SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन॥ २० ॥ यदा । तदा तदा भवत्यस्मत्प्रभोर शिवमेवहि ॥ ४६ ॥ ते चारक्षानधादिक्षंस्तापसो मन्त्रिरपि । प्रविशन्नप्यसौ सर्प इव निष्कास्यतां गृहात् ॥ ४७ ॥ कृते तैरेवमारक्षैर्निदानं तापसो व्यधात् । अहमेतस्य भूयासं, वधायोर्वीपतेरिति ॥ ४८ ॥ विपद्य तापसः सोऽभूत्, स्वल्पर्द्धिर्वानमन्तरः । भूपोऽपि तापसीभूय, तामेव गति| मासदत् ॥ ४९ ॥ सुमङ्गलः सुरश्युत्वा कमलिन्यां मरालवत् । कुक्षौ प्रसेनजिद्देव्या धारिण्याः समवातरत् ॥ ५० ॥ मितैः परिणाम हितैराहारैरमृतोपमैः । गर्भोऽवर्धिष्ट धारिण्याः कल्पदुरिव नन्दने ॥ ५१ ॥ शुभेऽहितनुजन्मानं, नयनानन्ददायिनम् । सुषुवे धारिणी देवी, प्राचीव रजनीकरम् ॥ ५२ ॥ जेमयित्वा बन्धुवर्गं प्रसे नजिदिलाधिपः । चकार श्रेणिक इति, नामात्मीयाङ्गजन्मनः ॥ ५३ ॥ गुणैः सार्धमवर्धिष्ट कुमारः श्रेणिकस्ततः । सवयोभिः समं क्रीडन् जयन्त इव ताविषे ॥ ५४ ॥ धनुर्वैद्यादिमा विद्या, अध्यैष्टाऽकष्टतोऽसकौ । पूर्वपुण्यपरिपाकजुषां हि किमु दुष्करम् ॥ ५५ ॥ क्रमेण वर्यसौन्दर्य, कमलाकेलिकाननम् । निसर्गमण्डनं तन्वा, | आससाद स यौवनम् ॥ ५६ ॥ राजाऽन्यदा खांगजानां राज्यार्हत्वं परीक्षितुम् । एकत्र पायसामत्राण्यशनार्थमदीदपत् ॥ ५७ ॥ प्रवृत्तानां कुमाराणां भोक्तुं भूपो व्यमोचयत् । व्याघ्रानिव व्यात्तवक्त्रान सारमेयान् भयंकरान् ॥ ५८ ॥ आगच्छत्सु श्वसूत्थायानश्यन् क्षोणीशसूनवः । किं चलन्त्यचला नाशु प्रेरिताः प्रलयानिलैः ॥५९॥ एकस्तु श्रेणिकस्तस्थौ तत्रस्थो बुद्धिशेवधिः । खोल्यते वात्यया हि न सुराचलचूलिका || ६० ॥ स्तोकं स्तोकं ददौ श्वभ्ये भ्रातृभाजनपायसम् । यावत्तल्लिलितुः श्वानस्तावत् सारमभुंक्त सः ॥ ६१ ॥ येन केनाप्युपायेन कुलकवृत्तिः ॥ २० ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy