________________
चैत्यवन्दनतानि न भक्षयंति, ते वङ्कचूलराजकुमार इव खर्गापवर्गादिसकलकमलालीलावतीपाणिपीडनविधिं विद
18 कुलकवृचिः घति, अत्रार्थे वङ्कचूलराजकुमारकथानकं जनितामन्दानन्दकदम्बकं सकलसकर्णानां कर्णातिथीक्रियते तथा॥८७॥
हि-क्षितियुवतिभालतिलकं, शुचिकाश्चनजटितमुषितपुरत्नम् । विरराज रुचिरवर्ण, रथनूपुरचक्रवालपुरम् ॥१॥ वातप्रेडोलितावासपताकाकिङ्किणीकणैः । बभौ हंसदिवाशेषां, रत्नगर्भा निजश्रिया ॥२॥ जिनधर्मामकर्पूरपूरवासितधातवः।श्रावकाः सौरभं यत्र, परेषामपि चक्रिरे ॥ ३॥ विमलयशा विमलयशा, इह भूमिपुरंदरः समजनिष्ट । जिनवरचरणांभोरुहवरिवस्यन् मधुकरीकान्तः॥४॥ यस्य प्रतापयशसी, रणारम्भं विनाकृते । समुद्रमुद्रितां सर्वा, साधयामासतुमहीम् ॥५॥ नीतिकांतापरिष्वङ्गरणदत्तुङ्गमानसः । अनीतिव| नितां दृष्ट्याऽप्येष नैक्षिष्ट रुष्टवत् ॥ ६॥ कल्पमाङ्गल्यशालेव, पत्नी तस्य सुमङ्गला । अभूत्प्रतिकृतिप्राया यस्या अप्सरसोऽपि न ॥७॥ शीलायाः कवचेनेव, यस्याः कवचिते हृदि । न परः पुरुषः शक्तो, बेष्टुं कौशल
शाल्यपि ॥८॥ तत्कनी वङ्कचूलाऽभूत् , बालरण्डा च साजनि । भूपत्यपत्यभावेऽपि, नान्यथा कर्मनिर्मितम् *॥९॥ अङ्गभूर्वङ्कचूलोऽभूत्तयोः साहसिकाग्रणीः । मांसलस्कन्धरोचिष्णुरलंभूष्णुर्द्विषः प्रति ॥१०॥ मुख्योऽपि
दोष्मतामेष, हृषीकाणां वशंवदः । परदारखलीकारं, कुरुते स्म निरर्गलम् ॥११॥ सोऽलुण्ठत् पुरिलुण्टाकइव सारं पुरीसदाम् । तांस्तथोद्वेजयामास, वधबन्धनताडनैः॥१२॥ तेनात्युद्वेजितैलोकैः, पूच्चक्रे नृपतेः पुरः देव ? मातरि दुष्टायां, जीवितव्यं कथं कियत् ॥ १३ ॥ त्वदङ्गजोऽप्यपन्यायं, समाचरति चेद्विभो,? प्रजायाः
॥
७
॥