________________
गोरसनिक्षिप्तानि वटकानि श्रावकेण न भक्षणीयानि, यतो वटकानां द्विदलोत्पन्नत्वादामगोरस संयोगे च तद्वर्ण- | | सजीवोत्पादस्य सिद्धान्ते प्रतिपादनात्, तदुक्तम् जइ मुग्गमासपमुहं विदलं कञ्चम्मि गोरसे पडइ । ता तसजीवुष्पत्ति, भांति दहिए वि तिदिणुवरेिं ॥ १ ॥ ननु 'संगरहली' त्यादि गाथयाऽग्रे सूत्रकारेण गोरससंष्टतद्विदुलान्नभक्षणवर्जनस्य भणिष्यमाणत्वादत्र कथं घोलवटकपरिवर्जनं पृथक् प्रत्यपादि ?, अत्रोच्यते जिन| शासने- उष्णतक्रनिक्षिप्तवटकभक्षणं निर्दोषत्वात् सुश्रावकैर्विधीयते, अतो मुग्धश्रावकाणां घोलवटकभक्षणेऽपि तत्सादृश्येन भक्षणभ्रान्तौ सत्यां तन्निषेधार्थमिह घोलवटकानां द्विदलानामपि पृथगुपादानं, 'वायंगणमिति, तथा वृन्ताकफलान्यपि बहुबीजानि कामोद्दीपनकारित्वात्सदोषाणि विवेकवता श्रावकेण परिहरणीयानि, यदुक्तं स्वसिद्धांते परसिद्धाते च - " बहुबीयाओ बहुजीवघायणं बहुयवाहिकरणाओ । बहुकाम - | निद्दकारणत्तणेण वायंगणा न सुहा ॥ १ ॥” नीलीं च वापयेद्यस्तु, मूलकं यस्तु भक्षयेत् । वृन्ताकभक्षणादेव, नरो गच्छति रौरवम् ॥२॥" अमुणियनामाई'ति, अज्ञातं स्वयं परेण वा नाम येषां पुष्पफलादीनां तान्यज्ञातना| मानि पुष्पफलादीनि विवेकवान् श्रावकवरो न भक्षयेत्, यतः कदाचिदज्ञातफलभक्षणे विषफलभक्षणेऽपि प्रवृत्तिः स्यात्, यत उक्तम्- "स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वाऽपि मा भूदस्य| प्रवर्तनम् ॥ १ ॥" अतो यत्किंचित् श्रावकेण भक्ष्यते तन्नाम ज्ञात्वैव भक्षणीयम्, अतो ये सद्गुरुवचनाञ्जनविगतवितताज्ञानपटला नानाऽभिग्रहग्रहणप्रवणमत योऽज्ञातफलभक्षणनियममादाय स्वप्राणप्रहाणावसरेऽपि