SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन तारहारपरिस्कृतः॥१०॥ श्वेतातपत्ररोचिष्णुस्तूयमानश्च वन्दिभिः। दिव्यवनपरिधानश्चारुचालितचामरः॥११॥ कुलकवृतिः स्वस्वामिसहचारित्वात्तुष्टैःपुष्टैस्तुरङ्गमैः । नृत्यदुभिरिव रिङ्गद्भिर्हेषयद्भिर्विराजतः॥१२॥ हस्तिमल्लाधिरूढो राडन्य॥११॥ दा राजवाटिकाम् । गच्छन्निन्द्र इवाद्राक्षीत् खां पुरीं छुपुरीमिव ॥ १३॥ चतुर्भिः कलापकम् ॥ विस्फारसारश दारं, स्वर्णभूषणभूषितम् । क्वचिन्नाद्यानिमेषाक्षं, स्त्रैणं दिव्यं स प्रेक्षत ॥१४॥ कचिद्वेश्याश्रये रम्ये, हHश्रेमणिमनोहरे । पण्ययोषितमैक्षिष्ट निकामं कामिकामितम् ॥ १५॥ अविगानमहागानकलाकौशलपेशलान् । वीक्षा बभूव गन्धर्वान् , खर्गन्धर्वानिव कचित् ॥ १६॥ अनिर्वेदचतुर्विधोद्गारमादधतः कचित् । भूदेवान् वसुधाधीशा, प्रेक्षां चक्रे विचक्षणः ॥ १७॥ राजमार्गापणश्रेणावपश्यत् काश्यपीपतिः । वरेण्यपण्यसंभारहारिणो व्यवहारिणः ॥ १८ ॥ उपशान्तरसावासान् , सदा निर्निद्रदर्शनान् । ददर्श कापि भूमीशः, सुसाधून विबुधानिव ॥ १९॥ तेषु नानासनासीनान्, मुनीनालेखितानिव । निरुद्धोच्छासनिःश्वासान् , कांश्चिदैक्षत-15 कौतुकान् ॥ २०॥धीरगम्भीरनादेन, देशनामृतवर्षिणः। ददर्श व्रतिनः कश्चित् , प्रावृषेण्यानिवाम्बुदान्॥२१॥ कांश्चित्तत्र गुरोः पार्थेऽधीयतः सुधियःश्रुतम् । सोऽपश्यत् प्रतिभोन्मेषान्मिषतोऽनिमिषानिव ॥२२॥ सदात्मव्यवसायाय, कांश्चित्तत्र चारित्रिणः । ससूत्रिण इवादाक्षीत् , सूत्रव्यावर्त्तने रतान् ॥ २३ ॥ दशभिः ॥११॥ कुलकम् ॥ तत्रैव मातृकासूत्रं, वृद्धमेकं तपखिनम् । उच्चैःस्वरेण घोषन्तं, वीक्ष्याऽभाषिष्ट भूमिपः ॥ २४ ॥ अयमस्मादृशां पुसा, पश्यतां यन्न पश्यति । किमधीत्य सुधीभूय, मुशलं पुष्पयिष्यति ॥ २५॥ ममावित् सोप GRUSSAGESSISSISSES
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy