________________
क्षणापायनिकायव्युदाससूचनात्, कीदृशं तम्-"अणंतगुणं" अनन्ताःप्रभूता गुणा ज्ञानदर्शनादयो गाम्भीयस्थैर्यधैर्यादयो वा यस्य स तथा तमनेन विशेषणेन ज्ञानातिशयः सूचितः । ज्ञानादीनामेव पारमार्थिकातिशायिगुणत्वात् । पुनः कीदृशं तं "चउवयणमिति” चतुर्वदनं चत्वारि वदनानि मुखानि सर्वज्ञातिशयात् सहशानि समवसरणावस्थायां यस्य स तथा तम् । अथवा चत्वारि वचनानि दानशीलतपोभावनारूपाणि यस्य स तथा तमनेन व्याख्यानेन वचनातिशयोऽपि व्याख्यातः। पुनः कीदृशं “जिणवरमिति" जिनाः सामान्यकेवलिनस्तेषु वरः समवसरणादिविभूत्या प्रधानस्तं, तथा यतस्तीर्थकरस्याऽशोकायष्टमहापातिहार्यसपर्यामवलोक्य चरमशरीरभाजोऽपि सकृद्गर्भवासादिदुःखजालमवगणय्य श्रीतीर्थकरसंपदमासादयितुमिच्छंति तथा चोक्तम्"पडिवन्नचरमतणुणो अइसयलेसं पि जस्स दट्टणं । भवजुत्तमणा जायन्ति जोगिणो तं जिणं नमह ॥१॥"
अनेन विशेषणेन देवकृतपूजातिशय उक्तः। तमेवंभूतं श्रीमहावीरं नत्वा "प्रतिपन्नदर्शनानां स्वरूपं" कीर्त४स्तान्तरवैरिवारो निखिलनररिपुगणो लक्षणं स्वरूपं यस्य एवंविधो योऽपायनिकायो दोषसमूहस्तस्य व्युदासो निरासस्तस्य सूचनादिति विग्रहः ।
१ सकृदिति, एकवारम् । २ पडिवनगाथा, योगो ज्ञानदर्शनचारित्ररूपो येषामस्ति ते योगिनो महात्मानः साधवः, प्रतिपन्नचरमतनवोऽपि, तद्भवसिद्धिगामिनोऽपि यस्य भगवतस्तीर्थकृतोऽतिशयलेशमपि श्रीसमवसरणमहादिकं दृष्ट्वा भवाभिमुखमनसो जायन्ते, तीर्थकरसं४/पत्प्राप्तये एकवारं गर्भवासमपि वांछन्ति, तं जिनं नमत इति गाथार्थः ।