SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ रत्र नाधेया, धर्मकर्मकथा प्रथा । प्रतिशुश्राव तत्सूरिः, कार्य कार्य यथा तथा ॥४५॥ पल्लीशार्पितवसतो, तस्थिवांसः स्थिरा व्रते । स्वाध्यायध्यानलीनास्ते, तत्र प्रावृषमत्यगुः॥४६॥ उच्छू वोलिंति विइतुं, बीउजाईमुक्कभंडाओ । वसभा य जायथामागामा पंथा अचिक्खिल्ला ॥४७॥ अप्पोदगाय मग्गा वसुहावि य पक्कमटिया 8 जाया। अन्नकंता पंथा, साहणं विहरि कालो॥४८॥ कथयित्वेत्यथाऽऽपृच्छय, वङ्कचूलं च सूरयः। चेलु:सुविहितानां हि, प्रतिबन्धो भवेत्किमु ?॥४९॥अन्वगाद्वंकचूलस्तान्, प्रोचिरेतेऽपितं प्रति। पूर्णा पूर्वप्रतिज्ञेति, वच्मस्त्वां प्रति सम्प्रति ॥५०॥ उपाश्रयायुपष्टम्भप्रदानादुपकार्यसि । उपाश्रयप्रदानं यत्पुण्यायोक्तं हि चागमे ॥५१॥ यदुक्तम् "जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्नवत्थन्नपत्तसयणासणविगप्पा ॥५२॥ पावई सुरनररिद्धिं, सुकुलप्पत्तीय भोगसंपत्ती । नित्थरइ भवमगारी सिज्जादाणेण साहूणं ॥५३॥ उपकारं चिकीर्षामः, किंचित्तेऽतः स च द्विधा । द्रव्यतो भावतश्चेति, द्रव्यतः सोऽथ कथ्यते ॥५४॥ वसनासनगेहार्थकन्यकादिप्रदानतः। द्रव्योपकार एषः स्यादनित्यत्वान्न सुन्दरः ॥५५॥ भवेद्भावोपकारस्तु, दर्शनस्य प्रदर्शनम् । द्वादश व्रतदानं च, तत्त्वमार्गोपदेशनम् ॥५६॥ सारं भावोपकारं ते, विधित्सामः शुभेच्छवः । अतो गृहाण सद्धर्म, नियमं चात्र कश्चन ॥५७॥ ततः पल्लीपतिः स्माह, प्रभोऽहं पश्यतोहरः। हिंसालीकपरद्रव्यपरदारापरायणः ॥५८॥ सप्तव्यसनपाथोधिक्रोडक्रीडनकच्छपः । निःशेषदोषलीलाभूः, धर्मकर्मबहिष्कृतः ॥५९॥ पापिभ्योऽप्यस्मि पापिष्ठो, येन प्राप्य भवादृशान् । नाददे नियमं कञ्चित्, धर्म वा जिनभाषितम् ॥६०॥ इत्यु
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy