SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ जीवितकृते, भक्षय ध्वांक्षजंगलम् ॥७२॥ वङ्कचूलोऽथ तं प्रोचे, मित्रामित्र इवाहितम् । ब्रुवाणो वचनं किं त्वं, शालजसे न विदांवर? ॥ ७३ ॥ नरेन्द्रादींस्ततः स्माह, जिनदत्त उपासकः । न मद्वचनवातूलैश्चलत्येष सुमेरुवत् ॥ &|॥ ७४ ॥ अवश्यंभावि संभाव्य, मरणं हि शरीरिणाम् । शिष्टा नियमभङ्गाय, चेष्टन्ते न कथञ्चन ॥ ७५ ॥ तत उच्चारयामास, वङ्कचूलमुपासकः। सम्यग्दर्शनमूलानि, व्रतानि गृहमेधिनाम् ॥७६॥ मयखःकमलाकर्षाकविद्यासहोदरम् । श्राद्धोऽनशनमासन्नमृत्यवे सुहृदे ददौ ॥ ७७ ॥ पर्यन्ताराधनासौधनियंदं मधुरखरम् । काङ्क्षी वङ्कचूलमपीप्यच्छावकाग्रणीः॥७८॥ चातुर्गतिकसंसारपारीणान् परमेष्ठिनः । सिद्धिसीमन्तिनीसक्तान, नमस्कुरु कृताञ्जलिः॥७९॥ ज्ञानदर्शनचारित्रव्रतातीचारसन्ततिम् । अध्यक्षं सर्वसिद्धानां, निन्दगहें मुहुमुंहः॥८०॥ विजहीहि महामोहं, पुत्रमित्रगृहादिषु । धनकाश्चनरत्नेषु, ममत्वं च महामतेः ॥ ८१ ॥ क्षमय त्वखिलान् जीवान् , समभावं समाश्रय । मैत्री सूत्रय सत्त्वेषु, सात्विकानां शिरोमणे? ॥ ८२॥ इत्थमाराधनां क्लिष्टध्यानव्याधिरसायनम् । आखादयन्महामोदान्नमस्कारपरायणः ॥८॥ धर्मध्यानाग्रमारोहन, बङ्कचूलो नृपाङ्गजः । विध्याय दीपवद्देवः, कल्पेद्वादशमेऽभवत् ॥८४॥ युग्मम् । दिव्यानुत्तमभोगभङ्गिसुभगं भूष्णुः प्रभूष्णुः श्रिया, स्नेहावेगतरङ्गितामरवधूगोष्ठीषु बद्धाशयः। दीपोद्यानविहारभूमिषु सुखं क्रीडन् सदानन्दतः, कालातिक्रममादधे सुरवरः श्रीवकचूलस्ततः॥८५॥ ग्राम प्रति प्रस्थितोऽथ जिनदत्त उपासकः । तदेव देवता युग्ममद्राक्षीत्करुणं रुदत् ॥८६॥ पृष्ठे तेनोचतुर्देव्यौ, त्वया श्राद्ध ! तथाकृतम् । यथाऽऽवां संव्यतीत्यागादच्युते
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy