________________
चैत्यवन्दन
॥ ४८ ॥
स्थास्नुना सदा । पाञ्चालिकान्वितस्तम्भशोभां बभार कूणिकः ॥ २३॥ भुञ्जानोऽपि शयानोऽपि तिष्ठन्नपि चरन्नपि । कूणिकस्तं शिशुं पाणेर्नामुञ्चन्मुद्रिका मिव ॥ २४ ॥ अन्यदोपाविशद् भोक्तुं कृणिकः पुत्रवत्सलः । न्यस्योदायि कुमारं तं मुदा वामोरुमस्तके ॥ २५ ॥ कूणिके भूपतावर्द्धभुक्ते सोऽमूत्रयच्छिशुः । घृतधारेव तन्मूत्रधारा तद्भाजनेऽपतत् ॥ २६ ॥ मा पुत्रमूत्रवेगस्य भंगोऽभूदिति कूणिकः । तदाऽचालीन जानुं खमङ्गभूरागः ईदृशः ॥ २७ ॥ मूत्रमिश्रमधान्नं तत्करेणोत्तार्य कूणिकः । भुंजानः शेषमाचख्यौ तत्रस्थां मातरं प्रति ॥ २८ ॥ मातरस्मिन् शिशौ यादृक् वात्सल्यं मम विद्यते । तादृगन्यस्य कस्यापि सुतेऽभूद् भावि वर्तते ॥ २९ ॥ कष्टादाचष्ट माताऽथ रे | पापिष्ठ निकृष्टहृत् । न तथा वेत्सि तातस्यात्यन्तेष्टस्त्वमभूर्यथा ॥ ३० ॥ दुर्दोहदात् पितुः शत्रुं ज्ञात्वा त्वां गर्भगं तदा। गर्भपातो मया रेभे भर्त्तुः कल्याणकांक्षया ॥ ३१ ॥ न तथापि च्युतः किन्तु प्रत्युतोपचितोऽस्यभूः । तादृक्कामोऽपि मेऽपूरि त्वत्पित्रा त्वद्दिदृक्षया ॥ ३२ ॥ तातघातीत्यवेत्य त्वं जातमात्रो मयोज्झितः । पुनस्त्वं पुत्र वात्सल्यात् पित्रा निन्ये गृहे स्वयम् ॥ ३३ ॥ कुक्कुटीपिच्छविकाली कृमिकुलाकुला । पूतिलिप्ता तदा तेऽभूदत्यन्तारतिकारिणी ॥ ३४ ॥ तादृशी तेऽङ्गुली स्वास्ये त्वत्पित्रा प्रेमतो दधे । रतिस्ते तावदेवाभून्मुखान्तर्यावदङ्गुली ॥ ३५ ॥ सदा मिष्टान्नपानाद्यैः पित्रा रे सन्मनोरथैः । आबाल्यात् पालयामासे यत्नात् स्वमिव जीवितम् ॥ ३६ ॥ त्वन्निमित्तं निजं राज्यं कृत्वैवं येन पालितः । त्वया रे प्रत्युपकारि तस्य बन्धादिभिर्वरम् ॥ ३७ ॥ इत्युक्तः कूणिको मात्रा तदा प्रस्तावविज्ञया । पश्चात्तापादुवाचैवं धिङ्मामस्त्वविवेकिनम् ॥ ३८ ॥
कुलकवृत्तिः
1186 11