________________
महोत्सवः । शृंगारस्फाररमणीगमागममनोहरः ॥ ७७॥ केचित् तुङ्गतुरङ्गस्थाः करभारोहिणोऽपरे । केचित सिौख्यासनासीना वाहनीवाहनाः परे ॥ ७८॥ दिव्यनैपथ्यरोचिष्णुशरीरा नागराः पुरः । क्रीडां कर्तुं वने जग्मुसारमरा इव नन्दने ॥७९॥ सुदर्शनपुरोधाभ्यां सहितः क्षितिवल्लभः । वास्तोः पतिरिव श्रीदबृहस्पतियुतोऽचलत् ४॥ ८॥ सौख्यासनसमासीना कपिला कलिताभया । मनोरमापि षट्पुत्रसहिता प्राचलत् पुरः ॥८१॥ मनो-18 रमां सुतैर्युक्तां करेणुं कलभैरिव । विलोक्य कपिलापृच्छदभयां केयमङ्गना ॥ ८२॥ रायूचे सखि ? किं नैतामुपलक्षयसि स्त्रियम् । नाम्ना मनोरमा श्रेष्ठिसुदर्शनप्रिया ह्यसौ ॥ ८३ ॥ विस्मिता कपिला माह सखि ? षण्डः सुदर्शनः । सुतानामियतां माता कथमेषाऽभवत् ततः ॥ ८४॥ कथं वेत्सीत्यभया प्रनिता कपिलालपत् । तत्कोदन्तं खानुभूतमकथ्यं सुहृदये हि किम् ॥८५॥ अभ्यधत्ताभया मूढे तेनासि छलिता ध्रुवम् । स षण्डकः परस्त्रीषु न खदारेषु यत् सखि? ॥८६॥ ततोऽविलक्षा कपिला प्रललापाभयां प्रति । ज्ञास्यामि तव पाण्डित्यमेनं रमयसे यदि ॥ ८७ ॥ बभाषे महिषी मुग्धे कियन्मानं सुदर्शनः । मत्पाणिपल्लवस्पर्शाद ग्रावापि द्रवति | ध्रुवम् ॥ ८८॥ धीरोऽप्यधीतविद्योऽपि विवेक्यपि सुधीरपि । वाणिनीपाणिपद्मात्तो गलेन्मदनपिण्डवत् ॥८९॥ यद्यालि ? नैतं रमये परस्त्रीषु पराङ्मुखम् । प्रायश्चित्तं तदा कुर्वे ज्वलद्वहिप्रवेशनम् ॥ ९०॥ इत्थं मिथो वार्तयन्त्यौ क्रीडित्वा सुचिरं बने । रतिप्रीती इव प्रीते खं खं धाम समीयतुः ॥९१॥ हृदन्तरमिव खीयं पण्डितां पण्डिताभिधाम् । खधात्रीं प्रत्यभाषिष्ट प्रतिज्ञां स्वां नृपप्रिया ॥९॥ पण्डितोचे स्वया वत्से प्रतिज्ञातं न शोभ