर्छामगानिस्समसौकुमार्यात् । किं नोग्रलूकावलिलोलितानि, म्लायन्ति पुष्पाण्यतिकोमलानि ॥ २०॥ ततो मृतं तं विदती तदंम्बा, संवृत्य वस्त्रे ण वरेण गेहात् । पाश्चात्यभागे विजनेऽनुगर्ता, चिक्षेप चैत्यार्चनभङ्गभीत्या ॥२१॥ आराध्य पौरैःसह सा सुपर्व, तत्पारणान्ते व्यलिपच्छुचेति । कुर्वति किं जातु विवेकिनस्तद्यद्धर्मकर्मप्रतिघातकारि ॥ २२॥ मृणालसूत्रामलकोमलाङ्गं, सल्लोचनाह्नादनशारदेन्दुम् । अमुं शिशुं संहरतः करौ साग, व्यूढौ कथं निघृण दैव ? रे ते॥२३॥ वृक्षं विना वल्लिरिव स्वदण्डं, विना पताकेव निराश्रयाहम् । बालं कुलाधारकरं विनाऽमुं, हहा भविष्यामि कथं वराकी ॥२४॥ तन्मृत्युवार्ता च निशम्य भूपः, प्रेषीत्पुनः पंचकुलं धनार्थम् । तदीयसद्मन्यथवा समृद्धिं निस्वामिकीं स्यात्प्रति कस्य नेच्छा ॥२५॥ अथाविशत्पंचकुलं तदोकः केनाप्यदृश्यन ॥४॥ गले गृहीत्वा । न्यषेधि वा पुण्यवतां सुपुण्यं रुणद्धि किं किं दुरितं न दूरात् ॥२६॥ भूयो विशत्पंचकुलं निषिद्धं गत्वा नृपाग्रे तदुवाच सर्वम् । निशम्य तद्विस्मितचित्त उर्वीपतिः खयं तस्य जगाम धाम ॥ २७ ॥ दत्त्वार्धचन्द्र Page #155 -------------------------------------------------------------------------- ________________ विशतो नृपस्यादृश्येन केनापि यदा निषेधः।चक्रे तदासौ विममर्श भाव्यं चित्रेण केनात्र च कारणेन ॥ २८ ॥ उत्क्षिप्य सारं घनसारगन्धसारादिभोगं नृपतिस्ततः साक् । अवोचदेवं य इहास्त्यदृश्यः सद्यः स दृश्यो भवतु प्रसन्नः ॥२९॥ सिंहासनाध्यासितदिव्यमूर्तिः, ततः स्फुटोऽभूद्धरणोरगेन्द्रः। भक्त्या हि किं दिव्यमपि प्रकामं, भवेन्न साक्षात्प्रणिपातुकानाम् ॥ ३०॥ नृपस्सपौरोऽप्यभिवंद्य तं स्राक, पप्रच्छ तत्कागमनस्य हेतुम् । अथोरगेन्द्रोपि नरेन्द्र मेवं, प्रोवाच पौरैः परितः परीतम् ॥ ३१॥ एतद्गृहस्याधिभुवोऽर्भकस्य, पुण्यश्रियाकृष्ट इहाहमा-18 गमम् । जिघृक्षताया भवता तदीय, महासमृद्धेःपरिरक्षणाय ॥ ३२॥ एतत्समाकर्ण्य नृपः सपौरोऽप्याश्चर्यतस्तं पुनरप्यपृच्छत् । कोयं शिशुः किं सुकृतं च तस्य, ततः फणीन्द्रोऽपि तमभ्युवाच ॥३३॥ वृत्तान्तमेतस्य पुरापि राजन् सर्व भणिष्याम्यधुना तु बालम् । आनाययेति प्रतिपादितः सः आनाययामास शिशुं जनन्या ॥ ३४॥ ततः समानीय शिशुं समात्रा, प्रचिक्षिपेऽहींद्रपदोरधस्तात् । शीतांबुसेकैः स शिशुः ससंज्ञो, जज्ञेऽथ संसुप्त इवाङ्गभाजी ॥ ३५ ॥ अथोरगेन्द्रो विशदप्रसाद, मनस्यमान्तं विकिरन्निवोर्ध्व । खदन्तकान्त्याभिदधे नृपाग्रे, मोदेन तत्पूर्वभवस्वरूपम् ॥३६॥ जज्ञे पुरा कस्यचिदेष सूनुर्बाल्येऽपि मातुर्मरणेऽस्य पित्रा। पत्नी नवोढा प्रबभार सा च, सापत्न्यमात्सर्यमनेन साकम् ॥ ३७॥ ततश्च सा प्रादित भव्यमस्मै, न भोजनं नैव सुखादिकं च । न वाक्यदानादि विमातृजानां, प्रायः कुतो वेप्सितवस्तुसिद्धिः ॥ ३८॥ एवं खकर्मोदयतोऽतिदुःखं, नक्तं दिवं सोऽनुभवन् क्रमेण । अनन्यसामान्यगुणालिमाला, जातीवनं यौवनमाससाद ॥३९॥स चान्यदा भव्यसरोज Page #156 -------------------------------------------------------------------------- ________________ 1104 11 चैत्यवन्दन- ४ खण्डप्रबोधमार्तंडनिभं गुरूयं । दृष्ट्वा प्रकृष्टेन हृदा प्रणम्यापृच्छत्खदुःखानुभवस्य हेतुम् ॥ ४० ॥ सुदर्शन| ज्ञानचरित्ररूप, रत्नत्रयालंकृतसर्वगात्रः । हितोपदेशी सुगुरुः शशंस, तदीयदुःखस्य निबन्धनं स्राकू ॥ ४१ ॥ | सद्दानसच्छीलतपःस्वभावधर्मो जिनभाषितो न चक्रे । त्वया प्राकू समसौख्यहेतुस्ततोधुना दुःखमिदं तवाभूत् ॥ ४२ ॥ चतुर्विधस्यापि जिनोदितस्य, धर्मस्य वांछादि विधानशक्तिः । सिद्धा परं प्राकृतदुष्कृतस्य, | छिदे समर्थ तप एव भद्रम् ॥ ४३ ॥ श्रुत्वेति वाक्यं सुगुरोः समीपे, ललौ स भावान्नियमं करिष्ये । षष्ठाष्टमाख्ये तपसी दिनेषु, नूनं चातुर्मासिक वार्षिकेषु ॥४४॥ तथा करिष्ये स्म सदान्यदापि, तपो यथाशक्ति यथा विधीह । इति प्रतिश्रुत्य गुरोः स पार्श्वाद्धकतानोऽनुदिनं बभूव ॥ ४५ ॥ कृतोपवासत्रितयोऽन्यदा स सपौषधः पर्युषणा निशायाम् । कृत्वा तनूत्सर्गविधिं सुमेरुः स्थिरः स्थितः शून्यकुटीरकान्तः ॥ ४६ ॥ समीक्ष्य तं तत्र तदा, विमाता, दूरात्मिको चैर्दहनं प्रदीप्य । प्रद्वेषतः प्रज्वलयाञ्चकार, प्रद्वेषवान् किं न करोत्यकृत्यम् ॥ ४७ ॥ ततः स मृत्योपशमैकतान, श्रीकान्तपुत्रोऽभवदेष भूप । सुश्राविका जन्ममहोत्सवेऽस्य, प्रस्तप्रसूतेर्गृहमाययुर्द्वा ॥४८॥ तदास्यतः पर्युषणामुपर्व, तपोविधोदन्तमयं निशम्य । संजातजातिस्मरणोऽथ पूर्वाभ्यासाद्वयधादष्टममर्भकोऽपि ॥ ४९ ॥ दिनद्वयं धर्मकृतावधान, मनाः स्मरन् पंचनमस्त्रियां च । तस्थौ ततः पर्युषणाविभाते, मुमूर्छ बाल्या|धिकसौकुमार्यात् ॥ ५०॥ मृतं ततोऽमुं जननी विदित्वा, समस्तलोकस्य शिशोः शुचास्य । चैत्यप्रपढ्यादिकभङ्ग, भीत्याऽक्षिपद्गर्त्तमनुप्रगुप्तम् ॥ ५१ ॥ अस्यार्भकस्योपरि संचरिष्णु, नभश्वरं प्रस्खलितप्रचारम् । अस्मद्विमानं स्व * कुलकवतिः ॥ ७५ ॥ Page #157 -------------------------------------------------------------------------- ________________ लितं यदत्र, तदस्य, नूनं तपसः प्रभावः ॥५२॥ ततोऽवधिज्ञानदृशावगम्य, स्वरूपमेतस्य शिशोरिदानीम् । उत्तीर्य ते पञ्चकुलं गृहान्तर्विशन्निषिद्धं मयका भवांश्च ॥५३॥ कृत्वा यथार्थामथ नागदत्त, इति प्रथां तस्य शिशोः फणीन्द्रः। जगाम धाम स्वकमङ्गधाम, प्रद्योतविद्योतितदिक्कलापः॥ ५४॥श्रीकान्ताया नागदत्तेन साकं, दत्वा मानं साधु भूमीधवोऽपि । प्रत्यायासीत्सेवकै सेव्यमानः, सौवावासं सर्वसम्पत्तिवासम् ॥५५॥ श्रीकान्ताक्रोडस्थितो नागदत्तोऽप्याप वृद्धिं स्तन्यपानादिभिः । साक् मिष्टांभोभिर्देवशाखीवदेव, कुर्वाख्याया भूमिकाया व नस्थः॥५६॥ हिमगुरिव कलाभिः पौरतारासुमुख्यः, सर इव परिपूर्णःस्मेरपद्मावलीभिः । अलिरिव वरिवस्यन् | साधुपादारविन्दं, सुर इव सुखमायुःसोऽन्वभून्नागदत्तः ॥५७ ॥ जिननिगदितमुद्रां धर्ममाजन्मकालं, प्रतिकलमनुसृत्यावेत्य च प्राप्तकालम् । अनशनमुपगम्याराधनाध्यानलीनो, दिवमगमदनागा नागदत्तः कुमारः॥५८॥ इत्थं क्षीणातिचारानवरतसुतपःपालनायाः प्रभावाच्छ्रीमन्तं नागदत्तं कुमरमुरगपावंध्यसांनिध्यसिद्धम् । अत्रामुत्रापि लब्ध्वातुलसुखकमलं, भव्यभावेन भव्याः, श्रुत्वा तूर्णं तदीयाचरणरसिकतां सर्वकालं कुरुध्वम् ॥ ५९॥ इति तपः फलविषये नागदत्तकथा सम्पूर्णा ।। अधुना जीवकुलाकुलोदुम्बरफलादीनां द्वाविंशतिसंख्यानां शुद्धश्राद्धाभक्षणीयानां परिहरणीयत्वमाहपंचुंबरिचउविगई हिमविसकरगे य सवमट्टी य । राईभोयणगं चिय वहुबीयअणंतसंधाण ॥ १५॥ Page #158 -------------------------------------------------------------------------- ________________ ॥७६॥ चैत्यवन्दन- घोलबडा वाइंगण अमुणियनामाणि पुप्फफलियाई । तुच्छफलं चलियरसं वजह वजाण बावीसं॥१६॥ | कुलकवृतिः ४ व्याख्या-सूचकत्वात्सूत्रस्यात्रोदुंबरशब्देनोदुंबर १वट २ प्लक्ष ३ काकोदुंबर ४ पिप्पलफलानि ५गृह्यन्ते, तानि |च पंचापि फलानि बहुलकृमिकुलाकुलानि, कदाचिदुष्कालारण्यपातादावन्यभोजनाभावेऽपि बुभुक्षाक्षामकुक्षयोऽपि श्राद्धा यूयं वर्जयतेति संटंकः। अतएवोक्तं शास्त्रान्तरेषु, "उदुम्बरवटप्लक्षकाकोदुंबरशाखिनाम् । पिप्पलस्य |च नाश्नीयात्फलं कृमिकुलाकुलम् ॥१॥” अप्राप्नुवानन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा । |पंचोदुम्बरजं फलम् ॥ २॥ सूत्रकारः पंचुंवरीत्यनेन पदेन कृमिकुलाकुलफलवर्जनं प्रतिपादयन् जंतुजातसंसक्तानां धान्यजलकाष्ठादीनां परिहारं सूचयति । अत एव शास्त्रान्तरेप्युक्तम्-"परिसुद्धजलग्गहणं, दारूं धन्नाइयाण तह चेव । गहियाण वि परिभोगो, विहीइ तस्स रक्खणट्ठाए ॥१॥"अस्या गाथाया व्याख्या-श्रावकेण श्राविकया वा, सरित्सरोवापीकूपादिभ्यो गलनकेन परिशुद्धं खमत्या निर्जीवं कृत्वा जलं ग्राह्यम्-यतस्तत आगच्छतां कुंभादिभङ्गे जलजजीवविनाशे तत्कृतं प्रायश्चित्तं स्यात् । कूपादिभ्योपि गृहानीतं सज्जलं गलनकेन शुद्धीकृतं कलशादी निक्षेपणीयम्।दारूणि यानि शुषिराणि न भवन्ति, यानि जीवसंसक्तानि न भवन्ति,तान्येव ॥७६॥ | गृहीत्वा द्विधाकृत्वा छगणकादीनि प्रस्फोट्य व्यापारणीयानि, यतस्तत्र सर्पादिजीवा भवन्ति, विशेषतो वर्षासु यत्रतत्र तन्मध्ये बहुजीवसंभवो भवति, तथा धान्यानि यानि जीवसंसक्तानि भवन्ति, तानि न ग्राह्याणि न Page #159 -------------------------------------------------------------------------- ________________ रंधनीयानि । आदिशब्दात् करीरमधूकपुष्पाणि पीलुफलजुगन्धरीपृथुकादीनि प्रभूतत्रसजीवव्याकुलानि विवेकवताश्रावकेण जीवदयार्द्रचित्तेन न ग्राह्याणीत्युक्तम् , गृहीतानामपि दारुधान्यादीनां कुंथुकीटिकोद्देहिकादित्रसजीवरक्षार्थ,विधिना जीवनिष्कासनरूपेण परिभोगःश्रावकेण श्राविकया कर्तव्य इति गाथार्थः तथा विवेकिन्या जीवदयाकरणतत्परया सम्यग्दर्शनशालिन्या श्राविकया, सदा गृहव्यापारव्यासक्तयापि एतानि पंचस्थानानि यतनया विधेयानि, यतोऽयतनया व्याप्रियमाणानि खाटिकशालासमानि कथितानि तद्यथा-"खण्डणी पेषणी चुल्ली, उदकुम्भी प्रमार्जनी। पंचसूना गृहस्थस्य तेन स्वर्ग न गच्छति ॥१॥” तत्र खण्डनी उलूखलमुसले याभ्यां धान्यं खण्ड्यते,ते च पूर्व दृष्टिभ्यां सम्यगवलोक्य पश्चाच्छिववस्त्रांचलेन सम्यकप्रमायं ततो धान्यं खण्डनीयं, यतोऽप्रतिलेखितयोस्तयोर्मण्डूकगृहकोकिलावृश्चिककीटकादिजीवविनाशसंभवेन प्रभूतं पातकं भवति, परिपूर्णे |च धान्यखण्डने श्राविकयोलूखलमुसले पृथक् स्थापनीये,यथा मिथ्यादृष्टिस्त्रियोधान्यखण्डनं न कुर्वन्ति। पेषणी, घरहिका, यया धान्यं दल्यते, तां च लोचनाभ्यां भव्यरीत्या विलोक्य चेलांचलेन प्रमायं च धान्यं दलनीयं, धान्यदलने च परिपूर्णे सति द्वे पुटे पृथक्स्थापनीये, यथा मिथ्यादृष्टिस्त्रियोऽयतनया तत्र पेषणं न विद्धति । , धान्यपाकस्थानम्, तत्र कीटिकोन्दुरगृहकोलिकादिजंतून् सम्यगवलोक्य प्रातिवेश्मिकमिथ्यादृष्टिगृहेध्वग्नौ संधुक्षिते सति खगृहेऽग्निःसंधुक्षणीयः। पूर्व सन्धुक्षितेऽनौ मिथ्यादृष्टिस्त्रीणांवन्हिग्रहणायागमनसंभवात्।। 'उदकुम्भी,' जलौष्ट्रिका, तस्याः सकाशात् पूर्व जलं यतनया निष्कासनीयं-ततो नूनं जलं निधेयं यथा न तत्र Page #160 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-प्रभूतजलसंग्रहे सति जीवसंसक्तिर्भवति, जघन्यतः श्राविकया शीतकाले द्विवेलं जलं गलनीयं, उष्णकाला-कुलकवृचिः दौ तु वारत्रयं चतुष्टयं वा गलनीयं, यतो ग्रीष्मकालादौ प्रभूतत्रसजीवोत्पत्तिर्भवति, 'प्रमार्जनी,' गृहशोधिनी, ॥७७ ॥ यया गृहं प्रमाय॑ते सा च कोमलतृणमयी जीवरक्षाविधायिनी च श्राद्धश्राविकाभ्यां स्वगृहे विधेया, यथा तया 8 गृहप्रमार्जने विधीयमाने कुंथुकीटिकोदेहिकादिसूक्ष्मत्रसजीवविघातो न भवति,यतो जिनशासने सकलजीवरक्षायतनैव धर्ममूलमभाणि, यत उक्तम्-"थेवंपि तवं थेवंपि दिन्नयं, जं दयाइ संजुत्तं । तं होइ असंखगुणं वीयं जहवा सुखित्तम्मि ॥१॥ सीए उन्हेउ तवं, जइ तप्पइ, उड्डवाहु पंचग्गी । दाणं च देइ लोए दयाविणा नत्थि से किंचि ॥ २॥ जयणा य धम्म जणणी, जयणा धम्मस्स पालणी चेव । तं बुड्डिकरी जयणा, एगंतसुहावहा जयणा ॥३॥' 'चउविगई' इति सूत्रे विकृतयो दशोच्यन्ते । क्षीर १ दधि २ घृत ३ पक्कान्न ४ मद्य ५ मांस ६ मधु ७ नवनीत ८ तैल ९ गुड १० रूपाः, उक्तं च-खीरं दहि नवणीयं, घयं तहा तिल्लमेव गुडमज्जं । महु मंस चेव तहा, उग्गहिमगं च विगईओ ॥१॥” तन्मध्यात् षड्भक्ष्याः , चतस्रो मद्यमांसमधुनवनीतरूपा विकृतयः श्रावकाणामभक्ष्याः। यतस्तत्रानन्तजीवानामुत्पत्तिःसिद्धांते भणिता-तथाहि-"मद्ये महुंमि मसं मि, नवणीयंमि चउत्थए । उपजंति अणंता तवण्णा तत्थ जंतूणो॥१॥ स्मृतावप्युक्तम्-मद्ये मसि मधुनि||॥ ७७॥ *च, नवनीते तक्रतो बहिनीते । उदयन्ति विपद्यन्ते, तद्वर्णास्तत्र जन्तवः ॥१॥ तत्र मद्यं पुंसामिहलोकेऽपि बहु विडम्बनाकारि शास्त्रान्तरेष्वभ्यधायि,तथाहि-मद्यपं त्यजति शेमुखी नरं, दुर्भगं शशिमुखीव दूरतः। निन्द्यतां ॥१॥” तन्मध्यात् ष भणिता-तथाहि-मयमांसे मधुनि । Page #161 -------------------------------------------------------------------------- ________________ तिदेव ॥४॥ दोषाणां कापणन पंचेन्द्रियादिजीवस मन्नस्य, मद्यस्यै च लभते स लोकतः, किंचिदेव हितं न बुध्यते ॥१॥ मृत्युमाप्त इव मूर्छतिक्षणादुत्पतत्यथ पतत्यसौ पथि । रौति गायति विगाहते क्लमं मद्यभूतसमधिष्ठितो जनः ॥२॥ प्रेयसीयति कुधीः खमातरं खप्रियां च जननीयतिध्रुवम् । सेवकीयति विलोक्य भूपति भूपतीयति हिसखमुद्धतः॥३॥ विवेकः संयमोज्ञानं,सत्यं शौचं दया क्षमा। मद्यात्मलीयते सर्व तृण्या वन्हिकणादिव ॥४॥ दोषाणां कारणं मद्यं, मद्यं कारणमापदाम् । रोगाणामिव चापथ्यं, तस्मान्मयं विवर्जयेत् ॥५॥" श्रीजैनशासने च मद्यपानं पंचेन्द्रियादिजीवसंकुलत्वेन जीवबन्धनिबन्धनत्वान्नरकादिगतिहेतुत्वेन भवान्तरेपि भूरिविडम्बनाहेतुत्वान्निषिद्धम्-"नाना प्रभेदभिन्नस्य, मद्यस्यैकैक|बिन्दुभिः। पंचेन्द्रियांश्च संख्यातुं चतुर्तानी न शक्नुयात् ॥१॥" यत उक्तम्-“एगम्मि मजबिंदुम्मि, जंतुणो जे हवंति पंचिंदिय।ताण य संक्खाउं न तीरए चेव चउनाणी॥१॥” अतो विवेकिना श्रमणोपासकेन इह लोकपरलोकविडम्बनाकारि मद्यपानं नक्तं दिनं परिहरणीयम् । यत उक्तम्-"जायवकुलाण कोडीउ गाउ मज्जपाणदोसाउ । निहणं गयाउ ताओ किं भणिमोइयरपुरिसाणं ॥१॥” तथा मांसभक्षणमपि सिद्धांते पंचेन्द्रियजीवेविघातकत्वेन नरकावटकोदरनिपातकारणं गीयते, यतउक्तम्-"महारंभयाए महापरिग्गहाए पंचेन्दिय वहेणं । कुणिमाहारणं जीवा नेरइयाओ य कम्मं वंधेति ॥१॥” शास्त्रान्तरेप्युक्तम्-"चिखादिषति यो मांसं, प्राणिप्राणापहारतः। उन्मूलयत्यसौ मूलं, दयाख्यं धर्मशाखिनः॥१॥ अशनीयन् सदा मांसं, दयां योहि चि १ विघातजन्यत्वेन । Page #162 -------------------------------------------------------------------------- ________________ 5A5% 25 चैत्यवन्दन-कीर्षति । ज्वलति ज्वलने वल्लीं, स रोपयितुमिच्छति ॥२॥ मांसास्वादनलुब्धस्य, देहिनं देहिनं प्रति । हंतुंकुलकवृत्तिः प्रवर्तते बुद्धिः, शाकिन्या इव दुर्धियः॥३॥ ये भक्षयन्ति पिशितं, दिव्यभोज्येषु सत्खपि । सुधारसं परि॥७८॥ त्यज्य, भुंजते ते हलाहलम् ॥४॥” अत ऐहिकामुष्मिकसकलकल्याणवल्लरीवितानमूलसमुन्मूलनदन्तावलदन्तमुशलं, संसारमरुस्थलज्वलहुःखदावानलकीलाव्याकुलसकलपाणिनिर्वापणतुषारशीकरासारशिशिरसमीरस-2 ब्रह्मचारि करुणारसशोषणोग्रलूकानिलं पललं जिनप्रवचनाभिहितजीवा-जीवादितत्त्वविचाराचतुरचेतस्काः,8 स्वशरीरपोषणकरणरसिकाः पंचेन्द्रियप्राणिप्राणप्रहाणप्रगुणमनस्का ये भक्षयन्ति, ते क्रमक्रमेण पललम्पटा मानवमांसमप्यपरित्यजन्तः सोदासराजकुमारवदत्रामुत्रराज्यभ्रंशनरकावासाद्यनेकव्यापत्कदंबकां कपालीनिलीनाः सांसारिकप्रचुरविधुरभाजो भवन्ति, अत्रार्थे सोदासराजकुमारकथा लिख्यते, इलालीलावती-8 भालतिलकं भालशोभितम् । पुरत्नखचितं जज्ञे, श्रीकांचनपुरं पुरम् ॥१॥ यत्रान्तः सज्जना रेजुर्वहिरुद्यानशाखिनः । सौमनः सौरभाभोग, सुभगाःसफलश्रियः॥२॥ जितशत्रुर्नृपस्तत्र, सुत्रामेव सुरालये । बभूव वलिभू-12 मीभृत् , पक्षतक्षणदक्षिणः ॥३॥ सप्तव्यसनपाथोधिसमुल्लासनचन्द्रमाः। अनीतिवनितासक्तः, सौदासस्त-15 त्सुतोऽजनि ॥ ४॥ मांस्याकभक्षणाक्षीण, तृष्णाकृष्णाहिदष्टहृत् । दुष्टधीः स विना मांसमश्नुते स्म न भो-2|॥७८॥ जनम् ॥५॥ अन्यदा करुणामूल, धर्मकौमुदकौमुदी। महीशो घोषयामास, नगरे मारिघोषणम् ॥ ६॥ इष्टां मिष्टां दिव्यपाका, सर्वा रसवती ततः। विना मांसेन सौदासो घासग्राससमामवेत् ॥७॥छन्नमानाययामास, A 5 * Page #163 -------------------------------------------------------------------------- ________________ वंशाख्यगिरिगह्वरात् । स हतान् बर्हिणो भृत्यैः, किं कुर्यात्नेन्द्रियर्जितः ॥८॥ व्यासक्ते पाचकेऽन्येधुर्हतं मांसाय बर्हिणम् । बिडालश्छलमालोक्य, धनं चौर इवाहरत् ॥९॥ बिभ्यद्भपसुतात्सूपकारः किंचिच्छिशु मृतम् । लात्वा पेचे पलं तत्कं, धिक सेवां पररंजनीम् ॥१०॥ तत्पलं भुक्तिवेलायां, सोदासः परिवेषितम् । भुक्तवानुक्तवांश्चैवं, प्रीतितः प्रति पाचकम् ॥ ११॥ अपहस्तितपीयूषयूषमाधुर्यगर्जितम् । अन्यदेदृकपलं जानन्, पचसे किं न पाचक? ॥१२॥ सूपकारः कुमाराय छलमार्गणपूर्वकम् । आदितस्तत्पलोदन्तं, यथा जातमचीकथत् ॥१३॥ व्याजहार कुमारस्तं, मारितस्य मृतस्य वा । एकैकस्य शिशोर्मासं, पाच्यं रुच्यं तदेव मे ॥ १४॥ तथेति प्रति-IN पेदानः, सूपकारस्ततः परम् । अप्राप्नुवन्मृतं बालं, जीवद्वालममारयत् ॥ १५ ॥ खं खं शिशुमपश्यन्तोऽस्तोकशोकाकुलास्ततः । पूत्कारं चक्रिरे पौराः, पुरः पुरपतेरिति ॥ १६ ॥ योगक्षेमकरे देव? प्रजानां त्वयि राजनि । नोष्णवातोऽपि यात्यूचं, का कथोपद्रवोद्भवे ॥ १७॥ भूतः प्रेतः पिशाचो वा, राक्षसोऽथ नरोऽथवा । संप्रत्यस्मच्छिशून्कोपि हरति प्रतिवासरम् ॥ १८॥ अथाऽऽश्वास्य प्रजा राजा, विसृज्य च पुरान्तरा। अलक्ष्यान् स्थाप-5 यामास खनरांस्त्रिकचत्वरे ॥ १९॥ निघ्नन् प्रच्छन्नमन्येद्युः, शिशुं सोदासपूरुषः । राजपुंभिर्निबध्याशु, निन्ये |च क्षितिपान्तिकम् ॥२०॥ नृपो जजल्प रे पाप? पापमीदृशमाचरः। कस्यादेशादथोचे स,सोदासादेशतःप्रभो ? ॥ २१ ॥ कोपातिरेककम्पोष्ठपल्लवः क्षितिवल्लभः। देशान्निर्धाटयामास, सोदासं दासवत्तदा ॥ २२॥ अटव्यामथ सोदासो, हिंस्रः श्वापदवद्भमन् । गच्छदागच्छतो मार्गे हत्वा पान्थानभक्षयत् ॥२३॥ क्रमक्रमेण सोदासः, Page #164 -------------------------------------------------------------------------- ________________ चत्यवन्दन ॥७९॥ पुमांसाशनमांसलः। अधिष्ठितोऽथ भूतेन, कोऽमुंचेद्योग्यमाश्रयम् ॥२४॥ पुंमांसानुदिनग्रासं, चंचद्रोमाञ्च- कलकवृत्तिः सञ्चयः । वदुरिव रेजे स, जटाजटिलविग्रहः ॥ २५॥ नृवशाभ्यङ्गसंसंगरंगदुर्गन्धशेवधिः । महाकायो मुक्तवासाः, स राक्षस इवाबभौ ॥२६॥ हस्तन्यस्तमहादण्डश्चण्डदोर्दण्डमण्डलः । चकासामास सोदासः, कीनाश इव भीषणः॥ २७ ॥ प्रविश्य निशि निस्तूंपः, स ग्रामनगरादिषु । आकृष्य मानुषान् याति, क्षमो हन्तुं न कोऽपि तम् ॥२८॥ इतश्च यदुवंशाब्धिसमुल्लासनिशाकरः। विद्याभृद्भूमिभृद्भरिनारीनिकरकुञ्जरः ॥२९॥ सुचङ्गभाग्यसौभाग्यसुभगं भावुकाङ्गकः। दशा) दशमो जज्ञे, वसुदेवाभिधानतः ॥३०॥ प्राच्यपुण्यसहायोऽसौ, हिण्डमानोऽवनीतले । तिलवस्त्वभिधं ग्राममाजगाम निशागमे ॥३१॥ तदैव संवृतं द्वारं ग्रामस्य ग्रामपूरुषैः । मध्येप्रवेष्टुकामस्तान् , जगाद यदुपुङ्गवः ॥ ३२॥ वैदेशिको ब्राह्मणोऽहं, पथि श्रान्तो बुभुक्षितः समुद्घाटयत द्वारं, मत्कृते कृतिनस्ततः ॥ ३३ ॥ ऊचुस्ते तं नरादस्य सोदासस्य भयाद्वयम् । द्वारं नोद्घाटयिष्यामो, गच्छान्यत्र यथारुचि ॥३४॥ तान्नरान्निष्ठुरान् ज्ञात्वा, व्यावृत्त्यानकदुन्दुभिः। द्वारं संवृत्य सुष्वाप, क्वचिदायतने बहिः॥३५॥ अथाजगाम सोदासः, कपाटौ कुट्टयन भृशम् । उच्चैःवरेण प्रोचे च, द्वारमुद्घाटयाध्वग ? ॥ ३६ ॥ वसुदेवोऽव|दन मा मे निद्राविद्रावणं कुरु । स माह रोषपोषेण, मारयिष्यामि रेऽध्वग ? ॥ ३७॥ द्वारमुद्घाटयामास, तत |॥ ७९ ॥ आनकदुन्दुभिः । प्रेक्षाश्चक्रे सुदुष्प्रेक्षं तं राक्षसमिवाभयः ॥ ३८॥ कूर्चलीभूतसर्वाङ्गं, रोमस्तोमप्रवृद्धितः । धातकीगण्डशैलाभं, शवरक्ताङ्गरागतः ॥ ३९ ॥ दन्तः फालतुलैः कोलमिव लोकभयंकरम् । नग्नं महावपुष्मंतं, Page #165 -------------------------------------------------------------------------- ________________ यममूर्त्यन्तरं किल ॥ ४० ॥ त्रिभिः कुलकम् ॥ सर्वत्र मृन्मयीश्चल्लीर्जानन् स पललंपटः । लकुटं विकटक्रोधो, वसुदेवाय मुक्तवान् ॥४१॥ लकुटं वंचयित्वा तं, कठोरं कण्ठकन्दले । दम्भोलिदेश्यया मुष्ट्या, निजघान यदूद्वहः ॥ ४२॥ मुष्टिप्रहारतान्तात्मा, प्रोच्चै रुष्ट इवारटन् । मुमोच मुष्टिघातान्स, वसुदेव जिघांसया ॥ ४३ ॥ तन्मुष्टिघातसंघातं, वंचयन रचयन् धृतिम् । प्रहारजर्जरं चक्रे, वैरिणं वीरकुंजरः॥४४॥ एवं तयोर्मुष्टियुद्धे वर्ध-3 माने समन्ततः । धडद्धडित्यकंपिष्ट भूपीठं पाददुधरैः ॥४५॥ नेत्रान्धकरणैर्मुष्टिघातवातैररुन्तुदैः । दाशाहळधित|स्सोऽथ, बहिर्देवकुलादगात् ॥४६॥ छिन्नमूल इवोर्वीरुट्, लूनपक्ष इवाण्डजः। ऊर्ध्वं स्थातुमपर्याप्तः, पृथ्वीपीठे पपात सः ॥४७॥ दुष्पापजम्बालमलीमसस्य, किमस्य सङ्गेन दुरात्मनो मे। इतीव सोऽमुच्यत जीवितेन, प्राघूर्णिकोऽभूत्कुगतेश्च सद्यः ॥ ४८ ॥ राज्यच्युतिप्रमुखमैहिककष्टजालं, पारत्रिकं च नरकावटपातलक्ष्म । सौदासनामकुमरस्य पलादनाद्रोः, श्रुत्वा पलं त्यजत तद्विषवत्सकर्णाः॥४९॥इति सोदासराजकुमारकथा समाप्ता। तृतीया विकृतिमधु, क्षुद्रमक्षिकालक्षपीतकुसुमरसवमनोद्भवं लालावज्जुगुप्सनीयं तद्बर्णनवोत्पन्नजन्तुजातसमाकुलम्, आपातमधुरमपि प्रभूतजन्तुविनाशकारित्वेन नारकादिकुगतिदुःखदायकत्वाद्विपाकदारुणं विवे-16 कवता श्रावकेणौषधादिकारणकलापसद्भावेऽपि विषवन्न भक्षणीयम् । शास्त्रान्तरेऽपि चानेकदोषकलुषं मधुगीयते, तथाहि-"अनेकजन्तुसंघातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत्, कः (वा) खादयतिमाक्षिकम् ॥१॥ भक्षयन् माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यःसौनिकेभ्योऽतिरिच्यते ॥२॥ एकैककुसुमक्रोडा CACASASUSASUSREISLISAS Page #166 -------------------------------------------------------------------------- ________________ : चैत्यवन्दन सद्रिसमापीय मक्षिकाः। यद्वमन्ति मधुच्छिष्टं, तदश्नन्ति न धार्मिकाः॥३॥ अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्ध-18 नम् । भक्षितःप्राणनाशाय, कालकूटकणोऽपि हि॥४॥ मधुनोऽपि हि माधुर्यमबुधैरहहोच्यते । आखाद्यते यदा॥८॥ वादाचिरं नरकवेदना ॥५॥” तथा स्मृतावपि मधुभक्षणं महापातकहेतुकं भण्यते-"ग्रामाणां सप्तके दग्धे, यद्भवेत्सर्वदा नृणाम् । पापं तदेव निर्दिष्टं, भक्षिते मधुनः कणे ॥६॥” अतः स्वसमयपरसमयविरुद्धं विवेकि-8 भिः कालकूटकण इव मधु दूरतस्त्याज्यम् ॥ तथा चतुर्थी विकृतिर्नवनीतं-तकाद बहिर्भूतम् , अनन्तसंमूर्छमजसन्तुजातव्याप्तं चिरकालावस्थाने च नवोत्पन्नकृमिकुलसङ्कुल न भक्षणीयम् , औषधकृतेऽपि न व्यापारणीयम् , अनेकदिवससत्कं मेलयित्वा घृतकृते न तापनीयम्, शास्त्रान्तरेऽप्युक्तम्-"अन्तर्मुहूर्तात्परतः, सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तन्नाद्यं, नवनीतं विवेकिभिः॥१॥ एकस्यापि हि जीवस्य हिंसने किमचं भवेत् । जन्तुजातमयं तत्को नवनीतं निषेवते ॥२॥" तथाऽप्कायजीवपिण्डमयं हिममपि जीवरक्षाबद्धमनसा श्रमणोपासकेन न भोक्तव्यम् , तथा विषमपि वपरपरासुताविधाननिदानत्वात्, मंत्रोपहतवीर्यमपि उदरान्तर्वतिगण्डो-| लकादिजीवविघातहेतुत्वान्मरणसमये महामोहोत्पादकत्वाच जिनवचनप्रदीपकलिकाप्रकाशितहिताहितवस्तुविचारः सुश्रावकः कथमपिन भक्षयति, करका ये मेघवृष्टौ सत्यांशीतकालादिषुस्त्यानीभूताऽप्कायमया:पतन्ति ते विवेकिना न भोक्तव्याः। तथा सर्वा मृत्तिका दर्दुरादिपंचेन्द्रियजीवोत्पत्तिनिमित्तत्वात् , उपलक्षणत्वात्खडिका धात्वादयश्च पृथ्वीकायजीवात्मकत्वादामाश्रयादिदोषजनकत्वादाहतमतकाचकर्पूरपूरवासितमतिकेन श्राव ॥८० ॥ Page #167 -------------------------------------------------------------------------- ________________ केण न भक्षणीया, यतः सिद्धान्ते पृथ्वीकायजीवानामसंख्ययानां मृत्तिकायां सद्भावो भणितोऽस्ति । तथाहि| "पुढविकाइयजीवा, सूईअग्गे य जे विणस्संति । ते आमलयसरित्था, जम्बूद्दीवे न मायंति ॥१॥ किल जिणवरेहिं भणियं, दप्पियपुरिसेण आहए थेरे । जा हुन्ज तस्स वियणा, पुढविजियाणं तहक्कमणे ॥२॥” तथा रात्रिभोजनं इहलोकपरलोकानेककल्याणकमलासंबन्धप्रतिबन्धार्गलासमानं,कुन्थुकीटिकाकीटककोलिकावृश्चिकाद्यनेकजन्तुकदम्बककण्टककेशतृणाद्यदर्शनप्रभूतानर्थसार्थनिदानम् अशेषदोषमहानिधानं खसमयपरसमयविरुद्धं सिद्धान्तप्रदीपदीपितज्ञानविलोचनः सुश्रावकजनःप्राणान्तेऽपि न रचयति, अत एव श्रीहेमचन्द्रसूरिभियोगशास्त्रे रात्रिभोजनं व्यासेधि, तथाहि-"घोरान्धकाररुद्धाः , पतन्तो यत्र जन्तवः। नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि? ॥१॥ मेधां पिपीलिका हन्ति, यूका कुर्याजलोदरम् । कुरुते मक्षिका वान्त्यं, कुष्टरोगं च कोलिकः ॥२॥ कण्टको दारुखण्डं च, वितनोति गलव्यथाम् । व्यञ्जनान्तनिपतितस्तालु विध्यति वृश्चिकः ॥३॥ विलग्नश्च गले वालः, खरभङ्गाय जायते । इत्यादयो दृष्टिदोषाः सर्वेषां, निशिभोजने ॥४॥ संसजज्जी-12 वसङ्घातं, भुञ्जाना निशिभोजनम् । राक्षसेभ्यो विशिष्यन्ते, मूढात्मानः कथं न ते! ॥५॥ वासरे च रजन्यां 8 च, यः खादन्नेव तिष्ठति ।शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि ॥६॥ अन्हो मुखेऽवसानेच, यो द्वे द्वे घटिके त्यजेत् । निशाभोजनदोषज्ञोऽनात्यसौ पुण्यभाजनम् ॥७॥ अकृत्वा नियमं दोषा,भोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं, न वृद्धिर्भाषितं विना ॥ ८॥ मृते खजनमात्रेऽपि, सूतकं जायते ध्रुवम् । अस्तङ्गते दिवानाथे शि? ॥१॥ वार्डच, वितनोति यो दृष्टिदोषाः कथं न ते! ॥ ५॥च, यो द्वे द्वे घटिक । Page #168 -------------------------------------------------------------------------- ________________ ८२ चैत्यवन्दन-भोजनं क्रियते कथम् ॥९॥ उलूककाकमार्जारगृध्रशम्बरसूकराः। अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् कलकतिः ॥१०॥ श्रूयते ह्यन्यशपथमनादृत्यैव लक्ष्मणः । निशाभोजनशपथं, कारितो वनमालया ॥११॥ करोति विरतिं धन्यो, यः सदा निशिभोजनात् । सोऽर्द्ध पुरुषायुषस्य, स्यादवश्यमुपोषितः ॥ १२॥ धर्मविन्नैव भुञ्जीत, कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं, यदभोज्यं प्रचक्षते ॥ १३ ॥ तद्यथा-त्रयीतेजोमयो भानुरिति वेदविदो विदुः। तत्करैः पूतमखिलं, शुभं कर्म समाचरेत् ॥१४॥ नैवाहुतिन च स्लानं, न श्राद्धं देवताऽर्चनम् । सादानं वा विहितं रात्रौ, भोजनं च विशेषतः॥१५॥ आयुर्वेदेऽपि उक्तं-हृन्नाभिपद्मसंकोचश्चण्डरोचिरपायतः। अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥१६॥” ये तु रात्रिभोजननियमं सुगुरूणां पार्श्व सम्यग् आदाय है। स्वकीयखजनवान्धवोचावचवचनवातूलाप्रे-खोलितचित्तभूरुहाः प्राणान्तेऽपि न परित्यजन्ति वसुमित्रा द्विजपुत्रिकेव ते त्रिदशसम्पदं समासाद्य क्रमक्रमेण सिद्धिवधूसम्बन्धं लभन्ते, तथाहि-"वाद्यमानातोद्यनादमुख-8 रीकृतदिङ्मुखम् । संकेतभूश्रियां जज्ञे, श्रीवसन्तपुरं पुरम् ॥१॥ ददाना दानिनोऽम्भोदा, दानाम्भो यत्र सर्वतः । खयशोराजहंसाय, स्थाने देशान्तरं ददुः ॥२॥ सायं यान्त्योऽभिसारिण्यः, स्त्रियो नूपुरनिखनैः || | यत्र जागरयामासुः, शयानं मीनकेतनम् ॥३॥ अग्रणीर्विजिगीषणां, ग्रामणीनयकारिणाम् । नाना विजय-| &धर्मोऽभूत्, तत्र क्षितिशतक्रतुः ॥४॥ एकेनैव प्रतापेन, यस्यासाधि वसुन्धरा । हस्त्यश्वादिपरीवारो, राज्य स्थित्यै व्यराजत ॥५॥ यत्कासिधाराहतकुम्भिकुम्भविस्रस्तमुक्ता युधि येन सार्द्धम् । क्रीडजयश्रीत्रुटितोरुहा SEARCAMERA Page #169 -------------------------------------------------------------------------- ________________ रादितस्ततः साग पतिता इवाभुः॥६॥ अशोकश्रीरशोकश्रीः, शोणपाण्यंहिपल्लवैः । बभूव दयिता तस्य, लक्ष्मीलक्ष्मीपतेरिव ॥७॥ श्रीधर्मनामधेयोऽभूत् , क्षात्रधर्म इवाङ्गवान् । धीरवीरशिरोरत्नं, कुलकेतुस्तयोः सुतः ॥८॥ धनदेवाभिधस्तत्र, श्रेष्ठी शिष्टमतल्लिका । अजनिष्ट जनप्रष्ठ इव वैश्रवणः श्रिया ॥९॥ प्रेमविश्रामधामाऽस्य, धनश्रीः प्राणवल्लभा । बभूव विलसच्छीलसर्वाङ्गीणविभूषणा ॥१०॥ सांसारिकसुखाखादसक्तयोः। स्निग्धयोस्तयोः । प्रीतिमूर्तिमतीवाऽभूत् , श्रीदेवी दुहिता क्रमात् ॥११॥ कलखरा मरालीव, मत्तदन्तीव सद्ग-द। तिः। जयन्तीव भुवं प्राप्ता, या व्यराजत रूपतः॥१२॥ कलङ्कपङ्कापगमेन यस्या, आस्येन साम्यं समुपेतुकामः। शङ्के शशाङ्कः प्रतिबिम्बदम्भात्, लातीव सर्वेषु जलाशयेषु ॥ १३ ॥ शीलशालीनकौलीन्यप्रमुखाः प्रमुखागुणाः । सर्वे तामाश्रयामासुहसा इव मृणालिनीम् ॥ १४ ॥ वसुतेजाः स्फुरत्तेजा, वणिग वाणिज्यकौशली । तत्रोवास गुणावासः, कृपाधर्माभिवासितः ॥ १५॥ हृतदेवीयशारूपात्तस्य देवयशाः सुता । अभूत् श्रीधर्म४राट्सूनोः श्रीदेव्याश्चैकघस्रजा ॥ १६ ॥ रूपादिगुणमाणिक्यहरणे पश्यतोहरः। श्वित्ररोगोऽन्यदा तस्या, जज्ञे 2 दुष्कर्मदोषतः॥ १७॥ तेनासौ पाण्डुराकारा वराकी विकृताऽभवत् । वर्द्धमानः शुभोदकः, शत्रू रोगश्च किं भवेत् ॥ १८॥ तातश्चिकित्सयामास, कुत्सितां तां चिकित्सकैः। नाविरासीद् गुणः कश्चित्, प्रत्यलः को हि कर्मणि?॥१९॥ उपचाराः परेऽप्यस्याः, कृप्ता मानिकतान्त्रिकैः । प्रवाहे मूत्रितानीव, सर्वे विफलतामगुः ॥२०॥ & वसुतेजासूतस्तांतश्चिन्तया ततया तया । कथञ्चिन्निशि निद्रालुः, कुलदेव्येत्यभाष्यत ॥ २१ ॥ मर्पीयूषपू. AGRICORIANGRESCRECORGA Page #170 -------------------------------------------------------------------------- ________________ कुलकवृचिः चैत्यवन्दन॥८२॥ ष्णव, श्रीदेवीलानवारिणा। स्लपयेः स्वां कनी वत्स!, नीरुजां चेच्चिकीर्षसि ॥२२॥ तदाकर्ण्य वणिग् स्वप्ने, देवताभणितं हितम् । सद्यः सुताहितचिकीर्जजागार सुजागरः॥२३॥श्रीदेवीस्नानपानीयमानीयौक्षत् सुतां प्रगे। वैद्यादिष्टं हितं मिष्टं, नौषधं विदधीत कः॥ २४॥ सद्यः स्वर्णशलाकाभा, तेन सा समपद्यत । जातुचिज्जातरूपीस्यात्, किं नायो रसवेधतः ॥२६॥ अन्येद्युमेदिनीनेतुनन्दनस्याप्यदीप्यत । गात्रे श्वित्रामयस्तीवः, स्थानेस्थाने रुजां नयन् ॥२६॥ चिकित्सा भिषजां तस्मिन् , मन्ना मन्त्रविपश्चिताम् । व्योमप्रहारवजजुः, सर्वतः फल्गु वल्गिताः॥२७॥ दध्यावुपायवैकल्यं, विज्ञाय वसुधाधवः। अभुक्तं किं कृतं कर्म, कल्पान्तेऽपि प्रहीयते ॥ ४॥ २८ ॥ यतः-"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ ॥ २९॥ तथाऽप्यौपयिक किश्चित, कुर्वे खार्थसमीहया । व्यवहारनयस्यापि, बलवत्ताहतां मते ॥ ३०॥ इति चिन्तामधुलिहं, दधच्चित्ताब्जकोटरे । नृपतिः कारयामास, पुरे पटहघोषणाम् ॥ ३१॥ श्रीधर्मनामराट्पुत्रमुल्लाघयति यो नरः। राज्यार्द्धकमलां तस्मै, गुणक्रीतां ददाति राट् ॥३२॥ बालचापलतस्तंच, वसुतेजःसुताऽछुपत् । युक्तायुक्तविचारैकचातुरी क नु शैशवे ? ॥ ३३॥ ततस्तद्वादकाः प्रोचुर्नृपं पटहमस्पृशत् । देवी देवयशा नाम वसुतेजोऽङ्गजाऽधुना ॥३४॥ स्वपुत्रपटुतामार्गमिव पाटहिकं वचः। आकर्ण्य कारयामास, वसुतेजःसुतां नृपः ॥ ॥ ३५॥ तातेन सहिता साऽपि, जगाम नृपपर्षदि । जनयन्ती मनाक्षोभ, रूपलक्ष्म्या सभासदाम् ॥ ३६॥ अनंसीबसुधानाथं, वसुतेजाः सुतान्वितः । ऊचे तं च नृपो भद्र!, भद्रीकुरु ममाङ्गजम् ॥ ३७॥ करकुदाल Page #171 -------------------------------------------------------------------------- ________________ माधायाभिधत्ते स्म नृपं वणिम् । मौक्तिकोपायनं कुर्वन् , दन्तद्युतिततिच्छलात् ॥ ३८॥ अगदंकारदुर्वारश्वित्ररोगातुरा पुरा । देव! देवयशा एषा, समजायत मत्सुता ॥३९॥ सुताया धनदेवस्य, श्रीदेव्याः लानवारिणा । कुलदेव्युपदिष्टेन, नीरुजा साऽभवत्तराम् ॥ ४०॥ ततो देवयशा बाल्यचापल्यान्मत्सुताऽसको । पस्पर्श पटह तेऽद्य, युक्तं यत्तद्विधीयताम् ॥ ४१॥ धनदेवमथाकार्य, राजाऽभाषिष्ट सादरम् ।कृतपुण्योऽसि यस्यास्ति, श्रीदे |वीत्यद्भुता सुता॥४२॥ यत्स्नानपयसः स्पर्शाहुहिता वसुतेजसः।जातरूपोल्लसद्रूपा, संजाता श्वित्रगायपि ॥४३॥ ततो ममोद्वहस्यापि, श्वित्ररोग निवारय । खसुतास्नाननीरेण, कुरु राज्यार्द्धमात्मसात् ॥४४॥ अचीकथदथ |श्रेष्ठी, भूनाथं प्रतिभक्तिभाग । तत्ककर्णाकपालीषु, किरन्निव सुधारसम् ॥४५॥ दान्तदुर्दान्तखग्रामवाजिनः |शान्तचेतसः । मुनेरेव प्रभावोऽयं, देव्या वा देव युज्यते ॥४६॥ कथं घटामटाव्येत, स मदीयसुताम्भसि । तारास्वपि नतारासु द्युतिः प्राद्योतनी भवेत् ॥४७॥ श्रीदेव्याः स्लाननीरेण, यच्च देवयशाः प्रभो?। नितरां नी-14 रुजा जज्ञे, घुणाक्षरनयः स तु ॥४८॥ भूपोऽवादीन्मेति वादीः, श्रेष्ठिन् ? यच्छ्रयते पुरा । विशल्यायाः कर-| | स्पर्शाद्विशल्योऽजनि लक्ष्मणः॥४९॥ प्राग्भवारोपितानल्पधर्मकल्पमहीरुहोः । स्त्रीपुंसयोः प्रभावोऽयं, न महानप्यसंभवी ॥५०॥ युग्मम् ॥ श्रेष्ठीति भूभुजादिष्टः, शिष्टप्रष्टः प्रकृष्टधीः । श्रीदेवीलाननीरेणाभ्यषिञ्चद् राजनन्दनम् ॥५१॥ तेनासौ सिक्तमात्रोऽपि, घनेनेव रुजोज्झितः। सवितेव क्षणादेव, व्यद्युतत् कायकान्तिभिः ॥५२॥ अमन्दानन्दमेदखी, मेदिनीपतिरभ्यधात् । श्रेष्ठिनौ प्रति सप्रीतिबहुमानपुरस्सरम् ॥५३॥ इदं राज्य Page #172 -------------------------------------------------------------------------- ________________ चैत्सवन्दन- मियं लक्ष्मीः, सम्पत्तिरपराऽपि मे । अधीना भवतोः सर्वा, कृतपुत्रोपकारयोः॥५४॥श्रीदेवीदेवयशसौ स्वपु-कुलकवृत्तिः यौ मत्सुताय भोः। दत्त्वा मदर्द्धराज्यस्य, भागिनौ भवतां युवाम् ॥ ५५॥ अथ तावूचतुर्भूपं, देहं गेहं श्रियः कनी । तवायत्तं समस्तं नौ, किमतः परमुच्यते? ॥५६॥ ततस्ते कन्यके काम्यकलाकौशलकालिते । पर्यणैषीत् कुमारः साक, रतिप्रीती इव स्मरः॥ ५७ ॥ भुञानस्य सहामूभ्यां, भोगभङ्गी मनोरमाम् । दौगन्दिकसुरस्येव, तस्य कालः कियान् ययौ ॥५८॥ राजा विजयधर्मोऽथ, जिगृहीषुव्रतं द्रुतम् । राज्याभिषेकमाधत्त, श्रीधर्मस्योचितीबुधः॥५९॥ राज्यं संत्यज्य लात्वा च, जरावस्थोचितं व्रतम् । प्रेत्यशर्मकरं धर्म, कृत्वा देवोऽभवद्दिवि &|॥६०॥ श्रीधर्मस्य च धर्मेण वसुधां शासतः क्रमात् । श्रीदेवीदेवयशसोर्जज्ञतुस्तनयोत्तमौ ॥११॥ अगादतिशयज्ञानी, धर्मबोधाभिधो मुनिः। पुरोद्याने जनाम्भोजबोधप्रद्योतनोऽन्यदा ॥६२॥ श्रीधर्मो धर्मराजाभः, श्रुत्वा हृष्टस्तमागतम् । सान्तःपुरपरीवारः, सद्भक्त्यैत्य नमोऽकरोत् ॥ ६३ ॥ भवनिर्वेदजननी, देशनां मुनिरप्यथ । चकार सर्वसंसारनिस्तारणपरायणः॥ ६४॥ देशनान्तेऽथ पप्रच्छ, राट् मुनि केन कर्मणा । अहं देवयशोदेवी जज्ञिव श्वित्रिणाविति ॥६५॥ सुकृतं किं कृतं पूर्व, श्रीदेव्या विश्वचित्रकृत् । यत्स्नानाम्बुलवस्पर्शात्, |पट आवां बभूविव ॥६६॥ अथोचेऽतिशयज्ञानादर्शसंक्रान्तविष्टपः । धर्मबोधाभिधः साधुस्तत्प्रबोधकृते कृती[8 ॥६७ ॥ श्रीवर्द्धनपुरे विनोऽग्निमित्रो नैष्ठिकोऽभवत् । सावित्री प्रेयसी तस्य, तनयः सोमिलाभिधः ॥ ६८॥ स्नुषाऽथ वसुमित्राख्या, नवोढा सा पितुर्ग्रहे । इयायोजयिनीपुर्या, घनागमसमागमे ॥ ६९॥ मित्रत्वं वसुमि ॥ ८ ॥ Page #173 -------------------------------------------------------------------------- ________________ त्रायाः, श्राद्धपुत्रीभिरादितः । अवर्द्धिष्ट सहाया हि, तादृशो भावि यादृशम् ॥ ७० ॥ साथाषाढचतुर्मासे, | श्राविकाभिः समन्विता । चैत्यप्रपार्टी चैत्येषु, विदधे भावभूषिता ॥ ७१ ॥ सा साध्वी वसतौ गत्वा, नत्वा साध्वीरुपाविशत् । धर्मश्रीगुरुणीवाऽधात्तत्पुरो देशनामिति ॥ ७२ ॥ मिथ्यात्ववासनाऽत्यन्तवासितस्य शरीरिणः । अनन्तोऽयं गतः कालो, नत्वजायत निर्वृतिः ॥ ७३ ॥ सम्यक्त्वामरशाखी तु, यन्मनोभुवि रोहति । क्रीडन्ति तत्करक्रोडे, शक्रचक्रधरश्रियः ॥ ७४ ॥ किं चात्रामुत्र दुर्वारदुःखसंभारकारणम् । न रात्रौ भोजनं जातु, युक्तं कर्त्तुं विवेकिनाम् ॥ ७५ ॥ असन्तुष्टा इवात्यन्तं भुञ्जते ये दिवानिशम् । शृङ्गाद्यभावतस्तेषां पशुभ्यो लक्ष्यते|ऽन्तरम् ॥ ७६ ॥ सूक्ष्मासूक्ष्मत्रसप्राणिघाता दुर्गतिहेतुकम् । निशाशनं न कर्त्तव्यं, कदाचन हितेच्छुभिः ॥७७॥ तां श्रुत्वा प्रतिबुद्धा सा, जिनं देवमशिश्रियत् । गुरून् साधून जिनोपज्ञं, धर्मतत्त्वं च भावतः ॥ ७८ ॥ सर्वदातः परं रात्रौ न करिष्यामि भोजनम् । जैनागमेषु वेदेषु, स्मृत्यादौ च निवारितम् ॥ ७९ ॥ इत्यङ्गीकृतस| म्यक्त्व निशा भक्तव्रतामिमाम् । वर्षान्ते सोमिलो भर्त्ता, श्रीवर्द्धन पुरेऽनयत् ॥ ८० ॥ निशाभोजननियमं सर्व| स्वमिव तत्र सा । अपालयत्-प्रतिज्ञातं, नान्यथा हि दृढात्मनाम् ॥ ८१ ॥ ततः श्वश्रूननान्द्रायाः सर्वाः कुलमहत्तराः । तां प्रति प्रोचिरे भद्रे ?, किमारब्धमिदं त्वया ॥ ८२ ॥ रजनी भोजनत्यागकुलाचारो न वस्तव । न कर्त्तुमर्हसि त्वं तं, कुलनार्यः कुलक्रमात् ॥ ८३ ॥ नीरङ्गीच्छादितास्याऽथ वसुमित्राऽवदन्मृदु । न विचारेण मां यूयं, किं तु प्रवाहः ॥ ८४ ॥ कुलक्रमागतो धर्मो भवतां यदि सम्मतः । तर्हि धम्मिषु धौरेयाः, व्याधधीवर ब्रूत 44.4% Page #174 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- शौनिकाः॥ ८५॥ अभवन् पूर्वजा येषां, जात्यन्धाः कर्मयोगतः । तद्वंश्यैरपि किं भाव्यं ?, जात्यन्धैदृष्टिशा- Iकुलकवृत्तिः लिभिः ॥ ८६ ॥ अतो धर्मः कृपामूलो, वीतरागप्ररूपितः । स्वर्गापवर्गसंसर्ग, वितनोति तनूभृताम् ॥ ८७॥ ॥८४॥ * हिंस्रं तु ये कुलाचारं, कुर्वते धर्मकाम्यया । जीवातुफलमिच्छंतस्ते सिञ्चन्ति विषद्रुमम् ॥८८॥ सुसूक्ष्मजन्तुपूर्ण । ये, निर्मान्ति निशिभोजनम् । मूलादुन्मूलयन्त्येते, कृपाधर्ममहीरुहम् ॥ ८९॥ न चायं वः कुलाचारः, प्रवाहापतितं परम् । क्षपायां न प्रतीच्छन्ति, यत्पिण्डं पूर्वजा अपि ॥९०॥ यदुक्तं स्मृतिवेदेषु, कर्त्तव्यं तद्विजन्मनाम् । कथं विधीयते तत्र, निषिद्धं निशिभोजनम् ॥११॥ संमील्य लोचने यूयं, विचारयत चेतसि । असाम्प्रतं साम्प्रतं वा, धार्मिकाणां निशाशनम् ॥१२॥ इत्थं भणितिभङ्गिभिः, सा चक्रे ता निरुत्तराः। कुपथस्थापनां नैव, सहन्ते धर्मवेदिनः॥९३॥ ततो निरुत्तरीभूताः, श्ववाद्याः कोपना भृशम् । इत्यूचुादमस्माभिः, सहाऽऽपापे ? विधास्यसि ॥९४ ॥ तवोत्तरोत्तरर्वाक्यः, मृतं श्वशुरसद्मना । कार्य चेत्तत्त्यजेदं त्वं, चेन्न तातगृहं ब्रज ॥९५॥ दृढव्रताऽथ सोवाच, यास्यामि पितृमन्दिरम् । नियमं नान्यथा कुर्वे, प्राणान्तेऽपि प्रतिश्रुतम् ॥ ९६॥ किन्तु यूयं| समायात, तत्र प्रापयितुं मम । यथा न जायते लोके, कलङ्कः शीलगोचरः॥१७॥ तथेति प्रतिपद्याथ, श्वशुरौ| सहितौ तया । चेलतुर्युक्तमुक्तं हि, श्रद्धेयं द्विषतामपि ॥९८॥ प्रयाणैरनवच्छिन्नैगच्छन्तौ तौ स्नुषान्विती । टा ग्राम जीवहराभिख्यं, प्रापतुस्तत्र तस्थतुः॥ ९९ ॥ तत्र माधवभद्देन, सन्ध्यायां तौ खमन्दिरम् । निन्याते स्नूषया सार्द्ध, स्लपितो चारुवारिभिः॥१०॥ तदर्थ क्रियमाणायां, रसवत्यां सविस्तरम् ॥ मूषकार्थे फणीधावन्नपततीमने Page #175 -------------------------------------------------------------------------- ________________ स्यात् ॥१॥ तीमनं चालयन्ती च, धूमभूमाकुलेक्षणा । दा विलोडयामास, भुजङ्गमपि पाचिका ॥२॥ एतौ माधवभट्टेनोत्थापितौ भोक्तुमादरात् । वसुमित्रा न चोत्तस्थौ, तावप्युत्तस्थतुर्न तत् ॥३॥ खयं माधवभट्टोऽथ, बुभुजे सपरिच्छदः। सविषव्यञ्जनग्रासान् , जगाम च यमालयम् ॥४॥ वीक्ष्यमाणः परिजनस्तदीयं मृत्युकारणम् । मृतं विलोकयामास, सर्प तीमनभाजने ॥५॥ श्वशुरौ वसुमित्राया दृष्टव्यतिकरावथ । प्रशंसाद्वैतमाधत्तां, स्नुषाया हृष्टमानसौ ॥६॥ तत एतामभाषेतां, वसुमित्रे ? कुमित्रवत् । रात्रिभक्तं त्वया |त्यक्तमीदृशाध्यक्षदोषमत् ॥७॥ अद्यावाममरिष्याव यद्यभोक्ष्यावहि ध्रुवम् । किन्तु त्वदनुषङ्गेणाजीवाव कुलजीविनि ? ॥ ८॥ जीवरक्षामयस्तेऽयं धर्मोऽत्रामुत्र भद्रकृत् । वत्से ? त्वयाऽद्य सोढव्यमावाभ्यां यददूष्यत ॥ ९॥ तामेव मानयित्वा तौ, व्याघुट्य स्वपुरं गतौ । तयाऽऽदृतमथादृत्य, धर्मकर्म प्रचक्रतुः॥१०॥ क्रमशः श्वशुरः श्वश्रूर्वसुमित्रा च ते त्रयः। मृत्वा समाधिनाऽभूवन् , देवाः सौधर्मवासिनः॥११॥ वसुमित्रा क्षपाभक्तपरित्यागवताय यत् । असूयितं युवाभ्यां प्राग, कुष्ठस्तेनाजनिष्ट वाम् ॥ १२ ॥ सौधर्माद्वसुमित्राऽपि,8 च्युत्वा श्रीदेव्यभूदियम् । पुराऽऽवां सङ्कटे सौवं, व्रतं निर्वाहितं यया ॥ १३ ॥ रजनीभोजनत्यागव्रतपालनजन्मनः । पुण्यादस्यास्तु वां कुष्ठहरं स्नानपयोऽप्यभूत् ॥ १४ ॥ नृपादयस्त्रयोऽप्येवं, श्रुत्वा पूर्वभवं ततः । जातजातिस्मृतिज्ञानाद् भववैराग्यमासदन ॥१५॥ श्रीधर्मबोधकरं नत्वा, धर्मबोधगुरूं नृपः । व्रतादानोत्सुक या। मृत्वा समाधिनाऽभूवन स्तनाजनिष्ट वाम् ॥ १२ ॥ भोजनत्यागव्रतपालनश्वशुरः श्वश्रूर्वसुमित्रा । असूयितं युवाभ्या निर्वाहितं यया योऽप्येवं, श्रुत्वा पूर्वमहानोत्सुक १५चत्यव. Page #176 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- खान्तःपुरं सान्तःपुरो ययौ ॥१६॥ श्रीदेवीसंभवं राज्ये, यौवराज्ये तथाऽपरम् । न्यास्थत् देवयशासूनुं, श्रीध कुलकचिः मवसुधाधिपः॥१७॥ साम्राज्यलक्ष्मी तृणवद्विमुच्य, दंतीव दानाम्बु पथि प्रवर्षेन् । प्रभावनावीरुधर्मबुवाहः, इवोन्नयन मुक्तसमस्तसंगः॥१८॥ पत्नीद्वयेनानुगतो महद्ध्या, श्रीधर्मभूमीपतिरुद्विवेकः । श्रीधर्मबोधाभिधसूरिपार्थे, जग्राह दीक्षां शिवदानकक्षाम् ॥१९॥ युग्मं । त्रिगुप्तिगुप्ता समितिप्रसक्ताः, पंचप्रमादाचरणप्रमुक्ताः त्रयोपि चारित्रसुशोभिगात्राश्चकुर्विहारं भुवि पुण्यसत्राः॥२०॥ तपः कुठारेण कुकर्ममर्मवल्लीवितानस्य विधामाय लावम् । श्रीकेवलज्ञानविभूषितांगास्ते मुक्तिपाणिग्रहणं प्रचक्रुः ॥२२॥ इत्थं निशाभोजनवर्जनव्रतं, जना गृ-8 हीत्वा प्रतिपालयंतिये । इहैहिकामुष्मिकसंपदां पदं, भूत्वा लभंते परमं पदं च ते॥२२॥ इति रात्रिभोजनविषये वसुमित्राब्राह्मणीकथानकं समाप्तम्-॥ | 'बहुबीयमिति, यत्र फले बहूनि बीजानि निरंतराणि भवंति तद् बहुबीजफलं खसखसादि विवेकवान् |श्राद्धो वर्जयेत्, यतो यत्र फले यावंति बीजानि भवंति तत्र तावंतो जीवा भवेयुरतो बहुवीजफलभक्षणे प्रभूत जीवविघातः स्यात्, सिद्धान्ते चोत्सर्गतः सुश्राद्धस्य सम्यक्त्वशालिनः सचित्ताहारस्य प्रायः परिहार एवं ॐाप्रत्यपादि, यत उक्तम्-“उक्कोसोसावगो वुत्तो, सचित्ताहारवजओ। इक्कासणगभोई य, बंभयारी तहेव य ॥१॥" अतः सुश्रावकेण सचित्तमपि प्रतिबद्धाप्रतिबद्धरूपं प्रासुकीकृत्य भोक्तव्यम् , बहुबीजफलभक्षणं च सर्वथा है १न्यासीत् । २ पवित्र, । ३ कर्म. ॐॐॐॐॐ पोपि चारित्रसंशाजानविभूषितांगास्ते मापदापदं, भूत्वा लभंत Page #177 -------------------------------------------------------------------------- ________________ |परिहार्यमेव, 'अणंते'ति सूचकत्वात् सूत्रस्यानंतकायिकीयत्र कन्दपत्रग्रन्थ्यादिषु सूच्याप्रमाणप्रदेशेऽपि अनन्ता जीवा भवन्ति तदनन्तकायिकम् । आर्द्रकमूलकसूरणादि विवेकवान् श्राद्ध औषधादिकारणेऽपि अनंतजीवविनाशकारित्वात् खजीवस्यैकस्य जीवनकृते न भक्षयेत्, यत उक्तम्-"इक्कस्स कए नियजीवियस्स बहुयाय जीवकोडीउ । दुक्खे ठवंति जे पुण, तेसिं किं सासओ अप्पा? ॥१॥” अथानंतकायिका नामग्राहं प्रोच्यन्ते, “सबायकंदजाई, सूरणकंदोय वजकंदोय।अद्दहलिद्दा य तहा, अइंतह अल्लकच्चूरो॥१॥सत्तावरी विराली, कुमारीतह थोहरी गिलोई य, ल्हसणं वंसकरिल्ला गजर तह लोणओ लोढा॥२॥ गिरिकन्नकिसलपत्ता, कसेरुगा थि|ग्गअल्लमुत्थाय । तह लूणरुक्खछल्ली, खिल्लूडो अमयवल्ली य॥३॥ मूला तह भूमिरसा, विरहातह ढक्कवत्थुलोपढमो । सूयरवल्लोय तहा, पल्लंको कोमलंबिलिया ॥४॥आलू तह पिंडालू, बत्तीसं जाणिऊण अणंताई। एयाईबुद्धिमया, वजेयवा पयत्तेण ॥५॥" आसां विषमपदव्याख्या लिख्यते-'सत्तावरी विराली कुमारि तह थोहरी गिलोई य' वल्लीविशेषाः, 'ल्हसणं' कन्दविशेषः। 'वंसकरिल्ला'नवकोमलवल्लीविशेषः'लोणओ वनस्पतिविशेष:, येन दग्धेन सर्जिका भवति, 'लोढा' पद्मिनीकन्दः, 'कसेरुकः' कन्दविशेषः, 'खिलूड' कन्दविशेषः 'भूमिरसा' भू-द मिस्फोटाः आलू पिण्डालू कन्दभेदी वनस्पतिविशेषौ,अथानंतकायिकसामान्यलक्षणमुच्यते-'सबोवि किसलओ खलु, उग्गममाणो अणंतओ भणिओ।सोचेव विवडतो, होइ परित्तो अणंतोय ॥६॥ गूढसिरिसंधिपचं, समभंग१ वशावयवविशेषः। REGROGROGANGANAGAR Page #178 -------------------------------------------------------------------------- ________________ चैत्यवन्दन महीरुहं च छिन्नरुहं । साहारणं सरीरं, तविवरीयं च पत्तेयं ॥७॥ गूढसिरागंपत्तं, सच्छीरं होइ जं च निच्छीरं। जंपिय पणट्ठसंधि, अणंतकायं वियाणाहि ॥८॥' अस्याः किंचित् व्याख्या लिख्यते-गूढा-अनुपलक्षिताः सिरा ॥८६॥ नाड्यो यस्य तत् 'गूढसिरं' पत्रं सक्षीरं भवति यथा शुभकवृक्षस्य, अक्षीरं वा भवति यथा पीलुवृक्षस्य, यदपि च तत्पत्रं प्रणष्टसंधि स्यात्, प्रणष्टाः संधयः पांशुल्य:-पृष्टप्रदेशरेखा विशेषा यत्र तत् प्रणष्टसंधि, एवं विधवि& शेषणोपेतं पत्रं अनन्तकायिकं जानीयात् । अथ मूलकंदस्कन्धपत्रादीनामनंतकायिकानां लक्षणं भण्यते-"चक्का गं भज्जमाणस्स, गंठीचुन्नघणाभवे । पुढविसरिसेण भेएण, अणंतकायं वियाणाहि ॥९॥ जस्स मूलस्स भग्गस्स, समो भंगो पदिस्सइ । अणंतजीवेहु से मूले, जेयावन्ने तहाविहे ॥१०॥” अथ प्रत्येकवनस्पतिमूलस्य लक्षणमुच्यते,"जस्स मूलस्स भग्गस्स हीरोभंगोपदिस्सइ । परित्त जीवे हु से मूले जे यावन्ने तहाविहे ॥११॥” अथानन्तकायत्वगलक्षणमाह-"जस्स मूलस्स साराओ, छल्ली बहलतरी भवे । अणंतजीवा हु सा छल्ली, जे यावन्ना तहाविहा ॥ १२॥” साराकाष्टं तस्माच्छल्ली-त्वक् बहलतरी-स्थूलतरी यथा सत्तावर्याः सा अनन्तकायिकत्वगविज्ञेया, काष्टं तु प्रत्येकजीवम् , अथ प्रत्येकत्वग्लक्षणमाह-"जस्स मूलस्स साराओ, छल्ली तणुयरी भवे । परित्तजीवा हु सा छल्ली, जे यावन्ना तहाविहा ॥१३॥” इति निशीथसिद्धान्तचूर्णेरनन्तकायिकगाथा व्याख्या|'संधाण'मिति "अघाण'मिति लोकप्रसिद्धं, अनंतकायिकं पंचवर्णफुल्लिसङ्कलत्वात् जीवसंसक्तिमत्वाच, खादिष्टमन्नं रोचकमपि रसगार्येन सुश्रावकेण स्वगृहे न कारणीयं, नापि स्वयं भोक्तव्यं, 'घोलवडा' इति आम-| SAAAAAAAIARIES Page #179 -------------------------------------------------------------------------- ________________ गोरसनिक्षिप्तानि वटकानि श्रावकेण न भक्षणीयानि, यतो वटकानां द्विदलोत्पन्नत्वादामगोरस संयोगे च तद्वर्ण- | | सजीवोत्पादस्य सिद्धान्ते प्रतिपादनात्, तदुक्तम् जइ मुग्गमासपमुहं विदलं कञ्चम्मि गोरसे पडइ । ता तसजीवुष्पत्ति, भांति दहिए वि तिदिणुवरेिं ॥ १ ॥ ननु 'संगरहली' त्यादि गाथयाऽग्रे सूत्रकारेण गोरससंष्टतद्विदुलान्नभक्षणवर्जनस्य भणिष्यमाणत्वादत्र कथं घोलवटकपरिवर्जनं पृथक् प्रत्यपादि ?, अत्रोच्यते जिन| शासने- उष्णतक्रनिक्षिप्तवटकभक्षणं निर्दोषत्वात् सुश्रावकैर्विधीयते, अतो मुग्धश्रावकाणां घोलवटकभक्षणेऽपि तत्सादृश्येन भक्षणभ्रान्तौ सत्यां तन्निषेधार्थमिह घोलवटकानां द्विदलानामपि पृथगुपादानं, 'वायंगणमिति, तथा वृन्ताकफलान्यपि बहुबीजानि कामोद्दीपनकारित्वात्सदोषाणि विवेकवता श्रावकेण परिहरणीयानि, यदुक्तं स्वसिद्धांते परसिद्धाते च - " बहुबीयाओ बहुजीवघायणं बहुयवाहिकरणाओ । बहुकाम - | निद्दकारणत्तणेण वायंगणा न सुहा ॥ १ ॥” नीलीं च वापयेद्यस्तु, मूलकं यस्तु भक्षयेत् । वृन्ताकभक्षणादेव, नरो गच्छति रौरवम् ॥२॥" अमुणियनामाई'ति, अज्ञातं स्वयं परेण वा नाम येषां पुष्पफलादीनां तान्यज्ञातना| मानि पुष्पफलादीनि विवेकवान् श्रावकवरो न भक्षयेत्, यतः कदाचिदज्ञातफलभक्षणे विषफलभक्षणेऽपि प्रवृत्तिः स्यात्, यत उक्तम्- "स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वाऽपि मा भूदस्य| प्रवर्तनम् ॥ १ ॥" अतो यत्किंचित् श्रावकेण भक्ष्यते तन्नाम ज्ञात्वैव भक्षणीयम्, अतो ये सद्गुरुवचनाञ्जनविगतवितताज्ञानपटला नानाऽभिग्रहग्रहणप्रवणमत योऽज्ञातफलभक्षणनियममादाय स्वप्राणप्रहाणावसरेऽपि Page #180 -------------------------------------------------------------------------- ________________ चैत्यवन्दनतानि न भक्षयंति, ते वङ्कचूलराजकुमार इव खर्गापवर्गादिसकलकमलालीलावतीपाणिपीडनविधिं विद 18 कुलकवृचिः घति, अत्रार्थे वङ्कचूलराजकुमारकथानकं जनितामन्दानन्दकदम्बकं सकलसकर्णानां कर्णातिथीक्रियते तथा॥८७॥ हि-क्षितियुवतिभालतिलकं, शुचिकाश्चनजटितमुषितपुरत्नम् । विरराज रुचिरवर्ण, रथनूपुरचक्रवालपुरम् ॥१॥ वातप्रेडोलितावासपताकाकिङ्किणीकणैः । बभौ हंसदिवाशेषां, रत्नगर्भा निजश्रिया ॥२॥ जिनधर्मामकर्पूरपूरवासितधातवः।श्रावकाः सौरभं यत्र, परेषामपि चक्रिरे ॥ ३॥ विमलयशा विमलयशा, इह भूमिपुरंदरः समजनिष्ट । जिनवरचरणांभोरुहवरिवस्यन् मधुकरीकान्तः॥४॥ यस्य प्रतापयशसी, रणारम्भं विनाकृते । समुद्रमुद्रितां सर्वा, साधयामासतुमहीम् ॥५॥ नीतिकांतापरिष्वङ्गरणदत्तुङ्गमानसः । अनीतिव| नितां दृष्ट्याऽप्येष नैक्षिष्ट रुष्टवत् ॥ ६॥ कल्पमाङ्गल्यशालेव, पत्नी तस्य सुमङ्गला । अभूत्प्रतिकृतिप्राया यस्या अप्सरसोऽपि न ॥७॥ शीलायाः कवचेनेव, यस्याः कवचिते हृदि । न परः पुरुषः शक्तो, बेष्टुं कौशल शाल्यपि ॥८॥ तत्कनी वङ्कचूलाऽभूत् , बालरण्डा च साजनि । भूपत्यपत्यभावेऽपि, नान्यथा कर्मनिर्मितम् *॥९॥ अङ्गभूर्वङ्कचूलोऽभूत्तयोः साहसिकाग्रणीः । मांसलस्कन्धरोचिष्णुरलंभूष्णुर्द्विषः प्रति ॥१०॥ मुख्योऽपि दोष्मतामेष, हृषीकाणां वशंवदः । परदारखलीकारं, कुरुते स्म निरर्गलम् ॥११॥ सोऽलुण्ठत् पुरिलुण्टाकइव सारं पुरीसदाम् । तांस्तथोद्वेजयामास, वधबन्धनताडनैः॥१२॥ तेनात्युद्वेजितैलोकैः, पूच्चक्रे नृपतेः पुरः देव ? मातरि दुष्टायां, जीवितव्यं कथं कियत् ॥ १३ ॥ त्वदङ्गजोऽप्यपन्यायं, समाचरति चेद्विभो,? प्रजायाः ॥ ७ ॥ Page #181 -------------------------------------------------------------------------- ________________ क सुखं भावि, रक्षको यः स हिंसकः ॥१४॥ प्रजाः पुत्रीयमाणोऽथ, भूनेताऽत्यन्तवत्सलः। आश्वास्य कोमलालापैायिगृह्यो व्यसर्जयत् ॥१५॥कोपाटोपाद्दशनोष्ठं, वङ्कचूलं च राट् जगौ । अङ्गजेनापि दुष्टेन व्रणेनेव कृतं त्वया ॥१६॥राज्यं राष्ट्रं च मे हित्वा, दुरात्मन् ? वत्स ? गच्छ रे। शून्यैवहि वरा शाला, नतु तस्करपूरिता॥१७॥ इत्युक्तो भूभुजा पुर्या, जामिजायासमन्वितः । वङ्कचूलश्चचालाशु, धिक्पापं दुर्दशाकरं ॥१८॥ मागोमागोनभिज्ञोऽथ, स हिंस्रपाणिभीषणाम् , आससादाटवीं गुर्वी, तत्रातीयाय यामिनीम् ॥१९॥ दिग्विभागमजानानैः, & प्रातरेतस्य किंकरैः। वटमारुह्य पश्यद्भिः, काप्यदर्शि हुताशनः॥२०॥ कोप्यत्र पथिकोऽस्तीति, न्यग्रोधादवरु ह्य ते । तत्र जग्मुर्निजे कार्ये का, प्रमाद्यति हृद्यधीः ॥ २१॥ करवालकरान् क्रूरांश्चौरान् धृतधनुः शरान् । किंकरानिव कैनाशानीक्षामासुश्च तत्र ते ॥२२॥ अभाषयन्त चौरांस्तान् , यूयं कस्य कयास्यथ । ते कथां वङ्क-17 चूलस्यामूलचूलामचीकथन् ॥ २३ ॥ तथाहि-राज्ञा विमलयशसा, वङ्कचूलाभिधः सुतः, । ज्यायोऽन्यायविधायित्वान्निरकासि खदेशतः॥२४॥ पर्यटन्नटवीं सोऽमूमायासीत्तस्य किंकराः। वयं प्रश्नयितुं मार्गमुपयुक्तं समागताः॥२५॥ इत्याकर्ण्य वचस्तेषां, पुनरूचुमलिम्लुचाः।क विभुर्भवतां तेऽपि, दर्शयामासुराशु तम् ॥ २६ ॥ नत्वा प्रणिगदंति स्म, वङ्कचूलं मलिम्लुचाः । देव! देवोऽस्मदीयोऽभूच्छाद्धदेवातिथिः पुरः ॥२७॥ नाथ ! नाथसनाथाः स्मो, भवतैव भटोत्तम !। सदृशाः सदृशेष्वेव, रति नहि संशयः ॥२८॥ ऊरीचकारचौराणां, राजसूरपि तद्वचः। नौचितीमौचितीदक्षा, लंघयंति कथञ्चन ॥२९॥ सचौरश्चौरपल्यां स, जगाम बचस्तेषां, पुनरूचा। देव! देवोऽस्मदीयोनाह संशयः ॥ २८॥ माजगाम Page #182 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥८८॥ खजनैवृतः । अध्यासामास पल्लीशसदनं च शुभायतिः ॥ ३०॥ पापर्द्धिवद्धि पापर्द्धिमाधत्त व्यसनान्धितः, कुलकवृतिः ग्रामादिषु ददौ धाटी, पाटचरचमूवृतः॥३१॥ पथि प्रस्थितसार्थोघं, पान्यांश्च स उपाद्रवत् । मृगयुमंगयां प्राप्तः, क्रूरकर्मा मृगानिव ॥ ३२॥ युग्मम् ॥ इतश्च-तिसृभिर्गुप्तिभिगुप्तः, सक्तः समितिपञ्चके । चारुपञ्चविधाचारसमाचरणदक्षिणः॥३३॥ चरणप्रगुणः क्षीणरणः कुनयवारणः । श्रीमान् सूर्ययशाः सूरिरात्मना सप्तमोऽन्यदा ॥ ३४ ॥श्रीउज्जयिन्यलंकारनेमीश्वर निनंसया । प्रतस्थे सार्थतो भ्रष्टः पपात च महाटवीम् ॥ ३५॥ उदन्वति यथा नावं, ग्रीष्मे छायां घनामिव । भिल्लपल्लीं वङ्कचूलसनाथां स समासदत् ॥ ३६॥ चतुर्भिः कलापकम् । निखनघननिखानखनसंसूचितागमः। अथ नाथ इवावन्याआजगाम घनागमः ॥ ३७॥ प्रवर्षद्वषुकांबोदसमुन्नतिसमुद्भवैः। रोदोमन्दिरमापूरि सूचीभेद्यैस्तमोभरैः॥ ३८॥ जीमूतकान्तसङ्गेन, प्रोचरोमांचितेव भूः। चकासामास संकीर्णहरिद्भिहरिदकरैः ॥३९॥ जम्बालजलमाजानु विरेजे क्षितियोषितः। पयोदप्रियसङ्गेन । प्रक्षरत्खेदपूरवत्॥४०॥ चतुर्भिः कलापकम् । ततस्तत्रैव तिष्ठासुसूरिः शय्यां यियाचिषुः । पल्लीशधान्यगात्सर्व, यतीनामस्ति याचितम् ॥४१॥ अनंसीद वंकचूलोऽपि, भक्तिसारं मुनीश्वरम् । पप्रच्छ च प्रभो ? ब्रूत, समागमनकारणम् ॥ ४२ ॥ सूरिरूचे वयं वर्षाकारणात्क्षत्रियोत्तम!। स्थास्यामोऽत्र प्रयच्छातो, वसतिं नो यथाकृताम् ॥८ ॥ ॥४३॥ रचयद्विनयाद्वैतं, वकचलोऽवदद्रुम् । दास्याम्यपाश्रयं किंत, मामकीनं वचः शृणु ॥ ४४ ॥ भवद्भि१ स्थामपर्वतः । २ भूमिः । SECR Page #183 -------------------------------------------------------------------------- ________________ रत्र नाधेया, धर्मकर्मकथा प्रथा । प्रतिशुश्राव तत्सूरिः, कार्य कार्य यथा तथा ॥४५॥ पल्लीशार्पितवसतो, तस्थिवांसः स्थिरा व्रते । स्वाध्यायध्यानलीनास्ते, तत्र प्रावृषमत्यगुः॥४६॥ उच्छू वोलिंति विइतुं, बीउजाईमुक्कभंडाओ । वसभा य जायथामागामा पंथा अचिक्खिल्ला ॥४७॥ अप्पोदगाय मग्गा वसुहावि य पक्कमटिया 8 जाया। अन्नकंता पंथा, साहणं विहरि कालो॥४८॥ कथयित्वेत्यथाऽऽपृच्छय, वङ्कचूलं च सूरयः। चेलु:सुविहितानां हि, प्रतिबन्धो भवेत्किमु ?॥४९॥अन्वगाद्वंकचूलस्तान्, प्रोचिरेतेऽपितं प्रति। पूर्णा पूर्वप्रतिज्ञेति, वच्मस्त्वां प्रति सम्प्रति ॥५०॥ उपाश्रयायुपष्टम्भप्रदानादुपकार्यसि । उपाश्रयप्रदानं यत्पुण्यायोक्तं हि चागमे ॥५१॥ यदुक्तम् "जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्नवत्थन्नपत्तसयणासणविगप्पा ॥५२॥ पावई सुरनररिद्धिं, सुकुलप्पत्तीय भोगसंपत्ती । नित्थरइ भवमगारी सिज्जादाणेण साहूणं ॥५३॥ उपकारं चिकीर्षामः, किंचित्तेऽतः स च द्विधा । द्रव्यतो भावतश्चेति, द्रव्यतः सोऽथ कथ्यते ॥५४॥ वसनासनगेहार्थकन्यकादिप्रदानतः। द्रव्योपकार एषः स्यादनित्यत्वान्न सुन्दरः ॥५५॥ भवेद्भावोपकारस्तु, दर्शनस्य प्रदर्शनम् । द्वादश व्रतदानं च, तत्त्वमार्गोपदेशनम् ॥५६॥ सारं भावोपकारं ते, विधित्सामः शुभेच्छवः । अतो गृहाण सद्धर्म, नियमं चात्र कश्चन ॥५७॥ ततः पल्लीपतिः स्माह, प्रभोऽहं पश्यतोहरः। हिंसालीकपरद्रव्यपरदारापरायणः ॥५८॥ सप्तव्यसनपाथोधिक्रोडक्रीडनकच्छपः । निःशेषदोषलीलाभूः, धर्मकर्मबहिष्कृतः ॥५९॥ पापिभ्योऽप्यस्मि पापिष्ठो, येन प्राप्य भवादृशान् । नाददे नियमं कञ्चित्, धर्म वा जिनभाषितम् ॥६०॥ इत्यु Page #184 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥ ८९ ॥ के वङ्कचूलेन, योग्य एष प्रभोत्स्यति । इत्युपयोगपूर्वं स, गुरुभिर्बभणे तदा ॥ ६१ ॥ फलानां नाम येषां त्वं, न जानास्यपरोऽपि च । न तानि भक्षणीयान्यन्यभक्ष्यासम्भवेऽपि हि ॥ ६२ ॥ यदा कस्यापि घाताय त्वं प्रहारं प्रयच्छसि । पञ्चाद्भूयः प्रहर्तव्यं सप्तपादान्नचान्यथा ॥ ६३ ॥ महीपालमहादेवी, न भोक्तव्या खमातृवत् । काकमांसं न भक्ष्यं चौषधार्थं जीवितेच्छुना ॥ ६४ ॥ तच्छ्रुत्वा सुकरत्वेन, चोरीकृत्य प्रणम्य च । सूरिं शूराग्रणी|र्वङ्कचूलः स्वसौधमागमत् ॥ ६५ ॥ विजहुः सूरयोऽन्यत्र, हंसा इव घनात्यये । स्वपल्ल्यां वङ्कचूलोऽपि सुखं कालमबाहयत् ॥ ६६ ॥ चौरपल्यां त्रियोजन्यां स्थिते ग्रामे परेद्यवि । सदस्यः प्रददौ घाटीं, वङ्कचूलो महाबलः ॥ ६७ ॥ सङ्ग्रामनिपुणैर्ग्राम्यैर्विविधायुधधारिभिः । शस्त्राशस्त्रियुध्यमानैर्विजिग्ये पल्लिनायकः ॥ ६८ ॥ वाताहृत इवाम्भोदः, कांदिशीकः क्षणेन सः । नेशे पराभिभूतानां गतिर्नान्या रणाङ्गणे ॥ ६९ ॥ ललाटंतपमातण्डे, मध्यान्हे क्षुत्तृषार्दितः । मध्येऽरण्यानि संप्राप, वङ्कचूलचमूस्ततः ॥ ७० ॥ तस्यां फलावनम्रस्य, महतो | विषशाखिनः । अधस्तात्खेदखेदार्ता, निषसाद सनायका ॥ ७१ ॥ क्षुत्पिपासापिशाचीभ्यां, विधुरास्तस्करा स्ततः । तस्यैव विषवृक्षस्य फलमालामभुञ्जत ॥ ७२ ॥ तानि विश्राणयामासुर्वङ्कचूलाय चापरे । खं व्रतं सोऽपि सस्मार, विस्माररहितस्तदा ॥ ७३ ॥ प्रश्नयामास चौरांस्तान्, कोऽप्येतन्नाम वेत्ति भोः । चौरैरुक्तं न जानीमो, वङ्कचूलस्ततोऽब्रवीत् ॥ ७४ ॥ एवं यदि तदेतैर्मे, सृतं येन गुरोः पुरः । फलान्यज्ञातनामानि प्रत्याख्यातानि भो ! मया ॥ ७५ ॥ यतः - " त्यजन्ति तृणवडीराः, साम्राज्यं जीवितं धनम् । अत्रामुत्र हितं नैव, कुलकवृचिः 11 68 11 Page #185 -------------------------------------------------------------------------- ________________ | प्रतिज्ञातं निजव्रतम् ॥ ७६ ॥ आखाद्य खेच्छया ते तु, विषद्रुमफलावलीम् । वृक्षछायासु सुषुपुघूर्णमानविलोचनाः ॥ ७७ ॥ वङ्कचूलोऽपि सुष्वाप, मार्गश्रमसमाकुलः । निशीथेऽथ जजागार, सत्तमा हि सुजागराः ॥७८॥ असौ जागरयामास, भृत्यं विश्रम्भभाजनम् । वभाण च द्रुतं भद्रोत्थापयेभिल्लसन्ततिम् ॥ ७९ ॥ खखामिशालदाक्षिण्यातू, क्षुधितेनापि तेन तु । नाभक्ष्यन्त फलान्युचैरुत्तस्थौ तेन स क्षणात् ॥ ८० ॥ नोत्तस्थुरपरेभिल्लास्तेन जागरिता अपि । सोऽथाऽऽख्यहङ्कचूलाय, स्वामिन्नेते मृता इति ॥ ८१ ॥ सोऽथालोक्याज्ञातनामफलादनफलं खयम् । खत्रतेषु दृढो बाढं, पल्लीं तेन युतो ययौ ॥ ८२ ॥ प्रविवेश निशीथिन्यां, निजं धाम स मानभूः । ददर्श कुश्चिकाद्वाराज्वलन्तं दीपमोकसि ॥ ८३ ॥ परपुंसा समं सौख्यं सुषुप्सां दयितां तथा । कंपिष्ठोष्ठदलः कोपाच्चिन्तयामासिवांस्ततः ॥ ८४ ॥ युगलम् । चपलां चञ्चलखान्तां, धिकान्तां दुष्टचेतसम् । कान्ते कामोपमानेऽपि, या काङ्क्षति परं नरम् ॥ ८५ ॥ मारयामि ततः पापं, प्रथमं दुष्टपूरुषम् । इति निश्चित्य निभृतपदं गेहान्तराविशत् ॥ ८६ ॥ कोशान्निष्कासयामास, स खङ्गं शस्त्रकौशली । सस्माराथ स्वनियम, प्राणेभ्योऽपि भृशं प्रियम् ॥ ८७ ॥ अपासार्षीत्सप्तपदीमुदसूर्यतवेगतः । करवालं करालंस, | यमजिह्वासहोदरम् ॥ ८८ ॥ द्वारपत्रेऽथ लग्नोऽसिस्तज्झङ्कारारवश्रुतेः । वङ्कचूला जजागारा कृत्यात्तं रक्षितुं - किल ॥ ८९ ॥ जीवताद्वङ्कचूलो मे, सोदरः स्नेहमेदुरः । इत्यालपन्त्युदस्थाच्चाज्ञासीत्सोऽपि खरेण ताम् ॥ ९० ॥ सोऽपृच्छद्भगिनीं भद्रे ! पुंनेपथ्यं कुतस्तव । मद्गृहिण्या समं खाप एकशय्यातले तथा ॥ ९९ ॥ सा बभाणभ्रातरद्य, नटा नाट्यचिकीर्षया । आगमन्नाटकं कर्तुं ययाचेऽवसरश्च तैः ॥९२॥ मयाऽचिन्ति न दास्ये चेदमीभ्यो ++++++++ Page #186 -------------------------------------------------------------------------- ________________ चत्यवन्दन ॥९ ॥ नाटकक्षणम् । तदामी कथयिष्यन्ति रिपुभ्यः पल्लिशून्यताम् ॥ ९३ ॥ ततो नाव्यक्षणं दातुं, त्वन्नेपथ्यमहं| कुलकवृत्तिः व्यधाम् । प्रस्तावस्यानुसारेण, चेष्टन्ते हि मनीषिणः॥ ९४ ॥ तेभ्यो यथोचितं दानं, दत्त्वात्यक्तन्वेषिका । अहं निद्रालसालस्यात्सुष्वाप भ्रातृजायया ॥ ९५॥ दयौ मये मनः सौधं, वङ्कचूलस्ततः सुधीः। धन्यो धर्मगुरुमै यो, नियमानीदृशानदात्॥९॥ काहं क मे सगर्भावा, जीविष्याव महापदैः। आचार्यो यदि नादास्यच्छुभौदर्कानभिग्रहान् ॥९७॥ ततो मृतपरीवारः, पल्लीशः स खसृप्रियः। श्रिया जगति विख्यातां, जगामोज्जयनी पुरीम् ॥ ९८॥ कस्यापि वणिजो गेहे, स्थापयित्वा स्वसृप्रिये । स्वयं चकार चौर्यार्थ, सधनायन्नुपक्रमम् ॥ ९९॥ आरक्षकैरलक्ष्योऽसौ, दक्षत्वान्निशि पर्यटन् । लक्ष्मीवतामागारेषु, नित्यं खात्राण्यपातयत् ॥ १०॥ अन्यदा चिंतयामास, किमेतैलुण्ठितैर्जनैः, विशामि वसुधाधीशसौधे साहसमाश्रितः॥१०१॥ रत्नानि सुमहा_णि, स्वर्णदुर्वर्णसंचयम् । हृत्वा भवाम्यस्मि सदा, येन दारियवर्जितः ॥२॥ युग्मम् ॥ यतः-"जइ किजइ चोरी, किमइतो लुटिजइ राओ । इकु असग्गलुधणु हवइ अनुपरिपुरिभडवाउ ॥३॥” अत्रांतरे मेघराजराजधानी तपात्ययः। प्रावर्तत घनस्थाननृत्यत्केकिकदम्बकः॥४॥मध्येऽरण्यानि गत्वाऽथ, वङ्कचूलो महाबलाम् । गोधामाधाय सकलाः, शिक्षयामास सत्कलाः ॥५॥ गोधापुच्छछटाबद्धरज्वालम्बनतः क्षणात् । अध्यारुरोह रासौधं, गवाक्षविवरेण सः॥६॥ देदीप्यमानरत्नौघकान्तिकृप्तदिनभ्रमम् । विलासवेश्मभूनेतुः, स जगामैकसाहसी ॥ ७ ॥ तत्रालङ्कारसाराङ्गी, कल्पपर्यङ्कशायिनीम् । नवोत्पन्नामिव खत्री, राट्कान्तामेष Page #187 -------------------------------------------------------------------------- ________________ दृष्टवान् ॥ ८॥ वङ्कचूलस्तयाऽदर्शि, भणितश्च कलखरम् । कस्त्वं सुधीरधौरेयः, सोऽभ्यधात्तां प्रतिस्फुटम् ॥५॥ चौरोऽहं वङ्कचूलाख्यो, दुःस्थस्तोमशिरोमणिः । तवाभरणभारस्य, हरणार्थमिहागमम् ॥१०॥ देव्यूचे भद्र ? य-3 येवं, तर्हि निमोहि मद्वचः। मां प्रियां प्रतिपद्यख, साक्षाल्लक्ष्मीमिवोन्मुखीम् ॥११॥ येन कल्पलतेवाह, सापूरयामि तवेप्सितम् । अमीषां चारुरत्नानां, भूषणानां भव प्रभुः ॥ १२॥ विस्मितः स्त्रीचरित्रेण, वङ्कचूलोऽप्यचिन्तयत् । कौटिल्यकुलधामभ्यः, कामिनीभ्यो नमोनमः ॥१३॥ यत्प्रसादादसौ दिव्यवस्त्रालङ्कारधारिणी । सौधे विमानदेशीये, सुखं देवीव तिष्ठति ॥१४॥ तस्मिन्नपि विरक्तासौ, हाहा कामयतेऽद्य माम् । अतः स्थाने न मुह्यंति, महिलासु महत्तमाः॥१५॥ स्मृतिगोचरसंचारिव्रततत्त्वं विमृश्य सः। पप्रच्छ तां पद्दराज्ञी, राज्ञी त्वमथवाऽपरा ॥ १६॥ देव्यूचेऽहं पट्टदेवी, नृपतेरतिवल्लभा । मया रूपस्मयान्मत्तचित्तयाऽकोपि भूपतिः॥१७॥ उवाच वङ्कचुलोऽथ, यद्येवं तर्हि निश्चितम्। देवि? मातेव पूज्याऽसि, न भोग्याऽसि प्रियेव मे॥१८॥ यत उक्तम्"राजपत्नी गुरोःपत्नी, मित्रपत्नी तथैव च । पत्नीमाता खमाता च पञ्चैता मातरः स्मृताः॥ १९॥ सोचे भोगान्महाभाग, भोक्तुं नेच्छसि चेन्मया। मरिष्यसि ध्रुवं मूर्ख, चिंतये खोत्तरं हृदि ॥२०॥ इतश्च जगतीने-18 ताऽधस्तनावनिसंस्थितः। तयोनिखिलमालापं, शुश्राव श्रुतिपाटवात् ॥ २१ ॥ अकामुकममुं ज्ञात्वा, राज्ञी क-| पटपंडिता । कदलीकोमलं कायं, विदार्य नखरैः खरैः ॥ २२॥ पूच्चकार दुराचारा, दुराचारोऽत्र कश्चन । विवेशांतःपुरे पापो, भो! भो! धावत धावत ॥२३॥ युग्मम् । देव्या वचनमाकण्य, दक्षा आरक्षकाःक्षणात् SSSSSSSSSSSSSS १६ चैत्यव. Page #188 -------------------------------------------------------------------------- ________________ . चैत्यवन्दन ॥९१॥ कलयन्तः कलकलं, विविशुभूपसद्मनि ॥ २४ ॥ अहो! लीलायितं लीलावतीनां कूटकर्मणि । चिन्तयन्निति 18 कुलकवृत्तिः भूपाल:, आरक्षानित्यभाषत ॥ २५॥ नायं नरो निहंतव्यो, बध्वा निःसार्यतां परम् । तथैव विदधुस्तेऽपि, राजाज्ञां को विलयते ॥ २६ ॥ नीत्वातं यानशालायामभ्यधत्त धराधिपः। धीर? वीरशिरोरत्न ! मा भैषीस्त्वं मनागपि ॥ २७॥ साक्षिणेव मया येन, देव्यास्तव विचेष्टितम्। अज्ञायीति समाश्वास्य, तं सुष्वाप धराधिपः॥ ॥ २८ ॥ ममोदयं विना नैष, छुटिष्यति महापुमान् । इतीवोदयशैलाग्रमलचक्रे दिवाकरः॥२९॥ क्रियाःप्राभातिकीकृत्वा, चारुनेपथ्यभूषितः । आसामास महाराज, आस्थाने स्थितिपण्डितः॥ ३०॥ भृत्यैराकारयामास. चौरं सोऽपि समागमत् । उपाविशन्नृपं नत्वा, रचिताञ्जलिकुद्मलः॥ ३१॥ तं दृष्ट्वा भूपतिर्दध्यौ कीदृग् दुर्वि|धिचेष्टितम् । चौर्यादिषु प्रवर्तन्ते, नरा येनेदृशा अपि ॥ ३२॥ सौम्यदृष्ट्या विलोक्यामुं, पप्रच्छ पृथिवीपतिः। आरूढस्त्वं कथं केन, हेतुना चात्र मन्दिरे? ॥ ३३ ॥ वङ्कचूलोऽवदद्देव! गोधारज्वा तवौकसि । अध्यारोहमहं यस्मात्किमुपायेन दुष्करम् ॥३४॥ इभ्यलोकगृहक्षात्रखननाद्भग्नमानसः। निर्मूल्यरत्नालङ्कारलाभार्थे त्वद्गृहेऽविशम् ॥ ३५॥ रञ्जितस्तचरित्रेण, जगतीपतिरूचिवान् । सर्वाङ्गसुंदरां भो! भो!, पहराज्ञी गृहाण मे ॥३६॥ सोऽवग देव! तवादेशः कार्यों मे किन्तु ते प्रिया । जननीवन्न तां भार्या, प्रतिपद्ये कथञ्चन ॥३७॥ तस्य सत्त्वा ॥९१॥ |तिरेकेण, ररञ्ज जनतापतिः। सत्त्वाद्देवा हि तुष्यन्ति किं पुनर्नाम मानवाः?॥३८॥ साधुकारं ददौ तस्मै, वर्णयन् तद्गुणान् नृपः । तं सुगन्धिजलापूर्णैः, कलशैरभ्यषिश्चत ॥ ३९॥ सत्कृत्य वस्त्रालङ्कारछत्रचामरमन्दिरैः । प्रसा Page #189 -------------------------------------------------------------------------- ________________ देन ददौ तस्मै, ग्रामद्वादशकं नृपः॥४०॥प्रतिपन्नः सुतत्वेन, राज्ञा सोऽपि स्वसृप्रिये । आनाय्य भुवने सौधेऽभवदैहिकसौख्यभाक् ॥४१॥ वङ्कचूलोऽन्यदा दध्यौ, धन्योऽहं कृतसत्कृतः। नियमाः सूरिभिर्यस्मै, दत्ता नित्यं सुखावहाः॥४२॥ पश्यामि यदितं मूरिमहं परमबान्धवम् । तदा तदन्तिके धर्म, प्रतिपद्ये जिनोदितम् ॥४॥ इमां चिन्तां सुरलतां, मनोमेरुधरोद्भवाम् । सुध्यानपयसा सिञ्चन्नतीयाय स यामिनीम् ॥४४॥ प्रातस्तत्पुण्यपुरुषाहूतः सुयतिसंयुतः। नगर्या सम वासार्षीत्सत्यार्थः सुव्रतोगुरुः॥४५॥ सूरिमायातमाकण्ये, वङ्कचूल प्रमोदभाक् । आयांचक्रे नमस्कर्तु, धर्म शुश्रूषुराहतम् ॥ ४६॥ वन्दित्वाऽनुक्रमं साधून , यथास्थानमुपाविशत् । शुश्राव देशनां सूरेवैराग्यरससारणिम् ॥४७॥ देशनान्ते गुरुं नत्वा, प्राज्ञः सञ्जय॑जिज्ञपत्। देहि देहि दयालो। मे, श्राद्धधर्म शुभायतिम् ॥४८॥ श्राद्धधर्मोचितं तं च, विज्ञाय मुनिपुङ्गवः । तस्मै सम्यक्त्वमूलानि, व्रतानि द्वादशाप्यऽदात् ॥४९॥ विशुद्धश्राद्धधर्म स, दोगेत्योन्नत्यभेदिनम् । निधि निधनवत्प्राप्य, हृष्टः प्राप खमन्दि-1 रम् ॥५०॥ आनर्च चम्पकाशोककेतकीकुसुमोत्करैः। त्रिसन्ध्यमहतां बिम्ब, चन्दनैश्च चचर्च सः॥५१॥ श्रीसा-12 धर्मिकवात्सल्यं, मूलं दृक्कल्पभूरुहः। वरिवस्यां गुरूणां च, विदधे बुद्धिशेवधिः ॥५२॥ गायद्गन्धर्वगणं गुञ्ज न्मुरुजादिवाद्यसमुदायम् । संगीतं भुवनगुरोःपुरोऽसको विरचयामास ॥५३॥ त्रिभिर्विशेषकम् । इतश्चोज्जयिनी-* पुर्याः, पार्श्वस्थे ग्राम्यसकुले । शालिग्रामाभिधे ग्रामे, जिनदत्तोऽभवदणिक् ॥५४॥ जीवाजीवादितत्त्वज्ञः शुद्धात्मा परमार्हतः। स चैत्यवन्दनां कर्तुमवन्तीमेति नित्यशः॥५५॥ सोऽन्येधुरर्हच्चैत्येषु, चैत्यवन्दनमादधन् । Page #190 -------------------------------------------------------------------------- ________________ कुलकतिः चैत्यवन्दन॥९२॥ 2525 ददृशे वकचूलेन, सधर्मवादवन्दि च ॥५६॥ ततश्च स्वागतं पृष्ट्वा, नीला भवनमात्मनः। स्नानाङ्गमर्दनापूर्व, सतं भोज्यैरभोजयत् ॥५७॥ विश्राण्य वरवस्त्राणि, मैत्री तेन सहातनोत् । जिनदत्तोऽप्यथ प्रीतो, निज ग्राममुपागमम् ॥ ५८॥ तुरीयाभिग्रहस्थैर्य परीक्षितुमिवामयः । दुर्वारो वङ्कचूलस्य, कायेऽभूत्कर्मदोषतः ॥९॥ आहूय दर्शयामास भिषजां तं विशांपतिः। सम्यगालोच्य तेऽप्यूचुः, प्रतिभूपमिदं वचः॥६०॥ काकमांसं विना नैष, देव! भद्रो भविष्यति । राजाऽप्याज्ञापयामास, तमाहतु खकिङ्करान् ॥ ६१॥ आचख्यौ वङ्कचूलोऽथ| काकमांसमहं नृप!। प्राणान्तेऽपि न खादामि नियमोऽग्राहि यन्मया ॥ ६२॥ बहुशःपोषितमपि, खलवद्विमुखं वपुः । न तात! तत्कृते धर्म्य, नियमं व्युत्सृजाम्यहम् ॥ ६३ ॥ वङ्कचूलाग्रहं मत्वा, गाढं भूपःखपूरुषम् । तन्मित्रं जिनदत्ताख्यमानेतुं प्राहिणोद्रयात् ॥६४॥ आकारितो वणिक् तेन, प्राचालीदतिवेगतः । उदास्ते कासुधीमित्रकार्यनिर्माणकर्मणि? ॥६५॥ आगच्छन् पथि सोऽद्राक्षीदिव्याभरणभूषिते! जातरूपाती देव्यो, रुदन्त्यौकरुणखरम् ॥६६॥ ते अन्वयुक्त किं वत्से! मध्येऽरण्यानि रोदियः ! अथ रोदनहेतुं ते, गद्गदखरमूचतुः ॥६७॥ सौधम्मेकल्पवासिन्यावावां देवाङ्गने वणिक् !|अच्योष्ट त्रिदिवाद्देव, आवयोःप्राणवल्लभः॥१८॥ वकचुलाय, नो दत्ते, काकमांसं भवान् यदि। संपद्यते विपद्यासौ, तदा नौ जीवितेश्वरः ॥६९॥ जिनदत्तोऽवदद्देव्यो, दास्यामि सुहृदे नहि। काकमांसं हितं तस्य, चिकीर्षुः स्वयमप्यहम् ॥७०॥राजपुंसा समं मंक्षु, सोऽगादुज्जयिनी पुरीम् । राजादेशवशादागाईकचूलगृहाङ्गणम् ॥७१॥ मित्रं मित्रयुरूचे स दाक्षिण्यात्क्षितिरक्षिणः । जीवातुं| २॥ Page #191 -------------------------------------------------------------------------- ________________ जीवितकृते, भक्षय ध्वांक्षजंगलम् ॥७२॥ वङ्कचूलोऽथ तं प्रोचे, मित्रामित्र इवाहितम् । ब्रुवाणो वचनं किं त्वं, शालजसे न विदांवर? ॥ ७३ ॥ नरेन्द्रादींस्ततः स्माह, जिनदत्त उपासकः । न मद्वचनवातूलैश्चलत्येष सुमेरुवत् ॥ &|॥ ७४ ॥ अवश्यंभावि संभाव्य, मरणं हि शरीरिणाम् । शिष्टा नियमभङ्गाय, चेष्टन्ते न कथञ्चन ॥ ७५ ॥ तत उच्चारयामास, वङ्कचूलमुपासकः। सम्यग्दर्शनमूलानि, व्रतानि गृहमेधिनाम् ॥७६॥ मयखःकमलाकर्षाकविद्यासहोदरम् । श्राद्धोऽनशनमासन्नमृत्यवे सुहृदे ददौ ॥ ७७ ॥ पर्यन्ताराधनासौधनियंदं मधुरखरम् । काङ्क्षी वङ्कचूलमपीप्यच्छावकाग्रणीः॥७८॥ चातुर्गतिकसंसारपारीणान् परमेष्ठिनः । सिद्धिसीमन्तिनीसक्तान, नमस्कुरु कृताञ्जलिः॥७९॥ ज्ञानदर्शनचारित्रव्रतातीचारसन्ततिम् । अध्यक्षं सर्वसिद्धानां, निन्दगहें मुहुमुंहः॥८०॥ विजहीहि महामोहं, पुत्रमित्रगृहादिषु । धनकाश्चनरत्नेषु, ममत्वं च महामतेः ॥ ८१ ॥ क्षमय त्वखिलान् जीवान् , समभावं समाश्रय । मैत्री सूत्रय सत्त्वेषु, सात्विकानां शिरोमणे? ॥ ८२॥ इत्थमाराधनां क्लिष्टध्यानव्याधिरसायनम् । आखादयन्महामोदान्नमस्कारपरायणः ॥८॥ धर्मध्यानाग्रमारोहन, बङ्कचूलो नृपाङ्गजः । विध्याय दीपवद्देवः, कल्पेद्वादशमेऽभवत् ॥८४॥ युग्मम् । दिव्यानुत्तमभोगभङ्गिसुभगं भूष्णुः प्रभूष्णुः श्रिया, स्नेहावेगतरङ्गितामरवधूगोष्ठीषु बद्धाशयः। दीपोद्यानविहारभूमिषु सुखं क्रीडन् सदानन्दतः, कालातिक्रममादधे सुरवरः श्रीवकचूलस्ततः॥८५॥ ग्राम प्रति प्रस्थितोऽथ जिनदत्त उपासकः । तदेव देवता युग्ममद्राक्षीत्करुणं रुदत् ॥८६॥ पृष्ठे तेनोचतुर्देव्यौ, त्वया श्राद्ध ! तथाकृतम् । यथाऽऽवां संव्यतीत्यागादच्युते Page #192 -------------------------------------------------------------------------- ________________ 581 चेत्यवन्दन- ॥९३॥ देवसद्मनि ॥८७॥ काकमांसं मयाऽदायि, न तस्मै सुकृतात्मने । इत्याख्यायागमद्धामं, जिनदत्तःप्रसन्नधीः ॥४ाद कुलकवृचिः अज्ञातनामफलभक्षणतो निवृत्तिं, श्रीवङ्कचूल इव ये रचयन्ति भव्याः। क्रीडन्ति तत्करपल्लवमध्यभागे, नक्तं दिनं नरवरामरलक्ष्मीकान्ताः॥८९॥” इत्यज्ञातफलविषये वङ्कचूलकथा समाप्ता ॥ 'तुच्छफल मिति, तुच्छं-किंचिनिष्पन्नं फलं बीजं यत्र तत्तुच्छफलं, चवलकादिफलिकाः, तादृशां प्रभूतानामपि भक्षणे न कदाचित्तृप्तिर्जायते प्रभूतःप्राणिवधश्च स्यात्, अतस्तुच्छफलं सुश्रावकः सदा वर्जयेत्, एवमन्यदपि पीलुफलादि तुच्छफलत्वात्कुन्थ्वादि जीवसंसक्तत्वाच वर्जयेत् 'चलितरस'मिति, चलितरसो मधुरत्वादिको दुर्गन्धत्वेन यस्य तच्चलितरसंपर्युषितवहिकामुद्गोदनक्षिप्रव्यंजनादि सुश्रावको वर्जयेत् , यतस्तेषु दिनद्वयत्रयादिसक्तेषु प्रभूतलालापनकतवर्णजीवोत्पादनस्य सिद्धान्त प्रतिपादनात्, आधुनिकैरपि लोकदृष्टिभ्यां दर्शनाच, अतएव गीतार्थसाधुभ्यां दिनद्वयातीते दनि श्रीधनपालपण्डितस्य त्रसजीवादर्शिता इति श्रूयते, अतःसकलकविप्रकाण्डचूडामणेनानाऽवदातव्रातसंसूचकं समस्तविपश्चिच्चमत्कारकं कथानकं प्रतन्यते-'विमानैः श्रीगृहश्चित्रः, पताकाकुम्भशोभितः खःपुरीमनुकुर्वाणाबभूवोजयिनी पुरी ॥१॥ यत्राहतां विश्वविभूषणानां, पार्श्वे विभूष्यं किममूभिरस्ति । इतीव भव्या मुमुचुविभ बहिर्विहारान्महनक्षणेषु ॥२॥ सदाऽप्यविद्यानवकाशहेतोः, शब्दादिविद्याः सकला मिलित्वा । न तत्यजुर्यत्र | SIM९३n सुधीजनानां, मनांसि नूनं मुकुरोज्वलानि ॥३॥ भोजराजोऽभवत्तत्र, राजा राजमतल्लिका । यद्यशोमल्लिका-1 पुष्पामोदोऽद्यापि प्रसर्पति॥४॥ मुनिवद्यस्य पुण्येनोपशांता प्रीतिके इव । लीलया देहगेहान्तस्तस्थतुर्भारती Page #193 -------------------------------------------------------------------------- ________________ मश्रियौ ॥५॥प्रतिहर्तुमनीषानां, जीवितान्मरणं वरम् । इत्यसूनत्यजन् युद्धे, पूर्व यत्प्रहतषिः ॥६॥ विद्वत्पं चशतीमुख्यो, धनपालाऽभिधो द्विजः। तत्र षड्दर्शनीदानदानशौण्डोऽभवद्गुणी॥७॥ सर्वाः शब्दादयो विद्याविद्याधर्य इवानिशम् । क्रीडाक्रीड इवाक्रीडन् , हृत्क्रोडे यस्य लीलया ॥८॥ कण्ठस्थभारतीजातीसङ्गसञ्जातसौरभा । यद्बागामोदयामास, स्थाने श्रीभोजभोगिनः॥९॥ क्रीडया भोजराजेन, पापर्धिवजताऽन्यदा । नृत्यज्जात्यहयारूढो, धनपालःसहाव्रजत् ॥१०॥राजा कचिद्गगनमुच्चलतःकुरङ्गान् , दृष्ट्वा 'किरीश्च खनतःक्षितिमेनमूचे । किं कारणं तु कविराज! मृगा यदेते, व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः॥११॥ एवं नृपेण भणितो धनपालविद्वानोत्पत्तिकीप्रमुखबुद्धिनिधिभाषे। देव ! त्वदनचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥१२॥ अन्यदा धनपालस्यावासे भिक्षार्थमाविशत् । साधुसंघाटकाक्षात्यादिधर्म इव जङ्गमः॥१३॥ तदा साध्वहेराद्धान्यवस्त्वभावात् त्र्यहोद्भवम् । दध्यादाय समुत्तस्थौ, धनपालस्य गेहिनी ॥१४॥ साधुभ्यां सा ततोऽप्रच्छि, दधीदं कतिवासरम् ? । दध्यहतियातीतमित्यूचे साऽपि तत्पुरः॥१५॥ दध्यहर्द्धितयातीतमस्माकं नैव कल्पते । इत्युक्त्वा निर्ययौ साधुयुगलं तद्द्वहाबहिः॥१६॥ निःसरन्तौ मुनी रिक्तौ गवाक्षस्थेन वीक्षितौ। दधिकिंमत्प्रियादत्तं, नात्तमाभ्यां विचिन्त्य च ॥१७॥ गवाक्षाहनपालेन, समुत्थाय समेत्य च । महामुन्योस्तयोःपार्श्वेऽभिवन्द्याऽप्रच्छि सादरम् ॥१८॥ मुनी ! वः कल्पते किं न, दधीदं तावथोचतुः । ध्येतद् द्विदिनातीतमित्यतो नैव कल्पते ॥१९॥ १ वराहान् । Page #194 -------------------------------------------------------------------------- ________________ ॥ ९४ ॥ चैत्यवन्दन- दध्यहर्द्वितयातीते, तद्वर्णाः कुंथवो यतः । जायन्त इति सिद्धान्तेऽभणि श्रीसर्ववेदिभिः ॥ २० ॥ तच्छ्रुत्वा वि| स्मितखान्तो, धनपालोऽभ्यधान्मुनी । साधू ? वयं प्रतीमो न, तान् दृष्ट्या दर्शनं विना ॥ २१ ॥ ततस्तौ तत्प्रबोधाया| तपे धारयतां दधि । ततः क्षणेन तस्योर्ध्वं रुतं रक्तं च दधतुः॥२२॥ तद्यावदातपोत्तापात्कदुष्णं दध्यजायत । तावत्तैः कुन्थुभिः क्षिप्रं, समारोहि रुतोपरि ॥ २३ ॥ ततस्तैर्धवलीभूतं, रुतं दृष्ट्वाऽब्रवीत्स तौ । जातं श्वेतं किमित्येतत्कुन्धु|भिः प्रोचतुर्मुनी ॥ २४ ॥ इति साध्वोर्वचश्चक्षुरविसंवादकं सुधीः । आकण्यन्मुक्तमिथ्यात्वश्चेतसेति व्यचिन्तयत् ॥ २५ ॥ अहो जीवदयामूलो, धर्मो यो जिनशासने । एष एव हि संसारसिन्धौ प्रवहणायते ॥ २६॥ धन्याविमौ - | मुनी ईदृग्जीवरक्षणपूर्विका । याभ्यामविक्रियाकाभ्यां क्रियते सत्क्रियान्वहम् ॥ २७ ॥ इति ध्यात्वा मुनी नत्वा, सह ताभ्यामुपागमत् । धनपालः सुधीशालः, सद्गुरोरन्तिके मुदा ||२८|| ततो बद्धांजलिं संजुं तं नतं प्रति सगुरुः । विशेषतो व्यधाद्धर्मदेशनां तत्त्वदर्शिकाम् ॥ २९ ॥ सुदृग्बीजो दयामूलो, दानमुख्योरुशाखकः । स्वर्गाधर्द्धिसुमो मोक्षफलो धर्मसुरद्रुमः ॥ ३० ॥ ततस्तमिच्छता पूर्व, ग्राह्यं सम्यक्त्वमुज्ज्वलम् । तच्च देवे गुरौ धर्मे, तत्वबुद्धिमयं स्मृतम् ॥ ३१ ॥ इदं बीजं मनः कोष्ठे, न्यस्य कार्या हितेच्छुभिः । शङ्कादिघुणरक्षार्थं, रक्षावद्भावनास्थिरा ॥ ३२॥ इति वाचं गुरोः श्रुत्वा स जज्ञे परमार्हतः । अथवा संस्कृते भित्तिदेशे चित्र लगेन्न किम् ? ॥३३॥ स भावाधिक्यतो गुर्वन्तिकेऽभिग्रहमग्रहीत् । न कार्याऽतः परं मिथ्यादृग्राजादेरपि स्तुतिः ॥ ३४ ॥ श्रीमत्तीर्थं - करं देवं, त्रिलोकीलोकनायकम् । सुसाधून तदुपज्ञं च, धर्मं स्तोष्याम्यहं सदा ॥ ३५ ॥ इत्यङ्गीकृत्य कृत्यज्ञस्तन्नि ॥ ९४ ॥ कुलकवृचिः Page #195 -------------------------------------------------------------------------- ________________ हचिकी कृती । समये भोजराजेन्द्रमाशिष्यैवं व्यजिज्ञपत् ॥३६॥ भोजराज महाराज! भवताऽतःपरं मम । माननीया सदा सेवा, सद्मन्येवाधितस्थुषः ॥३७॥ पृष्टं राज्ञाऽथ तद्धेतुमुक्त्वा विद्वान्नपं जगौ । रुष्टोऽपि देव मांदेशान्निःसारयेनं मारयः ॥३८॥ तदाकर्ण्य सकर्णोक्तं, प्रतिशुश्राव भूपतिः।गुणैरावर्जितो यदा, किं नाङ्गीकुरुतेनरः॥ ३९॥ ततोऽर्हद्धर्मकर्माम्भःस्नानक्षालितकश्मलः । स्ववाचा सुदृशश्चक्रे, सोऽन्यान्मिथ्यादृशोऽपि हि ॥ ॥४०॥ अन्यदा श्राद्धविध्याख्यं, चक्रे प्रकरणं बुधः। दर्शयितुं विधिं श्राद्धं, श्रावकाणां हितेच्छया॥४१॥चरित्रमादिनाथस्य, विदधे तेन चान्यदा। तदूचे भोजराजस्य, पुरस्तात् द्वेषिभिर्द्विजैः॥४२॥आनाय्य भोजराजेन तच्चरित्रस्य पुस्तकम्। वाचितं श्लाघितं चेत्थं विशिष्टं चरितं कृतं॥४३॥ किंतु त्वयाऽऽदिनाथोऽत्र, निक्षिसो यत्र यत्र च। महेश्वर महादेवं, तत्र तत्र च निक्षिपं ॥४४॥ इत्युक्तो भोजदेवेन, धनपालस्ततोऽब्रवीत् । मुक्त्वा तीर्थकरं देवं, नान्यं स्तोष्यामि जिह्वया ॥४५॥ स्वाग्रहाद्भोजदेवेन, तदेवोचे पुनःपुनः। द्विजत्वाद्धनपालस्य, महाकोपानलोउज्ज्वलत्॥४६॥ शीतकाले तदा शीतशान्त्यै ज्वलितपावके। ततोऽसौ प्राक्षिपत्पुस्तं, वार्यमाणोऽपिभूभुजा ॥४७॥ पश्चाद्गृहागतः पश्चात्तापाद्यावतिं न सः। कचिल्लेभे प्रिया तावत्पप्रच्छारतिकारणम् ॥४८॥ ऊचेऽथ धनपालेन, चरित्रं विदधे मया। श्रीआदिनाथदेवस्य, तदप्लोषि च रोषतः॥४९॥रतिं ततो न लेभेऽहं, लुप्ससार इवाध्वगः। पण्डितान्या ततःप्रोचे, धनपालप्रियं प्रति॥५०॥चरित्रं कुर्वतस्ते मे, श्लोकाः कतिचिदागमन् ।गदितास्ते तया तेन, कृतं तच्चरितं पुनः ॥५१॥ अन्यदा भोजदेवेन, सरसी कारिताऽद्भुता । प्रज्ञानुसारतःसर्वैस्तुष्टुवे पण्डितैरिति ॥५२॥ Page #196 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-पोस्नस्त्रैणपशूत्कराध्वगखगग्रीष्मर्तुभीष्मस्फुरत्तृष्णाखेदविनोदतःसुकृतदा धर्मप्रपामंडिता। पद्मासनसुपाख-कुलकवृत्तिः ण्डसपयः पद्माकरव्याजतः, पुण्यार्थ निजपूर्वपूरुषकृते श्रीभोजराजः? त्वया ॥५॥ स्तुतायामपि तैरित्थं, तस्यां । ॥९५॥ भूपस्तुतोष न।अमृताखादिनो यद्बा, स्यात्किं क्षाराम्बु तृप्तये? ॥५४॥ ततश्च मौनसंस्थस्य, धनपालस्य संमुखम् ।। स्वदृशौ स्थापयामास, भोजदेवमहीपतिः॥५५॥ धनपालोऽपि विज्ञाय, राज्ञोऽभिप्रायमात्मगम् । समयं प्राप्य च प्रोचे, भोजदेवनृपंप्रति ॥५६॥ एषा तडागमिषतो बत दानशाला, मत्स्यादयो रसवतीप्रगुणा सदैव । पात्राणितत्र बकसारसचक्रवाकाः,पुण्यं कियद्भवति तत्र वयं न विद्मः॥५७॥ खप्रतिज्ञा स्मरंस्तस्मै, नाकुप्यत्कोपनोऽपि राट्। किं चलेदचल स्थानाञ्चण्डवातेरितोऽपि हि ॥५८॥ बाणेनणेऽन्यदा विद्धे मृगयास्थेन भूभुजा। मिथ्यादृष्ट्यन्यविद्वद्भिस्तस्येत्यस्तावि पौरुषम् ॥१९॥ लक्ष्यं चलच्चैत्यपताकिकेव, मृगो बलादाशुग आशुगेन । जघ्ने त्वयैकेन भुजोर्जितेन, तद्वयेते ते भुवि लब्धवर्णैः॥६॥एवं स्तुतोऽपितैःक्ष्मापोऽप्रीतोऽनुग्रहतो दृशम् । सर्वसंख्यावतां मुख्यं, धनपालमनुन्यधात्॥११॥ परुषं पौरुषं राज्ञो, निन्दन् दयार्द्रमानसः। धनपालोऽपि भूपालमित्यूचे परमाहर्तः॥२॥ रसातलं यातु यदत्र पौरुषं,कुनीतिरेषाऽशरणोह्यदोषवान्। निहन्यतेयद बलिनाऽपि दुर्बलो हहा! महाकष्टमराजसाकं जगत् ॥६३॥ इत्याकर्ण्य नृपःक्रुद्धो, ब्रह्महत्या भयेन तम् । धनपालमहत्वा खदेशतो निरकासयत्॥१४॥ इतश्च ॥ ९५॥ लापत्तने कापि, निःस्वाबालिशशेखरः। धर्माख्यो वाडवः कोप्यध्यैष्टोपाध्यायसंनिधौ ॥६५॥ तत्सहाध्यायिन-| च्छात्राः, अधीयन्तोऽथ वाग्मयम् ॥ अमन्दमान्द्यसंयुक्तं, जहसुस्तं पदे पदे ॥६६॥ अन्यदा पाठवलाया, तस्याभा Page #197 -------------------------------------------------------------------------- ________________ वे परे समे । छात्रा जगुरुपाध्यायमध्यापय ततोऽद्भुतम् ॥६७॥ उपाध्यायोऽभ्यधाच्छात्रान्, यदा धर्मः समेष्यति । तदा वः पाठयिष्यामि, सन्तो हीने हि वत्सलाः ॥६८॥ प्रज्ञार्थगर्वितैइछात्रैः, प्रस्थं संस्थाप्य तत्पदे । उपाध्यायो|ऽभ्यधायीति, धर्म आगादयं प्रभो ? ॥ ६९ ॥ पठितुं तेषु लग्नेषु, पाठकं निकषा क्षणम् । सविद्यापिपठीः धर्मस्तत्र तूर्ण| मुपागमत् ॥७०॥ हसन्तस्तेऽथ तं प्रोचुर्धर्मोऽत्रै कोऽस्ति पूर्वतः । अन्योऽयं कोऽधुना धर्मः, समायातः समीक्ष्यते ॥७१॥ प्रज्ञार्थगर्वितैइछात्रैस्तैरित्थं हसितोऽथ सः । प्रज्ञामान्यं निजं निन्दन्नहंकारीत्यचिन्तयत् ॥७२॥ विद्यानां पारह-इयत्वं, विना मे जीवितं वृथा । ऋते समृद्धिसंभोगं, दुर्विधस्येव देहिनः ॥७३॥ इति ध्यात्वा ततो धर्मः, समाराहुं| सरखतीम् । निपत्य तत्पुरः सप्तोपवासान् विदधे दृढः ॥ ७४ ॥ चालितोऽनेकधा ध्यानाद्यावद्धर्मोऽचलन्नहि । सरखत्या स्वयं तावत्प्रकटीभूयाभ्यधायि सः॥७५॥ अनश्वरेण सत्त्वेन तुष्टाऽहं भो ? तवोपरि । तुभ्यं यद्रोचते क्षिप्रं, तथाचख ममान्तिकात् ॥७६॥ तत्कालोदीर्णसत्कर्मरेखामिव सुधोज्वलाम् । प्रणम्य भारतीं देवीं ययाचेऽथ स वाङ्मयम् ॥ ७७ ॥ संमोहतिमिरापोहे, वितन्द्रां चन्द्रिकामिव । वाग्देवी स्वप्रसन्नाक्षि निक्षिपन्ती तमभ्यधात् ॥७८॥ अचिरादेव ते विद्या दृष्टमात्राः समाअपि । मत्प्रसत्त्या समेष्यन्ति पुण्याकृष्टा रमा इव ॥ ७९ ॥ एवं स्यादिति तेनोक्तं, कण्ठ| स्थं तस्य वाङ्मयम् । समग्रं दृष्टमात्रेण, खल्पकालादजायत ॥८०॥ ततश्च पण्डितत्रातं, स मानेनातृणायत । अथवा खल्प सत्त्वस्य, विद्या कस्येह जीर्यति ॥ ८१ ॥ वादार्थं प्रतिदोषज्ञं, यच्छन् पत्रावलम्बनम् । उज्जयिन्यामथान्येद्युः, स आगाद्धर्मपण्डितः ॥ ८२ ॥ वादार्थो दन्तहस्तोऽथ, सधर्मो नृपसंसदि । आगात्तेन समं वादी, व्यवादीन्नच कञ्चन Page #198 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-रा॥८३॥ ततश्च लज्जितोभोजभूपतिः सौष्ट्रिकान् द्रुतम् । धनपालाय संप्रेष्य, तं धर्म प्रत्यभाषत ॥८४॥ प्रातर्याव-IIलकवृत्तिः त्प्रतीक्षख, धर्म! भोजेन वांछितम् । पूरये धनपालेन, विवादस्य विधापनात् ॥८५॥ प्रातस्तैरौष्ट्रिकैः सार्थ, धनपा-18 ॥९॥ ले समागते। भूपाल:सपरीवारो, ययौ तत्संमुखःखयम् ॥८६॥ तत्समाकर्ण्य धर्मोऽपि, सकर्णो विस्मयान्वितः भुञ्जानोऽश्रांतताम्बूलं, प्रदिदृक्षुस्तमभ्यगात् ॥८७॥ शुक्रजीवाविव व्योन्नि, साक् पुरीगो पुरान्तरा । इतश्च मिलितौ तौ द्वावित्थमन्योन्यमूचतुः॥८॥ गर्दभदन्त ? भदन्त ? नमस्ते, धर्मबुधो धनपालमनूचे । अथ धनपालकवि-18 स्तमवोचत्, कपिवृषणास्य ! वयस्य! सुखं ते ॥ ८९॥ धनपालस्ततः पौराधीशपौरपरीवृतः। महता विस्तरेण खवेश्मन्यागादपस्मयः ॥९०॥ धर्मस्तु धनपालस्यैकवाक्येनापि निर्जितम् । आत्मानं मन्यमानोऽन्तःकरणान्तर्व्य चिन्तयत् ॥ ९१॥ सरखतीप्रसादेन, विना नैष विजीयते । ततः सरखती तेन, स्मृताऽऽयाता तदन्तिके ॥१२॥ हस्तौ संयोज्य विज्ञप्तं, तेन श्रीभारतीप्रति ।मातः! कुरुप्रसादं मे, विजये येन तं वुधम् ॥९॥अथोचे भारती धर्म, धनपालो ममाङ्गजः। आदिमः कोविदो वत्स, द्वैतीयीको भवान् सुतः॥९४॥ अतस्त्वं धनपालेन, सोदर्येणेव मा कृथाः। वृथावादं च तं नत्वा, वत्स! गच्छ यथाऽऽगतम् ॥१५॥ इत्युक्तः सोऽथ वाग्देव्या, तिरोऽभूद्धर्मकोविदः। को हि क्षीणबलाप्राज्ञः, सङ्ग्रामे न प्रणश्यति ? ॥९६॥ प्रत्यूषे वादवेलायां, धनपाले नृपौकसि। आगते राट-|॥९६॥ नरैर्धर्मःसर्वत्रैक्षि नचैक्षत ॥१७॥ ततश्च धनपालः स्राक् धर्मप्रकटनेच्छया । कृत्वैकं नूतनं श्लोकं, पाठयामासिवा न जनान् ॥ ९८॥धर्मो जयति नाधर्मः, इत्यलीकीकृतं वचः। इदं तु सत्यता नीतं, धर्मस्य त्वरितागतिः॥९९॥ Page #199 -------------------------------------------------------------------------- ________________ सर्वत्र पठ्यमानं तं, श्रुत्वा धर्मो व्यचिन्तयत् । न नष्टोऽपि छुटिष्यामि, संश्रयेऽत उपेत्य तम् ॥१०॥ इत्यालोच्य समागत्य, धनपालं प्रणम्य च । इति व्यज्ञपयत् धर्मस्तत्पुरो रचिताञ्जलिः ॥१॥ जितं त्वया परं । मित्कापवादः पुरि वार्यताम् । सद्यः प्रसद्य विज्ञप्तिः, सफला मे विधीयताम् ॥२॥ इति धर्मेण विज्ञप्तः, सुप्रसन्नमनाः क्षणात् । धनपालो नवं श्लोकं, कृत्वा लोकमपाठयत् ॥ ३॥ स्थैर्य शंसन्ति सर्वेषु, कार्येषु नयपण्डिताः । बह्वन्तराययुक्तस्य, धर्मस्य त्वरिता गतिः ॥ ४॥ ततस्तदपवादोऽगात्तेन श्लोकेन सर्वतः । गृहान्तर्दीपितेनोचैः, प्रदीपेणेव तामसम् ॥५॥ धनपालस्ततो राज्ञा, मानितः पूर्ववन्निजाम् । विद्वत्पश्चाशतीमुख्यकमलां प्रत्यपालयत् ॥६॥ अन्यदा गूर्जरत्रायाः, श्रीमद्भोजमहीपतिः। चतुरङ्गबलस्फूर्जदूजितो भङ्गमादधे ॥ ७॥ सख्यावद्भिरसङ्ख्यातावदातान् भोजभूपतेः । स्तुवद्भिर्जरत्राया, भगमित्थमभिष्टुवे ॥८॥ श्रीगुर्जरत्रा धरणीनितम्बिनी, स्वनायकाध्यक्षमपि व्यलुण्ठिता। निस्वामिकेव प्रहता विगोपिता, प्रचण्डदोर्द|ण्डपराक्रमात्त्वया ॥९॥ तैः स्तुतोऽपीत्यसन्तुष्टो, भोजराजमहीपतिः। सुप्रसन्नदृशाद्राक्षीद्धनपालस्य संमुखम् ॥१०॥ ततोऽर्हद्धर्मकर्पूरपूरवासितमानसः। धनपालो महीपालं, प्रत्यदः प्रत्यपादयत् ॥ ११॥ धिक् शास्त्रश्रुति-18 विश्रुतां तव मतिं धिक पण्डितानां सभामाज्ञैश्वर्यमथाधिपत्यमपि धिक् धिक्पौरुषं धिग्यशः । यत्त्वं भोज! भवार्तिभीरुपुरुषैर्निर्मापितान्यादरात्, देवानां सदनानि लुम्पसि जगच्छापाय पापाय च ॥ १२॥ श्रुत्वेति भोजदेवेन, देवानां द्रविणं समम् । पश्चाद्दापयितुं सद्यः, प्रेषिता निजपूरुषाः ॥१३ ॥ धनपालोऽथ दोषज्ञश्च१७ चैत्यच. Page #200 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-/क्रवालशिरोमणिः । सुबुद्धिशेवधिजैनधर्मकर्म मुदा व्यधात् ॥ १४ ॥ जैन धर्म समाराध्य, कृत्वान्तेऽनशन-कुलकवृत्तिः ॥९॥ व्रतम् । पण्डितमृत्युना मृत्युं, प्राप्य देवोऽभवद्दिवि ॥ १५॥ दिनद्वयातीतदधिस्थजीवान, वीक्ष्य प्रबुद्धो धन|पालविद्वान् । आराध्य धर्म जिनभाषितं च, प्रेत्यात्र कल्याणपदं प्रपेदे ॥ १६॥ इति कृतिधनपाललोकित स्थूलजीवं, विचलितरसवस्त्वाहारमुज्झन्ति येते । इह नवनवपक्कखादुभोज्योपभोग. त्रिदिवशिवसमृद्धिं चापरत्राप्नुवन्ति ॥ १७॥ ॥ इति विचलितरसाहारपरिहारविषये धनपालकविशालकथानकं संपूर्णम् ॥ __ 'वज्झह वझाणि वा वीसं'ति, पूर्वोक्तदोषदुष्टत्वाद्वर्जनीयानि पञ्चोदुम्बरिचतुर्विकत्यादीनि द्वाविंशतिसंख्यानि वस्तूनि सम्यक्त्वप्रतिपत्तिदिनादारभ्य भोः श्रावकाः! वर्जयत, नियमग्रहणेन सदा परित्यजत ॥ १६ ॥ अधुनाऽऽमगोरसेन सह द्विदलानभोजनपरिहारार्थमाहहै। संगरहलिमुग्गमुहट्टमासकंडूपमुक्खबियलाई । सह गोरसेण न जिमेए ये राइत्तियं न करे ॥१७॥ व्याख्या-'संगरहली'ति, संगरफलिका-सागरिका, शमीफलिका इत्यर्थः, उपलक्षणत्वाइलफलादिग्रह:, ॥९७॥ अथवा संगर: साङ्गरिकोच्यते, फलिकास्तपलकमुद्दादीनां साङ्गरिकाश्च फल्य मुद्गाश्च मुकुष्टाश्च माषाश्च कण्डुकश्चेति द्वन्द्वः, तानि प्रमुखानि येषां द्विदलान्नानां बल्लचवलकचणकतूवरीकुलस्थमसूरमाथकान द्विदलान्नानि तक्रध्याद्यामगोरसेन सह विवेकवान् सुश्रावकोन जेमयेत्-नाश्नीयात्, एतपाई Page #201 -------------------------------------------------------------------------- ________________ इत्तिय आमगोरसे राजिकाभिः सह निक्षेपरूपं न कुर्यात्, यतो द्विदलानां साङ्गरिकाबबूलादीनां आमगोरससंसर्गे सूक्ष्मजीवोत्पादस्य सिद्धान्ते प्रतिपादितत्वात् । तथाहि-"पालकलहसागो मुग्गयं वामगोरसुम्मीसं । संसज्जएउ अचिरा, तं पिय नियमा हु दोसाय ॥१॥" अतो ये तु मुद्गादिधान्यान्येवामगोरसेन सह वर्जयन्ति, साङ्गरिकाबलमेथिकाशाकादिकं काष्ठद्विदलमित्यभिधाय आमगोरसेन सह मिथ्यादृष्टिवज्जे-12 मयन्ति । तेषामद्विदलान्नभोगेऽर्द्धश्राद्धत्वमेव स्यात्, नहि सिद्धान्ते क्वचिद् द्विदलविषये काष्ठाकाष्ठविभाग-1 |उक्तोऽस्ति, सामान्येनैवामगोरसेन सह द्विदलभोजनस्य निषेधात्, द्विदलधान्यस्याप्यामगोरससंसर्गे त्रसजीवोत्पत्तिः सिद्धान्ते प्रतिपादिताऽस्ति, तथाहि-"जइ मुग्गमासपमुह, विदलं कचंमि गोरसे पडइ । ता| तसजीवोप्पत्ति, भणंति दहिए वि तिदिणुवरि ॥१॥” तथाऽन्यत्राप्युक्तम्-"आमगोरससंपृक्ते द्विदलादिषु ६ जन्तवः। दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥१॥” अतः सुश्रावकेण सामान्येनामगोरसेन सहर धान्यद्विदलं काष्ठद्विदलं च न भोक्तव्यं, द्विदलान्नसंपृक्तहस्तमुखभाजनानि पानीयेन धावित्वा तज्जलं जीवर-2 क्षार्थ मध्ये निपीय च तक्रदध्याद्यामगोरसं ग्राह्यं भोक्तव्यं च, अथ द्विदललक्षणं सामान्येन विवक्षुराहजम्मि य पिलिज्जते, मणयं पि न नेहनिग्गमो हुज्जा। दुन्नियदलाई दीसंति मित्थिगाईण जह लोए॥१८॥ व्याख्या यस्मिन् 'पीड्यमाने' पिष्यमाणे मनामात्रमपि' खल्पमात्रमपि न लेहनिर्गमो भवति, यथा तिल Page #202 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- सर्षपादिषु पीड्यमानेषु स्नेहनिर्गमो भवति इति व्यतिरेकदृष्टान्तः, एतावत्युक्ते गोधूमयुगन्धर्यादीनामपि कलकवृतिः द्विदलत्वं भवेदित्याह-'दुन्नियदलाई दीसंति', इति, येषां पीड्यमानानां दल्यमानानां द्विदले दृश्येते यथा| ॥९८॥ लोकमध्ये मेथिकादीनाम्, आदिशब्दान्मुद्गचवलकचणकमाषमसूरकुलत्थादिग्रहः, तदेतद् द्विदलं ज्ञातव्यम् । अथ रात्रिलानादीनि सदोषाणि कर्माणि सम्यग्दृष्टिश्राद्धवर्जनीयान्याह-- 8 निसि न्हाणं वजेमि, अच्छाणिएणंबुणा दहाईसु ।अंदोलणं च वजे, जियाण जुज्झावणाई य॥१९॥ 18/ व्याख्या-'निशि' रात्रौ 'स्लान' खलितैलोष्णोदकादिना मजनं वर्जयामि अहं सम्यग्दृष्टिश्रावकः, यतो रात्रौ तमोव्याप्तायां भूमौ कीटिकाकुन्थूद्देहिकाप्रमुखप्राणिनो न दृश्यन्ते तेषां विधाते आद्याणुव्रतस्य भंगः स्यात्, तैलखल्यादिमुखप्रवेशे रात्रिभोजननियमभङ्गश्च स्यात्, तथा इदनदीसरोवरवापीकूपकुण्डादिष्वगलि-II तेन अम्बुना पानीयेन सुखार्थ लानं वर्जयामीति संबन्धः । यतस्तत्र लाने क्रियमाणे प्रभूतत्रसजन्तुघाते प्रथमाणुव्रतलोपः स्यात् , लौकिकशास्त्रेऽपि इदादिषु लानं निषिद्धमस्ति, तथा-"कूपेषु मध्यमं लान, लान भावाप्यां च मध्यमम् । तडागे वर्जयेत्लान, नद्यां स्लानं न कारयेत् ॥१॥ नित्यं स्नानं गृहे श्रेष्ठ, जले जन्तुविवर्जिते । अन्यथा कुर्वतः स्लानं, ब्राह्मणत्वं न जायते ॥२॥ संवत्सरेण यत्पापं, कुरुते मत्स्यबन्धकः । एका१ कैवर्तस्य हि जायते । ॥९८॥ Page #203 -------------------------------------------------------------------------- ________________ हेन तदामोति, अपूतजलसंग्रही ॥३॥ आत्मा नदी संयमपुण्यतीर्था, सत्योदका शीलतटा दयोर्मिः। तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुध्यति चान्तरात्मा॥४॥जह कालो इंगालो दुद्धद्धोओन निम्मलो होइ।।3। तह पावपङ्कमइला, उदएण न निम्मला हुँति ॥५॥” तथाऽन्दोलनम् आन्दोलनक्रीडामपि खजीवानर्थहेतुत्वाद्वायुकायजीवविघातकत्वाच 'वजे, वर्जयामि, तथा जीवानां मल्लकुक्कुटकुक्कुरादीनां योधनं वर्जयामि, आदिशब्दात्कलिकारणादिग्रहः, यतो जीवयोधने तेषां शरीरे प्रहारादिना महाव्यथा विनाशश्च स्यात्, तत्खामिना | च परस्परवैरे महाकर्मबन्धश्च स्यात् ॥ १९॥ सम्यक्त्वाङ्गीकारे सति श्राद्धेन द्वादशव्रतानि श्राद्धधर्मरूपाणि सम्यक प्रतिपालनीयानि, अतः सर्वव्रतमूलभूतानां पञ्चाणुव्रतानामङ्गीकारमाहनवहेमि पाणिणो न य, भणामि भासंमुसं न यमुसामि। परदवं परजुवईनामियमिह परिग्गहं पि करे२०३ व्याख्या-'प्राणिनः' स्थूलजीवान् पूतरजलूकाकीटिकामर्कोटकमक्षिकावृश्चिकसर्पोन्दुरुगोमहिषीमनुजाद्यान् द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियान् ज्ञात्वा मनसा वचसा कायेन न स्वयं हन्मि अन्यपााच न घातयामि पञ्चेन्द्रियमनोबलवचनबलकायबललक्षणत्रिविधबलोच्छासनिश्वासायुर्लक्षणदशविधप्राणत्यागं न करोमि न कारयामीत्यर्थः । अनेन विशेषणेन सकलश्रावकधर्ममूलस्य स्थूलप्राणातिपातविरतिलक्षणस्य प्रथमाणुव्रतस्यां १ तोयपूर्णा । OSAAAASSSSSSSSSS Page #204 -------------------------------------------------------------------------- ________________ ॥९९॥ गीकारः सूचितः, । अस्मिन्नणुव्रतेंगीकृते सति पंचातिचारा व्रतमालिन्यकारिणः परिहर्तव्याः, तद्यथा-"वहब-कुलकवृत्तिः ★धच्छविच्छेयं, इयभार भत्तपाणविच्छेयं । कोहाइदूसियमणो, गोमणुयाईण नो कुज्जा ॥१॥" दु:शिक्षि तगोमहिषीतुरङ्गमकर्मकरादीनां वधं' कशादिभिस्ताडनं १'बन्धं' रज्वादिभिः २ छविच्छेदं' कर्णादिकर्तनं ३ |'अतिभारं' गोकरभगर्दभादेः सामर्थ्यातिरिक्तभारारोपणं ४ 'भक्तपानविच्छेदं अन्न-वारिजलनिवारणं ५ क्रोधादिदूषितमनाः श्राद्धो न कुर्यात् खसमये परसमये च सर्वधर्ममूलं जीवयवोक्ता, तथाहि-"सवे जीवा वि इच्छंति, जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वजयंति णं ॥ १ ॥ इच्चिय इत्थ वयं, |निद्दिढ जिणवरेहिं सवेहिं । पाणाइवायवेरमणमवसेसा तस्स रक्खट्ठा ॥२॥ अहिंसा सर्वजीवानां, सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य, शेषं तस्यास्ति विस्तरः॥६॥ यथा मम प्रिया प्राणास्तथाऽन्यस्यापि देहिनः। इति ज्ञात्वा न कर्तव्यो, घोरः प्राणिवधो बुधैः॥४॥ सर्वे वेदा न तत्कुयुः, सर्वे यज्ञाश्च भारत? । सर्वतीर्था|भिषेकाच, यत्कुर्यात्प्राणिनां दया ॥५॥ क्षान्तितुल्यं तपो नास्ति, न संतोषात्परं सुखम् । न च ज्ञानसमं दानं, नास्ति धर्मो दयापरः॥६॥ पंगुकुष्ठिकुणित्वादि, दृष्ट्रा हिंसाफलं सुधीः । निरागस्त्रसजन्तूनां, हिंसा सङ्कल्पतस्त्यजेत् ॥७॥ आयुर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं भूरितरं बलं बहुतरं खामित्वमुच्चैस्तरम् || SI॥१९॥ |आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं, संसाराम्बनिधिं करोति सुतरं चेतः कृपादान्तरम् ॥ ८॥ श्रीजिनवचनशलाकासमुन्मीलितविवेकलोचना दयार्द्रचेतसोये स्थूलजीववधनियमं प्रतिश्रुत्य निरतिचारं प्रति-IN USISAUSAISASAISESSUS Page #205 -------------------------------------------------------------------------- ________________ पालयन्ति ते चन्द्रराजेन्द्रकुमारवदैहिकामुष्मिकसकलकमलासंबन्धमनुभवन्ति, तथाहि-"भाखद्विहारशृङ्गार, दीव्यदिव्याङ्गनाजनम् । भद्रशालमिव भेजे, श्रीमजयपुरं पुरम् ॥ १॥ श्रीअर्हद्धर्मकर्पूरपूराकृत्रिमसौरभाः । स्थाने नागरिका यत्र, न मिथ्यावासवासिताः ॥२॥ दोर्दण्डचण्डिमाक्रान्तविक्रान्तक्षितिवासवः । राज्यं । शशास तत्रत्यं शत्रुञ्जयमहीपतिः ॥३॥ यत्प्रतापाग्निसंपर्कसंतप्ताः समराजिरे । यद्धाराधरधाराभिः, स्थाने सस्नुर्द्विषां गणाः ॥४॥ अभूतां तत्सुतौ सूरचन्द्राख्यौ विदितौजसौ । सूरचन्द्राविवास्तोकलोकोपकृतिदी-14 क्षितौ ॥५॥ यौवराज्यपदं राजा, ददौ ज्येष्ठाङ्गजन्मने । चन्द्राय तु कनिष्ठाय, न वृत्तिमपि काश्चन ॥६॥ ततोऽपमानितश्चन्द्रश्चिन्तयामासिवानदः । स्थातुं न युज्यते मेऽत्र, विना मानं मनखिनः ॥७॥ यदुक्तम्-15 | "माने म्लानिं गते दूरादादरान्मन्दिरं न ये । विहायान्यत्र गच्छन्ति मण्डलात्ते महाधमाः॥८॥" निस्तन्द्रश्चिन्त|यित्वेति, चन्द्रो मानवदग्रणी । असिद्वितीयः खावासात्प्रवासायाचलनिशि ॥९॥ कुमारः सुकुमारोऽथाक्रामन्मार्ग क्रमादगात् । श्रीरत्नपत्तनोद्याने, तत्र श्रान्त उपाविशत् ॥१०॥ श्रुतिपेयं सुधौपम्यं निशम्य खरमत्र सः। गच्छंस्तदनुसारेण ददर्शर्षि सुदर्शनम् ॥ ११ ॥ वरसंवरशृङ्गारशृङ्गारितवपुर्लतम् । शान्तं दान्तं गुणैःपद कान्तं मूर्त धर्ममिवाहतम् ॥ १२॥ प्रणम्य प्रमदानन्दश्चन्द्रस्तं मुनिपुङ्गवम् । आसामास यथास्थानं प्रथमः स्थितिवेदिनाम् ॥१३॥ प्रारेमे देशनां कर्तु, तमुद्दिश्य मुनीश्वरः । परोपकारनिर्माणे, मुनीनां रमते मनः ॥18॥ १ कुक्करात् । Page #206 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥१००॥ ॥ १४ ॥ आत्मीयात्मसमं विश्वं मन्यमाना मनीषिणः । प्राणात्ययेऽपि हिंसन्ति, न कथञ्चन देहिनः ॥ १५ ॥ द्विषोऽपि सम्मुखीभूतान्, ये न घ्नन्ति महाभटाः । कथं ते विगलन्मन्तून्, जन्तून्, व्यापादयन्त्यलम् ॥ १६ ॥ अहिंसामेव शंसन्ति मुनयो मुक्तिसाधनम् । सर्वादरेणानुष्ठेयाऽहिंसैवातो विवेकिभिः ॥ १७ ॥ त्रिभिः विशेष कम् । इति साधुगिरासारसुधासारनिषेकतः । लसद्विवेकवल्लीकः, स नत्वादोऽब्रवीन्मुनिम् ॥ १८ ॥ प्रभो नाहं हनिष्याम्यतः परं जङ्गमाङ्गिनः । खामिकार्ये तु युधान्तर्युध्यमानानरीन्विना ॥ १९ ॥ इत्यात्तनियमो नत्वा, | चन्द्रश्चन्द्रोपमं गुरुम् । श्रीरत्नपत्तनाधीशं, जयसेनमसेवत ॥ २० ॥ सत्यशौचौचितीदाक्ष्यदाक्षिण्यादिगुणैर्भृशम् । राजादीनां प्रियः सोऽभूत्, सर्वत्रार्या हि सद्गुणाः ॥२१॥ मेदिनीपतिरन्येद्युरूर्जखलभुजोज्वलम् । सन्मानदानपूर्वं तं, रहस्येवमभाषत ॥ २२ ॥ चन्द्र ? दुर्गबलोन्मत्तः सद्भः कुंभनामकः । चरटः प्रकटान्यायः पराज |य्योऽस्ति संप्रति ॥ २३ ॥ यो लुण्ठति महासार्थान् गच्छदागच्छतः पथि । उपद्रवति मद्देशं व्याघ्रवत्संततिं गवाम् ||२४|| मामकीनमनोमध्ये स शल्यति दिवानिशम् । सुप्तमेव निहत्यामुं मां वत्स ? सुखिनं कुरु ॥ २५ ॥ त्रिभिर्विशेषकम् ॥ इत्युक्तो भूभुजांगेन जागरूको निजव्रते । योजितांजलिरानम्य चन्द्रो भूपालमब्रवीत् ॥ २६ ॥ जन्तुं सुतं प्रमत्तं वा मध्ये युद्धमपि प्रभो । निहंतुं नियमो मेऽस्ति किं वाच्यं तस्थुषो गृहे ॥ २७ ॥ श्रुत्वेति निश्चयं चान्द्रमचलेशोऽनुषत्तराम् । गुणानां पक्षपातोऽत्र महतां हि महत्तमः ॥ २८ ॥ अंगरक्षादिमं सौवं | सेनान्यं च चकार तम् । मन्यमानः सुतमिव राजा तद्गुणरंजितः ॥ २९ ॥ चौर्योपजीविकासक्तः स कुंभचर कुलकवृचिः ॥१००॥ Page #207 -------------------------------------------------------------------------- ________________ %A4%95%E0% A5 टोऽन्यदा । विवेश पापस्तद्देशं पाटचरचमूवृतः॥३०॥ विज्ञाय तं समायांतं चन्द्रो धावद्भटान्वितः । गजं गुहागतं वीक्ष्य किमुदास्ते हि केशरी ॥ ३१॥ चन्द्रदर्शनमात्रेण नश्यन् कुंभः ससैनिकः । रुरुधे तटैः सद्यो लुब्धकैरिव शूकरः॥ ३२॥ मानस्तंभोऽप्यसौ कुंभो निकुम्भभयविह्वलः। तृणमादाय दशनैश्चन्द्रस्य पुरतोऽपतत् ॥ ३३ ॥ संवीक्ष्य प्रणतं कुम्भं चन्द्रोऽजनि रुषोज्झितः । कोपोऽवनामपर्यंतः कथ्यते महतामिह ॥ ३४ ॥ उत्थाप्य कुम्भमालिंग्यानीय च खामिनोऽन्तिकम् । देशप्रसादमाधाप्य चन्द्रः शीघ्रममूमुचत् ॥ ३५॥ तदादि स्फुरदादित्यमहसं शांतचेतसम् । चन्द्र खस्मात्वपुत्राचाधिकं मेने महीपतिः ॥ ३६॥ शूरः क्रूरात्मकोऽन्येवू राज्यं लातुमनाः कुधीः । खतातहननोपायं चिन्तयामास चेतसि ॥३७॥ ततो निशीथसमये करेण कलयकानसिम् । यामिकान वंचयित्वा स विवेश नृपसद्मनि ॥ ३८॥ तातं पराङ्मुखं सुप्तं तीव्रास्त्रेण जघान सः । किं किं न कुर्वतेऽकार्य राज्यार्थ राजबीजिनः ॥ ३९॥ ततो नश्यन्नसौ देव्या जातजागरयेक्षितः। पूत्कृतं चढ़ा नृपं हत्वा कोऽपि यातीत्युरुखरम् ॥४०॥ प्रति तं द्वारपालेषु प्रधावत्सु जिघांसया । प्रहारजर्जरः माह ताने मापृथिवीपतिः॥४१॥ रे रे नासौ निहन्तव्यः कस्यासाविति विद्यताम् । शरविद्धो मृगेंद्रो हि शरोत्पत्तिं विलोकते॥४२॥ आरक्षैः स नृपादेशात् जीवनग्राहि रंहसा । उपलक्ष्य च राज्ञोऽग्रे तत्स्वरूपं न्यवेदि च ॥ ४३ ॥ खांगजं मनुजखामी विदित्वा खविघातकम् । विदन्नवध्यं पुत्रत्वात्खदेशान्निरवासयत् ॥४४॥ आजुहावौष्टिकै राजा चन्द्रमुन्निद्रमोजसा। राज्याभिषेकमाधातुं तेऽपि जग्मुस्तदन्तिकम् ॥४५॥ जयसेनमथापछ्य साधं तैस्ता * Page #208 -------------------------------------------------------------------------- ________________ चत्यवन्दन- तपूरुषैः। चचाल खपुरं चाप स सहानन्दसंपदा ॥४६॥ तांतं वीक्ष्याभवच्चंद्रः पदमानन्ददुःखयो । विलोक्य कुलकवृचिः तं महीशोऽपि बभूव प्रमदास्पदम् ॥४७॥ राज्ये निवेश्य चन्द्रं राट् शस्त्रघातातुरो भृशम् । शूरे समत्सरो ॥१०॥ मृत्वा कापि द्वीप्यचलेऽभवत् ॥४८॥ शूरः कुकर्मभिर्जीवन् तातघातनपंकिलः। देशांतरे भ्रमन्नाप तद्द्वीपिश्रितकाननम् ॥ ४९ ॥ नश्यन्नीर्षालुना तेन द्वीपिना निहतोऽसको। प्रेत्यापि प्राणिनां प्रायो वैरबन्धो सहायते ॥५०॥ शूरजीवः स तत्रैव वने लेभे किरातताम् । पापर्द्धिवर्धितारंभस्तेनैव द्वीपिना हतः॥५१॥ द्वीपी सोऽपि ततो जघ्ने कोपान्धैस्तस्य बांधवैः । अभूतां तो वने कापि शूकरौ कर्मदोषतः॥५२॥ व्याधव्यूहोऽवधीत्तौ तु युध्यमानौ परस्परम् । विपद्याजायतां तौ तु मृगौ शबर आवधीत् ॥५३॥ एकत्र गजयूथे तो गजपोतो बभूवतुः। युध्यमानी मुहुयूंथभ्रष्टौ भिल्लचयोऽग्रहीत् ॥५४॥ चन्द्रराजेन्द्रराज्येऽथ तौ परंपरया गतौ । युध्यमानी न्यषेध्येतां तत्र हस्तिपकैबलात् ॥५५॥ सुदर्शनं मुनि तत्रायांतं केवलिनं वने । नत्वा धर्म जिनोपज्ञं चन्द्रः13 लाशुश्राव सादरम् ॥५६॥ तयोरणयोर्वेरकारणं पृथिवीपतिः। देशनांतेऽथ पप्रच्छ बभाषे तत्र केवली ॥५७॥ वैरकारणमाकर्ण्य तयोः संविनमानसः। संस्थाप्य वांगजं राज्ये राजा प्रावजदार्हतः ॥५८॥ तप्यमानस्तपःसोऽपि पालयन शीलमुज्ज्वलम् । दिवि दिव्यसुखाखादं पुण्यात्मा विदधेतराम् ॥ ५९॥ भुक्त्वा खगेसुर्ख ||१०१॥ लाचन्द्रजीवः स्वगेच्युतःक्रमात् । लब्धाहेद्धर्मयुकपुंस्त्वं सिद्धिसंबन्धमासदत् ॥६०॥ मृत्वा नरकमासाचाद्धृत्य च द्विरदाविमौ । मध्ये भवमनन्ताद्वा भ्रमतुर्बहयोनिषु ॥६१॥ पार्श्वे गुरोर्ये त्रसजीवरक्षाव्रतं प्रतिश्रुत्य सदा ॐॐॐॐॐॐ Page #209 -------------------------------------------------------------------------- ________________ %ASH दरेण । श्रीचन्द्रराजेन्द्र इवाचरंति येते सिद्धिलक्ष्मीमचिरावणंति ॥६२॥ इति त्रसजीवरक्षाविषये चन्द्रराजकथा । न य भणामि भासं मुसमिति । मृषाभाषामलीकवाक्यं न च नैव भणामि, अनेन पदेन द्वितीयाणुव्रतस्य स्थूलमृषावादविरतिलक्षणस्यांगीकारोऽभाणि, द्वितीयाणुव्रतांगीकारे च, कन्यागोभूम्यलीकानि न्यासासापहरणं तथा कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्तयन् ॥१॥ इति श्लोकोक्तानि पंचालीकानि सर्वथा परि हरणीयानि, तथा, तहेव काणं काणत्ति पंडगं पंडगत्ति वा । वाहियं वावि रोगित्ति तेणं चोरत्ति नो वए। इति गाथोक्तां, भाषां आखेटिकन मृगादिगमनादौ पृष्टे जानन्नपि अस्मिन्मार्गे मृगो गत इत्यादि सत्यामपि सत्त्वोपघातजननी वाणी न वदेत्, यत उक्तं, तहेव फरुसा भासा गुरूभूओवघाइणी। सच्चावि सा न वत्तवा जओ लोपावस्स आगमो। तथा विवेकवता श्रावकेण द्वितीयाणुव्रतस्यातीचारपञ्चकं परिहरणीयं, तच्चेदं, अह सहस्सा भक्खाणं रहसाइ सदारमन्तभेयं च ।मोसोवएसयं कूडलेहकरणं च वजेजा॥१॥सहसानालोच्यचौरोऽयमित्यालदानं रहोभ्याख्यानं रहःस्थितान् कानप्यालोक्य एते राजविरुद्धं मंत्रयन्तीति प्रकाशनं २ स्वदारमंत्रभेदः, दारैर्मित्रैर्वा विश्वस्तं कथितमन्येषां प्रकाशयतः ३ मृषोपदेशो व्यसनपतितस्य पृच्छतोऽलीकमीदृग्वदेरित्यादिशिक्षणं ४ कूटलेखश्च प्रतीत इति द्वितीयाणुव्रतस्य विषये श्रीहंसराजकथानकमुच्यते । रेजे राजीवनीवात्र श्रीमद्राजपुरी पुरी । सद्मपद्मावलौ पद्मा यत्र चित्रं सदावसत् ॥१॥ संसारमरुसंचारखेदच्छेदं चिकीर्षवः। यत्रार्हद्धर्मपीयूषकुण्डान्तः सस्नुरङ्गिनः॥२॥ श्रीहंसो हंसवत्तत्राभवद्भमिपुरन्दरः। जिनधर्मसरोजन्मसेवाहेवाकमानस: Page #210 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- ॥३॥ यः सत्यवादताम्बूलं पांचसौगन्धिकं सुधीः । प्राणान्तेऽपि न तत्याज निजास्यांभोजकोटरात् ॥४॥कुलकवृत्तिः सुहृदां सुरशाखीव यमदण्ड इव द्विषाम् । यद्दोदडो यशोलक्ष्म्याकर्षदण्ड इवाबभौ ॥ ५॥ रत्नशृंगाचले ॥१०२॥ मासगम्ये पूर्वजकारिते । चैत्ये चैत्रमहेऽचालीत्सोऽथ नन्तुं जिनादिमम् ॥ ६॥ हयडूषारवात्यंतवाचालितदिगन्तरः । गर्जद्गजघटाघोषभीषिताशेषशात्रवः॥७॥ चश्चच्चंद्रकराकारचारुचालितचामरः। ध्रियमाणसितच्छन्त्र आरूढजयकुंजरः॥८॥ स तदाभान्महीनाथः सनाथः सर्वसैनिकैः। श्रीमन्नन्दीश्वरे गच्छन् साक्षादिव दिवस्पतिः॥९॥ त्रिभिः विशेषकम् , अर्धवर्त्मनि संप्राप्तं तं हंसं जवनाभिदः । चरः पश्चात्समागत्यानम्य चैवं व्यजिज्ञपत् ॥१०॥ निर्याते त्वयि यात्रार्थ तद्दिनाद्दशमे दिने । सीमालोऽर्जुनभूपालस्तत्पुर्यां शत्रुरागमत् ॥११॥ युध्यमानांस्खकान् भटान् हत्वा त्यक्त्वा च नश्यतः । भांडागारगजाश्वादि त्वद्राज्यं सोऽग्रहीत्समम् ॥ १२॥ है पुरे भयातुरे कृत्स्ने निःकृत्रिमपराक्रमः । त्वत्सिंहासन आसीनः स खाज्ञां संन्यवेशयत् ॥१३॥ त्वन्मंत्रिणा सुमित्रेण निलीनेन परालये। अहं त्वयि नियुक्तोऽतो यदुक्तं तद्विधीयताम् ॥१४॥ इत्युक्ते तेन राज्ञोऽने भटाः प्रोचुवेलोत्कटाः। वलामहे महीनाथ कः स्फुरेत्वत्पुरे परः ॥१५॥ हृष्टस्तान् भूपतिः माह पुंसां स्युःपूर्वकमंतः। संपदो विपदो वापि मुच्छोको तत्कृतौ हि कौ ॥ १६॥ पुण्यप्राप्यं विमुश्चैनं जिनयात्रामहोत्सवम् । ॥१०२॥ सुखलभ्याय राज्याय युक्तं नैतर्हि धावनम् ॥ १७॥ असमाप्याहतो यात्रांबले नाहं कदाचन । आरब्धकायेहानं हि विनरधमचेष्टितम् ॥१८॥ इत्युक्त्वा भूपतिर्वाहवाहनं प्रैषयत्पुरः । विवेकी कश्चिदौचित्याच्याव्यते Page #211 -------------------------------------------------------------------------- ________________ किं कदाचन ॥ १९॥ विना छत्रधरं सोऽन्यभटैः खौकोदिदृक्षया । तदौज्झि वा खपत्यर्थे खार्थं त्यजति कोऽपि |हि ॥ २०॥ त्रुटनादिव भूपालो यात्रासु कृतभागिनाम् । स तैर्यथा यथा मुक्तो भेजे हर्ष तथा तथा ॥ २१॥18 खपुण्येनेव संयुक्तः क्षमापश्छन्नधरेण सः। मार्गानभिज्ञ उन्मार्गे पर्यटन्नटवीं ययौ ॥ २२॥ चारुचीराश्वभूषादि। मुक्त्वा भिल्लभयान्नृपः। छत्रभृदवेषमादाय प्रतस्थे तीर्थदिङ्मुखः ॥ २३ ॥ अथैणः पश्यतस्तस्य नश्यन्नेको भयाकुलः। निकुञ्जमविशद वायुवेग उत्प्लत्य पक्षिवत् ॥ २४ ॥ दृकपथातीतसारङ्गः किरातः कश्चिदागतः । मृगपृष्ठे धनुर्धन्वन हंसराजमभाषत ॥ २५ ॥ अत्र पत्रचयच्छन्ने देशे नेक्षे रुरोः पदम् । कागादेणः स मद्भक्ष्य है। दययेश ममादिश ॥ २६ ॥ उक्ते मृगवधः सत्येऽन्यथोक्ते तु मृषोदितम् । बुद्ध्या तद्विप्रतार्योऽयमिति ध्यात्वा नृपोऽवदत् ॥ २७ ॥ पृच्छसि मत्स्वरूपं मां भ्रष्टो मार्गादिहागमम् । व्याधोऽभ्यधादरे मूढ वद कागात् कुरङ्गकः ॥ २८ ॥ नृपो जजल्प मन्नामधेयं हंस इति स्फुटम् । उच्चैमंगयुराचष्टे मार्ग वद् मृगस्य मे ॥ २९॥ मम राजपुरीस्थानं जगतीशो जगाविति । भिल्लोऽप्यधात्क्रुधारेऽन्यत्पृच्छयसेऽन्यत् प्रजल्पसि ॥ ३०॥ धराधीशोऽभ्यधा द् वीरवीरोऽहं क्षत्रियोत्तमः। प्रोच्चैयाधस्ततःप्रोचे भो महावधीरोऽसि किम् ॥३१॥राजोचे वद मे मार्ग यामि लखस्थानकं यतः । व्याधोऽभ्यधाच वाधिर्यव्याधिर्यः सोऽस्तु ते चिरम् ॥ ३२॥ ततो मृगनिराशोऽगान्मृगयुः स । कायथागतम् । वाचा विशारदैः को हि वंच्यते नहि बालिशः ॥३३॥ मोचयित्वा मृगं वाचोयुक्त्या कारुण्य |शेवधिः । भूकान्तः सुकृताक्रान्तःप्राचलच्छनकै पुरः॥३४॥ एककं यतिमायान्तं यतमानं पुरो नृपः। वीक्ष्य १८ चैत्यव. Page #212 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥१०३॥ | नत्वा मुदा मार्ग मुक्त्वा प्राचलदग्रतः ॥ ३५ ॥ कृतान्तकिंकराकारौ को पाटो पारुणेक्षणौ । द्वौ भीमभृकुटीभि - लावेत्याग्रे भूपमूचतुः ॥ ३६ ॥ पल्लिपतिश्चिराच्छूरश्रौर्यबुद्ध्याऽथ निर्ययौ । दूरादस्मिन् वने मुण्डं पाखण्डिन| मुदैक्षत ॥ ३७ ॥ अशकुनं स तं जानंस्तद्वधार्थमुदायुधौ । आवां प्रेष्यौ ततः प्रेषीत् कापि दृष्टः स कथ्यताम् ॥ ३८ ॥ राजा दध्यौ मयि व्याजवाचि वा मौनभाजि वा । यान्तौ सरलमार्गेऽम् मुन्यनर्थाय भाविनौ ॥ ३९ ॥ संप्रत्यसत्यमप्युक्तं सत्यादप्यग्रपुण्यकृत् । अतः शब्दच्छलात् सत्यमसत्यमवदन्नृपः ॥ ४० ॥ युवाभ्यां न यथा लभ्यस्तथा याति द्रुतं द्रुतम् । पथा वामेन पापोऽध्वस्थानामशकुनाय सः ॥ ४१ ॥ तस्मिंस्तद्वचसा मार्गे मुधा तौ पर्यधावताम् । श्रुत्वा काव्यं गम्भीरार्थं विरुद्धार्थे कुधीरिव ॥ ४२ ॥ तादृग्वागमृतासितपुण्यद्रुः सो | व्रजन् । शयनाय निशारम्भे सारं भेजे महीरुहम् ॥ ४३ ॥ तत्रस्थो रत्नशृंगाद्री यान्तं संघ निरीक्ष्य सः । लता गुल्मस्थचौरांश्च ज्ञात्वा राजेत्यचिन्तयत् ॥ ४४ ॥ नूनमेभिः स्फुटं लुण्ठ्यः संघो धर्मक्रियानघः । एकाकिना मंया पातुं शक्यं कुत उपायतः ॥ ४५ ॥ इत्थं विचिन्तयंश्चित्ते विनिद्रः पृथिवीपतिः । अपश्यद् दीपदीसाशान् | भटान् कानप्युदायुधान् ॥ ४६ ॥ पाटच्चरः पुमानेष कोऽपीत्युत्थाप्य कोपतः । मूर्त्या ज्ञात्वा महान कोपि नृप - स्तैरित्यभाष्यत ॥ ४७ ॥ केचिचौराः कचिद् दृष्टा जल्पन्तो वा श्रुतास्त्वया । उक्ता नो हेरकेणेह संघं जिघां| सवोऽध्वनि ॥ ४८ ॥ दशभिर्योजनैः स्थानादतोऽस्ति श्रीपुरं पुरम् । गाधिस्तस्याधिभूजैनो हन्तुं तान् प्रजिघाय नः ॥ ४९ ॥ तद् ब्रूहि यदि जानासि येन चौरान्निहत्य तान् । लभामहे यशः संघरक्षया सुकृतानि च ॥ ५० ॥ कुलकवृत्तिः ॥१०३॥ Page #213 -------------------------------------------------------------------------- ________________ तच्छुत्वा भूधवो दध्यौ सत्योक्त्या चेद् वदामि तान् । तद्घातपातकं घोरं समालिङ्गति मे तदा ॥ ११ ॥ यदि चौरान जल्पामि तदैतैरनिपातिताः। भवन्ति मम ते संघघातपातकदायिनः ॥ १२॥ करोमि तत्किमवेति ध्यानादुत्पन्नधीः सुधीः । वीरांस्तान् बभाषेऽथ दृष्ट्या दृष्टा न ते मया ॥५३॥ युष्माकं तद्विलोकाय सांप्रतं न विलम्बितुम् । यत्रास्ति संघस्तत्राशु गम्यतां त्रातुमातुरैः ॥५४॥ यत्संघे तेऽपि यास्यन्ति याथ तत्प्रथम यदि । ततः कीर्तिश्च धर्मश्च भवतां भवतोऽद्भुतौ ॥५५॥ इत्युक्तियुक्तिसंतुष्टाः संघपार्श्वे ययुर्भटाः । गुल्मानिर्गत्य चौरास्तु हंसं नत्वा व्यजिज्ञपन् ॥ ५६ ॥ अत्र गुल्मे प्रजल्पन्तो ज्ञाता एव वयं त्वया। न ख्याता नृपवीरेभ्यः प्राणदः पिताऽसि नः॥५७॥ तव स्तुमो धियं संघो यया वयं च रक्षिताः। इत्युक्त्वा ते वलिवायुः प्रातः सोऽपिपरोऽचलत ॥५८॥ सादिभिः कैश्चिदग्रे यान् स पृष्टोऽस्मत्पते रिपुः। सैन्यभ्रष्टस्त्वया दृष्टः कापि हंसो महीपतिः॥ ५९॥ दृष्टश्चेत्तर्हि भो ब्रूहि येन हत्वा तमात्मनः। खामिनः कार्यमाधाय वयं स्यामोऽनृणा: क्षणात् ॥६०॥ प्राणान्तेऽप्याह कः कूटं सुधीरिति विभाव्य सः। अहं स हंस इत्युक्त्वा तानग्रेऽस्थादुदायुधः M॥ ६१॥ ततस्तत्सत्त्वसंतुष्टस्तीर्थाधिष्ठायकः सुदृक् । यक्षख्यक्षाभिधश्चके तदूर्ध्वं पुष्पवर्षणम् ॥ १२॥ सत्य* वादिन् जयेत्याशीर्वादनादपुरस्सरम् । यक्षराड् दुन्दुभिं दिव्यं दिव्यवीवददुच्चकैः॥६॥ स्फुटीभूय ततो यक्षस्त त्पुरोभूय दोबली । सिंहनादं विधायोचैर्नाशयामास शात्रवम् ॥१४॥ ततः प्रसन्नहग्यक्षः सानन्दं हंसमभ्यधात् । त्वत्सत्यवादमाहात्म्यात्तुभ्यं तुष्टोऽस्मि भूपते ॥६५॥ यत्राहि भवतस्तीर्थे तीर्थयात्रालदिनम् ।। Page #214 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥१०४॥ अलंकुरु विमानं मे यावो नन्तुं जिनं यथा ॥ ६६ ॥ इत्युक्तस्तेन राट्र सद्यस्तद्विमानमुपाविशत् । अथवोपस्थिते कार्ये कालक्षेपं करोति कः ॥ ६७ ॥ पोतेनेवोदधिं तेनारण्यमुल्लंघयन्नृपः । रत्नशृंगाचलाभिख्यं तीर्थं द्वीपमिवासदत् ॥ ६८ ॥ प्रत्यग्रोच्चितपुष्पौधैरंगरागैः सुगन्धिभिः । तत्रादितीर्थकृद्विम्बं मुदानर्च महीपतिः ॥ ६९ ॥ तत्राद्भक्तिभावेन त्र्यक्षयक्षेण कारितम् । अपश्यद् दिव्यसंगीतं नाकीवानिमिषो नृपः ॥ ७० ॥ एवं यात्रां पवित्रात्मा नृपः कृत्वा यथेच्छया । सद्योविमानमारूढः सयक्षः खपुरं समेत् ॥ ७१ ॥ ततो यक्षोऽर्जुनं शत्रु तस्य राज्याधिनायकम् । बध्वा चिक्षेप राज्ञोऽग्रे तादृशां दुष्करं किमु ॥ ७२ ॥ ततश्च करुणाम्भोधिस्तं जीवन्तं वि मुच्य सः । शशास सौवसाम्राज्यं पितापत्यमिवाभितः ॥ ७३ ॥ दिव्य संभोग संपत्त्यै विघ्नशान्त्यै च यक्षराट् । तत्पार्श्वे चतुरो यक्षान् मुक्त्वा स्थानं निजं ययौ ॥ ७४ ॥ भुंजानो भूपती राज्यं तन्वानो नीतिजं यशः । कुर्वाचाहतं धर्मं कालं दिष्ट्यात्यवाहयत् ॥ ७५ ॥ प्रान्तेऽनशनमादाय क्षमयित्वाङ्गिनः समान् । नमस्कारं स्मरन् मृत्वा सोऽभूच्छ्री भासुरः सुरः ॥ ७६ ॥ श्रीहंसनामनृपतेरिति सत्यवादादत्राप्यमुत्र च सुखं खमनोऽनुसारि । श्रुत्वा तमेव भविकाः सततं वदन्तु स्वान्तेप्सितां सुखरमां परमां लभन्ताम् ॥ ७७ ॥ इत्यलीकपरिहारलक्षणद्वितीयानुव्रतविषये हंसराजकथा संपूर्णा ॥ ७८ ॥ न य मुसामि परदवमिति, न च नैव मुष्णामि, परद्रव्यं २ | परधनमदत्तं न गृह्णामीत्यर्थः । अनेन पदेन स्थूलादत्तादानविरतिलक्षणस्य तृतीयाणुव्रतस्याङ्गीकारः सूचितः, अस्मिन्नणुव्रतेऽङ्गीकृते पतितादिभेदभिन्नं परद्रव्यं श्राद्धः परिवर्जयेत्, तथाहि-- पतितं विस्मृतं नष्टं स्थितं कुलकवृतिः ॥१०४॥६ Page #215 -------------------------------------------------------------------------- ________________ स्थापितमाहितम् । अदत्तं नाददीत खं परकीयं कचित् सुधीः ॥१॥ तथास्थाणुव्रतस्य पश्चातीचारा विवेकवता श्रावकेण परिहर्त्तव्याः वज्जइ इह तेनाहड तकरजोगं विरुद्धरजं च । कूडतुलकूडमाणं तप्पडिरूवं च ववहारं ॥ २१ ॥ व्याख्या-स्तेनाहृतं चौरानीतवस्तुग्रहणं ॥१॥ तस्करयोगश्चौराणां पाथेयादिदानोपष्टम्भनं ॥२॥ विरुद्ध राज्यातिक्रमः, खसैन्याद् वैरिसैन्ये पण्यनयनं ॥३॥ कूटतुलकूटमानकरणं, तुला प्रसिद्धा मानं सेतिकादि कूटत्वं च रूढे राधिक्ये न्यूनले वा ॥४॥ तत्प्रतिरूपव्यवहारस्तत्प्रतिरूपवस्तुनिक्षेपो घृतादौ वसादेः ॥५॥ अतिचारता चैषा न चौर्यमिदं किन्तु वणिक्कलैवेति व्रतसापेक्षत्वेन, ये तु इहलोकपरलोकानर्थकारिपरार्थग्रहणं न परित्यजन्ति तेषां स्वगृहे स्थायिन्योऽपि नानामहर्द्धयो दत्तश्रेष्ठिन इव परायत्ता भवन्ति, अत्रार्थे दत्तश्रेष्ठिकथाकथनेन सकलसभ्यानाममन्दानन्दसुधानिस्यन्देन कर्णकचोलकानि संपूर्यन्ते, तथाहि-महा|नुत्तराप्यासीदुत्तरा मथुरापुरी । अनीतिकलिताप्युच्चैश्चारुनीतिविराजिता ॥१॥ आबालकालात्, प्रतिपा-13 लिता यैर्मृष्टामृत्तायैस्तनया इवागाः । तेभ्यः फलं संप्रतिदातुकामा इवाभवन् यत्र फलावनम्राः ॥२॥ अन्तःप्रगुप्तामृतकूपकानां कण्ठाहिदानादिविडम्बनातिम् । दृष्ट्रव यत्राम्बु दधुः सुवाप्यः कण्ठागतं खं खय|मेव दातुम् ॥३॥ तस्यां समृद्धिदत्ताख्यः समृद्धः श्रेष्ठिराड़ बभौ। श्रीदर्धिस्पर्द्धयेवोचैर्यत् समृद्धिरवर्द्धत ॥४॥ Page #216 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥१०५॥ अतुच्छस्वच्छतारम्ये दयास्फारोभिवर्मिते । यदीयमानसे जीवदयाहंसी सदा वसत् ॥ ५ ॥ स दध्यावन्यदाचित्ते स्नेहैरिव नवैर्घनैः । असिक्ता श्रीरियं याति क्षयं दीपशिखा यथा ॥ ६ ॥ ततोऽगात् सोऽर्जितुं वित्तं दक्षिणां मधुरापुरीम् । द्युम्नार्जनोद्यतानां हि वणिजां दुर्गमं किमु ॥ ७ ॥ नित्यशस्तत्र कुर्वाणः स पण्यक्रयवि - ऋयौ । श्रेष्ठिनाशोकदत्तेन सह सौहार्द्दमासदत् ॥ ८ ॥ ततस्तौ स्नेहवृद्ध्यर्थमिमां वार्त्ता प्रचक्रतुः । एकस्या - ङ्गोद्भुवेऽन्येन प्रदेया खसुता ध्रुवम् ॥ ९ ॥ श्रेष्ठी समृद्धिदत्तोऽथ गते काले कियत्यपि । अर्जितास्तोकलक्ष्मीकः प्रत्यायासन्निजां पुरीम् ॥ १० ॥ ततो वैषयिकं सौख्यं भुञ्जानस्यास्य कान्तया । कान्तया सुषुवे सुनुः प्रसूनायुधसन्निभः ॥ ११ ॥ द्वितीयेन्दोरिवैतस्य वर्द्धमानस्य सहिने । चक्रे संख्यायनेत्याख्या पित्राद्यैर्बृहदुत्सवे ॥ १२ ॥ श्रेष्ठिनोऽशोकदत्तस्यापि प्रिया हृदयप्रिया । प्रासूत नन्दनं तस्य दत्तेत्याख्यां पिताऽकरोत् ॥ १३ ॥ क्रमात् संख्यायनस्यासीत् खसा रूपरतिप्रतिः । दत्ता समृद्धिदत्तेन सा दत्ताय सुधीमते ॥ १४ ॥ अकृते तद्विवाहेऽथ विपत्तौ पितरौ तयोः, अकाण्ड एव यन्मृत्योः सन्निपातोऽशनेरिव ॥ १५ ॥ जज्ञाते तद्गृहाधीशौ दत्तसंख्यायनौ ततः । सुतमेव श्रयन्ते हि निराधाराः पितृश्रियः ॥ १६ ॥ तत्र भाग्योदयाद् दत्तश्रेष्ठिनो व्यवसायिनः । कुबेरस्येव संपत्तिविस्तारोऽभून्महत्तरः ॥ १७ ॥ ततः स संपदाभोगं यथेच्छं बुभुजे खयम् । सौजन्याद् भोजयामास परानपि यथोचितम् ॥ १८ ॥ कदाचिद् दर्पनोद्दीप्ते विलासौकसि लीलया । सौवर्णा दोलशय्यायां युग्मीवाशेत सौख्यभाक् ॥ १९ ॥ कदाचिच्चित्रशालायां सद्गवाक्षे कदाचन । क्रीडाक्रीडे कदाचिच्च क्रीडया कुलकवृतिः 1120411 Page #217 -------------------------------------------------------------------------- ________________ तस्य लानाय । उत्पेत सा हरते किन ॥ २६ ॥ मापयदि मास सोऽजसा ॥२०॥ भोक्तुं स्वर्णमयस्थालसिप्राकच्चोलकादिकम् । पाकस्थाली च दर्वी च हैमी सोऽकारयन्मुदा ॥ ॥ २१ ॥ प्रत्येकं चतुरः स्वर्णरूप्यताम्रमृदान घटान् । दत्त आधापयद् रत्नासनं च स्लानहेतवे ॥ २२ ॥ अन्यदा लानशालायां तस्य लानाय किंकरैः। प्रत्येकं ते चतुर्दिक्षु स्थापिताः कलशाः समे ॥ २३ ॥ तस्य सातोऽथ , पूर्वादिदिग्भ्यः वर्णमया घटाः । उत्पेतू राजसास्ताम्रा मार्ला अपि ततः क्रमात् ॥ २४ ॥ तत उत्तिष्ठतो तस्योदपतद रत्नविष्टरम् । पश्यतोहरवत् पुंसां हरते किं न दुर्विधिः॥२५॥ भोक्तकामस्ततो दत्तो ययौ भोजIMIनमन्दिरम् । कल्याणस्थालकच्चोलादिषु भोज्यं चकार च ॥ २६ ॥ भुक्ते तस्मिन् ययौ स्थाल: कच्चोलादिसमं| क्षणात् । यातः स्थालस्य केल्या स कण्णवत्ति करेऽग्रहीत् ॥ २७ ॥ यावन्मानं ललौ स्थालखण्डं दत्तो निजे |करे । तन्मात्रमेव तत्तस्थावुत्पपातान्यभाजनम् ॥२८॥ ततो दत्तो विषादातों दध्यावध्यात्ममाधिवान् । हा दृष्ट हारिदेवस्य कीदृश्यप्रतिमल्लता ॥ २९ ॥ अथान्यदपि यत्तस्य महार्थ मणिमुख्यकम् । वस्त्वासीत् तत्समं सद्यो | माययौ पुण्यश्रिया सह ॥ ३०॥ गृहभाण्डान्यप्यकाण्डविद्युतेव हविर्भुजा । देहिरे श्रेष्ठिनस्तस्य सामस्त्येन हृदा समम् ॥ ३१॥ तस्य सांयात्रिका भग्नयानपात्राः समाययुः । स्थलमार्गे वणिकपुत्राः स्तेनैर्मुमुषिरेऽखिलाः॥ ॥३२॥ जहिरे निधयो यस्तस्य संगोपिता अपि । पुण्यरक्षाविहीनानां तेषां रक्षा निरर्थका ॥३३॥ क्रिये, वा विक्रये वास्य हानिरव दिने दिने । जज्ञे शुक्लेतरे पक्षे बिम्बस्येव हिमातेः ॥ ३४॥ प्रार्थितं व्यवसायार्थ न लेभेऽर्थ कुतोऽपि सः। आदरं च कचिन्नैव प्राप किन्त्ववहीलमाम् ॥ ३५॥ पर्युपास्त्रि क्रमात्तस्य मुमुच्चः सर्व Page #218 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-बान्धवाः । श्रयन्ति पक्षिणः किं वा फलहीनं महीरहम् ॥ ३६॥ इन्द्रजालनिभं दृष्ट्वा स श्रीलीलायितं तदा ।कुलकवृतिः विस्मयापूर्णचेतस्कः खहृदीति व्यचिन्तयत् ॥ ३७॥ दृष्टनष्टा क्षणाल्लक्ष्मीरियं यस्मात्ततो ध्रुवम् । विद्युदिन्द्रा॥१०६॥ युधद्रव्यैर्ब्रह्मणा श्रीर्विनिर्ममे ॥ ३८॥ सतीमपि रमां हित्वा धन्या गृह्णन्ति संयमम् । गतायामपि संपत्तावधन्यैः परितप्यते ॥ ३९॥ मुञ्चन्ति ये खयं लक्ष्मी प्रेत्याश्रयति तांश्च सा । न त्यजन्ति श्रियं ये तु स्वयं मुश्चति तानसौ ॥४०॥ मोहमूर्छाविषोरुछायया दुर्विपाकया। तदलं मेऽनया शश्वत्संपदा विपदोकसा ॥ ४१॥ * इति ध्यात्वा निरैद गेहाद् भ्रमन्नुर्व्यामितस्ततः । ततः श्रेष्ठी क्रमात् प्राप भृगुकच्छाख्यपत्तनम् ॥४२॥ ज्ञानर नाकरस्तत्र सूरिर्धाकराभिधः। तेनैक्षि चङ्गसंवेगसंगरंगकतानहृत् ॥४३॥ पर्वेन्दुमिव च तं दृष्ट्वोल्ललास प्रमदोम्मिभिः। पारावार इव श्रेष्ठी नवोपाविक्षदग्रतः॥४४॥ सौरभ्योत्पादने मल्ली कल्पवल्लीमतार्पणे । श्रोतश्रोत्रसुधासारा चक्रे तेनेति देशना ॥४५॥ अचिरेण शिवं प्राप्सु सेव्यः साधुवृषो बुधैः। स च क्षान्त्यादिभिआंदैरहदूभिर्दशधा स्मृतः॥४६॥ श्रुत्वा तां देशनां दत्तो दीक्षादानोत्सवोत्सुकः । पप्रच्छ सूरिमात्मीयलक्ष्मी विगमकारणम् ॥४७॥ सम्यकपूर्व भवं तस्यातिशायिज्ञानवान् गुरुः। परिभाव्योचिवान् भद्र ? शृणु श्रीनाशकारणम् ॥४८॥ बभूव श्रीप्रतिष्ठानपत्तनं पत्तनोत्तमम् । यच्चैत्यकेतनैश्चक्रेतरां पल्लवितं नमः ॥४९॥ पद्माकर ॥१०६॥ इवामोदी महाभोगी वटद्रवत । राकेन्दरिव लक्ष्मीवान् जनो यत्र व्यराजत ॥५०॥तत्र प्रतापसिंहाख्यो भूपोऽभू-15 न्यायरङ्गभूः। यत्प्रतापाग्निना दग्धा विदग्धा अपि शत्रवः ॥५१॥ तत्र पूर्वभवेऽप्यासीद् भवितव्यतया भवान् । CCCCCCCCACANCE Page #219 -------------------------------------------------------------------------- ________________ | दत्ताख्यः श्रेष्ठिः श्रेष्ठमहर्द्धिककुलोद्भवः ॥ ५२ ॥ तत्र संख्यायनाख्येनानुरूपेण समैर्गुणैः । श्रेष्ठिपुत्रेण ते | मैत्री जज्ञेऽत्यन्तसुखावहा ॥ ५३ ॥ ततश्च प्रत्यहं तस्माद् यत्पूर्वं वस्तुशोभनम् | अदासीस्त्वं मुदा सोऽपि तुभ्यं प्रीति प्रवृद्धये ॥ ५४ ॥ तीव्रप्रेमानुबन्धेन भवन्तौ प्रतिवासरम् । रामविष्णू इवाभूतामाबाल्यात् सह चारिणौ ॥ ॥ ५५ ॥ विनोदात् सस्मितास्याब्जी वार्त्तयन्तौ मिथो युवाम् । रहस्यनेद्युरानन्दादालोचमिति चक्रथुः ॥ ५६ ॥ यौवनेऽपि न भुंक्ते खं खभुजोपार्जितं हि यः । गृहकुद्दाल एवासौ कुपुत्रः खकुलोद्धरः ॥ ५७ ॥ इति ध्यात्वा | भवन्तौ स्राक् चेलतुः खपुरात् तदा । पर्यटन्तौ महीपीठं रत्नद्वीपं च जग्मतुः ॥ ५८ ॥ संख्यायनेन रत्नानि तत्रालभ्यन्त न त्वया । समानेऽप्युद्यमे पुंसां फलं पुण्यानुसारतः ॥ ५९ ॥ ततः संख्यायनो गन्तुमुत्कोऽभूत् खपुरं प्रति । भवानप्रातरत्नौघस्तत्र स्थातुमनाः पुनः ॥ ६० ॥ तज्ज्ञात्वा मित्रयुस्त्वां सोऽभाणीत् साधारणानि भोः । रत्नानीमानि नौ सन्ति मित्रागच्छ मया समम् ॥ ६१ ॥ इत्युक्तस्त्वं ततोऽचालीस्तेन सार्द्धं गृहोपरि । | इष्टं ग्राह्यं स्वयं वैद्योपदिष्टं तु किमुच्यते ॥ ६२ ॥ पाथेयस्थं मणिग्रन्थिमुद्वहन्तौ युवां क्रमात् । यदेयधुः पथि | स्तेनाः पतन्ति स्म तदान्तरा ॥ ६३ ॥ पाथेयतो मणिग्रन्थि तदा त्वं निरकाशयः । सर्वैरलक्षितो वृक्षजालकान्तर्न्यधाश्च तम् ॥ ६४ ॥ बद्धा युवां ततश्चौराः सौवपल्लिं समाययुः । युवां च तस्यथुस्तत्र कियन्मात्रमनेहसम् ॥ ६५ ॥ ततः स्तेनैर्विनिर्मुक्तौ युवां स्वगृहमीयथुः । नृणां दुष्कर्म भोगेहि मुक्तिः संजायते स्वयम् ॥ ६६ ॥ न लप्स्ये तानि चेत्तत्र तदाहं कूटवागिति । रत्नोदन्तस्त्वय नैवाख्यायि संख्यायनाग्रतः ॥ ६७ ॥ तत्रेयुषा त्वया Page #220 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-न्येद्युस्तानि रत्नानि लेभिरे । अगामिच गृहे लोभान्मनस्येवं व्यचिन्ति च ॥ ६८॥ निक्षिपस्तत्र रत्नान्यलक्ष्य कुलकवचिः नैव केनचित् । तद्वदामि किमेतानि सांप्रतं सुहृदोऽग्रतः॥६९॥ ततस्तानि निजे गेहे स्थापयामासिरे त्वया। ॥१०७॥ द्रोहप्ररोहसंरोहसारो लोभो हि दुर्जयः॥७॥ युवयोर्जनको काला विपेदाते ततो युवाम् । संजज्ञाथे कुटुम्बस्य नायको नयशालिनौ ॥७१॥ क्रमात् संख्यायनो जज्ञे धनाढ्यस्त्वं न तादृशः । ततोऽध्यासीमणीना|शेऽप्येष नो हृदि खिद्यति ॥७२॥ किन्तु प्रेत्यहितां शश्वत्तपस्यां नितरां चरन् । दान्तः शान्तश्च संतोषी तिष्ठत्येष महर्षिवत् ॥७६॥ भक्तिदानं सुपात्रेभ्यो ददात्येष निरन्तरम् । दयादानं च दीनेभ्यो याचकेभ्यो यथोचितम् ॥७४ ॥ अस्म्यप्येष इवैवं चेत् । कुर्वे रत्नैरिमैस्ततः। धर्मे तत्वव्ययान्न स्यान्मित्रद्रोहोऽपि मत्कृतः ॥ ७५ ॥ विचिन्त्यैवं भवानेवमेव चक्रेऽनुवासरम् । युवामायुःक्षये कालाजग्मथुः परलोकताम् ॥ ७६ ॥ तत्पुण्योदयतो जज्ञे दक्षिणामथुरापुरि । दत्ताख्योऽशोकदत्तस्य पुत्रो लक्ष्मीनिधिर्भवान् ॥ ७७॥ यन्पुनर्मित्र-18 रत्नानि न्यन्हयन्त पुरा त्वया। तहष्कर्मोदयाल्लक्ष्मीरुत्पपात तवालयात् ॥७८॥ नाना तेनैव ते मित्र उदीची मथुरापुरि । पुत्रः समृद्धदत्तस्य भवितव्यतयाभवत् ॥ ७९ ॥ इत्याकर्ण्य विशेषेण स श्रीविरक्तमानसः । संवेगावेगतः सद्यो व्रतं जग्राह सूरितः॥८॥ आत्तदीक्षोऽपि दत्तस्तं स्थालखण्डं खपार्श्वतः। परेषां प्रतिबोधार्थ ॥१०७॥ कदाचन मुमोचन ॥ ८१॥ ततस्तेपे तपस्तीनं दत्ताख्यो मुनिपुङ्गवः । क्षुत्पिपासोष्णशीतादीन् विषहे च परीषहान् ॥ ८२॥ ग्रहणासेवनारूपद्विधाशिक्षाविचक्षणः। स क्षोणी विहरन्नागादुदीचीमथुरापुरि ॥८३॥ उच्चनी क्षणामथुरापुरि । दत्तातरम् । युवामायुःक्षतत्वव्ययान्न स्थानिमतान्यो याचकेभ्यो / Page #221 -------------------------------------------------------------------------- ________________ चकुले कुर्वश्चर्या समितिशोभितः । मुनिः संख्यायनावासमाविवेश वशीक्रमात् ॥ ८४॥ तस्य स्नातो निजां लक्ष्मी तत्र वीक्ष्य निरीक्षितुम् । स्थालं खण्डमखण्डं वास्येति तस्थौ स कौतुकात् ॥ ८५॥ लब्धायामपि भिक्षायां निरगान गृहान्मुनिः । ततः संख्यायनो भोक्तुं खपर्णस्थाल उपाविशत् ॥८६॥ भुञानस्य ततस्तस्य खादुभोज्यं यथारुचि । मक्षिका वीजयामास तालवृन्तकरा वसा ॥ ८७॥ तथैवोर्ध्वस्थितं वीक्ष्य मुनि संख्यालायनो जगौ । लब्धभिक्षोऽपि भो भिक्षो? किंन निर्यासि मद्ग्रहाद् ॥८८॥ विलोकयसि किं बालां मुने? विस्मेशरलोचनः । इत्युक्तः श्रेष्ठिना वाचंयमः प्रोवाच तं प्रति ॥ ८९॥ विषयान् विषवत् मुक्त्वा संयमो यैरुपाददे। सातृण्येव मन्यते स्त्रैणं मुनिभिस्तैर्जितस्मरैः ॥९०॥ किन्तु कौतुहलाद् युष्मल्लक्ष्मीमालोकितुं चिरम् । इह तस्था वह शश्वनि:स्पृहोऽपि स्थिराशयः॥९१॥ अथ श्रेष्ठी मुनिं स्माहादत्ख लक्ष्मीममूमिति । मुनिस्तमभ्यधान्मेऽर्थे | नार्थोऽनर्थकरेऽस्थिरे ॥ ९२॥ संख्यायनोऽब्रवीत् साधुं यद्येवं कौतुकं किमु । मुनिरूचे भणिष्यामि वसतौ ते समेयुषः॥९३॥ एवमित्युररीकृत्य स्थिते तस्मिन् ययौ मुनिः । समये वसतौ गत्वा श्रेष्ठी पप्रच्छ तन्मुनिम् &॥९४ ॥ ऋषिराख्यत् तवेयं श्रीः कुतोऽभूद भद्र? भो वद । श्रेष्ठयभाषिष्ट मे पूर्वक्रमायाता रमासकौ ॥१५॥ सत्यं भणेति भणितः श्रेष्ट्याचष्टे स्म तत्पुरः। मद्वेश्मागादियं वेगात् कुतोऽप्यकत्र वासरे ॥९६॥ कर्णवत्तौ तथा स्थालं खण्डमस्त्यत्र संपदि । अदायि बहुशः खण्डमन्यत्तत्रालगन्न च ॥ ९७॥ ततो दत्तमुनिर्दत्त्वा स्थालखण्डं तमब्रवीत् । दापयरिमकं खण्डं तेन तद्दापितं क्षणात् ॥९८॥ तदृदृष्टा कौतुकाच्छ्रेष्ठी प्रोचे मुनिमत 3%25AR Page #222 -------------------------------------------------------------------------- ________________ 1180411 चैत्यवन्दन- ल्लिकाम् । भगवन् ! किमिदं सद्यः प्रसद्य प्रतिपादय ॥ ९९ ॥ संख्यायनावबोधार्थं ततो दत्तर्षिरब्रवीत् । चित्ताश्चर्यकरं सर्वं तद्वृत्तान्तं यथास्थितम् ॥ १०० ॥ तच्छ्रुत्वा सोऽपि विज्ञातखाजन्यस्तं जगावदः । मत्खसारं विवाह्येमां भुंक्ष्व भोगान् यथारुचि ॥ १ ॥ अथ दत्तोऽवदद् भोगा असारत्वेन ये मया । मुक्ता भूयोऽधुनाहं तानमूढः प्रार्थयेः कथम् ॥ २ ॥ अवश्यमेव यास्यन्ति भोगा मद्वत् तवाप्यमी । वियोगे को विशेषो यत्स्वयं त्यजसि नासि तान् ॥ ३ ॥ इत्याकर्ण्य मुनेर्वाक्यं बुद्धः संख्यायनः सुधीः । गृहीत्वा संयमं शश्वत् तपस्तेपे सुनिर्मलम् ॥ ४ ॥ अपि द्वौ निरतीचारं पालयित्वा व्रतं मृतौ । दिव्यभोगानुपाभुंक्त जग्मतुश्च शिवं क्रमात् ॥ ॥ ५ ॥ इत्थं दत्तश्रेष्ठिनो मित्ररत्नादत्तदानात् संपदो गत्वरत्वम् । श्रावं श्रावं श्रावका भावसारं तार्तीयीकं | पालयन्तु व्रतं खम् ॥ ६ ॥ इत्यदत्तदानविरतिलक्षणे तृतीयाणुव्रतविषये दत्तश्रेष्ठिकथा समाप्ता ॥ २१ ॥ 1 'परजुवई' इति, परेषां युवतिं स्त्रियं न मुष्णामीत्यत्रापि सम्बन्धान्न मुष्णामि न स्वायत्तीकरोमि, तदुपभोगं | वर्जयामीत्यर्थः ॥ ७ ॥ इहलोकपारलोकविरुद्धायामनर्थद्रुममूलभूतायां परस्त्रीसेवायामनेके दोषाः प्रादुर्भवन्ति, यत उक्तं - दत्तस्तेन जगत्यकीर्त्तिपटहो गोत्रे मषीकूचकश्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः कामार्त्तस्त्यजति प्रभो दयाभिदाशस्त्रीं परस्त्रीं न यः ॥ १ ॥ प्राण संदेहजननं परमं वैरकारणम् । लोकद्रयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ २ ॥ सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ ३ ॥ खदाररक्षणे यत्नं विदधानो निरन्तरम् ॥ जानन्नपि कुलकवृचि: 1120611 Page #223 -------------------------------------------------------------------------- ________________ नरो दुःखं परदारान् कथं व्रजेत् ॥ ४ ॥ तथा विवेकवता श्रावकेण कूटवञ्चलोभादिदोषखनयः पण्ययुवतयोऽपि सर्वादरेण परिहरणीया; अनेन सूत्रपदेन श्राद्धस्य चतुर्थाणुव्रताङ्गीकारो दर्शितः । अस्मिन्नणुव्रते श्राद्धेन पञ्चातीचारा वर्जनीयास्ते चामी__ वज्जइ इत्तरं अपरिग्गहिया गमणं अणंगकीडं च । परवीवाहकरणं कामे तिवाभिलासं च ॥१॥ व्याख्या-इत्वरां कोऽर्थ इत्वरपरिगृहीतां भाटीप्रदानेन स्तोककालं परिगृहीतां वेश्याम् , ॥१॥ अपरिगृहीतां वेश्यां विधवस्त्रियं वा ॥२॥ अङ्गं मैथुनापेक्षया पुंस्त्रीचिह्नरूपं तदन्यान्यनङ्गानि कुचकक्षोरुवदनादीनि तेषु क्रीडा रमणमनङ्गक्रीडताम् ॥३॥'परवीवाहकरणं' खापत्यादन्येषां परिणायनं ॥४॥ तीव्रानुरागं कामभोगेषु गाढाभिलाषं वर्जयेत् ॥५॥ इह खदारसंतुष्टस्य भाटी दत्त्वा वेश्यादिकं मासादिकं यावदात्मीकृत्य स्खकलत्रधिया सेवमानस्य प्रथमः, अनाभोगादिना वेश्यादिकं गच्छतो द्वितीयः, परदारवर्जिनोऽपि परेण इत्वरकालं परिगृहीतायां वेश्यायां गमने प्रथमः, मया परदाराः प्रत्याख्याता, विधवाङ्गनाश्च लोकेऽपि न परदारत्वेन रूढा इति विकल्पनया तद्गमने द्वितीयः, अनङ्गक्रीडातीवानुरागयोश्च सुश्रावकेणाल्पकामेनैव भाव्यमित्यतिचारता, 'परवीवाहकरणं' तु विवाह एव मया क्रियते न मैथुनं कार्यते इति व्रतसापेक्षत्वात्, स्त्रियास्तु सपत्नीवारके खपतिं भुंजानाया:प्रथमः, अतिक्रमादिना परपुरुषमभिसरन्त्या द्वितीयः, शेषास्तु पुरुषस्यैव ज्ञेयाः, ये तु एतद्बतमङ्गीकृत्य चैत्सव. Page #224 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-मारणान्तिकानेकप्रत्यूहव्यूहसंनिपातेऽपि त्रिदशाङ्गनारूपप्रतिरूपरूपशालिविलासिनीखयंप्रार्थनेऽपि मेरुचूला-||कुलकवृत्तिः मिव खमनोवृत्तिं निश्चलीकृत्य प्रतिपालयन्ति ते सुदर्शनश्रेष्ठीवात्रामुत्र कल्याणपात्राणि भवन्ति, इति सुद॥१०९॥ र्शनकथा लिख्यते-भूयोषिदङ्गभूतेऽभूदङ्गदेशे गरीयसि । सद्विभूषेव निष्कम्पा श्रीचम्पा नामतः पुरी ॥१॥ उच्चैर्वातायनासीना रेजुयंत्र पणाङ्गनाः। जेतुं स्वर्गाङ्गनाः स्वर्गमिवारोढुं कृताशयाः ॥२॥ कुर्वन् कर्पूरगण्डूपानिव सौराज्यसुस्थितः। न विवेद जनो यस्यां गच्छतोऽपि हि वासरान् ॥ ३॥ त्रिभिर्विशेषकम् । दधिश्वेतयशास्तत्र भूपतिर्दधिवाहनः । बभार राज्यमलकापुरीव नरवाहनः ॥४॥ प्रतापश्रीकिशलितो यशाकुसु-5 मशोभितः। फलितो राज्यलक्ष्म्या च कल्पद्रुरिव यो बभौ ॥५॥ परस्त्रीविमुखोऽप्येष मध्ये युधाङ्गणं गुणी । बलाजयश्रियं कर्षश्चित्रं लेभे यश श्रियम् ॥६॥ गीर्वाणस्यैणलावण्यगर्भसर्वखतस्करा। अभयानामिका तस्या४ जनि प्राणप्रिया प्रिया ॥७॥ श्रेष्ठी ऋषभदासाख्यः सत्याख्यः ख्यातिमान् गुणी । द्वितीयैकः श्रिया श्रीदो| बभूव परमाईतः॥८॥ लक्ष्मीश्चैत्यादिकार्याय परोपकृतये बलम् । चेतना तत्त्वचिन्तायै यः प्रायुक्त विविक्तधीः॥९॥ युग्मम् ॥ अहवासीति तस्यासीद् रूपलक्षम्या किलोवंशी। प्रेयसी स्थेयसी धर्मे साधुसाध्व्योरुपासिका ॥१०॥ विनीतः श्रेष्ठिनस्तस्य सुभगः सुभगाभिधः । बभूव महिषीपाल ऋजुः प्रकृतिभद्रकः ॥११॥ प्रत्यावृत्तः स महिषीश्चारयित्वान्यदा वनात् । प्रतिमास्थं यति माघमासि निर्वस्त्रमैक्षत ॥१२॥ प्रसप्पेति महाशीते निशि यः स्थाणुवत् स्थिरः । स्थाता सैष मुनिर्धन्य इति ध्यायन्नगाद् गृहम् ॥१३॥ युग्मम् ॥ मुनि सर Page #225 -------------------------------------------------------------------------- ________________ A4% AHARAS निशाशेषे गृहीत्वा महिषीरसौ । आनन्दथुपृथुः प्राप स्थानं मुनिपवित्रितम् ॥ १४॥ प्रणम्य महतीभक्तिः स सिषेवे मुनीश्वरम् । आयतिर्यादृशी येषां चेष्टा तेषां हि तादृशी ॥ १५ ॥ उदयाचलचूलायामुदयायाथ भास्करः । जाड्यपीडामपाका मुनेरिव निजैः करैः॥१६॥ स्राक् नमो अरहंताणमित्याख्याय नभस्तले। सुभगो|ध्र्वगमोपायं भणन्निव ययौ मुनिः ॥ १७॥ आकाशगामिनी विद्याऽसकाविति स चिन्तयन् । निधानमिव हृभूमौ नमस्कारपदं न्यधात् ॥१८॥ आसने गमने स्वप्ने जागरे वासरे निशि । उच्छिष्टोऽप्यपठद् भूमौ स तीबा श्रद्धा हि तादृशाम् ॥ १९ ॥ परमेष्ठिनमस्कारपदं दिव्यप्रभावभृत् । कालेभे भवता भद्रश्रेष्ठी पप्रच्छ तं ततः॥२०॥ व्याजहाराथ सुभगो वृत्तान्तं तस्य मूलतः। धन्योऽसीति मुहुः श्रेष्ठी कीर्तयंस्तमवोचत ॥२१॥ व्योमाङ्गणगतौ हेतुरियं विद्या न केवलम् । किन्तु स्वर्गापवर्गश्रीविलासप्रापणेऽपि हि ॥२२॥ दुरासदा नृणां तावच्छऋचक्रधरश्रियः । न यावद् हृदि जागर्ति परमेष्ठिनमस्कृतिः ॥ २३ ॥ नमस्कारप्रभावं कः प्रमाणु कुशलः पुमान् । चरमोदन्वतस्तावत् प्रमाणमिव जीवनम् ॥ २४ ॥ उच्छिष्टेन त्वया नैष स्मरणीयः कथंचन । विना शुद्धिं न फलदः स्यान्मन्त्रः सस्फुरोऽपि यत् ॥२५॥ चतुर्भिःकलापकम् । अपीपठत् ततः श्रेष्ठी तामशेषां नमस्कृतिम् । पात्रं प्राप्य निजां विद्यां कः सुधीनिदधीत न ॥ २६ ॥ स सस्मार नमस्कारमेकतानमनास्ततः । तादृशामपि संवादी प्रायः सद्ध्यानसंचयः ॥२७॥ भीष्मग्रीष्मर्तुसंतापोपशामाबद्धसंगरः । अत्रान्तरे प्रव-18 वृते वर्षतुवर्षदम्बुदः॥२८॥ कालाम्बुदभवध्वान्तस्यूतविश्वोदरान्तरे । लेभे किमपि सौभाग्यं यत्र विद्युत् RSARSORROSANSARKARS Page #226 -------------------------------------------------------------------------- ________________ लकातिर चैत्यवन्दन साप्रदीपिका ॥ २९॥ महिषीमहिषीपालः सोऽथादायागमद् वनम् । व्यावृत्तश्चान्तराद्राक्षीन्महापूरी तरङ्गिणीम्क ॥३०॥ यावच्चकितचेतस्कोऽचिन्तयत्किंचिदप्यसौ । परक्षेत्रे नदी तीर्खा महिष्यस्तावदाविशन् ॥३१॥ मंक्षुत्पि॥११०॥ पतिषुयोनि नमस्कारमुदीरयत् । दत्तफालः पपातासौ मध्ये कूलंकषं हहा ॥ ३२॥ हृदि तस्याविशत् तस्यां । खरः खदिरकीलिकः । नमस्कारपरावर्त्तदृढतामिव वीक्षितुम् ॥३३॥ सत्यसन्धः स सस्मार नमस्कारं तदाप्यलम् । सिक्त्वा कल्पद्रुमं को हि फलकाले विमुञ्चति ॥ ३४॥ विपद्य सद्योऽर्हद्दास्या असौ कुक्षाववातरत् । निश्चिता सद्गतिर्यद्वा सुगृहीतनमस्कृतेः ॥ ३५॥ तातीयीके व्यतीतेऽथ मासे गर्भस्य दोहदाः । अहंद्दास्या इमे शस्या जजुः सद्गर्भसूचकाः ॥ ३६॥ अहंतां प्रतिमां भावात् लपये गन्धवारिभिः । अर्चामि कुसुमै रम्यैश्च_मि शुचिचन्दनः॥ ३७॥ सुसाधून वरिवस्यामि दीने दानं ददामि च । संघं विमुक्तपापौघं पूजयामि समन्ततः॥३८॥ त्रिभिर्विशेषकम् । दोहदान् कल्पशाखीव श्रेष्ठी तस्या अपूपुरत् । सरलेहे सधने कान्ते कान्तानां किमु दुर्लभम् ॥ ३९॥ मरालं राजहंसीव सुरत्नं रत्नभूरिव । असूत समये सूनुं श्रेष्ठिनी नेत्रशीतगुम् ॥ ४०॥ महामहोत्सवं कृत्वा नयनानन्दनन्दिने । श्रेष्ठी सुदर्शन इति ददौ नामाङ्गजन्मने ॥ ४१॥ पित्रोमूर्तिः स्नेह इव बद्धमानो दिने दिने । पूर्वाधीता इवाभ्यासीत् सकलाः सकलाः कलाः ॥४२॥ सुदर्शनप्रतिच्छायामिव रूपादिकगुणैः । कन्यां मनोरमां श्रेष्ठी पर्यणायत् सुदर्शनम् ॥४३॥ हिमांशुरिव रोहिण्या रत्येव कुसुमायुधः। तडितवाम्बुदो रेजे तया कामं सुदर्शनः॥४४॥ जिनाज्ञामुकुट मूर्ध्नि कर्णयोः श्रुतकुण्डले । गुरुपादाम्बुरज ॥११०॥ Page #227 -------------------------------------------------------------------------- ________________ | स्तिलकं भालमण्डले ॥ ४५ ॥ जीवाजीवादितत्त्वौघज्ञानमुक्तास्रजं हृदि । पात्रदानोमिकां पाणौ शीलं सर्वाङ्गभूषणम् ॥ ४६ ॥ यो दधत् सोमवत् सौम्यः कीर्त्तिनिर्निद्रचन्द्रिकः । भूपतेः पौरलोकस्य सर्वस्याभूत् प्रमोदकृत् ॥ ४७ ॥ त्रिभिर्विशेषकम् । पुर्यां तत्रैव संजज्ञे पुरोधा वसुधापतेः । सरलः कपिलो नाम विद्याकूपारपारगः ॥ ४८ ॥ साकं सुदर्शनेनास्य शशिनेव सरखतः । स्थिरं पाषाणरेखावदजर्यं समजायत ॥ ४९ ॥ मरालो मानसस्येव पंकजस्येव षट्पदः । पार्श्व सुदर्शनस्यैष नोज्झामास कदाचन ॥ ५० ॥ कपिलं कपिलान्येद्युस्तत्प्रिया प्राणिति प्रिया । पप्रच्छे यत् क्षणं कान्त ? क नु तिष्ठसि नित्यशः ॥ ५१ ॥ सुदर्शनान्तिके कान्ते तिष्ठा - मीति स ऊचिवान् । कोऽयं सुदर्शनः श्रेष्ठी पुनः पप्रच्छ तं प्रिया ॥ ५२ ॥ जगाद कपिलस्त्यागी भोगी सौभाग्यसुन्दरः । श्रीमानृषभदासस्याद्दास्या अयमङ्गजः ॥ ५३ ॥ उषित्वा पुरि चम्पायां चेन्न वेत्सि सुदर्शनम् । वितर्के नापरं किंचित् सुज्ञातं तव विद्यते ॥ ५४ ॥ रूपं निर्जितकन्दर्पं निरूप्यास्य स्मरातुराः । कीलिता इव तिष्ठन्ति क्षणं मार्गे मृगेक्षणाः ॥ ५५ ॥ श्रुत्वा सौदर्शनं रूपं कपिला कपिलाननात् । तस्मिन् जातानुरागाभूदीदृशो हि मृगीदृशः ॥ ५६ ॥ सुदर्शनाङ्गसंसग्गपायं दध्यौ दिवानिशम् । विस्मृतेतर कृत्यासावहो स्मरविजृ| म्भितम् ॥ ५७ ॥ परेद्यवि महीपालादेशाद् ग्रामान्तरं गते । पुरोधसि पुरन्ध्री सा सुदर्शनगृहं ययौ ॥ ५८ ॥ कूटनाट्यनटी सोचे तत्पुरः सुहृदस्तव । महाज्वरः शरीरेऽभूत् तदर्थमहमागमम् ॥ ५९ ॥ स्वदर्शनसुधावर्षविधानेन सुदर्शन ? । स्वस्थीकुरु निजं मित्रं मैत्रीं वहसि चेद् हृदि ॥ ६० ॥ नाभूवुद्धिर्ममेत्याख्यंस्तद्गृहेऽगात् Page #228 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- सुदर्शनः। वञ्चन्ते खलु वाचालैः कुटिलैः सरलाशयाः ॥ ६१ ॥ कपिलां कपिलावासं विशन्नूचे सुदर्शनः । कुलकवृत्तिः कपिलः कास्ति सोवाच शयानोऽस्ति गृहान्तरा ॥६२॥ मूलोपवरकं प्राप्त तस्मिन् स्मरशराहता । कपिला ॥११॥ पिदधे द्वारं वर्गद्वारमिवात्मने ॥६३ ॥ सुदती दन्तपंक्त्यां सा लगयन्ती कराङ्गुलीः। चाटुकारपटुः प्रोचे प्रीत्या प्रति सुदर्शनम् ॥ ६४॥ अद्यानुकूलं मे दैवं फलितं मन्मनोरथैः। प्रसेदुः कुलदेव्यश्च यदभूत् तव संगमः॥ ॥६५॥ कामधूमध्वजज्वालाप्रतप्तां नाथ? मत्तनुम् । निजाश्लेषसुधावनिर्वापय दयानिधे? ॥६६॥ एवं दृषद्पद्रवीकरणचणांश्चन्द्रकरानिव । निशम्य कपिलालापान् विममर्श सुदर्शनः ॥ ६७॥ अहो कपटपाण्डित्यमहो नीचपथादरः। अहो कटरि लाम्पट्यं विषयेष्विह योषिताम् ॥ ६८॥ दुर्विधेरिव नारीणां चेष्टितं शिष्टनिन्दितम् । यन्मां कांक्षत्यसौ हित्वा दयितं हृदयंगमम् ॥ ६९॥ व्याघीव क्रूरचेतस्का भुजगीव भयंकराः । चपलावच्चलाः कस्य रोचन्ते सुधियः स्त्रियः॥ ७० ॥ धिक् कलाकौशलं तेषां विज्ञानं गुरुसेवनम् । मनागपि मनो येषां परस्त्रीषु रिरंसते ॥ ७१॥ इति चिन्तानर्तकी स नर्तयन् हृदयाङ्गणे । तत्कालधीरस्तामूचे मुग्धे? किं |फल्गुबलासि ॥७२॥ अहं षण्ढः खण्डिताशे? व्यर्थपुंवेषडम्बरः। अन्यथा प्रार्थनां वन्ध्यां किं कुर्वे तव भामिनि? ४॥७३॥ कपिलापि तदा प्रत्यैत सुदर्शनगिरा तया । के के भणितिभङ्गीभिः प्रत्याय्यन्ते हि नो बुधैः ॥ ७४ ॥ ब्रुवाणा गच्छ गच्छेति सा द्वारमुदघाटयत् । निरयासीत् ततः शीघ्रं हृष्टः श्रेष्ठी सुदर्शनः ॥७॥ गृहं गतोऽथ जग्राहाभिग्रहं श्रेष्ठिसूरसौ। मयैकेन न गन्तव्यमन्यवेश्मन्यतः परम् ॥७६॥ उज्जृम्भेऽन्यदा तत्र शक्रध्वज Page #229 -------------------------------------------------------------------------- ________________ महोत्सवः । शृंगारस्फाररमणीगमागममनोहरः ॥ ७७॥ केचित् तुङ्गतुरङ्गस्थाः करभारोहिणोऽपरे । केचित सिौख्यासनासीना वाहनीवाहनाः परे ॥ ७८॥ दिव्यनैपथ्यरोचिष्णुशरीरा नागराः पुरः । क्रीडां कर्तुं वने जग्मुसारमरा इव नन्दने ॥७९॥ सुदर्शनपुरोधाभ्यां सहितः क्षितिवल्लभः । वास्तोः पतिरिव श्रीदबृहस्पतियुतोऽचलत् ४॥ ८॥ सौख्यासनसमासीना कपिला कलिताभया । मनोरमापि षट्पुत्रसहिता प्राचलत् पुरः ॥८१॥ मनो-18 रमां सुतैर्युक्तां करेणुं कलभैरिव । विलोक्य कपिलापृच्छदभयां केयमङ्गना ॥ ८२॥ रायूचे सखि ? किं नैतामुपलक्षयसि स्त्रियम् । नाम्ना मनोरमा श्रेष्ठिसुदर्शनप्रिया ह्यसौ ॥ ८३ ॥ विस्मिता कपिला माह सखि ? षण्डः सुदर्शनः । सुतानामियतां माता कथमेषाऽभवत् ततः ॥ ८४॥ कथं वेत्सीत्यभया प्रनिता कपिलालपत् । तत्कोदन्तं खानुभूतमकथ्यं सुहृदये हि किम् ॥८५॥ अभ्यधत्ताभया मूढे तेनासि छलिता ध्रुवम् । स षण्डकः परस्त्रीषु न खदारेषु यत् सखि? ॥८६॥ ततोऽविलक्षा कपिला प्रललापाभयां प्रति । ज्ञास्यामि तव पाण्डित्यमेनं रमयसे यदि ॥ ८७ ॥ बभाषे महिषी मुग्धे कियन्मानं सुदर्शनः । मत्पाणिपल्लवस्पर्शाद ग्रावापि द्रवति | ध्रुवम् ॥ ८८॥ धीरोऽप्यधीतविद्योऽपि विवेक्यपि सुधीरपि । वाणिनीपाणिपद्मात्तो गलेन्मदनपिण्डवत् ॥८९॥ यद्यालि ? नैतं रमये परस्त्रीषु पराङ्मुखम् । प्रायश्चित्तं तदा कुर्वे ज्वलद्वहिप्रवेशनम् ॥ ९०॥ इत्थं मिथो वार्तयन्त्यौ क्रीडित्वा सुचिरं बने । रतिप्रीती इव प्रीते खं खं धाम समीयतुः ॥९१॥ हृदन्तरमिव खीयं पण्डितां पण्डिताभिधाम् । खधात्रीं प्रत्यभाषिष्ट प्रतिज्ञां स्वां नृपप्रिया ॥९॥ पण्डितोचे स्वया वत्से प्रतिज्ञातं न शोभ Page #230 -------------------------------------------------------------------------- ________________ चैत्यवन्दननम् । को नु चालयितुं शक्तो मेरुवत् तं सुदर्शनम् ॥९३॥ जैनधर्माब्जसौगन्ध्यलुब्धस्तचित्तषट्पदः । अमेध्य बन्धुषु स्त्रीषु न कथंचन खेलति ॥९४॥ बभाषेऽथाभया मातः? स समानीयतां सकृत् । पश्चादहं भलिष्यहि ॥११२॥ तदशीकारकर्मणि ॥ ९५॥ प्रतिशुश्राव तद्धात्री ज्ञात्वा तस्या महाग्रहम् । महिला पहिलाः लेहात् किमकृत्यं न कुर्वते ॥ ९६॥ योगिनीव छलोपायं तदुपायं दिवानिशम् । ध्यायन्ती सा विदामास महिष्यै निजगाद च ४॥९७॥ वत्से? पौषधिकः श्रेष्ठी पर्वाहे शून्यवेश्मनि । कायोत्सर्ग सदादत्ते शक्यो लातुं ततोऽमुकः॥१८॥ * अन्वमंस्त तदर्भया शीलभङ्गेऽतिनिर्भया । कियत्यपि गते काले जज्ञेऽथो कौमुदीमहः ॥ ९९ ॥ तस्मिंस्तदुचितां क्रीडां कर्तुकामः क्षितीश्वरः । नगर्यां कारयामासेत्येवं पटहघोषणाम् ॥१०॥ नागरैः कृतशृंगारैः स्पर्द्धया वार्द्धितर्द्धिभिः। आगन्तव्यं क्षणादेव वीक्षितुं कौमुदीमहः ॥१॥ तमाकर्ण्य हृदा दध्यौ शुद्धबुद्धिसुदर्शनः । प्रातर्भावि चतुर्मासपर्व सिद्धान्तभाषितम् ॥२॥ ईदृशस्तु नृपादेशः किं कर्त्तव्यमतो मया । यद् व्याघ्रद्विस्त टीन्याय एष मे समुपस्थितः॥३॥ ततः प्राभृतकं दत्त्वा विशामीशं व्यजिज्ञपत् । श्रेष्ठी सुदर्शनो देव ? प्रातः लापर्वास्ति नः खलु॥४॥तस्मिन् धर्माणि कर्माणि निर्ममे भवदाज्ञया । अन्वमस्त तदुर्वीशः सन्तः प्रणतवत्सलाः15 ॥५॥द्वितीयेऽथ दिने श्रेष्ठी धर्मानुष्ठानदत्तधी।चैत्यप्रपाटीमाधत्त लपयन् पूजयन् जिनान् ॥६॥ निशि पषिधमासाधाय धीरश्रेणिशिरोमणिः । श्रेष्ठी प्रतिमया तिष्ठन् नगर्याश्चत्वरे कचित् ॥७॥ पण्डिताथावददू देवी मा गास्त्वं खेलितुं वने । पूरयामि यथा तेऽद्य चिरबद्धं मनोरथम् ॥ ८॥ शिरोऽतिर्मा दुनोतीति नृपमुक्त्वाभया स्थिता । ॥११२॥ Page #231 -------------------------------------------------------------------------- ________________ NERASACREASE अहो कपटपाण्डित्यं कीदृशं हरिणीदृशाम् ॥९॥ यानं लेप्यमयानङ्गमूर्तियुग दासिकोद्भुतम् । गृहीत्वान्तःपुरे वेष्टुमुपाक्रमत पण्डिता॥१०॥ दक्षैरन्तःपुराध्यक्षैः किमेतदितिनोदिता।पंडिता कपटाटोपस्फुटधाष्ट्रया जगावदः।। ॥ ११ ॥ नैवोद्याने ययौ देवी शिरोऽर्तिव्यथिता ततः । धान्येव कामदेवादिदेवताः पूजयिष्यति ॥१२॥ अत एनां स्मरमूत्ति समादाय व्रजाम्यहम् । पश्याम इति तैरुक्ते दर्शयामास तामसौ ॥१३॥ एवं द्विस्त्रिःपरामूर्तीरानीय प्रविवेश सा। कीकू प्रपञ्चचातुर्यं स्त्रीणां नैसगिकं भवेत् ॥ १४॥ यानमारोह्य वस्त्रेण समाच्छाद्य सुदर्शनम् । आरक्षास्खलिता मध्येऽवरोधं सा नयद् द्रुतम् ॥ १५॥ पुत्रि? प्राणप्रियं खीयं गृहाण स्मर-18 सोदरम् । इत्याख्यायाभयापार्श्वे सा श्रेष्ठिनममूमुचत् ॥ १६ ॥ स्फुरन्मारविकाराथ सुदर्शनमनोऽवनौ । सेक्तुं कामद्रुमं राज्ञी वितेने वाणिसारणिम् ॥१७॥ पीयूषवर्षदासत्व दिशा नाथ ? दृशा स्पृश । मदपुर्वल्लरी वेल्लन्नन्ददानंदकन्दलाम् ॥१८॥ प्रसीद वद दृष्टिभ्यां दिष्ट्या पश्य मृदुर्भव । रमख रमण ? स्वैरमङ्गमालिंग मामकम् ॥१९॥ निस्त्रिंश एष पञ्चेषुमा निघ्नन् निशितैः शरैः । दुर्धारो वार्यतामार्य! परकार्यपरायण? ॥२०॥ मा ज्ञासी: सुलभाः श्रेष्ठिन् ? मादृशो हरिणीदृशः। किं कल्पलतिका भाग्यहीनस्यौके फलत्यलम् ॥ २१ ॥ लिग्धां मुग्धां विदग्धां मां गुणाब्धि दृब्धयाचनाम् । नावमानयितुं नाथ? दाक्षिण्याम्बुनिधेऽर्हसि ॥ २२ ॥ एवं प्रकारैयाहारैरप्यक्षोभ्यमवेत्य तम् । राज्ञीषुणेव पञ्चेषोस्तत्पाणिं पाणिनास्पृशत् ॥ २३॥ हावभावविलासादिकलयन्ती मुहुमुहुः । कुब्जीभूतकुचद्वन्द्वात् सा लिलिंग सुदर्शनम् ॥ २४ ॥ वीरधानलीनात्मा न चचाल तथाप्यसौ।। Page #232 -------------------------------------------------------------------------- ________________ ॥११३॥ चैत्यवन्दन- प्रबलैरपि वातूलैः प्रचलत्यचलः किमु ॥ २५ ॥ अनुकूलोपसर्गेऽस्मिन्निवृत्ते पारणा मया । कायोत्सर्गस्य कार्येति कुलकवृतिः प्रत्यौषीत् सुदर्शनः॥ २६ ॥ तेनावगणिता मानिन्यभया निर्भया रयात् । आदभ्रभुकुटीभीष्मा बभाषेऽधिसुदर्शनम् ॥ २७॥ मानिनां माननीयाया अपकर्ण्य मम द्रुतम् । किमकाण्डेऽपिरे मूर्ख ? मुमूर्षसि कुधीसख? ॥२८॥ काठिन्यं कठिनाद्यापि जहीहि भजख माम् । मृत्यवे ते भविष्यामि कालरात्रिरिवान्यथा ॥ २९ ॥ एवं भयानकैर्वाक्यैर्भाषितोऽभययाप्यसौ । न चुक्षोभ महाम्भोधिरुत्फालैः शरैरिव ॥३०॥ स्त्रीभिर्जलदधाराभिः पुंग्रावापि प्रभेद्यते । अयस्कान्तमणिः किन्तु शंके श्रेष्ठी सुदर्शनः ॥ ३१॥ अभयावाणिनाराचैन विभेदमनागपि । स्थाने सौदर्शनं वान्तमह द्वागवज्रवमितम् ॥ ३२॥ सुदर्शनस्य व्यसनं मन्ये वीक्षितुमक्षमा । व्यतीयाय क्षपा क्षिप्रं प्रादुरासीद दिनोदयः॥३३॥ ततो वीक्ष्याभया राज्ञी सुविभातां विभावरीम् । कायं कामांकुशैः कामं दारयामास दुष्टधीः ॥३४॥ उच्चैश्चकार पूत्कारमभया दाम्भिकाग्रणीः। ऊचे च कोऽपि & विष्टोऽस्ति मध्ये शुद्धान्तमन्दिरम् ॥ ३५॥ आरक्षकास्तत्क्षणादेव तन्निशम्य समागमन् । स्वामिग्रासाशिनो है मास्तत्कार्ये किमुदासते ॥ ३६॥ शान्तखान्तं कृतोत्सर्ग ददृशुस्ते सुदर्शनम् । दध्युश्चास्मिन्न संभाव्यमी-| दृशं कमेंधार्मिके ॥ ३७॥ आरक्षकोदितोदन्तो वेगेनागादथो नृपः । दृष्ट्वा सुदर्शनं दध्यौ किमेतदिति चेतसा ॥११॥ WI॥३८॥ अकार्येऽस्मिन् प्रववृते यद्येषोऽपि सुदर्शनः । मर्यादातिक्रमे तर्हि विश्वासः कोऽम्बुधेरपि ॥ ३९॥ न्यायपक्षी नृपोऽप्राक्षीत् तदवृत्तान्तं सुदर्शनम् । दयालुर्दयया देव्या नाचख्यौ किश्चिदेष तु ॥ ४०॥ तूष्णीं Page #233 -------------------------------------------------------------------------- ________________ काशकानि गले न्यधुः ॥४४॥ आरोपन्मुख मष्या तस्यांगं रक्त-51 मारेभिरे भ्रमयि ॐॐॐॐॐॐ ४ स्थिते नृपोऽमंस्त सत्यमागः सुदर्शने । चौरजारनृणां लक्ष्म मौनमाहुर्मनीषिणः ॥४१॥ आदिक्षत् क्षितिपः। क्षिप्रमारक्षानतिकोपिनः। मध्ये पुरि परिभ्रम्य रे रे श्रेष्ठी निगृह्यताम् ॥४२॥ नृपास्थानाद गले लात्वा श्राद्धं ते निरकाशयन् । कालात्ययं न कुर्वन्ति सेवकाः खामिशासने ॥४३॥ तेऽमण्डयन् मुखं मष्या तस्यांगं रक्तचन्दनः। करवीरस्रजं मौलौ कौशिकानि गले न्यधुः॥४४॥ आरोप्य रासभेतं ते मस्तकन्यस्तशूर्पकम् । प्रारेभिरे भ्रमयितुं पुरि खनति डिम्डिमे ॥४५॥ युग्मम् । वसुधाधिपशुद्धान्तद्रोही श्रेष्ठी निहन्यते । दोषो भूपस्य नात्रेति घोषणां ते प्रचक्रिरे ॥४६॥ अहो सुदर्शनस्यापि कीदृशी कुदशाभवत् । इत्याख्यन् विदधे लोको महा हाहा रवं पुरि ॥४७॥ स आरक्षकैः परिभ्रम्य सर्वत्र त्रिकचत्वरे । क्रमात् खमन्दिरद्वारमानिन्ये श्रीसमुद्वरम् ॥४८॥ प्रेयांसं दुर्दशां प्राप्तमवलोक्य विवेकिनी । मनोरमा मनोधाग्नि चिन्तामेवमनाटयत् ॥४९॥ मेरुः प्रचलति स्थानात् सीमां लंघयतेऽर्णवः । पश्चिमायामुदत्यकः कदाचित् कालयोगतः ॥५०॥ अहंद्वचन चातुर्यनिष्पकम्पमना ध्रुवम् । तथापि न चलत्येष मत्कान्तः शुद्धशीलतः॥५१॥ युग्मम् । राजापि न खला&चारः सुविचारित कार्यकृत् । इदमप्रतिमल्लस्य विधेर्विलसितं ततः॥५२॥ उद्यमं विदधे किश्चित् प्रियव्यापन्नि वृत्तये । दुःसाध्यमपि धीमभिः साध्यं साध्यत उद्यमात् ॥५३ ॥ ध्यास्वैवमविशद् धाम श्रेष्ठिनी सागमनोरमा । चक्रे शोचवन्ती चाहत्पतिमाा मुदांचिता ॥ ५४॥ उत्सर्ग पारयिष्यामि तदा शासनदेवते । कल्पद्रुमवदलं कर्त्ता यदा सांगणं प्रियः॥५५॥ इत्युक्त्वा सा ददौ सद्यः कायोत्सर्ग महासती । विपत्ति Page #234 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- ॥११॥ मग्नं किं कान्तमुपेक्षन्ते कुलस्त्रियः॥५६॥ अथाध्यारोहि शूलायां नृपारक्षैः सुदर्शनः ॥५७॥ खलवहुष्कृतंकुलकवृत्तिः प्राच्यं सतामपि हि कष्टकृत् ॥५७॥ स्वर्णसिंहासनं शूला यमदंष्ट्रा निभाप्यभूत् । सद्यो दिव्यानुभावेन ततो वा किमसंभवि ॥५८॥ कण्ठे मुक्तालता मूर्ध्नि मुकुटं कुण्डलं श्रुतौ । हस्तशृंखलिका हस्तेऽसिघातास्तस्य जज्ञिरे । P॥५९॥ प्रहारा अपरेऽप्यस्यालंकारा अभवन् वराः । अहो चित्रमहोचित्रमिति पौरगिरा समम् ॥ ६०॥ ततो |विस्मितचेतस्का आरक्षाः क्षितिरक्षिणे । व्यजिज्ञपन्नुदन्तं तं विश्वविस्मयकारणम्॥३१॥ भूपालोऽपि तदाकण्ये कौतुकोत्तानमानसः । करेणुकायमारुह्य जगाम श्रेष्ठिनोऽन्तिके ॥ ६२॥ परिखज्य परस्नेहा राजावादीत् सुद शनम् । मामकीनमदः झूणं क्षमयख क्षमानिधे? ॥ ६३॥ हा मया दयितावाक्यनाटकाकृष्टचेतसा । पुरत्नं ४ तादृशं श्रेष्ठिन् घातितं न्यायघातिना ॥ ६४॥ एवं जल्पन्निलानाथः करिण्यामधिरोह्य तम् । ललौ खं सद्म संस्लाप्य वस्त्राद्यैः सच्चकार च ॥ ६५॥ रात्रिवृत्तं नृपादृष्टो निजगाद सुदर्शनः । अभयाभयदानं च ययाचे करुणारुचिः ॥६६॥ वाद्यमानेषु वाद्येषु पठत्सु च बहुबन्दिषु । गायत्सु गायनेषूच्चैः प्रनृत्यन्नर्तकीषु च ॥ ६७॥ भूपेभकुम्भमारूढोऽस्तोकलोकसमन्वितः । जनास्यप्रसरत्कीर्तिखःसरित्लाननिर्मलः ॥ ६८ ॥ समाजगाम खं धाम श्रेष्ठिराजः सुदर्शनः। अभ्रेणेव कलंकेन मुक्तोऽर्क इव दीप्तिमान् ॥ ६९॥ त्रिभिर्विशेषकम् । तच्छुत्वा |॥११॥ सादरा देवी विहितोदबन्धनामृता। नंष्टागात पण्डिताप्याश पाटलीपुत्रपुय्यथ ॥ ७० ॥ देवदत्ताख्यवश्याया| वेश्मोपान्त्येऽवसच सा । सुदर्शनगुणग्राम प्रशशंस च तत्पुरः ॥ ७१॥ सौदर्शने दर्शनेऽभूत् सोत्कण्ठा ग Page #235 -------------------------------------------------------------------------- ________________ |णिका ततः। रूपवन्नरवार्तापि स्त्रीणामौत्सुक्यनाटिनी ॥७२॥ धर्मघोषगुरोः पार्श्वे धर्मराट् परिपार्श्विकः ।। प्रवव्राज भवोद्विग्नः सदारोऽपि सुदर्शनः ॥ ७३ ॥ सिद्धान्ताम्भोधिपारीणः संविग्नः सुदृढव्रतः । गुर्वादेशत टू एकाकी विहारं च चकार सः ॥७४॥ सोऽन्येद्युर्विहरन्नाप पाटलीपुत्रपत्तनम् । तत्र पण्डितयाऽदर्शि गणिकायै-* न्यवेदि च ॥७५॥ स्मराती देवदत्तापि तया साधुमजूहवत् । भिक्षादानच्छलात् सापि मुनिमाकारयद् द्रुतम् ॥७६॥ ऋजुभावान्महात्मापि वेश्यावेश्माविशद् वशी। द्वाः पिधाय बहुप्रार्थ्य दिनं सायं तयोज्झि च ॥७७॥ तस्थौ प्रतिमया रात्रौ पुरोद्याने सुदर्शनः। व्यन्तरीभूतया तत्राभयया च व्यलोकि सः॥७८॥ जातकोपा महाटोपात् सोपसर्गान् यथा यथा । चक्रे तथा तथा साधुानकाष्ठां समासदत् ॥ ७९ ॥ सिद्धसौधस्य निश्रेणिं क्षपकश्रेणिमुत्तमाम् । समारुरोह स मुनिरपूर्वकरणक्रमात् ॥ ८॥ शुक्लध्यानाग्निसंपर्कघातिकर्ममलक्षयात् । प्रपेदे केवलज्योतिः वर्णवच्छ्रीसुदर्शनः ॥ ८१ ॥ क्लृप्तश्रीकेवलज्ञानमहिमासौ सुरासुरैः ।। | निर्वेदजननी चक्रे भगवान् धर्मदेशनाम् ॥८२॥ तया देशनया लोका गणिकापण्डिताभयाः । प्रत्यबुध्यंत साधू | नाममोघं खलु भाषितम् ॥८३॥ सदा समाराधितजैनदर्शनः सुरासुराधीश्वरकीर्त्यदर्शनः। विकखराम्भो-15 रुहचारुदर्शनः शिवं प्रपेदेऽथ मुनिः सुदर्शनः॥ ८४ ॥ त्रिविशुद्धं मयि प्रेमास्यान्यनारी विरागतः । मुक्तिकन्येति मन्येऽस्मि परिणिन्ये सुदर्शनम् ॥ ८५॥ इत्थं श्रेष्ठिसुदर्शनस्य विलसच्छीलामक:रजामोदोन्मोदसु २० चैत्यव. Page #236 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- ॥११५॥ गन्धिताखिलककुप्कान्ताननांभोरुहः । श्रुत्वामं सुरसप्रथां ननु कथां निर्मात शीलोद्यम, चेद् वांछा नरिनति कुलकवृत्ति चित्तभुवि वः श्रेयाश्रियः संगमे ॥८६॥ इति शीलविषये श्रीसुदर्शनकथा समाप्ता॥ "नामियमिह परिग्गहं पि करे इति” धनधान्यरूप्यखर्णकुप्यगृहाद्विपदचतुष्पदादीनामनल्पपापहेतूना-18 ममितं परिग्रहं न करोमि, किन्तु एतेषां परिमाणं करोमीत्यर्थः। यतोऽमितपरिग्रहेऽसंतोषादिदोषाः स्युः, तेषु सत्सु प्रभूतमहारम्भसंभवेन नरकादिकुगतिनिबन्धनायुबन्धो भवेत् । यत उक्तमागमे, चउहिं ठाणेहिं जीवा नेरइयत्ताए कम्मं पगरिंति, तं जहा-महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण इत्यादि शास्त्रान्तरेऽपि महापरिग्रहः प्रबलासंतोषादिदोषचक्रबालाय जल्प्यते तद्यथा-वन्हिस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधिः । तद्वन्मोहघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । नन्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं । यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥१॥ त्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुःषन्ति परिग्रहे ॥२॥ संगाद् भवन्त्यसन्तोऽपि रागद्वेषादयो द्विषः। मुनेरपि चलच्चेतो यत् तेनान्दोलितात्मनः ॥३॥ संसारमूलमारम्भास्तेषां हेतुपरिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥४॥ अनेन च सूत्रवचनेन श्राद्धस्य पश्चमव्रताङ्गीकरणं सूचितम्, अस्मिन् । पश्चमाणुव्रते पश्चातिचाराः सम्यक परिहरणीयाः, ते चामी ॥ Page #237 -------------------------------------------------------------------------- ________________ धनधन्नखित्तवत्थूरूप्पसुवन्ने य कुवियपरिमाणे । दुपए चउपयम्मि पडिक्कमे देसियं सवं ॥ १॥ है व्याख्या-धनधान्ययोः क्षेत्रवस्तुनोः रूप्यसुवर्णयोः कुप्यस्य द्विपदचतुष्पदयोः परिमाणातिक्रमे पञ्चातिचाराः, भावना चात्र आधिक्यसंभवे धनधान्ययोर्लभ्ययोःस्थाप्यकरणेन समर्थयोर्वा सत्यंकारादिना स्वीकृत्य तत्रैव नियमावधिं यावद व्यवस्थापनेन ॥१॥ क्षेत्रवस्तुनोर्विचालवृत्त्याद्यपनीयैक्यकरणेन ॥ २॥ रूप्यसुवर्णयोस्तु पूणेऽवधौ ग्रहीष्यामीति धिया भार्यादेर्दानेन ॥३॥ कुप्यस्य स्थालादेर्दशादिभिः संयोजनया पञ्चातिकरणात् ॥४॥ द्विपदचतुष्पदयोः पश्वन्तरात् गर्भग्राहणेन ॥५॥ अतिचारता चैषां व्रतसापेक्षत्वात्, ये सुश्रावकाः सुगुरुचरणारविन्दसमीपे सम्यकपरिग्रहप्रमाणं कृत्वा आनन्दश्रावकवत् प्रतिपालयन्ति, ते त्वरि&ातमेव खर्गसंपदमासाद्य सिद्धिबधूं वृण्वन्ति, अत्रार्थे श्रीआनन्दश्रावककथानकं लिख्यते-सारोद्धार इवावन्या : ऋद्धपौरमनोहरम् । अभूद् वाणिजकग्रामाभिधं नगरमुद्धरम् ॥१॥ निर्मुद्रदानव्यसनी नयी शरशिरोमणिः | जितशत्रुपस्तत्र प्राज्यराज्यधुरं दधौ ॥२॥ घना कीर्तिपटी येन वितेने च तथावनौ । यथान्यभूपदीपानां न करप्रसरोजनि ॥३॥ जनानां जनितानन्दः कीर्तिकन्दनवाम्बुदः। आनन्दोऽभूद् गृहपतिस्तत्र सौम्यःक्षणेन्दुवत् ॥ ४ ॥ गृहलक्ष्मीरिवाध्यक्षा सतीपर्षेच्छिखामणिः। सदानन्दा शिवनन्दाभिख्याऽस्याभूत् सधमिणी ॥६॥वृद्धौ निधी व्यवहृतावभवंश्चतस्रः प्रत्येकमस्य धनिनः कलधौतकोव्यः । जजुर्वजा दशसहस्रगवीप्रमाणा Page #238 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥११६॥ पनिनसुजिनान्द्रकाम् ॥११॥ द्विविधत्रिवि श्चत्वार एवमपराप्यभवत् समृद्धिः॥६॥ ईशान्यां तत्पुरात् सन्निवेशो कोल्लाकनामनि । आनन्दस्यातिभू-कुलकवृत्तिः यांसः सुजना जज्ञिरेतराम् ॥ ७॥ अथ दूतिपलाशाख्ये तत्पुरासन्नकानने । श्रीवीरः समवासार्षीदन्यदा त्रिदशैवृतः॥८॥ निशम्याईन्तमायान्तं जितशत्रुर्नरेश्वरः । श्रीज्ञातिनन्दनं नन्तुं ययौ सबलवाहनः ॥९॥ आनन्दोऽपि द्रुतपदं परमानन्दसंपदः। निनंसुर्जिनपादाब्जं पद्भ्यामेवागमन्मुदा ॥१०॥ कर्णकच्चोलकाभ्यां च |देशनामृतमहतः। पपौ सानन्दमानन्दश्चकोर इव चन्द्रिकाम् ॥११॥ श्राद्धधर्म द्वादशधा जग्राहाग्रे जगद्गुरोः । कोहि कल्पद्रुमं प्राप्य नास्वादयति तत्फलम् ॥ १२॥ युग्मम् । द्विविधत्रिविधेनैष प्रत्याख्यत् परमार्हतः । स्थूलप्राणवधालीकादत्तादानानि सादरम् ॥ १३ ॥ शिवनन्दां विहायान्यां प्रत्याख्यत् प्रमदामसौ। त्रिचतस्रः स्वर्णकोटीमुक्त्वामुञ्चत काञ्चनम् ॥१४॥ उज्झांचकार स क्षेत्रं हलपञ्चशतान् प्रति । व्रजांश्च वर्जयामास वर्जित्वा चतुरो बजान् ॥ १५॥ दिग्यांत्रिकाणां सांवह निकानां पञ्च पञ्च च । शतानि शकटानां स वर्जित्वानां स्यवर्जयत् ॥ १६॥ दिग्यात्रिकान् संवहतश्चतुरश्चतुरोऽसको । पौतान् मुक्त्वापरान् पोतान् प्रत्याचख्यौ शिवो|न्मुखः॥१७॥ इतरद गन्धकाषाय्याः सोऽङ्गमार्जनमत्यजत् । अभ्यञ्जनं विना तैले सहस्रशतपक्त्रिमे ॥ १८॥ मधुयष्टिं विहायाा स दन्तपवनं जहाँ । क्षीरामलकमुज्झित्वा फलं च फलितेप्सितः॥ १९॥ सुगन्धिगन्धा- १६॥ मृते व्यहासीदानन्द उद्वर्तनकं परेषाम् । तथौष्टिकाम्भोघटकाष्टकान्यत् लानीयपानीयमपि प्रयत्नात् ॥२०॥ काश्मीरजन्मागुरुचन्दनानि हित्वाङ्गरागं स निराचकार । तथा तुरष्कागुरुधूपतोऽन्यं धूपं च वस्त्रं च दुकूल Page #239 -------------------------------------------------------------------------- ________________ | युग्मात् ॥ २१ ॥ स नाममुद्रां किल कणिकां च मुक्त्वा मुमोचाखिलभूषणानि । जातीस्रजं पद्ममृते प्रसूनमनून कीर्त्तिप्रसरो निरस्यन् ॥ २२ ॥ सुखण्डखाद्याद् घृतपूरकाच्च पक्कान्नमन्यत्कलमाच्चांकुरम् । कलायमुदूगान्वितमाससूपात् सूपं समस्तं स पराचकार ॥ २३ ॥ सेधाम्लदाल्यसुतीमनात् परं स तीमनं शारदगोघृताद्घृतं । सत्काष्टपेयारहितं च पानकं प्रत्याख्यदासन्न विमुक्तिसंगमः ॥ २४ ॥ मुक्त्वा स्वस्तिक मण्डूकी भूच्चाख्या| शाकमम्वु तु । विना खाम्बु जहाँ वक्त्रवासं ताम्बूलतोऽपरम् ॥ २५ ॥ स त्रीणि रम्याणि गुणव्रतानि चत्वारि | शिक्षादिपदवतानि । सूत्रोक्तयुक्त्या जिनपादमूले जग्राह कुग्राहनिवृत्तचित्तः ॥ २६ ॥ आनन्द आनन्दजवाष्पवृष्टिप्ताङ्गयष्टिः प्रणिपत्य वीरम् । गत्वा निकेतेऽभिदधे तु भार्यां प्रतिश्रुतं खं जिनधर्ममर्म ॥ २७॥ आनन्दजायाप्यधिरूढयाना यात्वा जिनास्थामभिवन्द्य वीरम् । जग्राह धर्म गृहिणां जिनाग्रे धर्मे विलम्बो नहि धार्मि | काणाम् ||२८|| निरुपमसुररत्नवद् दुरापं जिनवरधर्ममवाप्य हृष्टतुष्टा । शिवनन्दा स्वगृहं समागान्मुक्तिसखीसखिताकृताभियोगा ॥ २९ ॥ बद्धाञ्जलिः प्राञ्जलमौलिशेखरः श्रीगौतमोऽपृच्छदथो जगद्गुरुम् । दीक्षां किमा नन्दगृही ग्रहीष्यते नवेति वीरोऽभिदधे न लास्यति ॥ ३० ॥ प्रपाल्य किन्त्वेष चिरं गृहिव्रतं मृत्वा विमाने | रुचिरेऽरुणप्रभे । सौधर्मकल्पे भविता सुरचतुः पल्योपमायुर्बहुसंपदां पदम् ॥ ३१ ॥ श्रीवीरवाणीद्युतरङ्गिणीजलप्रवाहधौतात्ममलोऽथ शान्तहृत् । आनन्द उद्दाममतिर्दृढव्रतोऽतिवाहयामास समाश्चतुर्दश ॥ ३२ ॥ अन्येद्युरानन्द उदारभावः प्रान्ते निशाया विदधे विमर्शम् | सिन्धुर्मणीनामिव खं ग्रहाणामिवाश्रयोऽहं वणिजां Page #240 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥११७॥ | बहूनाम् ॥ ३३ ॥ निरन्तरं तद्व्यवहारचिन्ताविहस्तचित्तस्य मम प्रमादात् । मा भूज्जिनोपज्ञसुधर्ममर्मनिर्माणकर्मस्खलना कदापि ॥ ३४ ॥ एवं विमृश्याशु विभातकाले कोल्लाकसंज्ञायुजि सन्निवेशे । आस्थानशालामिव धर्मनेतुरचीकरत् पौषधशालिकां सः ॥ ३५ ॥ निमन्त्रय मित्रखजनादिवर्ग सुखादुभोज्यैरुपभोज्य चासौ । निजाङ्गजे धूर्य इवात्मभारं निवेशयामास वशंवदात्मा ॥ ३६ ॥ आपृच्छ्य पुत्रादिकुटुम्बलोकं स्वयं महात्मेव निरीहवृत्तिः । तृण्यामिव प्रोज्झ्य समां समृद्धिं सोऽथागमत् पौषधधाम धीमान् ॥ ३७|| दुष्कर्मभिः साकमसौ शरीरं तीत्रैस्तपोभिः ऋशयन्नजस्रम् । उवाह निश्रेयससौधशृंगसोपानपंक्तीः प्रतिमाः समस्ताः ॥ ३८ ॥ जातो - स्थिचर्मद्वयमात्रगात्रस्तीव्रं तपस्तापमपाचिकीर्षुः । संतोषपीयूषसरोवरान्तः क्रीडामयं रात्रिदिनं चकार ॥ ॥ ३९ ॥ मुदान्यदायं वृषजागरेण जाग्रन्निशीथे मनसीदमाधात् । गतागते यावदलंविधातुं यावञ्च शब्दायितुमीश्वरोऽहम् ॥४०॥ युग्मम् । यावच्च मे धर्मगुरुर्धरायां श्रीवर्द्धमानः कुरुते विहारम् । संलेखनां तावदहं द्विधापि विधाय कुर्वेऽनशनं शुभेच्छुः ॥ ४१ ॥ युग्मम् । एवं विचिन्त्यैष तथैव चक्रे सुश्राद्धवृन्दारकवृन्दचन्द्रः । मनोवचः काय विचेष्टितानां मिथो विभेदो नहि तादृशानाम् ॥ ४२ ॥ ध्यानैकतानस्य कषायजिष्णोः समत्वचि - | न्तांचितचेतसोऽस्य । आविर्बभूवावरणक्षयेणावधिः पयोदापगमे यथार्कः ॥ ४३ ॥ इतश्च चञ्चच्छुचिदेवदूष्यवि| भूषणाभूषित सर्वकायैः । वृत्तः सुरैर्दूतिपलाशवन्यां श्रीवीर आगाद् वृषमादिशच्च ॥ ४४ ॥ प्राप्तेऽथ काले प्रभुरिन्द्रभूतिर्भिक्षां भ्रमन्नात्तविशुद्धपिण्डः । कोल्लाक आनन्दविराजितेऽगादाहृतवत्तच्छुभदूतकेन ॥ ४५ ॥ संभूत कुलकवृचिः ॥११७॥ Page #241 -------------------------------------------------------------------------- ________________ मैक्षिष्ट जनं प्रभूतं मिथः स तत्रेति च वार्त्तयन्तम् । आनन्दनामा जिनवीरशिष्यो गृही गृहीतानशनोकर ४चात्र ॥४६॥ द्रष्टुं ततस्तं जगतः प्रतीक्ष्यः श्रीगौतमः पौषधधान्नययासीत् । कस्योपबृंहास्पदमेष नाहो यं वीक्षितुं गौतम आजगाम ॥४७॥ अनभ्रवृष्टिप्रतिभं प्रभुं तं निभाल्य भालाहितहस्तकोशः । हर्षाम्बुवर्षोद्गतरोमरा| जिरानन्द आनन्दकरं ववन्दे ॥४८॥ ऊचे च भट्टारकमक्षमोऽहं क्षामस्तपोभिस्तव पार्श्वमेतुम् । पार्श्व प्रसीदैहि मम स्पृहामि यथा पदौ ते शिरसा शरण्य ? ॥४९॥ तद्वाक्यमाकये मुनीश्वरोऽपि दूतं तदासन्नपदं प्रपेदे । लासोऽपि त्रिधानन्दमनिन्दितात्मा मुहुस्तदंघी शिरसा ममर्श ॥५०॥ फलेग्रहिमें सुकृतदुमोऽभूत् तुष्टेन दैवेन | कटाक्षितोऽहम् । ममानुकूल: समयो ललास प्राप्तोऽद्य रेखां धुरि धार्मिकाणाम् ॥५१॥ अद्याभवन् मामकधर्म निर्मितिप्रासादमौली कलशाधिरोपणम् । श्रीगौतमो मां यदुपस्थितोऽलसं गङ्गेति वाचेति गृणन् मुहर्मुहः॥ &|॥५२॥ त्रिभिर्विशेषकम् । आनन्द आपृच्छदथेन्द्रभूति विभोऽवधिः स्याद् गृहमेधिनः किम् । भवेदिति माह गुरुस्ततोऽसावचीकथत् तर्हि ममोदपादि ॥५३॥ पूर्वाध्यादिषु पञ्चयोजनशती प्रत्येकमीक्ष्यत् तथोदीच्यामा४|हिमभूधरात् सुरपथे यावत् सुधर्मालयम् । घमोद्यप्रतरन्तु यावदधरे जाड्यान्धकारच्छिदा दीप्रेणावधिदीपकेन| लसता श्रीइन्द्रभूतिप्रभो ?॥५४॥ मुनिस्तमूचे गृहिणो नहीदृशोऽवधिर्भवेत् सत्तम? सात्विकावधे। आलोचय स्थानमिदं ततस्त्वरा मा स्म प्रमादीर्विदितार्हतागमः ॥५५॥ आनन्द आख्यद् भगवन् ? भवेत् किं सद्भूतभावं भणतोऽपि दोषः। श्रीगौतमः स्माह महानुभाग? सत्याभिधाने किल कोऽपराधः॥५६॥ सोऽथाभि- Page #242 -------------------------------------------------------------------------- ________________ कुलकवृतिः स्थिरमना आरामः ॥६१॥ कृत्वा मुक्तिहृदयं हृदयंग चैत्यवन्दन- धत्ते स्म भदन्त तर्हि यूयं समालोचयताचिरेण । श्रीवीरपादातरुप्रसादाद् यन्मेऽवधिर्विद्यत एव तादृक् ॥२७॥ ॥११८॥ ततः सशंको गणभृज्जिनान्तिकं गत्वान्नपानं सकलं व्यलोकयत् । वादं तथानन्दगृहाधिपावधिज्ञानं प्रमाणाप्रतिपत्तिजं जगौ ॥५८॥ प्रपच्छ च खच्छमना जिनेन्दुमालोचनीयं गृहिणा मया वा। त्वयेत्यभाषिष्ट विशिष्टसंवित् श्रीवर्द्धमानोऽनुगणाधिनाथम् ॥ ५९॥ तथा प्रतिश्रुत्य गणाधिपोऽप्यतितिक्षयत् तं गृहिणं क्षमावान् । वंध्याविनेये सुतरां विधेये गुरोनिरस्तत्त्वकिरः किमु स्युः ॥३०॥ इत्थं विंशतिहायनानि विधिवत् कृत्वाहतः शासनं | शान्तात्मानशनस्थितः स्थिरमना आराधनासाधने । निन्दित्वा च चतुष्कविंशतिशतातीचारभारं सुधीनिमु४च्याशुचिदेहपञ्जरमभूदानन्द आढ्यः सुरः॥ ६१॥ कृत्वा परिग्रहमिति विधिवद् विधिज्ञ आनन्दवत् प्रतिकलं प्रतिपालयेद् यः। खेलन्नरामररमारमणीषु स साक् गृह्णाति मुक्तिहृदयं हृदयंगमश्रीः ॥ ६२॥ इति परमाहतानन्दश्रावककथा समाप्ता ॥ सूचकत्वात् सूत्रस्यानया गाथया सूत्रकारेण श्रावकस्य पञ्चाणुव्रताङ्गीकारं दर्शयतात्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि च सुश्राद्धेनाङ्गीकरणीयानीति दर्शितं, तानि चामूनि "उड्डाहो तिरियदिसं चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं गुणवयं होइ विन्नेयं” ॥ __ व्याख्या-ऊर्व पर्वतादिषु, अधो भूमिगृहकूपादिषु, तिर्यक्षु चतसृषु दिक्षु चतसृषु विदिक्षु च, चातुमासक संवत्सरंयावज्जीवादिकालप्रमाणेन गमनप्रमाणकरणं, मया पूर्वस्यां दिशि योजनशतं यावद् गन्तव्यमित्यादिरूपं रण होइ विन्नेयं" " चतसृषु दिक्षु चतर यावद् गन्तव्यमित्यादि ॥११॥ । Page #243 -------------------------------------------------------------------------- ________________ प्रथमगुणवतं ज्ञातव्यं, प्रथमगुणव्रतेऽङ्गीकृते श्राद्धेन पश्चातिचाराः सम्यक् परिहरणीयाः, ते चामी “वजइ उड्डाइक्कममाणयणप्पेसणो भयविसुद्धं । तह चेव खित्तवुद्धि कहिं च सयअंतरद्धं च" ॥१॥ तत्र अनाभोगादिनाधिकगमने वस्त्वानयनप्रैषणाभ्यां चोर्ध्वदिकपरिमाणातिक्रमोऽधोदिक परिमाणातिक्रमतिर्यकपरिमाणातिक्रमाख्यास्त्रीनतिचारान् ॥३॥ क्षेत्रवृद्धि:--अन्यस्या हि दिशो योजनानि यातव्यायां दिशि निक्षिप्य गच्छतः शुद्ध| बुद्ध्याऽतिचारः ॥४॥ स्मृत्यन्तर्धानं व्रतविस्मरणरूपं सर्वसाधारणमप्यत्र पञ्चसंख्यापूरणाय वर्जयेत्, वजणमणन्तगुंवरि अचंगाणं च भोगओ माणं । कम्मइ उखरकम्माइयाण नवरं इमं भणियं ॥१॥ स य भुजिय तिभोगो सो पुण आहारपुप्फमाईओ। उवभोगो य पुणो पुण उपभुज्जइ भवणविलयाई ॥२॥ इत्येतत्खरूपयो गोपभोगयोः प्रतिदिनं परिमाणकरणरूपं द्वितीयं गुणवतं, तच्च भोजनतः कर्मतश्च द्विधा, तत्र भोजनतोऽनन्तकार्यिकस्योदुम्बरिपञ्चकस्यात्यागमानां मद्यमांसम्रक्षणमधूनां सर्वथा वर्जन कार्यम्, अन्येषां च भोगतःप्रमाणं कार्य, कर्मतश्च खरकम तलवरादिकर्म परिहरणीयम्, एतत्तु सूत्रकारेण स्वयमेव पूर्वमेवोक्तं, 'खरकादिपरिहारं' वक्ष्यति, चास्मिन् गुणव्रतेऽङ्गीकृते सुश्राद्धेन पश्चातिचारा वर्जनीयाः, ते चामी सच्चित्तं पडिवद्धं अपउल-दुप्पउल तुच्छभक्खणयं । वजइ कम्मयओ वि हु इत्थं इंगालकम्माइं ॥१॥ व्याख्या--सचित्तं दाडिमादि, प्रतिबद्धं सञ्चित्तसम्बद्धमाम्रफलादि, अपक्कमचालितकणक्वादि, दुःपक्कं पृथु Page #244 -------------------------------------------------------------------------- ________________ चैत्यवन्दनकादि, तुच्छौषधीः सुकुमारमुद्गफलाद्याः, तेच निषिद्धानां नियमितातिरिक्तानां सचित्तादीनामनाभोगादिना कुलकवृत्तिः भोगादतिचाराः, कर्मतश्च इंगालकम्मादि परिवर्जयेत्, इंगालकादीनि चाग्रे सविस्तरं वक्ष्यन्ते इति नात्र ॥११९॥ तान्यभिधीयन्ते "तहणत्थदण्डविरई अन्नं स चउविहो । अवज्झाणे पमायायरिए हिं सप्पयाणपावोवएसे य॥१॥ तथा अनर्थदण्डविरतिरन्यत् तृतीयगुणव्रतं भवति, स चानर्थदण्डश्चतुर्की भवति, आर्त्तरौद्रध्यानेन प्रमादाचरितेन मद्याद्यासेवनेन हिंस्रप्रदानेन खड्गधनुष्कलांगुलमुशलोदूखलाग्निदानेन, वृषभान् दमय, क्षेत्रं कृष, अश्वान्, षण्डय, इत्यादि पापोपदेशेन चतुर्दाऽनर्थदण्डविरतिर्विधातव्या, अस्मिन् गुणव्रतेऽङ्गीकृते पञ्चातिचारा वर्जनीयाः, ते चामी 'कंदप्पं कुक्कइयं मोहरीयं संजुयाहिगरणं च । उपभोगपरीभोगाइरेगयं वित्तं वजेइ ॥१॥ कन्दर्प कामोद्दीपकैर्वाक्यहाँसपूर्वकं केलिकरणं ।१। कौक्रुच्यं मुखाक्षिभूविकारपूर्विका भण्डक्रियां ||२। मौखर्यमसम्बद्धभाषणम् ।। अधिकरणानि संयुक्तमुशलोदूखलादीनि । ४। भोगातिरिक्तता भोगोपभोगयोग्यद्रव्याधिक्यकरणं ।। वर्जयति, अथ चत्वारि शिक्षाव्रतानि “त्यक्तातरौद्रध्यानस्य त्यक्तसावद्यकर्मणः। मुहर्त समता या तं विदुः सामायिकवतम् ॥१॥ सामायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रा|वतंसकस्येव क्षीयते कर्म संचितम् ॥ २॥ अस्मिन् शिक्षाव्रतेऽङ्गीकृते श्रावकेण पञ्चातिचाराः परिहरणीयाः. ॥११९॥ ते चामी-मणवयणकायदुप्पणिहाणं इह जंत्तओ विवजेइ । सइअकरणयं अणवढियस्स तह करणयं चेव ॥१॥ मनो दुष्पणिधानं सावद्यव्यापारचिन्तनं । १। वागदुःप्रणिध्यानं विकथाकरणं ।। कायदुःप्रणिध्यानमप्रतिलि Page #245 -------------------------------------------------------------------------- ________________ ख्येतस्ततो हस्तादिक्षेपणं । ३ । स्मृत्यकरणं सामायिकविस्मृतिम् । ४ । अनवस्थानं सामायिकं कृत्वा मुहूर्त्तमपि तदनासेवनम् | ५ | अतएवोक्तं- सामाइयं तिकाउं घरचिंतं जो य चिन्तए सड्डो । अट्टबसयेवगओ निरत्थयं तस्स सामाइयं ॥ १ ॥ कडसामाइओ पुधिं बुद्धीए पेहिऊण भासिजा । सह निरवज्जं वयणं अन्नह सामाइयं न भवे ॥२॥ काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवद्वियसामाइयं अणायराओ न तं सुद्धं ॥ ३॥ दिगवते परिमाणं यत् तस्य संक्षेपणं, पुनः दिने रात्रौ च देशावका शिकव्रतमुच्यते ॥ ४ ॥ अस्मिन् शिक्षात्रतेऽङ्गीकृते परमश्रावकेण पञ्चातिचारा वर्जनीयाः, ते चामी 'वज्जइ इह आणयणप्पओगपेसणप्पओगयं चेव । सद्दागुरूववायं तह वहिया पुग्गलक्खेवं ॥ १ ॥ व्याख्या आनयनं नियमितावधेः परतः स्वयं प्रस्थितान्यपार्श्वात् पण्यादेः |१| प्रेषणं वणिक्रपुत्रादेः । २ । शब्दः कासितादिः । ३ । रूपमुच्चैः स्थित्वा रूपप्रकाशनं ॥४॥ पुद्गलक्षेपो लोष्टादिक्षेपो मित्रादेः प्रयोजनार्थिनः खज्ञापनम् । ५ । आहारदेहसक्कारबंभवावारपोसहो अन्नं । देसे सधे य इमं चरिमे सामाइयं नियमा । ६ । अष्टमीचतुर्दशी पूणिमामावाश्या श्रीतीर्थंकरदेवकल्याणक चतुर्मासिकसाम्व|त्सरिकपर्वदिनेषु आहारशरीरसंस्कार ब्रह्मव्यापारपौषधं ग्राह्यं देशतः सर्वतश्च, चरिमे व्यापारपौषधे सामायिकं नियमाद् भवति, शेषेषु भजना, अस्मिन् व्रतेऽङ्गीकृते श्रावकेण पञ्चातिचारा वर्जनीयाः, ते चामी अप्पडिदुप्पडिलेहिय पमज्जसिज्जाइ वज्जए इत्थं । सम्मं च अणुपालणमहोराईसु ससु ॥ १ ॥ व्याख्या -- अप्रतिले| खितदुः प्रतिलेखित शय्यासंस्तारकता |१| अप्रमार्जितदुः प्रमार्जितशय्यासंस्तारकता |२| अप्रतिलेखितदुःप्रतिले 416 Page #246 -------------------------------------------------------------------------- ________________ चैत्यवन्दन ॥१२०॥ खितोच्चारप्रस्रवणभूमिता । ३ । अप्रमार्जितदुः प्रमार्जितोच्चारप्रस्रवणभूमिता । ४ । इत्यतिचारचतुष्टयं सूचितं, | सम्यगनुपालनम् अहोरात्रादिपौषधं कृत्वा श्वस्तनमाहारं पाचयिष्यामीति चिन्तनम् ॥५॥ अन्नाईणं सुद्धाण कप्प| णिज्जाण देसकालजुयं । दाणं जईणमुचियं गिहीण सिक्खावयं भणियं |१| व्याख्या -अस्मिन् शिक्षावतेऽङ्गी| कृते श्रावकेण पश्चातिचारा वर्जनीयाः, ते चामी-सचित्तनिक्खेवणयं वज्जइ सचित्तपिहाणयं चेव । कालाइक्कमं परववएस मच्छरीयं चेव । १। सच्चित्ते क्षेपणं सच्चित्तोपरिदेयद्रव्यस्य स्थापनं |१| पिधानं फलादिना स्थगनं |२| | कालातिक्रमदानं विहृत्य वलितानां भुञ्जानानां भुक्तवतां वा साधूनां निमन्त्रणं । ३ । परव्यपदेशोऽन्यदीयमिदं मोदकादि यथा साधवो गृह्णन्ति मदीयाभिग्रहश्च न भज्यते, इत्येतदर्थान्येतानि सर्वाणि, मत्सरः, एतेन | द्रमकेणापि दत्तं किमतोऽप्यहं हीन इति मात्सर्याद् दानम् |५| इति श्राद्धव्रतपञ्चकविषये कथापञ्चकम्, अन्यव्रतविषयातिचारविचारश्च संपूर्णः ॥ अथ बहुसावद्य वाणिज्यवर्जनमाह बहुसावज्जं वाणिज्जमवि सया तिबलोहओ न करे । बहुलोयगरहणिजं विजाइकम्मं पि वज्जेइ ॥२२॥ व्याख्या - 'बहु सावज्जमिति' अवद्यं पापं तेन सह यद्वर्त्तते तत् सावधं सपापं बहु प्रभूतं वाणिज्यं, व्यवसायम्' अपिः समुच्चये न केवलं प्राणिवधादिकं तद्धेतुकं बहुसावद्यं वाणिज्यमपि न करोमि, कस्मात् तीव्रलोभतो महालोभाभिभूतत्वेन, यतो लोभ एव सर्वानर्थव्यापारहेतुः, तच्च बहुसावद्यं वाणिज्यं पंचदशकर्मादा कुलकवृत्तिः ॥१२०॥ Page #247 -------------------------------------------------------------------------- ________________ नरूपं कर्म आदीयते निबध्यत एभिर्जीवैरिति कृत्वा, अतः कांदानखरूपमुच्यते, तत्र प्रथममङ्गारकर्म काष्ठानि दग्ध्वा अङ्गरान् कृत्वा आजीविकाकृते विक्रीणाति तेन जीवतीति तदङ्गारकर्म, तत्र अङ्गारकरणे षड्जीवनिकायविघातसंभवात् तद्बर्जनम् , एवमन्यानि वह्निसाध्यारम्भाणि महासावद्यानि भ्राष्ट्रकरणेष्टिकापाककुम्भकारवठठाकारत्वलोहकारत्ववर्णकारत्वत्रपुताम्रभाजनादिकरणविक्रयार्थवस्त्रप्रक्षालनोत्कालनरङ्गानादीनि कर्माणि आजीविकाहेतोवर्जनीयानि ॥१॥ तथा वनकर्म, अत्र वनशब्देन वृक्षादय उच्यन्ते, तेषां छित्त्वा छित्त्वा मूलस्कन्दशाखाप्रशाखात्वपत्रपल्लवपुष्पफलादीनि गृहीत्वा मूल्येन लाभार्थ विक्रीणाति तेन जीवति तदनकर्म वनजीवकोच्यते, सा च बहुजीवविनाशहेतुत्वेन बहुपापहेतुकत्वात् कुष्ठादिनानारोगदारिद्यादिदुःखहेतुकत्वाच परिहरणीया ॥२॥ तथा शकटकर्म, शकटानां तदङ्गानां चक्रधुरायुगशवलेषा उपलतुल्यायतकादीनां लाभार्थं यद् घटनं, तथा मार्गे लाभार्थं खेटनं, तथा तेषां लाभार्थं विक्रया, सा शकटजीविका, सा च गवादीनां बधबन्धनादिदोषसंभवत्वेन चक्राधोमाग्र्गे च नानात्रसजीवविनाशसंभवेन चानल्पपापहेतुकत्वात् वर्जनीया, ॥३॥ तथा भाटककर्म, शकटबलीवईकरभमहिषतुरगाश्वतरखरग्रन्थिधारकवाहित्रकवाहिकैः कृत्वा मूल्येन भाटकं गृहीत्वा खजीविकाकृते भारं वाहयन्ति, परेषां भाण्डानि | देशान्तरेषु भाटकेन प्रापयन्ति, अन्येषां च वाहनार्थ भाटकेन समर्पयन्ति यत् सा भाटकजीविका, एषा च नानाजीवविनाशहेतुकत्वेन बहुपापहेतुकत्वानिन्धकर्मत्वाच वर्जनीया, ॥४॥तथा स्फोटिकाकर्म, सर कूप Page #248 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-वापीखननमृत्तिकादिखननपाषाणस्फोटनक्षेत्रखटनादिकर्म, पृथिव्याकरलवणाकरत्रपुताम्रसीसकरूप्यसुवर्णा-कुलकवृत्तिः कररत्नाकरसैन्धवसौवचलाद्याकराणां खननं च, कुद्दालघनटंकिकाहलादिना यदाजीवनार्थ विधीयते साल ॥१२॥ I स्फोटकजीविका, एषा च पृथिवीकायिकादिजीवविनाशसाधनत्वेन बहुपापहेतुकत्वात् निन्द्यव्यापारत्वाच । श्रीजिनधर्मकर्पूरवासितमानसैविकैवर्जनीया ॥५॥ तथा दन्तवाणिज्यं, गजादिदन्तानां चमरीकेशानां गोमहिषीचित्रकच्छागकरभगोधाप्रमुखनानाजीवचर्मणां गड्डुरीकरभच्छागादिजीवरोम्णां शंखाक्षवराटकशिप्रामौक्तिकादिजीवास्थीनां सर्पादिदंष्ट्राणां महिष्यादिशृंगाणां केषांचित् पशूनां नखानाम् इत्येवमादीनां त्रसाङ्गानां, पुलिन्दादीनां करस्थाने मम दन्तादयो दातव्या एवमुक्त्वा पूर्वमेव मूल्यं सत्यंकारं वा दत्त्वा यत् तत्पाश्र्वादानयनं तत्सर्व दन्तवाणिज्यमुच्यते, एतच्च जिनाज्ञाधारिणां व्यवहारिणां निषिद्धं, यतः पुलिन्दादयो धर्माधर्ममार्गबाह्या मूल्यानायितदन्तादिकृते गजादिजीवान् मारयन्ति, उपद्रवन्ति च, इति तद्वधादिना बहुपातकहेतुकमिदं पूर्वानीतदन्तादीन् गृह्णतां तु न तथा दोष इति तत्र कामचारः ॥ ६॥ तथा लाक्षावाणिज्यं, लाक्षाधातुकीसत्कूडमनःशिलानीलीकुसुम्भादयो वस्तुविशेषा बहुजीवसंसक्ता मूल्यं ल्य ॥१२१॥ दत्त्वाऽऽनाय्य गृह्यन्ते लाभार्थ विक्रीयन्ते यत् तल्लाक्षावाणिज्यं, तदपि सुश्रावकेण वर्जनीयं, कृम्यादिजीवोत्पादसंभवेन बहुपापहेतुत्वात् ॥७॥ रसवाणिज्यं द्विधा विरुद्धमविरुद्धं च, तत्र विरुद्धं विरुद्धमद्यमांसमधुनवनीतवशादिरसविषयम् , अविरुद्धं चाविरुद्धघृतगुडतैलादिरसविषयं, तच्च द्विविधमपि बहुजीवघातकत्वेन 43%85%E5% सिविकवर्जनीया ॥१॥ गाडरीकरभच्छागादिजाना नखानाम् । 95-05 Page #249 -------------------------------------------------------------------------- ________________ प्रभूतपातकहेतुत्वाद् वर्जनीयम् ॥८॥ तथा केशवाणिज्यं, हस्तिहस्तिनीतुरगतुरगीकरभकरभीमहिषमहिषीछागछागीखरखरीगोबलीव इवेसरिप्रमुखपशूनां शुककुकुटशारिकाहंस पारावतमयूरादिपक्षिणां कर्मकरकर्मकरीणां मनुष्याणां मूल्येन गृहीत्वाऽन्यत्र देशेऽन्यपार्श्वे वा लाभार्थं यद् विक्रयस्तत् केशवाणिज्यम् , एतदपि परवशत्वमिन्द्यकर्मवादिना वर्जनीयम् ॥९॥ विषवाणिज्यं, विषं स्थावरजङ्गमरूपम् , अत्र विषशब्देन शस्त्रहरितालमनः शिलाकुष्टहलयन्त्रादिजीवविघातकवस्तु गृह्यते तद्वाणिज्यं विषवाणिज्यमुच्यते, एतदपि भूरिजन्तुसंहारकारकत्वेन प्रचुरपापहेतुत्वात् परिहरणीयम् ॥ १०॥ तथा यन्त्रपीलनम् इक्षुजलतिलसर्षपैरण्डगोधूमादीनां निजगृहे लाभार्थ यत्रादिना पीलनं परपाद्वा लाभार्थ पीलनं तत् यन्त्रपीलनं तदपि च प्रचुरपापहेतुत्वेन निन्द्यकर्मत्वाच वर्जनीयम् ॥११॥ तथा निलाछनं नासावेधनांकनवर्द्धिकाकरणगोकरणकम्बलच्छेदोष्ट्रपृष्टगालनादिकं पृष्टिशोभादिहेतुकं यत् क्रियते तन्निाछनम्, एतच्च जीवकदर्थनविनाशादिसाधनत्वेन महापापहेतुत्वात् नरकादिकुगतिकारणत्वाच्च वर्जनीयम् ॥ १२॥ तथा दवदानं, व्यसनाद् गवादीनां चरणेन पुण्यार्थ वा नवहरितादिवर्द्धननिमित्तं ज्येष्ठादिमासेषु जीर्णतृणदहनार्थ यत् तत्राग्निर्दीयते, तद् दवदानं निगद्यते, यथोत्तरापथे क्षेत्रे नवतॄणार्थमिति, एतच्च मृगशृगालशशकशूकरमूषकसर्पकीटककीटिकापक्षिसिंहव्याघ्रव्यालादिकानेकजीवविघातकत्वेन पुष्कलकल्मषहेतुत्वाद् वर्जनीयम् ॥१३॥ तथा सरःशोषकर्म, शालिगोधूमयवचनकसर्षपकूरीप्रमुखाशेषधान्यविशेषसेचनार्थम्, आरामादिसेकार्थ वा अरघटादियन्त्राणां वाहनं नदीइदसरःप्रवाहचालनेन Page #250 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-तच्छोषणं यत् तत् सर शोषकर्मोच्यते, एतदपि प्रभूतप्राणिप्राणप्रहाणकारणत्वेनानल्पपापहेतुत्वान्न कारयि नापापहतुत्वान्न काराय-काकुलकति: तव्यं न च कर्त्तव्यम् ॥ १४॥ तथाऽसतीपोषणं शुकसारिकामूषकमार्जारमयूरमण्डलकुक्कुटपारावतादिजीवानां ॥१२२॥ पोषणं यत् तदसतीपोषणं, तथा दासीतुरगीकरभीप्रभृतीनां स्त्रियां वित्तार्थ यत् पोषणं तदसतीपोषणमुच्यते, एषामधाम्मिकाणां पोषणमल्पकार्यार्थ कृतमपि बहुपापनिदानत्वेन निषिद्धम् ॥१५॥ बहुसावद्यवाणिज्यनिषेधं कथयता सूत्रकृता निरवद्यानां कर्पाससूत्रवस्त्रमञ्जिष्टापूगीफललवंगैलातजतमालपत्रकर्पूरप्रभृतीनां वस्तूनां व्यवहारानिषेधः सूचितः, इति विवेकवता श्रावकेण जीवनार्थमपि प्रतिषिद्धवस्तुव्यवसायं परिहत्याप्रतिषिद्धवस्तुव्यवसायो विधेय इति, तथा 'बहुलोयगरहणिजमिति' बहुलोकेन गहणीयं, निन्दनीयं विजातीनां कुविन्दकान्दविकचित्रकरचर्मकरकुम्भकारसीवनकरादीनां नीचजातीनां कर्म वयनादिकं तदपि विवेकी वर्जयति ॥२२॥ अधुना खरकर्मपरिहारमाह 'रायनिओगाइगयमित्यादि' राज्ञो देशाधिपस्य ग्रामाधिपस्य वा नियोगो व्यापारोऽमात्यसैल्लहस्तभाण्डागारिकमाण्डविकत्वादिकः, स आदिर्येषां पारिग्रहिकप्रतिसारकषणलेखकतलवरकारक्षकगुप्तिरक्षकादीनां पदानां तानि राजनियोगादीनि तेषु गतं तद्विषयं कर्म खरकर्म तदपि यथाशक्ति परिहरामि, यतः कदाचिद् राज्ञा बलात्कारेण तदपि काङ्गीकार्यते इति यथाशक्ति २२॥ तवर्जनं, लौकिकशास्त्रेष्वपि राजनियोगो बहुलैहिकानर्थसार्थहेतुभूतः प्रतिषिद्धोऽस्ति, तथाहि-हस्ते मुद्रा मुखे मुद्रा मुद्रा स्यात् पादयोर्द्वयोः। ततः पश्चाद् गृहे मुद्रा व्यापारः पाश्चमौद्रिकः ॥१॥ वरं वनं वरं भक्ष्यं * Page #251 -------------------------------------------------------------------------- ________________ वरं भारोपजीवनम् । वरं व्याधिर्मनुष्याणां माधिकारेषु संपदः॥२॥ अधिकाधयोऽधिकाराः कारा एवाग्रतः प्रवर्तन्ते । प्रथमं नवं धनं ततो बन्धनं नृपनियोगयुषाम् ॥३॥ धणवन्तो वाणिजेण थोवधणो करिसणेण निवहइ । सेवावित्ती पुणो तुइ सयलम्मि बवसाए ॥४॥ भूपधूपल्लवप्रान्तनिरालम्बविलम्बिनीम् । स्थेयसी बत मन्यन्ते सेवकाः खामपि श्रियम् ॥५॥ सेवाश्ववृत्तिरित्युक्तं न तत् सम्यगुदाहृतम् । खच्छन्दललितः क श्वा पराधीनः क सेवकः॥६॥ तथा, प्राप्ताधिकारः प्रभुप्रसादलवमपि प्राप्य प्रायः सान्निपातिक इव | स्नेहलमित्रादेरपि न हितोपदेशादि शृणोति, नच खयमङ्गोपाङ्गानि धारयति, किन्तु परेषां कण्ठकन्दले बाहुं निक्षिप्य पादानितस्ततो निक्षिपन् मार्गे प्रचलति, चिरपरिचितानपि परैः प्रभूतकथितानुपलक्षयति, भक्तस्थापि उपरि विमुखतां करोति, तथा च कश्चिन्नियोगी पूर्व भ्रष्टनियोगः फाल्गुनयोगापेतपत्रकारस्कर इव विच्छायमापन्न: सन् तन्मिन्त्रेण चैत्रेण च निखिलवनस्पतिरिव पत्रपल्लवपुष्पफलादिप्ररोहेण च नानाप्रधाना* सनशयनभोजनवसनविभूषणभक्तिवचनादिसन्मानदानेन सच्छायीकृतः, ततश्च कियत्यपि काले व्यति-17 क्रान्ते भूयोऽपि भूपतिः प्रसन्नमनस्कः सन् महामात्रमुद्राप्रदानेन तस्मै महामात्यपदं प्रदत्तवान्, ततश्च तत् | तादृशविशदराजप्रसादमदिराखादविलुप्तचैतन्यः सन् स पूर्वपरिचितस्य परमोपकारिणो महालेहलस्य तस्य मित्रस्य न वाक्यं शृणोति, न बहु मानं ददाति, अन्यमपि चिरपरिचितं परैः प्रचुरं प्रतिपादितं वेत्ति भक्तानामपि वैमुख्यमातनोति, प्रचलन्न पादौ भूमिकायां मुश्चति, ततः कुतश्चित् कारणादू धरणीधवो रुष्टः सन् EARCARRRRRRRIA Page #252 -------------------------------------------------------------------------- ________________ चैत्यवन्दन॥१२३॥ तस्य न वाक्यं शृणोति सर्वस्वदण्डं करोति, नियोगवियोगं च चकार ततस्तं भ्रष्टनियोगं गृहागतं सम्यग् निशम्य | संपूर्णतन्दुला पूर्णविशालस्थालसंस्थापितनारिकेलफलप्रधानवस्त्रवेषः प्रकटितप्रमोदोले खस्तस्य सखा तद्धाम जगाम ततोऽन्वयुक्त नियोगी मित्र । किमिदमसामयिकं पुरा हि मयि सर्वाधिकारत्वपदमासेदुषि सकलजगच्चमत्कारकारिकमलाविलासयुषि मद्गृहेऽपि भवान्नाजगाम, सांप्रतं तु क्षितिपतिगृहीतसारे भ्रष्टाधिकारे | मयि गृहीताक्षतपात्रः प्रमोदोल्लसितगात्रः समागतस्त्वम्, इतरो व्याजहार, मित्र ? नेदमसामयिकं यतो 'धत्सेऽङ्गानि न धार्यसे च बहुभिर्वेत्सि स्वयं संगतान् पद्भ्यां यासि वचः शृणोषि शिरसः शक्तोऽसि संचालने । भक्तस्योपरि नास्ति ते विमुखता नात्यर्थमूष्माप्यहो आनन्दोऽद्य नियोगरोगरहितो दृष्टोऽसि जीवन् पुनः ॥ १ ॥ तदेवमिह लोकेऽपि विवेकविलोचनविलोपपटलं महापयशस्तिमिरविस्तारणकालकादम्बिनीपटलं परलोके च दुरन्तदुःखन रकावटकोटरपातकारणं खरकर्म्मकरणमुत्सर्गतो बुद्धिमान् वर्जयति, अपवादतस्तु जिनशासनप्रभावनाङ्गतीर्थयात्राप्रतिष्ठादेवगृह निर्माणरथयात्राध्वजारोपत्रता रोपादिनानामहोत्सवनिर्विघ्नसिद्धिहेतुत्वेन दीनदुःखितानाथ पङ्गुकुणिप्राणिकारुण्याधारकारित्वेन जिनशासनदुष्टापकारित्वेन शिष्टाधारोपकारित्वेन मारणान्तिकव्यसनव्यथितश्रावकाद्युत्तमसत्त्वोद्धार हेतुत्वेन च इह लोकपरलोकहितावहं । महामात्यादिपदरूपं खरकर्म्माद्यपि अनिषिद्धमेव, तथाचोक्तं सुहृदामुपकारणाद् द्विषतां चाप्यपकारकारणात् । नृपसंश्रय इष्यते बुद्धैर्जठरं को न बिभर्त्ति केवलम् ॥ १ ॥ अथ साधम्मिक वात्सल्यं सार्द्धगाथयाह ॥१२३॥ कुलकवृत्तिः Page #253 -------------------------------------------------------------------------- ________________ पवयणसाहम्मीणमित्यादि, प्रवचनेन जिनप्रणीतचरणेन साधम्मिकाणां समानधर्मयुक्तानां करोमि विदधामि, वात्सल्यं वत्सलत्वं कथमविकल्पम् अयं मे खजनोऽयं मे मित्रमयं सुगुणोऽयं निर्गुण इत्यादिविकल्परहितं, यदुक्तम्-इदं दर्शनसर्वखमिदं दर्शनजीवितम् । प्रधानं दर्शनस्येदं वात्सल्यं समधर्मसु ॥१॥ वात्सल्यादस्थिरा धर्मे स्थिरतां यान्ति जन्तवः । पूर्वमेव स्थिरा ये तु स्युस्ते स्थिरतमाः पुनः॥२॥ तथा खपुत्रमित्रकलत्रादिबन्धुभ्योऽपि साधर्मिकेषु लेहबन्धः प्रचुरतरो विधेयः, यत उक्तं-साहम्मियाओ अहिओ वंधुसु याईसु जाण अणुराओ । तेसिं न हु सम्मत्तं विन्नेयं समयनीईए ॥१॥ तथा ये भिन्नभिन्नजातयो भिन्नदेशसंभूतयो भवन्ति, ते जिनधर्मप्रपन्नाः परस्परं बान्धवा एव तथा चोक्तम्-अन्नन्नदेसजाया अन्नन्नदेसवड्डियसरीरा । जिणसासणं |पवन्ना सन्चे ते बंधवा भणिया ॥१॥ तम्हा सबपयत्तेण जो नमुक्कारधारओ । सावगो सो वि दहश्वो जहा| परमवंधवो ॥२॥ एषां साधम्मिकाणां पृथग् देशसंस्थितानां ज्ञानादिगुणसंस्थितानां वात्सल्यं पट्टांशुकचीनांशुकादिप्रभूतभेदभिन्नप्रधानाच्छादनैः सखण्डखाद्यमोदकादिपक्वान्नकलमशालिदालिप्रमुखप्राज्यभोज्यैः द्राक्षाशर्करादिभूरिभङ्गकपानकैश्च द्राक्षावर्षोपलरम्भाफलसहकारादिमखादिमैश्च कर्पूरकस्तूरिकादिवासवासितखदिरसारवटिकामिश्रताम्बूलपूगीफलैलालवंगप्रभृतिचङ्गखादिमैश्च कर्त्तव्यं, तथा चोक्तम्-अन्नन्नदेसाण समागयाणं अन्नन्नजाईसु समुम्भवाणं । साहम्मियाणं गुणसंढियाणं तित्थंकारणं वयणे ठियाणं ॥१॥ वच्छेहिं Page #254 -------------------------------------------------------------------------- ________________ चैत्यवन्दन सयणासणखाइमेहि पत्तेहिं पुप्फेहिं य पुप्फलेहिं । साहम्मियाणं करणीयमेयं कयं तु जम्हा भरहाहिवेण ॥२॥ कलकतिः । 1 इति गाथार्थः ॥२३॥ सामान्येन साधमिके वात्सल्यविधेयतामभिधाय भूयोऽपि तद्विषयविधेयविशेषमाह॥१२४॥ तेहिं समं न विरोहं करेमि न य धरणगाइ कलहं पि।सीयन्तेसु न तेसिं सइ विरिए भोयणं काहं ॥२४॥ - व्याख्या-तैः साधम्मिकैर्जिनधर्ममर्मवेदिभिः 'सम' सार्द्ध 'न विरोध' न वैरभावं करोमि, तथा न च है नैव धरणकादि, धरणकर्मादिर्यस्य गुप्तिनिक्षेपणनिगडपरिधापनसेधनबन्धनलंघनकारणपानीयनिवारणराजपार्श्वधारणमारणदण्डनमोषणशूलिकाधिरोपणादेः, तद्धरणकादिकमपि साधम्मिकैः सह नैव करोमि, तथा कलहमपि लभ्यद्रव्यदेशग्रामसीमाक्षेत्रगृहादेवालयपोषधालयमित्रवान्धवादिकार्यमिषेण स्वभावतो वा साधम्मिकैः सह न करोमि, यदुक्तं श्रीअभयदेवमूरिभिर्नवाङ्गवृत्तिविधानविस्थापितागण्यपुण्यभूरिभिः श्रीसाध|सिमकवात्सल्यकुलके "विवायं कलहं चेव सवहा परिवजह । साहम्मिएहिं सद्धिं तु जओ सुत्ते वियाहियं ॥१॥ |जो किर पहरइ साहम्मियम्मि कोवेण दंसणमणम्मि।आसायणं च जो कुणइ निकिवो लोगवंधूर्ण ॥२॥ आणाए वदृतं जो उवदूहिज मोहदोसेण । तित्थयरस्स सुयस्स य संघस्स य पचणीओ सो॥३॥” तथा साधम्मि- ॥१२४॥ कंषु दुष्कालतो दारिद्रतो वा म्लेच्छचरटादिवन्दिपातादिना वा सीदत्सु सत्सु 'वीर्ये राजबलद्रव्यबलादि सामये सति "भोजनं न काहं न कारिष्यामि, तथा चोक्तं सो अत्थो तं च सामच्छं तं विनाणमणुत्तमं । Page #255 -------------------------------------------------------------------------- ________________ साहम्मियाण कजम्मि जं वच्चंति सुसावया ॥१॥ ये च पूर्वभवोपार्जितसुकृताविष्कृतानाहार्यवीर्यवर्याः परोपकारकर्याः खकीयसामर्थ्ये सति महाशंकटगतसाधम्मिकोद्वारं प्रकुर्वन्ति, ते रामचन्द्र इव कीर्तिपुण्यभाजो भवन्ति, इति तदुपकारसंसूचकं वज्रायुधकथानकं लिख्यते तथाहि-आसीत् पस्त्योपरिन्यस्तकल्याण-| कलशांशुभिः। संबीतपीतवस्त्रेव श्रीमदुजयिनी पुरी ॥१॥ परस्परस्पर्द्धमाना इवाधिक्या महर्द्धयः । श्रीमद्वामखवर्द्धन्त यत्रानूपे लता इव ॥२॥ बभार वसुधाधारः सिंहोदरनरेश्वरः । तत्र राज्यं बाहुवीर्यनि-- कृतशात्रवः॥३॥ जितावकाशी तस्यासीद् वशी दशपुरेश्वरः । वज्रको विशीर्णारिमण्डलो मण्डलेश्वरः ॥४॥ विवखानिव तेजखी मोददः कौमुदीन्दुवत् । गम्भीरोऽम्भोधिवद् वीरः सुरशैल इवात्र यः ॥५॥ अयाचितं याचकेभ्यो ददद् दानं मनीषितम् । यो वदन्यवरो व्यर्थी विदधे याचकध्वनिम् ॥ ६॥ त्रिभिर्विशे षकम् ॥ सर्वोत्तमगुणश्रेणिरत्नरत्नाकरोपमे । तस्मिन्निन्दौ शश इव पापर्द्धिः स्म कलंकति ॥ ७॥ क्षेत्रियव्या-5 ल धिवद् व्याधव्यसनं सोऽप्रतिक्रियाम् । कलयन्नन्यदायासीद् वनं विन्यस्तवागुराम् ॥ ८॥ वराकी तत्र , वित्रस्तां गर्भिणी हरिणीं नृपः। आकर्णाकृष्टवाणेन विव्याध व्याधकर्मवित् ॥ ९॥ शरप्रहारदुर्वारवेदनातमृगस्त्रियाः। तुन्दिगर्भात् ततो गर्भो निःपपात रसातले ॥१०॥ इतस्ततः स्फुरन्तं तं पतितं हरिणार्भकम् । | निभाल्य भूपतिस्तीवानुतापोऽदो विचिन्तयत् ॥ ११ ॥ धिम् मे दोर्दण्डचण्डत्वं धिग मे धानुष्ककौशलम् । धिर मे पौरुषं हा यद् व्यापार्षीदत्र कर्मणि ॥ १२॥ दुष्टदण्डः शिष्टरक्षासको नीतिमहीभृताम् । निमंतुर्ज-3 Page #256 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- लन्तुहिंस्रेण मया त्यक्तासि पाप्मिना ॥ १३ ॥ भ्रूणहत्याभवानल्पपापकिपाकजं फलम् । अचिरात् सुचिरं घोरे कुलकवृत्तिः |भोक्ष्ये नरककोटरे॥ १४ ॥ त्रिभिर्विशेषकम् ॥ इति चेतसि संचिन्त्य स पापचिपरामुखः । इतस्ततो भ्रमन् ।१२५॥ वन्यां कापि शैलशिलातले ॥ १५॥ नासावंशोपनीताक्षितारकं तारकं नृणाम् । प्रीतिवर्द्धननामानं मुनिमै क्षिष्ट भूमिपः॥१६॥ युग्मम् । ननाम तमथोद्दामधर्मधामधराधिपः । धर्मलाभो शिषं सोऽपि मुक्तध्यानविधिर्ददौ ॥ १७ ॥ ततो दन्तांशुगोशीर्षचन्दनैश्चरणौ मुनेः । चर्चन्निव वचोऽवोचदचलेशो मुनि प्रति ॥१८॥ दुःसहं सहमानस्य क्षुत्पिपासादिकं तव । विपत् पुढे निकुओऽस्मिन्नात्मनीनं मुनेः किमु ॥ १९॥ ऋषिर्वभाषे शुश्रूषा महाभागः? तवास्ति चेत् । सावधानमनास्तर्हि मामकीनं वचः शृणु ॥ २०॥ बाह्याभ्यन्तरभेदाभ्यां द्वेधात्मा तत्त्ववेदिभिः । न्यवेदि नश्वरस्तत्र बाह्यो नित्यस्तथान्तरः ॥ २१ ॥ ततश्चिकीर्षुभिः पथ्यं सर्वथा परमात्मनः । चतुर्याममये धर्मे धम्मिभिर्धियते मनः ॥ २२॥ सर्वस्यापि च धर्मस्य समास्कन्दति मूलताम् ।। | अहिंसैव विना तां हि धर्मदुर्न प्ररोहति ॥ २३ ॥ सास्ति कापि न पापर्द्धिव्यसनान्धदृशां विशाम् । ज्वलज्ज्वालानले वल्ली किं कदापि प्ररोहति ॥ २४॥ परमांसरमावादमांसलैस्त्वादृशैरहो। राजन्यजन्यतो गर्यो मृगान्| हत्त्वा तृणाशिनः॥२५॥ अर्जितं यद्यशो युद्धे जित्वा वीरमतल्लिकाम् । त्वादशैर्हार्यते हा तद् नर्निश्यन्मृगार्भ-||||१२५॥ कान् ॥ २६ ॥ ऐहिकामुष्मिकाशेषभद्रविद्राविणीमतः । विमुच्य मृगयां भद्र ? परमात्महितं तनु ॥२७॥ एणभृणविघाताघाच्छुडिमें भाचिनी कथम् । राज्ञेन्युक्ते मुनिः स्माह शुद्धधर्मप्रसाधनात् ॥ २८ ॥ किश्च, काश्चनका CAM ERA Page #257 -------------------------------------------------------------------------- ________________ चाहिहारादिसममानसः । जिनः सार्वजनीनश्च सर्वज्ञो देवता मतः ।। २० । जितपञ्चन्द्रियः पञ्चव्रती गुमल्दीरितः । दयामयोऽग्रिमो धर्मप्रज्ञप्तः सर्ववेदिभिः ॥३०॥ इति रत्नत्रयी यस्य दीप्यते हृदयौकसि । तस्यैनांसि तमांसीव नश्यन्ति नहि संशयः ॥ ३१॥ एवं निशम्य शमिनी देशनां क्षितिवासवः। अगृहीद गृहिणां धर्म शुद्धसम्यक्त्वसंयुतम् ॥ ३२॥ तथैष प्रतिशुश्राव मुक्त्वाईन्तं तथा मुनीन् । शिरो नमति मे नान्यं वियते | यदि ग्खण्डिशः॥३३॥ भक्तयाथ मुनिमानम्य नन्ददानन्दमेदुरः। समार सपरिवार: स्वपुरे मण्डलेश्वरः॥३४॥ ततः सर्वातिसारेण यशस्वीव निजं यशः । रक्षितुं सम्यक सम्यक्त्वं नृपश्चित्ते व्यचिन्तयत् ॥ ३५॥ घश्चनासाघोलनान्यायात मोहापोहादहं किल । दुर्भदग्रन्थिभेदेन सम्यगदर्शनमासदम् ॥ ३६॥ जिनावनामप्रतं मे |शिरो नमयितुं ततः। सिंहोदरेऽपि न स्थाने जाग्रतोऽङ्गीकृतवते ॥३७॥ तदृमिकायां निर्माप्य श्रीसुव्रतजगदगुरोः। नृत्नरत्नमयीं मृत्ति सुदृशो रक्षिकामिव ।। ३८ ॥ नमन् दक्षिणपाणिस्थां सेवाकालेऽहमन्वहम् । नावन्तीशं कोपयिष्ये न भक्ष्यामि निजं व्रतम् ॥ ३९ ॥ युग्मम् ॥ इति संचिन्त्य सच्छद्म नमन सिंहोदरं नृपः । | निश्छद्मश्राद्धधर्मासी वासरानत्यवायत् ॥४०॥ सिंहोदरोऽथ शुश्राव वज्रकपणन तिच्छलम् । खलात् स कोऽपि नास्त्यत्र द्वित्रा यस्य न दुर्जनाः॥४१॥ देध्मीयते स्म कोपेन दन्तैर्दन्तच्छदं दशन् । ततो यदनमे भृत्ये| कोपिन: स्वामिनः खलु ॥४२॥ इतश्च पुरुषं कंचित् पुरो दशपुरेशितुः। प्रणम्योर्ध्वस्थितं किंचिद् विवक्षुः स्फुरिताधरः ।। ४३ ॥ अप्राक्षीत् क्षितिनाथस्तं भद्र ? भद्रं समस्ति ते। कस्त्वं कत्यः कस्य सुतः किमागमन Page #258 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- कारणम् ॥ ४४ ॥ प्रवृत्तः सोऽथ वृत्तान्तं गदितुं स्वीयमादितः । भूदेव्याः कुण्डलमिवाभवत् कुण्डपुरं पुरम् कुलकवृत्तिः ॥४५॥ समुद्रनामधेयोऽभूत् समुद्र इव संपदाम् । तत्र सार्थपतिस्तस्य यमुनाजनि गहिनी ॥४६॥ क्रमक॥१२६॥ मेण जज्ञेऽहं विद्वदङ्गस्तदङ्गजः । क्लुप्तकृत्स्नकलाभ्यासः पुण्यं तारुण्यमासदम् ॥ ४७॥ धनार्जनाय भाण्डानिलात्वावंतीमगामहम् । अयमेव कुलाचारो वणिजां यौवनागमे ॥४८॥ तत्र लावण्यललितामुर्वशीमिव भूगताम् । नाम्नाऽनङ्गलतां वेश्यामपश्यं हरिणीदृशाम् ॥४९॥ तां वीक्ष्य पुष्पकोदण्डकाण्डखंडितधीरहम् । स्वायत्ता तां धनैश्चक्रे धनग्राह्या हि ताः खलु ॥५०॥ ततो वेश्यावशेनाशु मयाखादि निजं वसु । वेश्याव्यसनिनः पुंसः श्रियां स्थैर्य कुतोऽथवा ॥५१॥ सिंहोदराग्रमहिषीश्रीधराकुण्डलोपमे । मत्सकाशादयाचिष्ट कुण्डले| गणिकान्यदा ॥५२॥ तत्र ताडंकघटनायोग्यद्रव्यविवर्जितः । रागवागुरया गाढं नियन्त्रितमनोमृगः ॥५३॥ श्रीधराकुण्डले हा खात्रेणागां नृपालयम् । कार्याकार्ये न रागान्धो जन्तुर्जानाति जातुचित् ॥५४॥ युग्मम् ॥ तत्राश्रीषमहं राज्ञोरलक्ष्यो जल्पितं मिथः । राज्यूचे कान्त ? किं तेऽद्य निद्रा नायाति योगिवत् ॥५५॥ शशंस क्षिनिपः कान्ते? तावन्निद्रा कथं मम । प्रणामविमुग्यो यावद् वज्रकर्णोऽपि किंकरः ॥५६॥ स्वहस्त मुद्रिकाङ्कस्थाहद्विम्बप्रणतो रतः। सेवाक्षणे स मायावी ज्योत्कारयति मां नहि ॥ ५७ ॥ प्रातः समित्रबन्धुं तं , ॥१२६॥ कुविनाश्यानात्मवेदिनम् ।। आधास्ये श्राद्धदेवस्य श्रद्धापूर्तिमहं प्रिये ॥५८॥ इत्याकर्ण्य मयाध्यायि धन्यः श्रीवज्रकर्णराट् । यस्योपासकधर्मेऽस्ति दृढता मनसीदृशी ॥ ५९॥ पुरुषापसदस्तोमसार्वभौमस्त्वहं भुवि । Page #259 -------------------------------------------------------------------------- ________________ चौर्यादिकमनिर्मापि सुश्रावकसुतोऽपि यः ॥ ६० ॥ साधम्भिकस्य तस्याद्य शुद्धिमाधाय वेगतः । पाप्मिनां प्रथमोऽप्यस्मि भवामि शुभभाजनम् ॥६१॥ इत्यालोच्योपकर्तुं त्वामपमृत्य लघुक्रमम् । ततः स्थानादहं राजन्नागमं त्वत्क्रमान्तिकम् ॥३२॥ वज्रकपर्णस्तदाकर्ण्य देशं कृत्वोद्वसं त्वरा । चकार खरं दत्तगोपुरं खात खातिकम् ॥ ६३ ॥ संगृह्येन्धनधान्याज्यतैलग्रावायुधब्रजम् । कृत्वा वप्रं मन्त्रपुस्तमिव यन्त्रविराजितम् ।। ६४॥ ४ स्वयं रोहकसजोऽस्थान्मध्ये दशपुरं नृपः । भूपानामवलानां हि बलमेतद् बलीयसि ॥६५॥ अभिषेणायितुं वेगाहैदयो दशपुरं प्रति । सिंहोदरो भूरिनादं जयभेरीमवीवदत् ॥६६॥ तन्नादमात्रतो मन्त्राहूता इव सुधा भुजः। समे सीमालभूपाद्या मिमिलुर्वसुधाभुजः ॥ ६७ ॥ गुणितास्तुंगमातङ्गा रथकट्याश्च सज्जिताः । क्षिप्रं प्रक्षरिता अश्वाः सायुधाः पत्तयोऽभवन् ॥ ६८॥ सर्वसन्नहनेनैवमचालीदचलापतिः । मध्ये द्यावापृथिव्युच्चैचितन्वानो रजोत्सवम् ॥ ६९॥ कण्ठदभ्यः कटीदभ्योजानुदभ्यःक्रमक्रमात् । अल्पास्ताघाः मृतौ नद्योऽभूवन पीताम्भसो बलैः॥ ७० ॥ एतस्मिन्नभ्यमित्रीणे राजन्यकमकम्पत गजयूथमिवारण्ये मृगनाथोऽभिसर्पति ॥७॥ बलेनावेष्टयत् सिंहोदरो दशपुरं क्रमात् । उन्मुमूलयिषुर्मूलात् करेणेव करी तरुम् ॥ ७२ ॥ सिंहोदरोऽथ प्रति वज्रकपर्णं वाचालचूलामणिमात्मदूतम् । प्रैषीदगात् सोऽपि नरेश्वरास्थां न कापि तेषां हि निवारणास्ति ॥७३॥ गम्भीरधीरध्वनिराबभाषे स वज्रकणं प्रति वाग्मिमुख्यः। राजन्यसौजन्यमतिःपतिर्मे यदादिशत्याशु निशम्यतां तत् ॥ ७४ ॥ छलैकमुद्रां निजपाणिमुद्रां विमुच्य मां मानवतां वतंसम् । नत्वा भजखाखिलमात्मराज्यं Page #260 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- निष्कण्टकं मुञ्च निजाभिमानम् ॥७५ ॥ मत्खङ्गधाराधिकधौतमाद्यन् मदावलेपः क्षितिपालरूपः । पश्चादपि त्वं कुलकवृतिः मम पादपीठे हठेन नूनं लुठितासि किश्च ॥७६॥ न कोशसंपन्न च पत्तिसंपन्न च वाजिसंपन्न च दुर्गसंपत्। तवा॥१२७॥ स्ति काचिजगतीश तेन कुलक्षयं मा कुरु मां प्रकोप्य ॥७॥ इत्यादिदृतोदितमीशिता विशां निशम्य तथ्यार्थवदावदोऽवदत् । भो दूत? यद् भाणयते प्रभुस्तव तन्न्यायमेवास्त्यभिमानिमानिनाम् ॥ ७८ ॥ परं जिनं साधुजनं च हित्वा परं नरं मे नियमोऽस्ति नन्तुम् । अतः कथंकारमुदारवुद्धे नमामि सिंहोदरमादरेण ॥ ७९ ॥ स्वीकृत्यसर्वखमवन्तिनेता मदीयमेतत् मह राज्यलक्ष्म्या।मम प्रणामाग्रहमुउज्झिय मां विषद्वारमरं ददातु ॥८॥गत्वा यथान्यत्र विचित्रभेदमाराधयाम्यस्मि जिनेन्द्रधर्मम्।धर्माय धर्माचरणकधुर्यैः संत्यज्यते राज्यमपीच थकम &॥ ८१ ॥ गन्तान्यथाकारमपि प्रतीतच्छेदः शरीरादिपरिच्छदोऽयम् । अङ्गीकृताभिग्रहपालनाय गच्छन्न कष्टाय विवेकिनां सः॥ ८२॥ एवं च बज्रायुधभृधवेन स्वराज्यदानादिमुदन्तमुक्तम् । तत्पक्षपाती च समेत्य दूतः खखामिशालस्य पुरः शशंस ॥ ८३ ॥ सिंहोदरः सिंह इवाभिमानी मेने न तहतवचः कथंचित् । खसाध्यमंसाधनवद्रकक्षा मनम्खिनो नो गणयन्ति धर्मम ॥८॥ इतश्च यस्यां जिनराइविहाराः स्वमौलिवेल्लद्ध्वज ॥१२७॥ किंकिणीनाम् । काणैमिथः मन्तवार्तयन्न इवावभुः साजनि पूरयोध्याः ॥ ८५॥ दशरथः प्रथमः प्रथितौजसा। पृथुयशाः पृथिवीश इहाभवत् । गुणसुतैर्जगदङ्गनग्वेलिभिर्दिगबलाहृदयानि विनोदयन् ॥ ८६॥ तत्मनुरिक्ष्वाकुहै कुलाब्धिचन्द्रः सीतानुजाभ्यां सह रामचन्द्रः । पितुर्निरोधाद् वनवासमिच्छः संप्रस्थितः प्रापदवन्तिदेशम् ॥ Page #261 -------------------------------------------------------------------------- ________________ ॥ ८७ ॥ शून्यं जडखान्तमिवाध देशं विलोक्य काकुस्यकुलावतंसः । कनिष्ठमाचष्ट बभूव वत्साधुनैव देशो ध्रुवमुद्वसोऽयम् ॥८८॥ स्थाने स्थाने पाकशालीन शालिक्षेत्राण्येतान्यक्षतान्येव येन । संवीक्ष्यन्ते वत्स ! पुंड्रेक्षुवाटा श्रते पान्थखापदाभक्षिता यत् ॥ ८९ ॥ वाप्यः कृपाः सारपद्माकराश्च सर्वे सद्यो व्यावृताम्भः प्रवाहाः । कुप्य| स्तोमाकीर्णधामाभिरामा ग्रामाचेक्ष्यन्ते यतः सर्वतोऽमी ॥ ९० ॥ त्रुट्यद्गात्रा भूरिभाराधिरोपान्नो पर्याप्तावेगतो गन्तुमेते । ग्राम्यैर्मुक्ताः कापि वीथ्यां श्वसन्तो यद् दृश्यन्ते भद्र ? भद्रा वराकाः ॥ ९१ ॥ त्रिभिर्विशेषकम् ॥ कश्चिन्नरो वत्स निरीक्ष्यतां तद्यो देशशून्यत्वनिमित्तमाह । आज्ञात एवं रघुपुंगवेन सौमित्रिरारुह्य तरुं ददर्श ॥ ९२ ॥ अथो दवीयांसमसौ पुमांसमायान्तमालोक्य तमाजुहाव । निन्ये च रामं समया सुबन्धुः किं लंघयेज्येष्ठसहोदराज्ञाम् ॥ ९३ ॥ कृतप्रणामक्रियमध्वनीनं पप्रच्छ भद्रं दशकन्धरारिः । भो वर्द्धमानर्द्धिवितानसिन्धुः किमुद्वसोऽसावजनिष्ट देशः ॥ ९४ ॥ खदन्तपंक्तिद्युतिजातिपुष्पस्त्रजं क्षिपन् राघवकन्धरायाम् । आमूलचूलां कथयांचकार तां किं वदन्तीं पथिकस्तथाशु ॥ ९५ ॥ यथाप बोधिं नृपवज्रकर्णस्तस्मै यथाकुप्यदवन्तिनेता । स वेष्टयामास यथा दशाङ्गपुरं यथाऽभूद् विजनश्च देशः ॥ ९६ ॥ युग्मम् ॥ ऊचे च देवाहमिहैव विश्वरे स्थानान्तरेऽगां सुतरां धनोज्झितः । जीर्णा कुटी तत्र समस्ति मे ततस्तद्योग्यकाष्ठाहरणाय याम्यहम् ॥ ९७ ॥ क्षीणं तु सर्व कुकृतं ममाद्य पचेलिमं कर्म्म शुभं बभूव । यद् देवदेवप्रतिमो भवादृक् सत्पुरुषो दृष्टिपथेऽवतीर्णः ॥ ९८ ॥ तुष्टस्ततो रत्नसुवर्णकृतं श्रीरामचन्द्रः कटिसूत्रमस्मै । विश्राणयामास सतां सुराणामिवाव Page #262 -------------------------------------------------------------------------- ________________ चैत्यवन्दन-लोको विफलो न लोके ॥ ९९ ॥ श्रीवज्रकर्णस्य सधर्मणोऽथ साहाय्यतां वत्सलतां विधित्सुः । रामोऽगम-कुलकवृत्तिः त्तस्य पुरं किमु स्यात् परोपकारे हि सतां विलम्बः॥ १०॥ रघूद्वहस्तत्र शशिप्रभप्रभोश्चैत्यान्तिकेऽस्थात् कृत॥१२८॥ चैत्यवन्दनः । रामाज्ञयाऽऽविश्य पुरं च लक्ष्मणो जगाम वज्रायुधभूपपर्षदि ॥१॥ श्रीवत्सलक्ष्मांकितमद्भुताप्रकृति दोष्मन्तमेतं समवेक्ष्य भूपतिः । दध्यावयं कोऽपि महान पुमानिति व्याख्याति दिव्याकृतिरेव यद्गुणान् ६॥२॥ तं राड् जगौ मे भव भोजनातिथिः सोऽथावदत् पार्थिव? ते पुराद् बहिः । जायायुतो ज्येष्ठसहोदरोशस्ति मे तस्मिन्नभुक्तेऽद्मि कदाप्यहं नहि ॥३॥ सुखादु भूपो लघु भूरिभोजनं सौमित्रिणानाय्यत राघवान्ति-15 कम् । विनापि संसर्गमहो महात्मनां महात्मसु प्रेमरसः प्रसर्पति ॥४॥ संभुज्य रामोऽनुजमेवमाख्यद् वत्सैष वज्रायुधभूधवो नौ । साधम्भिको भोजनढोकनेन कृतोपकारः परमार्हतश्च ॥५॥ तदस्य साहाय्यमजय्यशक्ते ? निर्माहि येनावसरोऽयमस्ति । रामेण रामानुज एवमुक्तः ससार सिंहोदरभूभुगास्ताम् ॥ ६॥ जगाद सान्द्रा|म्बुदनादनादः सिंहोदरं दाशरथिर्विभीकः। समुद्रपर्यन्तसमुद्रनेमि स्वामी नृपस्त्वां भरतोऽनुशास्ति ॥७॥ वेगेन राजस्त्यज वज्रकण जैनागमाकर्णनविद्धकर्णम् । स्थामाभिमानो नहि येन तस्य धर्माभिमानो नवरं समस्ति ॥८॥ किरन्नहंकारमिव द्विजांशुदम्भान्नृपोऽवम् भरतस्य राज्ञः। खानम्रभृत्याननुशासतोऽदः किं दूत ? युक्तं ॥१२८॥ मयि भाणनं भोः॥९॥ दूतोऽवदद भूप? परस्य वाचामचारुचारुत्वविचारणाहः। राजाधिराजस्य रघूद्वहस्य वाचानुसारस्तव नो विचारः॥१०॥ रोषारुणाक्षः क्षितिपस्तमूचे कोऽयं वराको भरतः क्षितीशः । अनात्म AAAAAAACHAR Page #263 -------------------------------------------------------------------------- ________________ | वेदी विदितौजसं मां य एवमाज्ञापयतेऽनभिज्ञः ॥ ११ ॥ ऊचेऽथ सौमित्रिरमित्रजैत्रः सिंहोदरं तर्हि रयान्नरेन्द्र ? | विमुञ्च वज्रायुधभूधवं भो ममाज्ञया नापस्थासि भावी ॥ १२ ॥ तद्वाक्यमाकर्ण्य नृपः प्रकोपकम्पिष्टदन्तच्छदपल्लवोऽलम् । भोः कद्वदं दूतममुं दुराशं स्राग हन्त हन्तेति भटानभाणीत् ॥ १३ ॥ रामानुजः स्माह महीश ? | माधाः पूत्कारमत्रास्ति न वज्रकर्णः । कण्डूलता चेद्भवतोऽस्ति दोष्णोः संनह्यतां तर्हि रणाय तूर्णम् ॥१४॥ वाक्येन तेनातिरुषा दिदीपे हव्येन हव्याश इवावनीशः । वृतः प्रवीरैर्जयकुञ्जरस्थः क्षणाड् डुढौके च महाहवाय ॥ १५ ॥ कृतान्यभूभृच्छ्रवणज्वराणि संग्रामतूर्याणि वराणि रेजुः । केचित् तदीयत्पुलकाः प्रवीरा वितेनिरे के| शरिनादमुच्चैः ||१६|| केचिद् भटा उत्कटलोहकंकटाः खपाणिपद्माकलिता सियष्टिकाः । विरेजिरे संगर संगरास्तडिल्लताञ्चिताः प्रावृषिका इवाम्बुदाः ॥ १७ ॥ केषां भटानां तु करे विरेजुः प्रासाः प्रकाशाः सुतरामुदस्ताः । | प्रेताधिपेनेव जिघत्सुनामी प्रसारिता अग्ररदा इव खे ॥१८॥ धनुष्कटङ्काररवेण तन्वन् बाधिर्यमाजी सुभटस्तु कश्चित् । छत्रं तिदण्डं शरधोरणीभिः सौमित्रमौलौ रचयांचकार ॥ १९ ॥ कश्चित् कुठारं निशिताग्रधारं | लात्वाभ्यमित्रं सुभटोऽभिधावन् । मार्गेऽनुगर्त्तं स्खलितः पतंश्च हतः खशस्त्रेण ययौ यमौकः ॥ २०॥ प्रसर्पि| पांशुस्थगिताक्षियुग्मः कश्चिद् भटो मुद्रपाणिरारात् । अरिभ्रमान्मुद्गरमन्तरिक्षे व्यापारयन्नाप परोपहासम् ॥ | ॥ २१ ॥ कलङ्कशङ्कारहितां चिरार्जितां कीर्त्तिप्रियां मा स्म हरन्ममापरः । इत्याशयात् कश्चिदयुरञ्जसा सैन्यस्य | नासीरपदं प्रपन्नवान् ।। २२ सिंहोदरोधीघर सैन्यमेवं संख्योन्मुखीनं समवेक्ष्य दक्षः । रामानुजः पङ्कजनाल * * * Page #264 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- केल्या दन्तावलालानमथोचखान ॥ २३॥ उत्पाट्य तं स्तम्भमदम्भशक्तिः कुर्वन् मृगारातिनिनादमुच्चैः । स ६ कुलकवृत्तिः |शत्रुसेनामभितो धाव शस्त्रं समस्तं बलशालिनां हि॥२४॥घनाञ्जच्छायमनूनकायमुत्पादितस्तम्भमभीकमुख्यम् । ॥१२९॥ साक्षादिव प्रेतपमापतन्तं तं तर्कयामासुररातिवीराः ॥२५॥ ततश्च कांश्चित् सरथान सुरथ्यान् ससारथीन साग रथिनः प्रथावान् । स्तम्भप्रहारेण दृढप्रहारः संचूरयामास ककुत्स्थवंश्यः॥२६॥ केषांचनानेकपमाश्रितानां द्विषां भुजादण्डबलोन्मदानाम् । मुष्टिप्रहारेण दिवापि ताराः स दर्शयामास यशःप्रकाशः ॥ २७ ॥ आदाय पद्भ्यामुपरि स्वमूर्ध्नश्चक्रभ्रमेण भ्रमयन् रयण। कंचिद् भुजास्फालयितुं द्विपं स पुनः कृपालुः कृपया मुमोच॥२८॥ दोहोषि नो नास्यसिनं छुरारि न मुद्गरा मुद्गरि नो शराशरि । युद्धं विधातुं प्रशशाक कोऽप्यरिः श्रीलक्ष्मणे| नाक्षततेजसा समम् ॥ २९ ॥ धुन्वन् धरित्रीं दृढपादरैरकोऽपि सोऽनेकशरीरवानिव । बलं विजिग्ये द्विषतां जयेन्न किं परः सहस्रानपि कुञ्जरान हरिः ॥ ३०॥ सौमित्रिदोर्दण्डनिपीडितं तत् पलायनं वैरिबलं चकार । तीवानलान्दोलितमत्र किं न दिशो दिशं याति पयोदवृन्दम् ॥ ३१॥ पश्चादपश्यत् स्वमदं निरस्यन् नश्यन्निशम्य ववलं समस्तम् । सर्य विधित्गुः समरं नरेन्द्रः प्रोत्साहयनात्मभटान दृढौके ॥ ३२॥ सवाभिसारेण | रणोन्मुखीनं सिहोदरं प्रेक्ष्य मनुष्यसिंहम । रामानुजोऽष्टापदवन्मनस्वी विनिग्रहीतुं प्रति तं ससार ॥ ३३ ॥ ॥१२९॥ उत्प्लुत्य विन्यस्य च कण्ठपीठ पटी पटिष्ठो जयकुम्भिकुम्भात् । अपातयत् कन्दकलीलया तं चित्रीयमाणो द्विषतां स वीरः ॥ ३४॥ विस्मयाद् दशपुराधिवामिनां पश्यतां दशरथाङ्गसंभवः । दीनहीनवदनं स्ववासमा Page #265 -------------------------------------------------------------------------- ________________ नस्यया वृषमिवाचकर्ष तम् ॥ ३५ ॥ न सादिनो नैव निपादिनो नो पदातयो नो रथिनो न चान्ये । तं नीयमानं विधिनेव तेन स्वं खामिनं त्रातुमलं बभूवुः ॥ ३६ ॥ सौमित्रिणा दाशरथेः समीपं नीतोऽथ सिंहोदरभूमिपस्तम् । प्रणम्य सम्यक् कृतहस्तकोशः संजुः स्फुटं विज्ञापयांबभूव ॥ ३७ ॥ मयागतस्त्वं विदितो न देव ? तत् क्षम्यतां क्षूणमिदं ममैकम् । प्रसादमुद्राविशदां दृशं खां निधेहि मय्यत्परुषो हि सन्तः ॥ ३८ ॥ विधेयधुर्ये मयि सौवभृत्ये विधेयमाज्ञापय रामचन्द्र ? । रामोऽवदत् प्रोज्झ्य विरोधसन्धां सन्धेहि वज्रायुधभूधवेन ॥ ३९ ॥ इतश्च सीतापतिशासनेन वज्रायुधस्तत्र समाजगाम । कृताञ्जलिर्वैनयिकं वितन्वन् मेदखिमोदो निजगाद | रामम् ॥ ४० ॥ खामिन् ? युवामेव युगादिदेववंश्यौ प्रशस्यौ भरतार्द्धराजौ । अतोऽहमन्ये च धराधिनाथाः | स्वमूर्ध्नि ते शासनमुद्रहामः ॥ ४१ ॥ विमुच्य मे खामिनमेनमेवमाज्ञापयेस्त्वं सहते यथाऽयम् । श्रीवीतरागं व्रतिनो विहाय परप्रणामाकरणव्रतं मे ॥ ४२ ॥ सौमित्रिणा रामगिरा विमुक्तः सिंहोदरोऽथ प्रतिपन्थिभावम् । विहाय वज्रायुधभूघवस्य रंगात् परिष्वङ्गविधिं व्यधत्त ॥ ४३ ॥ रघूदहाध्यक्षमवन्तिनेता सहोदरायेव निजार्द्धराज्यम् । तस्मै ददौ तत्र किमप्रदेयं हृत्प्रेम विश्राम्यति यत्र यद्वा ॥ ४४॥ श्रीश्रीधरायाः श्रुतिकुण्डले ते आनाय्य सिंहोदरभूपपार्श्वात् । विश्राणयामास च विद्वदङ्गश्राद्वाय वज्रायुधभूमिपालः ॥ ४५ ॥ इत्युक्तं धरकीर्त्तिको | मलपटीसंवस्त्रिताशागणं तादृगनिस्तुषदर्शनार्चनचणं वज्रायुधं रामवत् । व्यापद्वारिधिमग्नमुद्धरति यः साधम्मिकं शुद्धधीः, कीर्त्ति सोऽत्र परत्र ताविषसुखं श्रेयः सुखं चाक्षुते ॥ ४६ ॥ इति वज्रायुधश्रीरामचन्द्रकथानकं Page #266 -------------------------------------------------------------------------- ________________ चैत्यवन्दन - ॥१३०॥ | संपूर्णम्॥२४॥ अथार्हद् भवनाई परिधा पनि काप्रदानानुचितगीतनृत्य सकाशातनादिपरिहाराय गाथायुगलमाहदम्माउ हीणतरगं जिणभवणे न साडगं दाहामि । अणुचियं नहं गीयं च रासयं आसणाई वि ॥ २५ ॥ निट्टीवणखिवणाई सवं चासायणं न य करेमि । सजिणजिणमंडवं ते कारणसुयणं च मुक्कलयं ॥ २६ ॥ I व्याख्या - द्रम्माद् भीमप्रियवीसलप्रियनामकात् हीनतरकं द्रम्मादल्पमूल्यं लभ्यं शाटकां परिधापनिकां चन्द्रोदयादिकं वा जिनभवने न दास्यामि, तथाऽनुचितं शृंगारायाविर्भावक, 'नृत्यं' नर्त्तनं गीतं गानं रासकं नर्त्तकीभिः सह खेलनकानां लकुटारसप्रदानरूपम्, 'आसनाद्यपि' सिंहासनासनपर्य्यस्तिकासनोच्चैरासनानि, | आदिशब्दात् पादप्रसारणभित्तिस्तम्भाद्यवष्टम्भन जिन भवन पुष्टिदानपूर्विकावस्थानादीनि न ददामि यद्वाग्रेतनगाथास्थनयकरेमीति, सम्बन्धान्न करोमीत्यर्थः, यतोऽनुचितनृत्ये चारुतारुण्यकमलाविलासिवरेण्यबालालावण्यरसप्रसरावितप्रेक्षकस्तोकलोक दोकः स्थविवेकातिरेकारत्न भङ्गी कायास्तत्तादृक्षकटाक्षलक्षतीक्ष्णक्षुरनिक्षेपविद्धविशुद्धध्यान बुद्धिकुरङ्गीकायाः सारशृंगारशृंगारिताङ्गयाः पण्यतन्वङ्गया नर्त्तनरूपे भवति सति प्रायः प्रेक्षकाणां | तदीयकमनीयाङ्गोपाङ्गनिरीक्षणाक्षेप एव स्यात्, न भगवद्नवगायकायावलोकनाभिवन्दनमहनाद्यादरः, इति तन्निषेधः । तथानुचितगीते कामशास्त्र इव कामनीवदनवक्षोजकरचरणसरोजनेत्रपत्रादिवर्णनगर्भे जाग्रदूवै कुलकवृचिः ॥१३०॥ Page #267 -------------------------------------------------------------------------- ________________ हैराग्यभडिन्द्रमभञ्जनप्रभञ्जन सगर्भ समुत्सर्पति सति श्रोतृणामनादिभवाभ्यस्तकामानां तत्तत्स्त्रीसंगमानुरागः सम्भवति, चैत्यवन्दनादिकर्मनिर्माणोत्साहश्च विशीर्यते इति तर्जनं, तथा अनुचितरासकमपि पूर्वोक्तानेकदोषपोषकत्वादेव प्रतिषिद्धमिति गाथार्थः ॥२६।। 'निट्टीवणमिति' निष्ठीवनं थूकं तस्य क्षेपणं तदादौ यस्याः सा तथा, तां सर्वां चतुरशीतिसंख्यामाशातनां न करोमि, ताश्चेमाः 'खेलं । केलि।। कलिं ।३। कला ।४। कुललयं तम्बोल।६। मुग्गालयं गाली।८। कंगुलिया ।९। सरीरधुवणं ।१०। केसे ।११। नहे ।१२। लोहियं ।१३। भत्तोसं ॥१४॥ तय ।१५। पित्त ।१६। वंत ।१७। दसणे ।१८विस्सामणं ।१९। दामणं ।२०। दन्त ।२१। त्थी ।२२। नह ।२३। गंड ।२४। नासिय ॥२५॥ सिरो।२६। सुत्त ।२७। छवीणं मलं ।२८ मन्तं ।२९। मीलण ।३०। लिलयं ॥३१॥ विभजनं ३२॥ भण्डार ।३३। दुट्टासणं ।३४। छाणी ।३५। कप्पड ३६। दालि ।३७ पप्पड ३८ वडी ३९। विस्सारणं नासणं ॥४०॥ अकंदं ।४१॥ विकहं ।४२॥ सरस्थघडणं ।४३। तेरिछसंठावणं ।४४॥ अग्गीसेवण ॥४५॥ रंधणं ।४६। परिखणं ।४। निस्सीहियाभंजणं ।४८ छत्तो ।४९। वाहण १५०। सत्थ ॥५१॥ चामर ।२। मणोणेगत्त ।५३॥ मभंगणं ।५४॥ सच्चित्ताणमवाय।५५॥चायमजिए।५६। दिट्ठीअ नो अंजली ।५७ साडेगुत्तरसंगभंग ।५८ मउडं ।।५९। मोलिं ।३०। सिरोसेहरं ।। हुड्डा ।२। जिंडुहगंडियाइरमणं ।६३। जोहार ६४॥ चंडक्कियं ॥६५॥ *रकारं ।६६। धरणं ।६७ रणं ६८ विवरणं वालाण ।६९। पल्लत्थियं ७० पाऊ७१। पायपसारणं ।७२। पुडपुडी ||७३। पङ्क ७४ र ७५। मेहुणं ७६। जुया ।७७ जेमण ७८। गुज्झ ७९। विज।८० वंजणिजं ।८। सिज्जं ।८२। Page #268 -------------------------------------------------------------------------- ________________ चैत्यवन्दन- ॥१३॥ जलु।८।मजणं ८४ एमाई य सवजकजमुजओ वजे जिणिंदालए॥४॥ आसांचासेवनमनादिमिथ्यात्वाभिनि-कुलकवृत्तिः वेशरूपत्वेनापारसंसारपारावारनिपातनिमित्तत्वात् प्रतिषिद्धं, यदुक्तम्-आसायणमिच्छत्तं आसायणं वज्जणाउदै संमत्तं । आसायणनिमित्तं कुबइ दीहं च संसारं ॥१॥ तित्थयर पवयणसुयं आयरियं गणहरं महड्डीयं । आसायंतो बहुसो अणंतसंसारिओ होइ ॥२॥ आशातनाभङ्गभयादेव स्त्रीणां स्वहस्तेन जिन बिम्बपूजा प्रतिसिद्धा यदुक्तं--संभवइ अकाले वि हु कुसुमं महिलाण तेण देवाणं । पूयाइअहीयारो न ओहओ सुत्तनिहिट्ठो ॥१॥न छिचन्ति जहा देहं ओसरणे भावजिणवरिंदाणं । तह तप्पडिमं पि सया पूयन्ति न सवनारीओ ॥२॥ कुत्र न करोमीत्याह--'सजिणजिणे' त्यादि, सह जिनेन जिनविम्बेन वर्तते स जिनः, सजिनो यो जिनमण्डपः, कोऽर्थ प्रासादस्तस्यान्तर्मध्यं तत्र, एतेन जिनविम्बविकले देवगृहे निष्ठीवनादीनां करणेऽपि नाशातना भवतीत्युक्तं भवतीत्यर्थः । अथवा यत् स्थानकं सजिनं जिनबिम्बयुक्तं भवति, तथा जिनयोग्यं जिनवर्जितमपि3 यद्देवगृहं भवति तत्रापि एतन्निष्ठीवनादिकरणं परिहरणीयं, 'कारणसुयणमिति' कारणे सति शयनं कारणशयनं तन्मुत्कलम् , अत्रेदमैदंपर्यं यदा महामेघवृष्टौ सत्यामन्यपस्तानि पतन्ति भवन्ति, तदा महाप्रदीपनके है प्रसप्पति सति अन्यस्थानकासदभावो भवति, तथा धरणीधरधरणकादिकोऽवश्यंभावि भावको भवति, तदा देवगृहेऽपि शयनं विधीयते, तदेतावतोत्सर्गतो देवगृहे शयनं निषिद्धमपि अपवादपदेन क्रियमाणमपि, न तथा दोषाय, तथा चोक्तं--कारणपडिसेवा विहु सावजा निच्छए अकरणिज्जा । वहुसो वियारित्ता अधार १॥ Page #269 -------------------------------------------------------------------------- ________________ णिज्जेसु कजेसु, इति गाथार्थः ॥२६॥ अथोत्सूत्रप्ररूपकनानाचार्यमतान्तरादिश्रवणश्रद्धान विधान निषेधमाह-- | नाणायरियाण मयंतराणि सुत्तुत्तजुत्तिवज्झाणि। सोऊण कुसत्थाणि य मन्नामि य दुक्खजणगाणि २७ । व्याख्या--नाणायरियाणमिति, नानाचार्याणां चैत्यवासिप्रभृतिप्रभूतनामाचार्याणां 'मतान्तराणि' कदाग्रहरूपाणि, देवगृहवासदेवद्रव्यभक्षणयतिदेवपूजाश्रावकमुखवस्त्रिकास्थापनाचार्यप्रतिक्रमणदेवाग्रबलिप्रदानारत्रिकमांगलिक्यादिप्रतिषेधनयतिप्रासुकशीतलजलादानगलनकग्रहणनिवारणजातसूतकमृतकसूतकरजकतन्तुवायादिनीचजातिसक्तवस्त्रपात्रभक्तपानकखादिमस्वादिमरूपचतुर्विधाहारग्रहणपर्वतिथिकल्याणिकतिथिवर्जित| तिथिपोषधग्रहणप्रमुखसिद्धान्तोक्तियुक्तिबाह्यधर्मकृत्यकरणकारणानुमतिरूपाणि कीदृशानि तानि 'सुत्तोत्तजुत्तिवज्झाणि' सूत्रोक्ता या युक्तयस्ताभ्यो बाह्याणि, यथा चैतानि सूत्रोक्तयुक्तिवाद्यानि तथोच्यते--'दुन्भिगन्धमलस्सावि तणुरप्पेस न्हाणिया । उभओ वाउवहो चेव ते नटुंति न चेहए ॥१॥ इत्यादिना यतेश्चैत्ये प्रभूतकालमवस्थानमपि निरस्तमस्ति किं पुनर्नित्यवासनिरासस्य भणितव्यम् , अन्नहूँ पगडं लयणं भइन्ज सयणासणं । उच्चारभूमिसंपन्नं इत्थीपसुविवज्जियं ॥१॥ इत्यादि दशवैकालिकादिसिद्धान्ताक्षरैर्यतीनां वसतिवासस्यैव भणनात् , जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदवं अणंतसंसारिओ होइ ॥१॥ चेइयवं साहारणं च जो दुहइ मोहियमईओ। धम्मं वि सो न याणइ अहवा वद्धाउओ नरए ॥२॥ चेइय Page #270 -------------------------------------------------------------------------- ________________ चैत्यवन्दन दवविणासे तद्दवविणासणे दुविहभेए । साहू उविक्खमाणो अणंतसंसारिओ होइ ॥ ३ ॥ इत्यादिगाथाभिःकुलकवृत्तिः स्थाने स्थाने देवद्रव्यभक्षणनिषेधः प्रतिपादितोऽस्ति, छज्जीवकायसंजमो दवत्थए सो विरुज्झए कसिणो । तो ॥१३२॥ कसिणसंजमविऊ पुप्फाइहिं न इच्छइ ॥१॥ अस्या व्याख्या--पड्विधजीवनिकायानां पृथिव्यादिलक्षणानां संयमः संघटनादिपरित्यागः, द्रव्यस्तवे पुष्पाद्यैर्देवार्चनकरणखरूपे क्रियमाणे स संयमः कृत्स्नः सम्पूणो विरुध्यते, कोऽर्थो न सम्यक् संपद्यते, पुष्पादीनां सचित्तवस्तूनां लुश्चनमर्दनसंसट्टनादिसंभवेनासंयमस्य सद्भावात् , ततः कारणात् कृत्स्नसंयमविदः साधवः पुष्पादिभिर्देवार्चनं नेच्छन्ति, कृत्स्नग्रहणाद् देशसंयमवद्भिद्रव्यस्तवो विधेय एवेत्यभिहितम् , इत्यादिना यतीनां पुष्पादिभिः पूजानिषेधः प्रोक्तोऽस्ति, यत्पुनः श्रीवज्रस्वामिना श्रीमाहेश्वरीपुरीजिनभवनपूजानिमित्तं बौद्धमानम्लान्यर्थं पद्मदात् श्रीदेवीगुह्यकयक्षप्रदत्तप्रफुल्लपद्म-15 * पुष्पाण्यानीय जिनबिम्बानि पूजयांचक्रिरे न तदालम्बनबलादाधुनिकैर्मुनिभिर्द्रव्यस्तवपूजा विधेया, जिनशा सनप्रभावनार्थमेव तेन तदानयनात् । दियबुड्कुिसुमसेहरसुव्वयवाहिगारमज्झम्मि । ठवणायरियं ठविउं पोस४ हसालाइ पुण सीहो ॥१॥ उम्मुक्कभूमणो सा इरियाइपुरस्सरं च मुहपुत्तिं । पडिले हित्ता पच्छा चउविहं पोसह ४ कुणइ ॥२॥ इत्यादिविवाहचूलिकादिसिद्धान्ताक्षरः सिंहश्रावकदृष्टान्तेन स्थापनाचार्यमुखवस्त्रिके श्रावकस्य यतेरिव प्रतिपादिते स्तः, तथा समणेण सावएण य अवस्सकायवयं हवइ जम्हा । अंतो अहो निसिरसा तम्हा आवस्सयं नाम ॥१॥ सम्मत्तमूलमणुवयगुणवयसिक्खावयाणं अइयारा जे ते विसोहिहेउं पडि कमियचं Page #271 -------------------------------------------------------------------------- ________________ सुसड्ढेण ॥२॥ इत्यावश्यकादिसिद्धान्ताक्षरैः श्रावकस्य प्रतिक्रमणमुक्तं, भाइयपुणो नियाणं अक्खंडफुडि याण फलगसरियाणं । कीरइ बलीसुरावि य तत्थेव छुहंति गन्धाई ॥१॥वलिपविसणसमकालं पुवद्दाराइ ठाइ परिकहणा तिगुणं पुरओ पाडणतस्सद्धं अपडियं देवा ॥२॥ इत्यादिसिद्धान्ताक्षरैः देवाग्रे बलिप्रदानमुक्तम् , आरात्रिकमाङ्गलिक्यं लवणजलोत्तारणादिकं देशवामिनो लोकेऽरिष्टमर्दनार्थ क्रियते किं पुनस्रैलोक्यनायकस्य तथा एतद् गीतार्थपूर्वश्रुतधरैराचीपर्णमिति, सर्वेषामपि प्रमाणं, यत उक्तम् , आयरणा वि हु आणा विरुद्धगा चेव होइ नायं तु । इयरा तित्थयरा सायणित्ति तल्लक्खणं चेव ॥१॥ असढेण समाइन्नं जं कत्थइ केणई |असावजं । न निवारियमण्णेहिं बहुमणुमयमेयमायरियं ॥२॥ इत्यारात्रिकादिस्थापना 'वन्नरसगन्धफासा जे दवे जम्मि उकडा हुंति।तं तह चिरं न चिट्ठइ असुभेसु सुभेसु कालेणं ॥१॥ किंची सकायसत्थं किंची परकाय तदुभयं किञ्ची । एयं तु दवसत्थं भावे य असंयमो सत्थं ॥२॥ सीउन्हखारखित्ते अग्गीलोणसविले नेहो। वुकंतजोणिएणं पओयणं तेणिमं होइ ॥३॥ परिसेयवयणहत्थाइधोयणे चीरधोयणे चेव । आयमणभायणधुवणे एमाइपओयणं बहुहा ॥४॥ इत्यादि सिद्धान्ताक्षरैः सामान्येन वर्णादिपरिणामेन सौवीरपानकादेरिव शीतलजलस्यापि कल्पनीयत्वमुक्तम्, उवग्गहियं चीरं गालनहेउं घणं उ गिण्हंति तहवि य । असुज्झमाणे असई अद्धाण जयणाए ॥१॥ इत्यादिना यतीनां गलनकग्रहणमुक्तं, तथा सुयगमयगकुलाइं इत्तिरिया जे हवंति निजूदा । जे तत्थ मुंजिया खलु ते हुंती आवकहियाओ॥१॥ तेसु असणवत्थाई वसही वा अहव वायणा Page #272 -------------------------------------------------------------------------- ________________ चैत्यवन्दन. ॥१३॥ R-6-2452- 25455 ईणि । जे भिक्खू गिन्हज्जावसिजकुज्जाव आणाई ॥२॥ अयसोपवयणहाणी विपरिणामो तहेव कुच्छाइ । तेसिं कुलकवृत्तिः पि होइ संका सवे एयारिसामन्ने ॥ ६ ॥ इति निशीथादि सिद्धान्ताक्षरैः सूतकमृतकादिकुलेषु यतीनां 8 भक्तपानकादिग्रहणप्रतिषेधोऽभिहितः,अत एतानि भणितयुक्त्या सिद्धान्तोक्तयुक्तिबाह्यानि नानाचार्याणांमता नि कुमतानि श्रुत्वा तथा कुशास्त्राणि स्मृतिवेदपुराणचाणिक्यपञ्चतन्त्रककामन्दकप्रभृतिराजनीतिषत्रिंशद्दण्डायुधधनुर्वेदज्योतिष्कार्थकाण्डवैद्यकरूप्यसुवर्णसिद्धिमनुष्यतुरगहस्तिशिक्षोपदेशहलशकटपोतसंग्रामगोधनाधुपदेशसूचकानि लौकिकशास्त्राणि श्रुत्वा विचार्य च मन्ये कोऽर्थः निश्चिनोमि कीदृशानि दुःखजनकानि, दुःखानां चातुर्गतिकापारसंसारपारावारसंचारसमुद्भूतजन्मजरामरणादिप्रभूतकष्टरूपाणां जनकानि उत्पादकानि, परमार्थबाह्यत्वात् , यत उक्तम्-एवं लोइयसत्थं गद्दहलिण्डं व वाहिरे मटुं । अंतो जोइजं तं तुसभससारिच्छयं सत्वं ॥१॥ इति गाथार्थः ॥ २७ ॥ अथ मांगलिक्यसूचनार्थ गृहीतसम्यक्त्वस्य सुश्रावस्य गीतार्थसंविनसुगुरुगोचरबुद्धिप्रतिपत्यभिधानार्थं च प्रान्त्यवृत्तमाहसबन्नूण मयं मएणरहिओ सम्म सया साहए। भवाणं पुरओ पवाहविरओ निच्छम्म निम्मच्छरो॥२८॥6॥३३॥ सो मे धम्मगुरू सया गुणिगुरू कल्लाणकारी वरो। लग्गो जो जिनदत्तसोहणपहे नीसेससुक्खावहे ।२९। व्याख्या-'सवन्नृणमिति' सर्वज्ञानां मतं शासनं मदेन जात्यादिलक्षणेन खकीयाभिनिवेशरूपेण वा, रहितो XSEIXCIRCROCROR Page #273 -------------------------------------------------------------------------- ________________ %A6ABAR विवर्जितः, सम्यग् यथावस्थितं भव्यानामासन्नसिद्धिगामिजीवानां पुरतोऽग्रतः, प्रवाहात्, निर्विचारजनविस्तारितगडुरिकादिरूपाद, विरतो निवृत्तस्तथानिश्छद्मः मायाप्रपञ्चविमुक्तः, तथा 'निम्मच्छरों कषायरहितः, साधयति कथयति सम्यक् प्ररूपयतीत्यर्थः । स मे धर्मगुरुर्धर्माचार्यः स एव विशेष्यते-सदा गुणिगुरुर्ज्ञाना-16 दिगुणवदूगरीयान् , तथा कल्याणकारी, कल्याणमैहिकामुष्मिकानेकाभ्युदयरूपं करोतीत्येवशीलः कल्याणकारी, तथा वरः प्रतिरूपतेजस्वितादिनिष्प्रतिरूपैर्गुणैरैदयुगीनयतिप्रधानः, तथा लग्नः प्रवृत्तो यो 'जिन दत्तसोहण |पहे' जिनेन दत्तो दर्शितः खग्गापवर्गादिसौख्यदायकत्वात्, शोभन: प्रधानो यो माग्! ज्ञानादिरूपस्तत्र, |किंविशिष्टे 'नीसेससुक्खावहे' निःशेषाणि शक्रचक्रधरादीनां यानि सुखानि तान्यावहति करोतीत्येवंशीलो निःशेषसौख्यावहस्तस्मिन्नितिवृत्तार्थः। अत्र च सर्ववृत्तार्थेन प्रान्त्यमाङ्गलिक्यं 'सो मे धम्मगुरू' इत्यनेन च सुगुरुगोचरगुरुवुद्धिकरणाभिधानं, जिनदत्त इति पदेन खनाम च सूत्रकारेण संसूचितानि, इति युगप्रवरागमश्रीजिनचन्द्रसूरिशिष्यश्रीजिनकुशलसूरिविरचिता चैत्यवन्दनकुलकवृत्तिः संपूर्णा ॥ | अहं श्रेयःपयः सलिलराशिविकाशहेतुःसद्वृत्तमण्डलनिरस्ततमस्तमाघम् । दृगमोदकारि घनसाररमावदातं चान्द्रं कुलं विपुलधामकुलं विभाति ॥१॥ तत्राभवन्, श्रीजिनदत्तसूरयः शश्वद्यदाज्ञां लुलुपुर्न भूरयः। देवा नृदेवानततिर्यगगिनः सिन्धुन चाग्नि न च योगसंगिनः॥२॥ येषां रूपगुणेन दर्शनहृता चित्रं ददे दर्शनं |सर्वेषां वचनेन च श्रुतिहृता चक्रे सको जनः। चारित्रेण मनोहरेण सुमनो भावो वितेनेतरामासंस्ते जिन सुगुरुगोचरगुरुवारशिष्यश्रीजिनकुशलतः सदृत्तमण्डलनिर श्रीजिनदत्तसूरयः शदर्शनहता चि ता मे धम्मगुरु न च सूत्रकारेण RECARRORG विरचिता Page #274 -------------------------------------------------------------------------- ________________ चैत्यवन्दन - ॥१३४॥ | चन्द्रसूरिगुरवस्तत्कान्ति षङ्जारवाः ॥ ३॥ दृष्ट्वा मोहव्यपोहं विदधत इह यान्मोहकर्त्री स्वकांतां, श्यामां ज्ञात्वा च चन्द्रस्तदुपहतिभिया तां तनूकृत्य नूनम् । क्रोडीचक्रे कलङ्कछलत उडवृतो व्योम्नि शून्ये ऽभ्रमच श्रीमन्तस्त| त्कपट्टे जिन पतिगुरवस्ते चकासांबभूवुः ॥४॥ जिनेश्वरयतीश्वरस्तदनुभाग्यदुग्धोदधिर्बभूव जिनरत्नमुख्य मुनिरत्नराजीनिधिः । क्षमाचरणकौशलो बहुलकीर्त्तिकल्लोल भागनेकविधसंवराकुलितदृहद्गम्भीरान्तरः ॥ ५ ॥ गार्हा - स्थानैर्ग्रन्ध्यपदद्वयेऽपि श्रीचन्द्रवंशो विशदावदातैः। उद्योतितो येन ततः स जज्ञे जिनप्रबोधाभिधसूरिराजः ॥ | ॥ ६ ॥ तच्छिष्यैः जिनचन्द्रसूरिगुरुभिर्दोषज्ञ रेखामितैर्विभ्रे जे श्रुतवैद्यकोपनिषदं योऽभ्यस्य पार्श्वे गुरोः । तं व्याख्यारसमादधुः सुमधुरं प्राग रूढगुढं नृणां मान्यं विप्रतिषेध्य योगपटुतां चक्रेतरां शाश्वतीम् ॥७॥ यक| श्लोकाधिपस्य त्रिभुवनविपिने के लिलीलां चिकीर्षोराकाशे संचरिष्णू तपनतुहिनगू स्वदुर्वर्णकुम्भौ । काश्मीरश्रीकटीरद्रवनिभृतभृतौ नूनमाधाय य धाता रक्तश्वेतांशुदम्भाद् दिशि विदिशि भृशं तत्सटा यच्छती ॥ ८ ॥ चक्रे नैदं युगीनं यैः सर्ववृत्तं न चैककम् । यद्गुणिभ्यो गुणान् लात्वा निर्गुणेभ्यः समर्पिताः ॥ ९ ॥ तच्छिष्यः | स्वल्पमेधा अपि जिनकुशल सूरिरेकान्तकान्तश्री सिद्धान्ताभ्यासलेशाद्विरचित कतिचिदाख्यान काख्यानरम्याम् । सम्यक्त्वारोपविध्युज्वलकुल कवरस्यादधौ वृत्तिमेतां यष्टं येकैर्मितान्दे (१३८३) गृहमणिदिवसे वागभटश्रीपुरान्तः ॥ १०॥ तन्मौक्तिकस्तबक सेव्य पदोऽनुवेलमस्ताघ संवरधरः । कुपथप्रमाथी विद्यागुरुर्मम विवेकसमुद्रनामोपाध्याय इतररत्ननिधिर्बभूव ॥ ११ ॥ ज्यायान् सतीर्थ्यो मम संयमाठ्यौ सुवर्णकृच्छात्र सुवर्णशुद्धौ राजेन्द्र - कुलकवृचिः ॥१३४॥ Page #275 -------------------------------------------------------------------------- ________________ 15 चन्द्राभिधसूरिस्तां संशोधयामास विशुद्धबुद्धिः ॥ १२॥ चातुर्वैद्यपयः पयोनिधिरसाभीक्ष्णावगाहक्रिया प्राप्ता प्राप्यमहानिर्मलमहारत्नत्रयायैरपि । स्वीयामेयविनेययाचकचयप्रतार्थसाथैरपि श्रीप्रासैरपि यैः क्षिती बत बत प्राप्यम्यनिग्रन्थता ॥ १३॥ श्रीसम्यक्त्वाधिरोपप्रकरणमुकुटस्यास्य वृत्तेर्विधानात् सम्यक् सम्यक्त्वशुद्ध्याकुशलमकुशलक्लेशि लेभे मया यत् । श्रीपञ्चानन्तलक्ष्मीपरिणयनवरस्थानक्लप्साधिरोपे श्रीसम्यक्त्वाधिरोपे प्रगुणयतु मनस्तेन धन्यो जनोऽत्र ॥ १४ ॥ यदत्र तूत्सूत्रमसूत्रि किश्चिन्मयातिमोरध्यात् तदुदारदाक्ष्याः। परोपकारोपहितबद्धकक्षाः बुधाः विचार्याशु विशोधयन्तु॥१५॥ विद्वजनचूडामणिगुणसमतरुतरुणकीर्तिगणिनेयम् । संशोध्य नवीचक्रे लब्धिनिधानर्षिविदुषामपि ॥ १६॥ यावन्नन्दनसौमनस्यविपिनप्रच्छादनाछादित. शूलाश्यामलकाकपक्षरुचिरोऽर्हच्चैत्यचूडामणेः ॥ ताराघर्घरकः सुमेरुकुमरो धात्र्या धरित्र्याः पृथु कोडे क्रीडति तावदन्त्र विवृत्तिनन्यादनिन्द्यासकौ ॥१७॥ ॥ संपूर्णा ॥ ग्रन्थश्लोकसंख्या ॥४४००॥ ॥ ETRASTRATESTRA STRE-STATESTRATESTRASTRASTRA ॥श्रीजिनकुशलसूरिविरचिता चैत्यवंदनकुलकवृत्तिः संपूर्णा ॥ " " " " " " " "I NG Page #276 -------------------------------------------------------------------------- ________________ ROR VOVEOVOOVBOOoes र श्रीजिनकुशलसूरिविरचिता चैत्यवंदनकुलकवृत्तिः संपूर्णा // OPAS OneNNAGI