SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विदन्यधीयते वा प्रामाणिका स्वा यः प्रकृष्टाचारविचारस्तस्य चाउमाभिभवो येन एवं इह हि सकलप्रामाणिकलौकिकप्रकृष्टाचारविचारचातुरी विशिष्टाः शिष्टाः कचिदभीष्टकार्ये प्रवर्तमानाः समस्तसमीहितवितरणविहितसुरकारस्कराहंकारतिरस्कारखाभीष्टदेवतानमस्कारपुरस्कारमेव प्रवर्तन्ते । अतः समस्तयोगिनीचक्रदेवदेवतावातविहितशासनाः नानाप्रभावनाप्रभावितश्रीजिनशासनाः महर्द्धिकनागदेव। १ सकलप्रामाणिकेति, प्रमाणं विदन्त्यधीयते वा प्रामाणिकाः, 'न्यायादेरिकण' इत्यनेन सूत्रेणेकणप्रत्ययः, प्रमाणशास्त्रविदइत्यर्थः । का एवं लोकव्यवहारवेदिनो लौकिकाः प्रामाणिकाश्च लौकिकाश्चेति द्वन्द्वस्तेषां यः प्रकृष्टाचारविचारस्तस्य चातुरी चातुर्य तया विशिष्टाः । २ 'समस्तसमीहितेति'समस्तसमीहितानां वितरणेन दानेन विहितः कृतः सुरकारस्करस्य कल्पवृक्षस्य तिरस्कारोऽभिभवो येन एवंविधश्वासौ योऽभीष्टदेवतानमस्कारश्च तस्य पुरस्करणं यस्यां प्रवृत्ताविति क्रियाविशेषणं । ३ महर्द्धिकनागदेवश्रावकेण समाराधिता चासौ| काश्रीअम्बिका च तया लिखितानि च यानि श्रीजिनदत्तसूरियुगप्रधानेति अक्षराणि च तेषां वाचनमार्जने ताभ्यां समुपार्जिता या युगप्रधान|पदस्य सत्यता तया प्रधाना इति विग्रहः, अत्रायं वृद्धसंप्रदायो-नागदेवाभिधः श्राद्धः श्रीनेमिनाथनिनंसया श्रीउजयंतं गतः सन् युगप्र धानगुरुं जिज्ञासुः सप्तभिरुपवासैरम्बिकादेवीमाराधयामास, तदीयसत्त्वावष्टम्भतस्तुष्टा सती श्रीअम्बिका तत्करे युगप्रधाननामाक्षराणि लि|लेख, प्रोचे च य एतानि अक्षराणि वाचयित्वोत्पुंसयिष्यति स युगप्रधानो ज्ञेय इति, ततश्च नागदेवः प्रतिपुरं प्रतिग्राम सूरीणां स्वपाणिपद्मं दर्शयन् प्राप्तः श्रीअणहिल्लपत्तननाम पत्तनं, गतश्च श्रीजिनदत्तसूरिवराणां पवित्रायां वसतौ, दर्शितः पाणिः श्रीजिनदत्तसूरीणां, श्रीपूज्यैरपि वासक्षेपं विधाय श्रीजिनदत्तसूरियुगप्रधान इत्यक्षराणि वाचयित्वोत्पुंसितानि, ततो नागदेवेन समुत्पन्ननिश्चयेन श्रीजिनदत्तसूरिगुरुत्वेनाङ्गीकृत इति ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy