SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ क सुखं भावि, रक्षको यः स हिंसकः ॥१४॥ प्रजाः पुत्रीयमाणोऽथ, भूनेताऽत्यन्तवत्सलः। आश्वास्य कोमलालापैायिगृह्यो व्यसर्जयत् ॥१५॥कोपाटोपाद्दशनोष्ठं, वङ्कचूलं च राट् जगौ । अङ्गजेनापि दुष्टेन व्रणेनेव कृतं त्वया ॥१६॥राज्यं राष्ट्रं च मे हित्वा, दुरात्मन् ? वत्स ? गच्छ रे। शून्यैवहि वरा शाला, नतु तस्करपूरिता॥१७॥ इत्युक्तो भूभुजा पुर्या, जामिजायासमन्वितः । वङ्कचूलश्चचालाशु, धिक्पापं दुर्दशाकरं ॥१८॥ मागोमागोनभिज्ञोऽथ, स हिंस्रपाणिभीषणाम् , आससादाटवीं गुर्वी, तत्रातीयाय यामिनीम् ॥१९॥ दिग्विभागमजानानैः, & प्रातरेतस्य किंकरैः। वटमारुह्य पश्यद्भिः, काप्यदर्शि हुताशनः॥२०॥ कोप्यत्र पथिकोऽस्तीति, न्यग्रोधादवरु ह्य ते । तत्र जग्मुर्निजे कार्ये का, प्रमाद्यति हृद्यधीः ॥ २१॥ करवालकरान् क्रूरांश्चौरान् धृतधनुः शरान् । किंकरानिव कैनाशानीक्षामासुश्च तत्र ते ॥२२॥ अभाषयन्त चौरांस्तान् , यूयं कस्य कयास्यथ । ते कथां वङ्क-17 चूलस्यामूलचूलामचीकथन् ॥ २३ ॥ तथाहि-राज्ञा विमलयशसा, वङ्कचूलाभिधः सुतः, । ज्यायोऽन्यायविधायित्वान्निरकासि खदेशतः॥२४॥ पर्यटन्नटवीं सोऽमूमायासीत्तस्य किंकराः। वयं प्रश्नयितुं मार्गमुपयुक्तं समागताः॥२५॥ इत्याकर्ण्य वचस्तेषां, पुनरूचुमलिम्लुचाः।क विभुर्भवतां तेऽपि, दर्शयामासुराशु तम् ॥ २६ ॥ नत्वा प्रणिगदंति स्म, वङ्कचूलं मलिम्लुचाः । देव! देवोऽस्मदीयोऽभूच्छाद्धदेवातिथिः पुरः ॥२७॥ नाथ ! नाथसनाथाः स्मो, भवतैव भटोत्तम !। सदृशाः सदृशेष्वेव, रति नहि संशयः ॥२८॥ ऊरीचकारचौराणां, राजसूरपि तद्वचः। नौचितीमौचितीदक्षा, लंघयंति कथञ्चन ॥२९॥ सचौरश्चौरपल्यां स, जगाम बचस्तेषां, पुनरूचा। देव! देवोऽस्मदीयोनाह संशयः ॥ २८॥ माजगाम
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy