________________
चैत्यचन्दन
॥ ४९ ॥
॥ ९५९ ॥ इति युगप्रवरागमश्रीजिनचन्द्रसूरिशिष्यलेश श्रीजिनकुशलसूरिविरचितायां चैत्यवन्दन कुलकवृत्तौ भाववासप्रतिपालनाख्यानकं श्रीश्रेणिकमहाराजकथानकं समाप्तम् ॥
अथ सम्यक्त्वाङ्गीकारे श्राद्धानां साधूनां च यत्र चैत्ये प्रतिदिनं सामान्येन गन्तुं कल्पते, यच चैत्यं शिवाय भवति, यत्र च चैत्यकारणान्तरादेव पर्वदिनेष्वेव गन्तुं कल्पते । एवं चैत्यविशेषमभिधित्सुराहआययणमनिस्सकडं विहिचेइयमिह तिहा सिवकरं तु । उस्सग्गओववाया पासत्थोसन्नसन्निकयं ॥ ६ ॥ आययणं निस्सकडं पव्वतिहीसुं च कारणे गमणं । इयराभावे तस्सत्ति भावबुद्धित्थमोसरणं ॥ ७ ॥
व्याख्या- 'आययणं' इत्यायतनम् । आयो दर्शनज्ञानादिलाभः, तन्यते - विस्तार्यते येन यत्र वा तदायतनं, यत्र मूलोत्तरगुणभ्रष्टाः साधवो न वसन्ति तदायतनं चैत्यमुच्यते । तच्चावपन्न पार्श्वस्थादीनां निश्राकृतमपि भवति, अतस्तद् व्यवच्छेदार्थमाह-- 'अनिस्सकडं' अनिश्राकृतं निश्रयाऽवषन्नपार्श्वस्थादीनां निमित्तेन तद्भक्तश्रावकैर्द्रव्यव्ययेन कृतं निश्राकृतं न निश्राकृतं तदनिश्राकृतं यत्र श्रावका एव लेखकोद्ग्राहणिकादिचिन्तां कुर्वन्ति तदनिश्राकृतमिति भावः । अनिश्राकृतमविधिचैत्यमपि भवत्यतस्तद्व्यवच्छेदार्थमाह – 'विहिचेइयं ' विधिचैत्यं विधिः सिद्धान्तप्रणीतरीतिः, “रात्रौ नन्दिर्न बलिप्रतिष्ठे न मज्जनं न भ्रमणं रथस्य । न स्त्रीप्रवेशो न च लास्य लीला साधुप्रवेशो न तदत्र चैत्ये ॥ १॥" इत्यादिखरूपस्तेन युक्तं चैत्यं विधिचैत्यमुच्यते, 'इह' जिनशासने
कुलकवृत्तिः
॥ ४९ ॥