________________
15
चन्द्राभिधसूरिस्तां संशोधयामास विशुद्धबुद्धिः ॥ १२॥ चातुर्वैद्यपयः पयोनिधिरसाभीक्ष्णावगाहक्रिया प्राप्ता प्राप्यमहानिर्मलमहारत्नत्रयायैरपि । स्वीयामेयविनेययाचकचयप्रतार्थसाथैरपि श्रीप्रासैरपि यैः क्षिती बत बत प्राप्यम्यनिग्रन्थता ॥ १३॥ श्रीसम्यक्त्वाधिरोपप्रकरणमुकुटस्यास्य वृत्तेर्विधानात् सम्यक् सम्यक्त्वशुद्ध्याकुशलमकुशलक्लेशि लेभे मया यत् । श्रीपञ्चानन्तलक्ष्मीपरिणयनवरस्थानक्लप्साधिरोपे श्रीसम्यक्त्वाधिरोपे प्रगुणयतु मनस्तेन धन्यो जनोऽत्र ॥ १४ ॥ यदत्र तूत्सूत्रमसूत्रि किश्चिन्मयातिमोरध्यात् तदुदारदाक्ष्याः। परोपकारोपहितबद्धकक्षाः बुधाः विचार्याशु विशोधयन्तु॥१५॥ विद्वजनचूडामणिगुणसमतरुतरुणकीर्तिगणिनेयम् । संशोध्य नवीचक्रे लब्धिनिधानर्षिविदुषामपि ॥ १६॥ यावन्नन्दनसौमनस्यविपिनप्रच्छादनाछादित. शूलाश्यामलकाकपक्षरुचिरोऽर्हच्चैत्यचूडामणेः ॥ ताराघर्घरकः सुमेरुकुमरो धात्र्या धरित्र्याः पृथु कोडे क्रीडति तावदन्त्र विवृत्तिनन्यादनिन्द्यासकौ ॥१७॥ ॥ संपूर्णा ॥ ग्रन्थश्लोकसंख्या ॥४४००॥ ॥
ETRASTRATESTRA STRE-STATESTRATESTRASTRASTRA
॥श्रीजिनकुशलसूरिविरचिता चैत्यवंदनकुलकवृत्तिः संपूर्णा ॥ " " "
" " " " "I NG