________________
कोष्ठस्तुल्यः स सर्वज्ञं मन्य आगानिजं पुरम् ॥१५॥ आदातुं पैतृकी वृत्तिमादायोपायनं वरम् । गत्वा राजसभा नत्वा, भूभुजं स व्यजिज्ञपत् ॥१६॥ गत्वा देशान्तरं देवी प्रसादात् तव सत्वरम् । अनवद्या अहं विद्याः, पपाठाशठमानसः॥१७॥ तस्य वृत्तिं व्यधाद् भूपः, प्रसन्नीभूय भूयसीम् । महान्तोहि श्रिते लोके, कल्पशाखिसनाभयः॥१८॥ अन्यदा भूभुजः सुनोः शरीरेऽभूद् ज्वरः खरः॥राज्ञि रके हि मुनिवत् तुल्याः कर्मों-18 दयः खलु ॥ १९॥ आदिदेश नराधीशस्ततस्तं भिषजोऽङ्गाजम् । तथा कुरु यथा भद्र भद्रीभवति मे सुतः॥२०॥ पूर्वाले वमनं दद्यादित्यादिश्लोकमेककम् । पूर्वाधीतं तत्त्वभूतं मन्यमानः स शून्यधीः ॥ २१ ॥ विरेच्य प्रथम पश्चान्नृपात्मजमवीवमत् । गन्तुकामोहि कौबेयों मूढो यात्यधिदक्षिणम् ॥ २२ ॥ औषधीनामसाध्योऽभूत्, सन्निपातगदस्ततः। मृदिखायुदरं मूर्खः, किं नोत्पादयते रुजम् ॥ २३॥ सुकुमारः कुमारोऽथ, जगाम यममन्दिरम् । शिरीषपुष्पं सहते, किं खरं करपीडनम् ॥ २४ ॥ तं राट्पुत्रवधात् क्रुद्धः शूलायामध्यरोपयत् । अविचारितकर्तृणामसको हि सुखादिका ॥ २५ ॥ वैद्यात्मभूरिव जिनागमलेशपाठात् खं सर्वशास्त्रकुशलं कलयन् कुधीर्यः।। राजाङ्गजातमिव देहिगणं दुरन्तदुःखं नयत्यविरतं स गुरुन सेव्यः ॥ २६ ॥ इति देशतोऽगीतार्थकुगुरुविषये वैद्यपुत्रकथानकं समाप्तम् ॥३॥ | श्रीगणभृत्प्रणीतसिद्धान्तानवद्यविद्याविलासमानसलसत्सातिरेकविवेकांकुशवशीकृतनिरंकुशमहामोहमत्त
१ कल्पशाखीति, कल्पशाखिसदृश इत्यर्थः । २ कौबेर्यामिति, उत्तरस्यां दिशि ।