SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ॐCREACANCHARANG मुखः ॥ ३८॥ ततः स्वगृहमागत्य राजादिष्टं प्रियापुरः। तदूचे सोऽथ सा चित्ते शुद्धबुद्धया व्यचिन्तयत ॥३९॥ |ग्राहयिष्येऽमुना भूपाद् यदि ग्रामपुरादिकम् । दारानन्यान् विधायासौ तदा मां मोक्ष्यति द्रुतम् ॥४०॥ इत्या*लोच्य तमूचे सा याचवाग्रासनेऽशनम् । दक्षिणायां च दीनारमालोचं चैकदाऽन्वहम् ॥४१॥ स तथैवार्थ यामास नृपं दानसुरद्रुमम् । पकमाम्रवणं मुक्त्वा किं नोष्ट्रोऽत्ति शमीतरुम् ॥४२॥ प्रसन्नमानसो राजा ददौ तस्मै तदर्थितम् । क्रमक्रमेण सोऽप्यासीद् धनाढ्यः पुत्रपौत्रयुक् ॥ ४३ ॥राजमानाजनैः सर्वैय॑मयत स वाडवः। राजमान्यस्य सत्कारं को न वा विदधात्यलम् ॥४४॥ ततोऽसौ दक्षणालोभाद् वमित्वा भुक्तभोजनम् । बहुशो बुभुजे लोभ्यथ वा किं न करोति हि ॥ ४५ ॥ सदा परिणताहारच्छर्दनोद्भवदामयैः। नष्टच्छायोऽभवद् विप्रोमयवत् पामयामितः॥४६॥ अमेध्यपुञ्जवद् गुञ्जन्मक्षिकाकुलसंकुलः। गलदंत्रिकरघाणः क्रमात कुष्ठी बभूव सः॥४७॥ अतृप्तोऽग्निरिवाभुंक्त भूभुजोऽग्रे तथैव सः। अन्यदैवं महीनाथो विज्ञप्तः सचिवेश्वरैः ॥४८॥ देवायं वाडव: कुष्ठी संचारी चायमामयः। तेन युष्माकमग्रेऽस्य नाशितुं योग्यता प्रभो ॥४९॥ अन्येऽपि रूपवन्तोऽस्य नीरुजः सन्ति नन्दनाः। प्रतिज्ञापूत्तये खस्य तेभ्यः कमपि भोजयः॥५०॥ एवं कुरुध्यमित्युक्ते राज्ञा तैर्भणितो द्विजः। स्थापपित्वा खके स्थाने सुतमस्थात् वयं गृहे ॥५१॥ गृहादपि बहिः पुत्रैः स्थापितोऽसौ कुटीरके । बहिःस्थितस्य तस्याज्ञां पुत्रा अपि न चक्रिरे ॥५२॥ दारुपात्रे ददुस्तस्मै भोजनं यच्च किंचन । घ्राणंपिधाय तद्वध्वो जुगुप्सां विदधुः सदा ॥५३॥ मबदेतेऽपि गाःस्युर्यथा धारयाम्यहं तथा। इति संचिन्त्य
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy