SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ चौर्यादिकमनिर्मापि सुश्रावकसुतोऽपि यः ॥ ६० ॥ साधम्भिकस्य तस्याद्य शुद्धिमाधाय वेगतः । पाप्मिनां प्रथमोऽप्यस्मि भवामि शुभभाजनम् ॥६१॥ इत्यालोच्योपकर्तुं त्वामपमृत्य लघुक्रमम् । ततः स्थानादहं राजन्नागमं त्वत्क्रमान्तिकम् ॥३२॥ वज्रकपर्णस्तदाकर्ण्य देशं कृत्वोद्वसं त्वरा । चकार खरं दत्तगोपुरं खात खातिकम् ॥ ६३ ॥ संगृह्येन्धनधान्याज्यतैलग्रावायुधब्रजम् । कृत्वा वप्रं मन्त्रपुस्तमिव यन्त्रविराजितम् ।। ६४॥ ४ स्वयं रोहकसजोऽस्थान्मध्ये दशपुरं नृपः । भूपानामवलानां हि बलमेतद् बलीयसि ॥६५॥ अभिषेणायितुं वेगाहैदयो दशपुरं प्रति । सिंहोदरो भूरिनादं जयभेरीमवीवदत् ॥६६॥ तन्नादमात्रतो मन्त्राहूता इव सुधा भुजः। समे सीमालभूपाद्या मिमिलुर्वसुधाभुजः ॥ ६७ ॥ गुणितास्तुंगमातङ्गा रथकट्याश्च सज्जिताः । क्षिप्रं प्रक्षरिता अश्वाः सायुधाः पत्तयोऽभवन् ॥ ६८॥ सर्वसन्नहनेनैवमचालीदचलापतिः । मध्ये द्यावापृथिव्युच्चैचितन्वानो रजोत्सवम् ॥ ६९॥ कण्ठदभ्यः कटीदभ्योजानुदभ्यःक्रमक्रमात् । अल्पास्ताघाः मृतौ नद्योऽभूवन पीताम्भसो बलैः॥ ७० ॥ एतस्मिन्नभ्यमित्रीणे राजन्यकमकम्पत गजयूथमिवारण्ये मृगनाथोऽभिसर्पति ॥७॥ बलेनावेष्टयत् सिंहोदरो दशपुरं क्रमात् । उन्मुमूलयिषुर्मूलात् करेणेव करी तरुम् ॥ ७२ ॥ सिंहोदरोऽथ प्रति वज्रकपर्णं वाचालचूलामणिमात्मदूतम् । प्रैषीदगात् सोऽपि नरेश्वरास्थां न कापि तेषां हि निवारणास्ति ॥७३॥ गम्भीरधीरध्वनिराबभाषे स वज्रकणं प्रति वाग्मिमुख्यः। राजन्यसौजन्यमतिःपतिर्मे यदादिशत्याशु निशम्यतां तत् ॥ ७४ ॥ छलैकमुद्रां निजपाणिमुद्रां विमुच्य मां मानवतां वतंसम् । नत्वा भजखाखिलमात्मराज्यं
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy