________________
चैत्यवन्दन
महीरुहं च छिन्नरुहं । साहारणं सरीरं, तविवरीयं च पत्तेयं ॥७॥ गूढसिरागंपत्तं, सच्छीरं होइ जं च निच्छीरं।
जंपिय पणट्ठसंधि, अणंतकायं वियाणाहि ॥८॥' अस्याः किंचित् व्याख्या लिख्यते-गूढा-अनुपलक्षिताः सिरा ॥८६॥ नाड्यो यस्य तत् 'गूढसिरं' पत्रं सक्षीरं भवति यथा शुभकवृक्षस्य, अक्षीरं वा भवति यथा पीलुवृक्षस्य, यदपि
च तत्पत्रं प्रणष्टसंधि स्यात्, प्रणष्टाः संधयः पांशुल्य:-पृष्टप्रदेशरेखा विशेषा यत्र तत् प्रणष्टसंधि, एवं विधवि& शेषणोपेतं पत्रं अनन्तकायिकं जानीयात् । अथ मूलकंदस्कन्धपत्रादीनामनंतकायिकानां लक्षणं भण्यते-"चक्का
गं भज्जमाणस्स, गंठीचुन्नघणाभवे । पुढविसरिसेण भेएण, अणंतकायं वियाणाहि ॥९॥ जस्स मूलस्स भग्गस्स, समो भंगो पदिस्सइ । अणंतजीवेहु से मूले, जेयावन्ने तहाविहे ॥१०॥” अथ प्रत्येकवनस्पतिमूलस्य लक्षणमुच्यते,"जस्स मूलस्स भग्गस्स हीरोभंगोपदिस्सइ । परित्त जीवे हु से मूले जे यावन्ने तहाविहे ॥११॥” अथानन्तकायत्वगलक्षणमाह-"जस्स मूलस्स साराओ, छल्ली बहलतरी भवे । अणंतजीवा हु सा छल्ली, जे यावन्ना तहाविहा ॥ १२॥” साराकाष्टं तस्माच्छल्ली-त्वक् बहलतरी-स्थूलतरी यथा सत्तावर्याः सा अनन्तकायिकत्वगविज्ञेया, काष्टं तु प्रत्येकजीवम् , अथ प्रत्येकत्वग्लक्षणमाह-"जस्स मूलस्स साराओ, छल्ली तणुयरी भवे । परित्तजीवा हु सा छल्ली, जे यावन्ना तहाविहा ॥१३॥” इति निशीथसिद्धान्तचूर्णेरनन्तकायिकगाथा व्याख्या|'संधाण'मिति "अघाण'मिति लोकप्रसिद्धं, अनंतकायिकं पंचवर्णफुल्लिसङ्कलत्वात् जीवसंसक्तिमत्वाच, खादिष्टमन्नं रोचकमपि रसगार्येन सुश्रावकेण स्वगृहे न कारणीयं, नापि स्वयं भोक्तव्यं, 'घोलवडा' इति आम-|
SAAAAAAAIARIES