SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ॥८८॥ खजनैवृतः । अध्यासामास पल्लीशसदनं च शुभायतिः ॥ ३०॥ पापर्द्धिवद्धि पापर्द्धिमाधत्त व्यसनान्धितः, कुलकवृतिः ग्रामादिषु ददौ धाटी, पाटचरचमूवृतः॥३१॥ पथि प्रस्थितसार्थोघं, पान्यांश्च स उपाद्रवत् । मृगयुमंगयां प्राप्तः, क्रूरकर्मा मृगानिव ॥ ३२॥ युग्मम् ॥ इतश्च-तिसृभिर्गुप्तिभिगुप्तः, सक्तः समितिपञ्चके । चारुपञ्चविधाचारसमाचरणदक्षिणः॥३३॥ चरणप्रगुणः क्षीणरणः कुनयवारणः । श्रीमान् सूर्ययशाः सूरिरात्मना सप्तमोऽन्यदा ॥ ३४ ॥श्रीउज्जयिन्यलंकारनेमीश्वर निनंसया । प्रतस्थे सार्थतो भ्रष्टः पपात च महाटवीम् ॥ ३५॥ उदन्वति यथा नावं, ग्रीष्मे छायां घनामिव । भिल्लपल्लीं वङ्कचूलसनाथां स समासदत् ॥ ३६॥ चतुर्भिः कलापकम् । निखनघननिखानखनसंसूचितागमः। अथ नाथ इवावन्याआजगाम घनागमः ॥ ३७॥ प्रवर्षद्वषुकांबोदसमुन्नतिसमुद्भवैः। रोदोमन्दिरमापूरि सूचीभेद्यैस्तमोभरैः॥ ३८॥ जीमूतकान्तसङ्गेन, प्रोचरोमांचितेव भूः। चकासामास संकीर्णहरिद्भिहरिदकरैः ॥३९॥ जम्बालजलमाजानु विरेजे क्षितियोषितः। पयोदप्रियसङ्गेन । प्रक्षरत्खेदपूरवत्॥४०॥ चतुर्भिः कलापकम् । ततस्तत्रैव तिष्ठासुसूरिः शय्यां यियाचिषुः । पल्लीशधान्यगात्सर्व, यतीनामस्ति याचितम् ॥४१॥ अनंसीद वंकचूलोऽपि, भक्तिसारं मुनीश्वरम् । पप्रच्छ च प्रभो ? ब्रूत, समागमनकारणम् ॥ ४२ ॥ सूरिरूचे वयं वर्षाकारणात्क्षत्रियोत्तम!। स्थास्यामोऽत्र प्रयच्छातो, वसतिं नो यथाकृताम् ॥८ ॥ ॥४३॥ रचयद्विनयाद्वैतं, वकचलोऽवदद्रुम् । दास्याम्यपाश्रयं किंत, मामकीनं वचः शृणु ॥ ४४ ॥ भवद्भि१ स्थामपर्वतः । २ भूमिः । SECR
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy