________________
चैत्यवन्दन
ACREMACAAAACARRY
तस्याखण्डलसत्प्रेमा, बभूवान्तः पुराग्रणीः॥१४॥ चिरत्नं शीलरत्नं मे, कोऽप्यन्यो मा ग्रहीदिति । आरक्षकमि-18 कुलकवृत्तिः वन्यास्थात या प्रेयांसं हृदोकसि ॥१५॥ अपरस्य करस्पर्श, नालं सोढुं सतीजनः । इतीव या हियां योनिरसूर्यपश्यतामगात् ॥ १६ ॥ इतश्च चैत्यचूलास्थध्वजाङ्गुल्याऽलकामिव । तजेयन् स्खश्रिया जज्ञे श्रीवसन्तपुरं पुरम् ॥ १७॥ धिया शौर्येण चारातीन् , विजित्य समराजिरे । सत्याभिधोऽभवत् तत्र जितशत्रुर्धराधिपः ॥१८॥ शीलशालीन्यकोलीन्यमुख्यसद्गुणशालिनी । प्रिया रूपेण नाम्ना च, जज्ञेऽस्याऽमरसुन्दरी ॥१९॥ नारीणां कामसंपत्ति, कुर्वन् कन्दपैसोदरः । तयोः सुमङ्गलः सूनुः, क्रमात् मांगल्यभूरभूत् ॥२०॥ मन्त्रिपुत्रस्तस्य जज्ञे, सवयाः सेनकाधिपः । कुलक्षणानां सर्वेषां, अक्षीण इव शेवधिः ॥ २१ ॥ स कुरूपः कुसंस्थानो ज्वालावत् पिङ्गाकुन्तलः । घूकवचिपिटघ्राणः, पिङ्गचक्षुर्बिडालवत् ॥ २२॥ दन्तुरः शूकर इव, लघीयः श्रुतिराखुवत् । उष्ट्रवल्लम्बकण्ठौष्टो, जलोदरी च तुन्दिलः॥२३॥ युग्मम् । यत्र यत्रागमत् तत्र तत्राऽहासि स नागरैः। हास्यलास्यं कस्य न स्यात्, यद्वा तादृक्षवीक्षणात् ॥ २४ ॥ कुरूपं विकृताकारं, दूरतोऽपि निरूप्य तं । सुमङ्गलकुमारोऽपि, मुहुर्मुहुरूपाहमत् ॥२०॥ मुमङ्गलराजपुत्रोपहामोदकमेकतः। वैराग्यं सेनको भेजे, मदाः कौमुम्भवस्त्रवत् ॥ २६॥ ततः प्रोद्भूतवैराग्यो, निरगात् सेनकः पुरात् । मरणं वा विदेशो वा, शरणं हि विरागिणाम् ॥ २७॥
॥१९॥ निरीयुषि पुरान्मन्त्रिपुत्रे काले कियत्यपि । सुमङ्गलो निजे राज्ये, जनकेन न्यवेश्यत॥२८॥ सेनकः पर्यटन कापि, दृष्ट्वा कुलपति बने । तापसीभूय तत्पाद्ये, स्त्रीचकारोष्ट्रिकाव्रतम् ॥२९॥ तीव्राज्ञानतपोभिः स खमत्यन्तं कदर्थयत् ।