SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- ॥३६॥ सो सोऽवोचदन्यदा निजनन्दनान् ॥५४॥ खिन्नोऽस्मि जीवितात् पुत्राः कुलधर्मोऽस्त्ययं पुनः । देयो मन्त्रोक्षितइछागः कुटुम्बाय मुमूर्षुभिः॥५५॥ द्रुतमानीयतां छाग इति श्रुत्वातिहर्षिताः। तत्सुताः पशुमानिन्युः पशवः शृंगवर्जिताः ॥५६॥ स खाङ्गोद्वर्त्तिताहारवर्तिकाभिः सदा पशुम् । तथा ऽचारीद् यथा सोऽपि पशुः कुष्ठयभवत्तराम् ॥ ५७॥ हत्वा ददौ स तेभ्यस्तमजानन्तस्तदाशयम् । तेऽपि वुभुजिरे मूर्खाः कुष्ठदुष्टाश्च जज्ञिरे ॥५८॥ खसाधनकृते तीर्थ यास्यामीत्यभिधाय तान् । ऊर्ध्वास्योऽगाद् द्विजोऽरण्यं मत्सराकुलितोक्षवत् ॥ ५९॥ सोऽथ तृष्णातुरो वारिवीक्षणार्थमितस्ततः । भ्रमन्नानाद्रुमावेशे देशे हृदमुदैक्षत ॥ ६०॥ तत्र तीरे तरुस्तत्र पत्रपुष्पफलाकुलम् । ग्रीष्मतिग्मांशुरुक्तप्तं काथवद् वार्यपाद् द्विजः ॥११॥ यथा यथा पपौ विप्रस्तत्पयः स मुहुर्मुहुः। विरेचः कृमिभिः साई तुन्दाजज्ञे तथा तथा ॥ ६२॥ दिनैः कतिपयैः सोऽथ नीरोगस्तदुहृदाम्बुना। पुनर्जज्ञे मनोज्ञाङ्गः पुष्पकालतुंना द्रुवत् ॥ ६३॥ पश्चादुल्लाघताहृष्टो गृहं प्रत्याययौ द्विजः। पुर्यां विशन् स्फुरत्कान्ति: परिरेक्षि च विस्मितः ॥३४॥ विप्रः पृष्टश्च पूर्लोकः कथं रे त्वं पुनर्नवः । दृश्यसे मुक्तनिर्मोको भुजंग इव भासुरः। ॥६५॥ ततोऽसौ दम्भसंरम्भकोषिदमन्यमानसः। देवताराधनादासमुल्लाघोऽस्मीत्यभाषत ॥ ६६॥ गृहागतोऽथ स प्रीतः पुत्रानैक्षिष्ट कुष्ठिनः। तानूचे च मयावज्ञाफलं चैवेदमापि वः॥६७॥ तेऽप्यूचुस्तात विश्वस्त-18 चित्तेष्वस्मासु किं त्वया । ईदृशं प्रत्यपाकारि शत्रुणेवातिदारुणम् ॥ ६८॥ ततोऽसौ लोकदुवाक्यप्रस्थराऽऽपतनासहः । निःसृत्य स्खपुरा भूयो ययौ राजगृहे पुरे ॥ ६९॥ तत्रत्यनगरद्वारद्वारपालकसन्निधौ। विप्रः सोऽस्था
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy