SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दम॥१०॥ 5454ॐॐॐॐॐ मतङ्गजा अतस्तरङ्गितसंवेगभङ्गिशुभगं भावुकखान्तकोटरोहीकमानस्थानध्यानानलेन्धनायमानमकरध्वजा अपि कुलकवृत्तिः सुगुरवः कदाचिदनादिकालीनाविद्यावासनासंस्कारविस्फारविस्फुरितप्रमादवशतः श्रीजैनसिद्धान्ताऽशातनाकारि ज्ञानदर्शनचारित्रदुकूलनयनर्मल्यापहारि वाक्यपङ्कमण्डलं विस्तारयति । पश्चात्ते एव गुरवो गीतार्थोपदेशतः पश्चात्तापपुरस्सरः पारांचितप्रायश्चित्तनीरपूरविहितात्मशुद्धयः श्रीजिनशासनप्रभावनविधानजायमानकुन्देन्दुद्युतिसमानकीर्तिधवलितक्षितयः समस्तक्षितितलप्रसिद्धश्रीसिद्धसेनसूरितत्सिद्विवधूसम्बन्धनिबन्धनभूता भव्यजीवैः सदा समाराध्या एव । तत्समीपे च सम्यक्त्वप्रतिपत्तिर्विधेया अतः श्रीसिद्धसेन दिवाकरकथानकं प्रोच्यते तथाहि-अवन्तिविषयः क्षोण्या स्म बभस्तिप्रशस्तिवत् । सदर्थालंकृतिश्लोकवृत्ताऽऽावलिमण्डलम् ॥ १॥ लक्ष्मणश्रेणिसंश्लिष्टा साधुराजीवराजिता । सरसीव महोल्लालाऽभूदुज्जयिनीपुरी ॥ २॥ । १ मालव्यदेशः क्षोण्याः पृथिव्याः प्रशस्तिरिव विभातिस्म चकाशेः कीदृशो मालव्यविषयः सदर्थेति सच्छब्दः प्रत्येकं योज्यः ।। सन् संशोभना न्यायार्जिताऽर्था धनमलंकारा आभरणानि, यथा शास्त्रमाचारो येषामेवंविधा ये आर्यास्तेषामावल्या परस्परया मंजुलं प्रधानः, प्रशस्तिपक्षे सन्तः शोभनाश्चमत्कारिणोऽर्था अलंकाराश्चोत्प्रेक्षादयो येषु एवंविधा ये श्लोका वृत्तानि आर्याश्च तेषामवल्या परंपरया मंजुला मनोज्ञाः, अत्र च विषयस्य प्रधानत्वात् तदपेक्षया पुल्लिङ्गता ॥ ननु प्रशस्त्यपेक्षया स्त्रीलिङ्गता तत्र श्लोका अष्टाक्षरपादः वृत्तानि भूरिभे-1| ॥१०॥ दानि आयो मात्राच्छन्दांसि । २ लक्ष्मण अत्र मालव्यदेशे उज्जयनीनामपुरी अभूत का इव सरसीव महासरसीव कीदृशी पुरी लक्ष्मणा| लक्ष्मीवन्तस्तेषां श्रेणिमिः संश्लिष्टाः संयुक्ता साधवा सामीस्तेषां राजीभिरावलिमिर्वरा अजिता अजया वैरिवगैरितिगम्यते महैरुत्सवैरु
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy