SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ साधाय श्रीश्रेणिकमहाराजवन्निरतिचारसम्यक्त्वं प्रतिपालयन्ति, सुरैरपि सम्यक्त्वाचालयितुं न शक्यन्ते च तेषाममी सम्यक्त्वप्रतिपत्तिरूपा भाववासाःश्रीतीर्थकरशचक्रधरादिरमासंपत्य मुक्तिसाम्राज्याय च संपद्यते, अत्रार्थे परमाहेतश्रीश्रेणिकमहाराजचरित्रं प्रतिपाद्यते, तथाहि-भरतक्षेत्रे पवित्रेऽहंदवचोऽम्बुदैः । पुण्यशालिरमाकोशो, देशोऽभून्मगधाऽभिधः ॥१॥ सुपर्वश्रेणिसंकीर्ण, सुधर्मास्थामनोरमम् । तत्राभूत् खःपुरमिव, श्रीकुशाग्रपुरं पुरा ॥२॥ यस्मिन् कुलमृगाक्षीणां, स्पर्द्धयेव सनातनम् । खैरिणीव्रतमत्याक्षीत्, कमला त्यक्तचापला ॥ ३ ॥ अभ्रंलिहविहारेषु, ध्वजा यत्र विरेजिरे । तत्कारकनृणां नृत्यत्कीर्तिचेलाञ्चला इव ॥ ४॥ कुरङ्गनयना यत्र, चलन्त्यः पथि मन्थरम् । रणन्नूपुरदम्भेन कामातोद्यान्यवीवदन ॥५॥ विक्रमाक्रान्तविक्रान्तभूमिपः परमाहेतः। अजनिष्ट नयिप्रष्टस्तत्र राजा प्रसेनजित् ॥६॥ यस्याज्ञां पृथिवीनाथाः, सुरशेषामिवाखिलाः। बिभरांचकुरिच्छन्तः कल्पमांगल्यमात्मनः॥७॥ प्रतापदहनो यस्य, विश्वोल्लंघनजांघिक: । वैरिकेश|रिणःस्थाने, नाशयामास लीलया ॥८॥ श्रीपार्श्वनाथतीर्थेश, देशनामृतसेकतः। विवेकवल्लरी यस्य, प्रारुरोह मनोऽवनी ॥९॥ खर्गापवर्गफलदं, सम्यक्त्वं व्रतमुत्तमम् । द्वादशव्रतवृत्या यः, प्राणवत् प्रत्यपालयत् ॥ १०॥ बुद्ध्येव यः पराजिग्ये, विना शस्त्रं युधि द्विषः। बादरप्राणरक्षाख्य, व्रतभङ्गभयादिव ॥११॥ राकाशशाक संकाश, यद्यशोराशिवाससा । संवनिता नवोढेव चकासामास रोदसी ॥ १२॥ अवरोधैवन्धुरांगजाताङ्गजगणरसी । स्वामिशाल: शालते स्म, लतौघैः सफलैरिव ॥ १३॥ सब्रह्मचारिणी शच्या, धारिणी सहचारिणी।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy