SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ वसन्तपुरमन्येद्युः संप्राप तापसाग्रणीः ॥ ३० ॥ मन्त्रिस्तापमत्यपूजयत् तं जनोऽखिलः । वैराग्यकारणं पृष्टो जनाग्रे चेति सोऽवदत् ॥ ३१ ॥ सुमङ्गलकुमारेण, रूपं मे जहमे पुरा । जज्ञे मे तेन वैराग्यं सत्यंकारस्तपः श्रियाम् ॥ ३२ ॥ तच्छ्रुत्वा तं नमस्कर्तुं, सुमङ्गलनृपोऽभ्यगात् । क्षमयित्वा पारणार्थं, न्यमन्त्रयत चादरात् ॥ ३३ ॥ राशे सो शीरनं तदर्थनाम् । कृतकृत्य यागाच, स्वसौयं वस्तुवायवः ॥ २४ ॥ पूर्णेऽथ मासक्षपणे पार्थिवप्रार्थनां स्मरन् । राइधवलगृहद्वारे शान्तात्माऽगात् स तापसः ॥ ३५ ॥ शरीरापाटवं जज्ञे, तदापि च महीपतेः । द्वारं च पिदधे द्वाःस्थः, कस्तदा भिक्षुमीक्षते ॥ ३६ ॥ स्वलितो द्वारपालेन, जलौघ इव सेतुना । पथा यथा गतेनैव, व्याजुघोट स तापसः ॥ ३७ ॥ निश्चित्य मासक्षपणं, जगाम पुनरुष्ट्रिकाम् । नवाकुप्यत् तपोवृद्धी हृष्यन्ति हि महर्षयः ||३८|| स्वस्थीभूतो द्वितीयेऽहि भूपो भक्तस्तपस्विषु । गत्वा नत्वा च तं भक्त्या, क्षमयित्वेदमब्रवीत् ॥ ३९ ॥ निमन्त्रितोऽसि पुण्यार्थ, पापमार्जि मया पुनः । निध्यर्थी हि खनन भूमिं निभीग्यो दश्यतेऽहिना ॥ ४० ॥ मयाऽन्यत्रापि पापेन निषिद्धं पारणं तव । ऋषिभिक्षाविघातेन, धिग मां नरक | पातुकम् ॥ ४१ ॥ तत्प्रसीद द्वितीयेऽपि, मासक्षपणपारणे । ममाङ्गनमलं कुर्याः, प्रतिपेदे तथेति सः ॥ ४२ ॥ द्वितीयमासक्षपणे संपूर्णे स नृपौकसि । ययौ देवान्नृपस्याभूत् प्रागवद् वपुरपाटवम् ॥ ४३ ॥ तथैव पिहिने द्वारे, व्याघुट्यागात् स उष्ट्रिकाम् । स्वस्थभूतोऽथ भूपस्तं न्यमन्त्रयत पूर्ववत् ॥ ४४ ॥ पूर्णेऽथ मासक्षपणे, तृतीयेऽपि स तापसः । तथैवागात् तथैवाभूद् राज्ञोवपुरपाटवम् ॥ ४५ ॥ राजभक्तैरचिन्तीदमायात्येष यदा
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy