SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पैत्यवन्दनश्रावकसमाराधितश्रीअम्बिकालिखितश्रीजिनदत्तसूरियुगप्रधानेत्यक्षरवाचनमार्जनसमुपार्जितयुगप्रधानपदसत्य कुलकवृत्तिः ताप्रधानाः संकलातिशायिप्रगुणगुणगणमणिखनयः सकलशिष्टचूडामणयः प्रबोधितान्यगच्छीयाऽतुच्छभूरिसू॥२॥ रयः श्रीजिनदत्तसूरयः शिष्टसमाचारसमाचरणार्थं तथा-'श्रेयांसि बहुविघ्नानि, भवन्ति महत्तामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः॥१॥” इदमपि प्रकरणं सम्यकदर्शनादिहेतुत्वात् श्रेयोभूतं वर्तते । अतो निर्विघ्नशास्त्रसमाप्त्यर्थं चाभीष्टदेवतानमस्कार, तथा काकदन्तपरीक्षाशास्त्रवदभिधेयप्रयोजनादिरहिते शास्त्रे न प्रेक्षावन्तः प्रवर्तन्ते । यतः-"सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥१॥ अतोऽभिधेयप्रयोजने चाद्यगाथया प्राहुः* नमिऊणमणंतगुणं चउवयणं जिणवरं महावीरं । पडिवन्नदंसणाणं सरूवमिह कित्तइस्सामि ॥१॥ * व्याख्या-'नमिऊणमिति' नत्वा प्रणम्य, कं नत्वा 'महावीर' विशेषेण ईरयति कम्पयति रागादिशत्रूनिति | वीरः, यत उक्तम्-"विदारयति यत् कर्म, तपसा च विराजते।तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥" महांश्वासौ वीरश्च महावीरस्तमित्यनेनाऽपायापगमातिशय उक्तः । अनया व्युत्पत्त्या समस्तान्तरवैरिवारल- 8 ॥२॥ १ सकलातिशायीति, सकलाः समस्ता अतिशायिन उत्कृष्टाः, प्रगुणाः प्रधाना ये गुणगणास्ते एव मणयस्तेषां खानयः । २ सिद्धार्थ द I श्लोकः, सिद्धः प्रसिद्धार्थः प्रयोजनं यस्य तत् तथा ज्ञातप्रयोजनमित्यर्थः । श्रोतुमित्यस्य शास्त्रं कर्म स्वयमभ्यूह्यं । ३ समस्तान्तरेति, सम
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy