SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ननु क्षुद्रा छिद्रमासाद्य कुर्वते ॥ ११॥ साक श्रेयस्काम्यया पौराः खां पुरं चारणी मुनी । द्रुतमानाययामासुः कुलकवृत्तिः स्वार्थे को हि विलम्बते ॥ १२॥ प्रह्वीभूय ततः पौराः सादरं तौ व्यजिज्ञपन् । निवर्त्तते यथा मारिस्तथा यूयं ॥५१॥ प्रसीदत ॥ १३ ॥ ततस्तावूचतुः पौरानुत्तरंगेषु सद्मसु । अहंबिम्बं प्रतिष्ठाप्य प्रत्यहं तत्समर्चत ॥ १४॥ अत्रामुत्रापि कल्याणं येन स्याद् भवतां सदा । तैस्तथा विहिते सद्यः श्रेयोऽभूत् तत्र मण्डले ॥१५॥ एवं यदाऽर्हतं बिम्बं सुगुर्वादेशतस्तदा । मथुरापूर्जनैश्चक्रेऽभूत् तन्मङ्गलचैत्यकम् ॥१६॥ यदुक्तं "जिणविंबपइट्टाए महुरानयरीए मंगलाई तु । गेहेसु चच्चरेसु छन्नवइ ग्गाममोसु ॥ १७ ॥ इति मङ्गलचैत्यकथानकं संपूर्णम् ॥ निश्राकृतचैत्यमनिश्राकृतचैत्यं च पूर्वमेव व्याख्यातमिति न पुनरिह व्याख्यायते, शाश्वतचैत्यं च श्रीनन्दीश्वरद्वीपवक्षस्कारवैतात्यमेरुपर्वतादिषु वर्तमानमृषभवर्धमानचन्द्राननवारिषेण्येति नामधेयजिन बिम्बविभ्राजमानं ४सकलदेवासुरव्यन्तरकिंनरविद्याधरविसरपूज्यमानं, तथा जगत्स्वाभाव्यादतीताऽनागतवतमानकालेषु यच्छ|श्वदभवति तच्छाश्वतं चैत्यमुच्यते, एतदपि ग्रन्थान्तरोक्तं सामान्येन पश्चधा चैत्यं सत्रकारणायतनादिविशेष-| णपदैः संग्रहीतमेव, तथाहि-निश्राकृतानिश्राकृतचैत्यभेदौ सूत्रकारेण साक्षात्सूत्रपदेन प्रतिपादितौ, भक्तिचै-12 ॥५१॥ त्यमङ्गलचैत्यशाश्वतचैत्यानि तु आयतनविधिचैत्यपदाभ्यां संगृहीतानि, अथ सम्यग्दृष्टिश्रावकैः साधुभिश्च यत्र|8 |चैत्ये कथमपि न गम्यते यत्र गतानां च सम्यक्त्वहानिर्भवति, तचैत्यस्वरूपं सविस्तरं व्याचिख्यासुराह MAMACHAMASALAALC
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy