________________
चैत्यवन्दन
॥३॥
यिष्यामीति सम्बन्धः, प्रतिपन्नमकीकृतं दर्शनं सम्यक्त्वं स्वर्गापवर्गसौधाधिरोहसोपानपंक्तीयमानं यैस्तेषां कुलकवृतिः स्वरूपं विधेयविधिविशेषरूपम् 'इह' प्रकरणे कीर्तयिष्यामि । एकवचनेन शास्त्रकृता खस्यौद्धत्यं परिहृतम्,
मालम्. अत्र पूर्वाऽभीष्टदेवतानमस्कारविधानेन मंगलमभिहितं । प्रतिपन्नदर्शनानां वरूपं कीर्तयिष्यामीत्यभिधेयं । प्रयोजनं चानन्तरपरम्परभेदाद् द्विधा, पुनरेकैकं कर्तृश्रोतृभेदाद् द्विधैव, तत्र कर्तुरनन्तरप्रयोजनं सत्त्वानुग्रहः, श्रोतुश्च सम्यक्त्ववदाचारपरिज्ञानं, परम्परं तु द्वयोरपि सम्यक्त्वग्राहिश्राद्धाचारप्रकाशनानुष्ठानाभ्यां परमपदप्राप्तिः, सम्बन्धस्तु गुरुपर्वक्रमलक्षणः प्रकरणाभिधेययोर्वाच्यवाचकभावलक्षणः सम्बन्धः खयमभ्यूह्य इति गाथार्थः ॥ १॥ अङ्गीकृतसम्यक्त्वश्राद्धवासखरूपमाह| तिविहाय हुंति वासा दुविहा ते डंति दवभावेहिं । दवम्मि दुविहा ते वि हु गासपवाहेसु विन्नेया॥२॥ ___ व्याख्या-श्रमणोपासकानां “वासा" ग्रासप्रवाहभावभेदात, त्रिविधा भवन्ति, तदेव सूत्रकारः खयं|विवृणोति 'दुविहेति' ते च वासा द्रव्यभावाभ्यां द्रव्यतो भावतश्चेति प्रकारेण द्विविधा भवन्ति, तत्र द्रव्यतो
द्वौ प्रकारावाह-"दवम्मि दुविहेति" 'तेऽपि' वासाः सुगन्धिचूर्णरूपा 'हु' स्फुटं ग्रासप्रवाहाभ्यां द्रव्यतो| | १ स्वर्गापवर्गेति, स्वर्गापवर्गावेव सौधे मन्दिरे तयोरधिरोहसोपानपंक्तीयमानं सोपानपंक्तिरिवाचरदित्यर्थः। २ विधेयेति, बोद्धव्यः कर्त्तव्यश्चासौ विधिविशेषश्च त्रिकाल चैत्यवन्दनादिकः स एव रूपं स्वरूपं यस्य तत् तथा । ३ गुरुपर्वक्रमेति, गुर्वानायलक्षणः।