________________
द्विधा विज्ञेयाः, तत्र एते गुरवोऽतिशायिनः श्रूयन्ते, अत एतेषां पार्वादहं वासक्षेपं शिरसि कारयामि येन मम ग्रासो भोजनादिसंपत्तिर्भवतीत्यनया बुद्ध्या ये निक्षेप्यन्ते श्रावकेण वासास्ते ग्रासवासाः, प्रवाहतो गडरिकाप्रवाहेण अमी लोका वासक्षेपं कारयन्ति, अहमपि कारयामीत्यनेन प्रकारेण परमार्थाऽनभिज्ञेन भाववर्जितेन श्राद्धेन गुरुपाॉनिक्षेपिता वासाः प्रवाहवासा उच्यन्ते, एवं द्रव्यतोग्रासप्रवाहभेदाभ्यां द्वौ प्रकारौ जायेते स्म, ॥२॥ तृतीयवासप्रकारव्याख्यानाय गाथाद्वयमाहभावंमि य सुहगुरुपारतंतवसओ सया वि विसयंमि। विहिणा जिणागमुत्तेण जेसिं सम्मत्तपडिवत्ती ३४
तेसु सुवासा ते इंति परमपयवासहेऊणो जेण । जणियाणंतप्पणगा सयलकिलेसंतकरणखमा॥ ४ ॥ &| व्याख्या-'भावे' भावपूर्वकं वासा इति शेषः, अग्रेतनगाथास्थं "सुवासा ते टुति" इत्यादि इह सम्बध्यते, 'चः' पुनरर्थे भावे च भावपूर्वकं पुनस्ते सुवासा भाववासा भवन्ति इति सम्बन्धः, भाववासभवनप्रकारमाह'सुहगुरुपारतंतवसओ' शुभाः संविग्नगीतार्थाश्च ते गुरवश्च शुभगुरवस्तेषां पारतच्यं तदायत्तता तस्य वशस्तस्मात् सद्गुरुपदपद्मपर्युपास्तिपरायणमिति भावार्थः, एतदेवोक्तम् "सुगुरूणं संपयाओ पारतंतं इह विणिद्दिढं।
१ सुगुरूणां संप्रदाय आम्नाय इह जिनप्रवचनपारतन्त्र्यं विनिर्दिष्टं कथितमतस्तेषां गुरुगां परतत्रैरनुष्ठानं कर्त्तव्यमित्यर्थः ।।