________________
संस्थितं जनकं बाढं वबन्धुः पापकर्म च ॥ ७॥ क्रूरहृत्कूणिकोऽप्सीत् कीरवत्पञ्जरेऽथ तम् । नादात् तत्रा|सितुं तस्य पानकं भोजनं च सः॥ ८॥ प्राग्वैरात् कूणिकः पित्रेऽदात् पूर्वाहापराहयोः । शतं कशाप्रहाराणां |स्वयं प्रति दिनं हठात् ॥९॥ ददौ गन्तुं न कस्यापि कूणिकः श्रेणिकान्तिके । मातृदाक्षिण्यतः किन्तु चेल्लणां न न्यषेधयत् ॥१०॥ शतधौतसुरातिम्यत्केशपाशाऽथ चेल्लणा । तत्काल मजितेवागात् प्रत्यहं भूपसन्निधौ ॥११॥8 निक्षिप्य केशपाशान्तःशिरोमाल्यमिवान्वहम् । कुल्माषपिण्डिकां सैकां प्रीत्या निन्ये तदन्तिके ॥ १२ ॥ प्रच्छन्नं चेल्लणा पत्ये ददौ कुल्माषपिण्डिकाम् । आसाद्यतामपि क्षमापोऽमस्त मोदकवत् तदा॥१३॥ तया पिण्डिकया चक्रे भूपतिः प्राणधारणाम् । आलानबद्धदन्तीव तृणपूलान्यदत्तया ॥१४॥ नेत्राम्बुभिः समं देवी प्रियप्रेमानुबन्धतः । केशेभ्यस्तत्सुराबिन्दून् पातयामास पाणिना ॥ १५॥ पततस्तान् पपौ बिंदून पिपासुर्वसुधा|धिपः। प्रावृषेण्याम्बुदोन्मुक्तोदबिंदूनिव चातकः ॥१६॥ तत्सुराबिन्दुपानेऽपि कशाघातव्यथां नृपः। तदाऽमंस्त न तृष्णां च ह्यापधुरुरणुर्गुणः ॥ १७॥ एवं दैवापनीतां तां दुर्दशामसहन्नृपः। प्रति प्रागुग्रकर्माणि कस्य स्यात् प्रतिमल्लता ॥ १८॥ कूणिकोऽपि निजभ्रातृयुतोऽखण्ड्यपराक्रमः । एकच्छवं निजराज्यम् पालयामास चक्रिवत् H॥ १९ ॥ अन्यदा कौणिकी देव्यसूत पद्मावती सुतम् । चेटीवर्धापिकाऽऽगत्य तस्याग्रेऽवक सुतोद्भवम् ॥२०॥ प्रसन्नः कूणिकस्तस्यै कृत्वा वस्त्राद्यनुग्रहम् । चक्रे जन्मोत्सवं सूनोर्दिष्ट्योदायीति नाम च ॥ २१ ॥ सन्नेत्रकौमुदानन्दामोददायी स बालकः। अवर्धिष्ट सिते पक्षे द्वितीयेन्दुरिवोचकैः ॥२२॥ तेनोदायि कुमारेण कटीसं