________________
चेइअ निस्सकडअनिस्सकडचेइए वावि । सासयचेइय पंचममुवइ8 जिणवरिंदेहिं ॥१॥” भक्तिकृतचैत्यं । ।१। मङ्गलकृतचैत्यं ।२। निश्राकृतचैत्यम् ।३। अनिश्राकृतचैत्यं । ४। शाश्वतचैत्यं । ५। तत्र भत्तया श्रीतीर्थकराणां श्रीभरतेश्वरचक्रवर्तिप्रमुखपरमार्हतश्रावकैरमेय स्वापतेयव्ययेन श्रीअष्टापद-श्रीशजयप्रमुखमहातीर्थेषु, स्वस्यान्यस्य च सम्यक्त्वप्राप्तये स्थिरीकरणाय च यत् कारितं तद् भक्तिकृतं चैत्यमुच्यते । मङ्गलार्थं समस्तसंघमाङ्गलिक्याय यत्कृतं चैत्यं तन्मङ्गलचैत्यमुच्यते । तच्च यथा जातं तथा कथानकेन प्रकटी क्रियते तथाहि-तेजःपुनविराजिष्णुजिष्णुनायक बन्धुरा । अभूद् भूवनिताहारलतेव मथुरापुरी ॥१॥ अनीतिमपि सौवोर्वी सन्नीतिं विदधत् सदा । बभूव तत्र भूपालः श्रीशत्रुदमनाभिधः ॥२॥ माऽपहार्षीच्छ्रियं कश्चिदस्या इति समंततः । उत्संगीकृत्य यां तस्थौ प्राकारो बुद्धिमानिव ॥ ३॥ लक्ष्मी जहार मे सर्वा मेषेति मकराकरः। वेष्टयित्वा स्थितो यां तुलां लातुं खातिकामिषात् ॥४॥ तत्रोत्तस्थावथान्येद्युारिमानिकतान्त्रिकैः । अनिषेध्या प्रयोगाद्यैः कालसध्येव भीषणा ॥ ५॥ शवश्रेणिभिराकीपर्णा पतत्पक्षिकुलाकुला । श्मशानभूमिकेवाभूद् भैरवा मथुरापुरी ॥६॥ शिशुयुवा जरीलोको नीयते स्म यमालयम् । दुर्वारमारिवेगेन दवेनेव वनाग्निना ॥७॥ तत्र पौरमहाभाग्यमन्त्राहूताविवान्यदा । धर्मरुग् धर्मघोषाख्यौ चारणर्षी समयतुः ॥ ८॥ समुल्ललासकल्याणं सकलेऽपि पुरे क्षणात् । क्षणोति हि मुमुक्षूणामागमो श्रेयसांगणम् ॥९॥ मुहुर्विजहतुः साधू सिद्धान्तरसवारिधी । एकत्र नहि तिष्ठन्ति समयज्ञास्तपोधनाः ॥१०॥ उज्जजम्भे पुनारिः संप्राप्तप्रसरा ततः। उपद्रवं