SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ क्रीडाक्रीडालिषु प्रीताः क्रीडन्तोऽत्र जना बभुः । वृन्दारका इवोदारमन्दारोद्यानराजिषु ॥३॥ पौरा हारा है इवाराजन् , यंत्र हृद्याः शुचिश्रियः । मुक्तामया गुणाधाराश्चारुनायकबन्धुराः ॥ ४ ॥ सितांशुकांत्यलक्षेषु, विहारेषु निशासिंह । हेमकुम्भा नभोगङ्गाहेमपद्मभ्रमं व्यधुः ॥५॥ चतुर्भिः कलापकम् ॥ तत्रारिकुञ्जरेभारिविक्रमाभारिदोयुगः। विक्रमादित्यभूपोऽभूत् समर्थः समकर्मसु ॥६॥ परकायप्रवेशेन ध्रुवं ज्ञात्वेव वाञ्छितम् । अयाचितं याचकेभ्यो यथेच्छं यच्छति स्म यः॥७॥ वियोगिवैरिस्त्रैणोष्मबाष्पनिक्षारणादिव । निर्मलं यद्यशो वासो रेजे सद्गुणगुम्फितम् ॥८॥नमन्तः सर्वसामन्तभूपाला इव शासनम् । यदीयं पालयन्तिस्माऽ|ग्निवैतालादिचेटकाः॥९॥ चतुर्भि:कलापकम् मण्डलेश्वरसामन्तायैः, समन्तात् परिवृतः। हेमकुण्डलकोटीरलोला सरसी पक्षे लक्ष्मणा सारसास्तेषां श्रेणिभिः संशिनष्टाः साधुभिः प्रधानै सजीवैः कमलै राजिता महांत उल्लोलाः कल्लोला यस्यां सा| तथा । १ 'क्रीडा' क्रीडावनं धृन्दारका देवाः । उदारेति, उदाराणि उत्कटानि यानि मन्दाराणां कल्पतरुविशेषाणामुद्यानानि तेषां राजिषु ।। २ यत्र यस्यां पुर्या पौराः पुरलोका हारा इव रेजिरे, कीदृशाः पौरा हृद्या मनोज्ञास्तथा शुचिया॑यार्जिता श्रीर्येषां ते तथा मुक्ता आमया रोगा यैस्ते तथा, गुणानामाधारा आश्रेयाः चारुणा प्रधानेन नायकेन बन्धुरा मनोहराः, हारपक्षे हृद्या हृदयन्यासयोग्याः शुचिश्रियो निर्मलाश्रियो मुक्तामया मुक्ताफलनिर्मिताः गुणस्य दवरकस्याधाराः चारुणा नायकेनान्तर्मणिना बन्धुराः। ३ इह नगयो निशासु। रात्रिषु विहारेषु प्रासादेषु सितांशोश्चन्द्रस्य कान्तिमिाप्तेषु श्वेतवर्णतयाऽलक्ष्येष्वदृश्येषु तदूर्ध्वस्था हेमकुम्भा नभोगंगायां यानि हेमपयानि तेषां भ्रमं चक्रु इत्यर्थः ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy