SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन- सुदर्शनः। वञ्चन्ते खलु वाचालैः कुटिलैः सरलाशयाः ॥ ६१ ॥ कपिलां कपिलावासं विशन्नूचे सुदर्शनः । कुलकवृत्तिः कपिलः कास्ति सोवाच शयानोऽस्ति गृहान्तरा ॥६२॥ मूलोपवरकं प्राप्त तस्मिन् स्मरशराहता । कपिला ॥११॥ पिदधे द्वारं वर्गद्वारमिवात्मने ॥६३ ॥ सुदती दन्तपंक्त्यां सा लगयन्ती कराङ्गुलीः। चाटुकारपटुः प्रोचे प्रीत्या प्रति सुदर्शनम् ॥ ६४॥ अद्यानुकूलं मे दैवं फलितं मन्मनोरथैः। प्रसेदुः कुलदेव्यश्च यदभूत् तव संगमः॥ ॥६५॥ कामधूमध्वजज्वालाप्रतप्तां नाथ? मत्तनुम् । निजाश्लेषसुधावनिर्वापय दयानिधे? ॥६६॥ एवं दृषद्पद्रवीकरणचणांश्चन्द्रकरानिव । निशम्य कपिलालापान् विममर्श सुदर्शनः ॥ ६७॥ अहो कपटपाण्डित्यमहो नीचपथादरः। अहो कटरि लाम्पट्यं विषयेष्विह योषिताम् ॥ ६८॥ दुर्विधेरिव नारीणां चेष्टितं शिष्टनिन्दितम् । यन्मां कांक्षत्यसौ हित्वा दयितं हृदयंगमम् ॥ ६९॥ व्याघीव क्रूरचेतस्का भुजगीव भयंकराः । चपलावच्चलाः कस्य रोचन्ते सुधियः स्त्रियः॥ ७० ॥ धिक् कलाकौशलं तेषां विज्ञानं गुरुसेवनम् । मनागपि मनो येषां परस्त्रीषु रिरंसते ॥ ७१॥ इति चिन्तानर्तकी स नर्तयन् हृदयाङ्गणे । तत्कालधीरस्तामूचे मुग्धे? किं |फल्गुबलासि ॥७२॥ अहं षण्ढः खण्डिताशे? व्यर्थपुंवेषडम्बरः। अन्यथा प्रार्थनां वन्ध्यां किं कुर्वे तव भामिनि? ४॥७३॥ कपिलापि तदा प्रत्यैत सुदर्शनगिरा तया । के के भणितिभङ्गीभिः प्रत्याय्यन्ते हि नो बुधैः ॥ ७४ ॥ ब्रुवाणा गच्छ गच्छेति सा द्वारमुदघाटयत् । निरयासीत् ततः शीघ्रं हृष्टः श्रेष्ठी सुदर्शनः ॥७॥ गृहं गतोऽथ जग्राहाभिग्रहं श्रेष्ठिसूरसौ। मयैकेन न गन्तव्यमन्यवेश्मन्यतः परम् ॥७६॥ उज्जृम्भेऽन्यदा तत्र शक्रध्वज
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy