________________
द्रुतं गत्वा निजं तातं क्षमयित्वा च संप्रति । पुनर्दास्ये पितू राज्यं न्यासार्पितमिवादरात् ॥ ३९॥ इत्युक्त्वा) सोऽर्द्धभुक्तेऽप्याचम्य सूनुं समर्प्य च । धाच्या उत्तस्थिवांस्तातान्तिके यातुं तदातुरः ॥ ४०॥ निगडांस्तातपा-3 दानां भक्ष्यामीत्यभिसन्धया। अयोदण्डं स आदायाधावीच्छ्रेणिकसंमुखम् ॥४१॥ यामिकाः संस्तुताः पूर्वमायान्तं वीक्ष्य तं जगुः। श्रेणिक दण्डपाणिस्तेऽद्येति सूनुः समुत्सुकः ॥ ४२ ॥ ततो दध्यौ स केनापि दुर्मारेण हनिष्यति । मामिति द्रुतमायाति कूणिको दण्डपाणिकः ॥ ४३ ॥ ततो यावद् दुरात्मैष मां विनाशयते नहि। प्रेषयामि स्वयं तावत् प्राणान् प्रवासिकानिव ॥ ४४ ॥ विषं तालुपुटं दत्त्वा जिह्वाग्रे श्रेणिकस्तदा । विपद्य |नारको जज्ञे रौद्रध्यानपरायणः ॥ ४५ ॥ सोढा चतुरशीत्यष्टसहस्राण्यथ स व्यथाम् । घाद्यप्रस्तटे तस्मादु
त्यात्र समेष्यति ॥४६॥ अत्रैव भरते भाव्यहचतुर्विशतौ ततः । श्रीपद्मनाभो नाम्ना स भविष्यति जिने-18 श्वरः॥४७॥ सोऽथ देवासुरैः सेव्यः कृत्वा संघं चतुर्विधम् । क्षिप्त्वा सर्वाणि कर्माणि सिद्धिसम्बन्धमेष्यति ॥४८॥ यद्वच्छ्रेणिकभूभुजा निजभुजाक्रान्तारिभूमीभुजा चित्तान्तर्दधिरे सुराधिपसुराधीशस्तुता भासुराः।। श्रेयापत्तनवासदाः सुविशदाः श्रीभाववासाः सदा ध्येयास्तेऽपि तथा हृदात्र सुहृदा संगं विमुच्य हृदा॥४९॥8 कर्तुं न शक्ताः सुतपोमुखं चेत्तदा जना भोः शुभभावपूर्वम् । जिने गुरौ तद्भणिते च धर्म स्थैर्य दृगेतन्मनसा विधेयम् ॥ ५० ॥ इत्थं श्रेणिकभूपतेः सुचरितं नानाकथापूरितम् । श्रुत्वा साध्वनुमोदयन्ति हृदये शुद्धावबोधोदये । प्राप्याभीष्टकरं द्यरत्नवदरं श्रीक्षायिकं सुन्दरं सम्यक्त्वं परिभुज्य चेष्टकमलां सेत्स्यन्ति ते निर्मला: