________________
| स्तिलकं भालमण्डले ॥ ४५ ॥ जीवाजीवादितत्त्वौघज्ञानमुक्तास्रजं हृदि । पात्रदानोमिकां पाणौ शीलं सर्वाङ्गभूषणम् ॥ ४६ ॥ यो दधत् सोमवत् सौम्यः कीर्त्तिनिर्निद्रचन्द्रिकः । भूपतेः पौरलोकस्य सर्वस्याभूत् प्रमोदकृत् ॥ ४७ ॥ त्रिभिर्विशेषकम् । पुर्यां तत्रैव संजज्ञे पुरोधा वसुधापतेः । सरलः कपिलो नाम विद्याकूपारपारगः ॥ ४८ ॥ साकं सुदर्शनेनास्य शशिनेव सरखतः । स्थिरं पाषाणरेखावदजर्यं समजायत ॥ ४९ ॥ मरालो मानसस्येव पंकजस्येव षट्पदः । पार्श्व सुदर्शनस्यैष नोज्झामास कदाचन ॥ ५० ॥ कपिलं कपिलान्येद्युस्तत्प्रिया प्राणिति प्रिया । पप्रच्छे यत् क्षणं कान्त ? क नु तिष्ठसि नित्यशः ॥ ५१ ॥ सुदर्शनान्तिके कान्ते तिष्ठा - मीति स ऊचिवान् । कोऽयं सुदर्शनः श्रेष्ठी पुनः पप्रच्छ तं प्रिया ॥ ५२ ॥ जगाद कपिलस्त्यागी भोगी सौभाग्यसुन्दरः । श्रीमानृषभदासस्याद्दास्या अयमङ्गजः ॥ ५३ ॥ उषित्वा पुरि चम्पायां चेन्न वेत्सि सुदर्शनम् । वितर्के नापरं किंचित् सुज्ञातं तव विद्यते ॥ ५४ ॥ रूपं निर्जितकन्दर्पं निरूप्यास्य स्मरातुराः । कीलिता इव तिष्ठन्ति क्षणं मार्गे मृगेक्षणाः ॥ ५५ ॥ श्रुत्वा सौदर्शनं रूपं कपिला कपिलाननात् । तस्मिन् जातानुरागाभूदीदृशो हि मृगीदृशः ॥ ५६ ॥ सुदर्शनाङ्गसंसग्गपायं दध्यौ दिवानिशम् । विस्मृतेतर कृत्यासावहो स्मरविजृ| म्भितम् ॥ ५७ ॥ परेद्यवि महीपालादेशाद् ग्रामान्तरं गते । पुरोधसि पुरन्ध्री सा सुदर्शनगृहं ययौ ॥ ५८ ॥ कूटनाट्यनटी सोचे तत्पुरः सुहृदस्तव । महाज्वरः शरीरेऽभूत् तदर्थमहमागमम् ॥ ५९ ॥ स्वदर्शनसुधावर्षविधानेन सुदर्शन ? । स्वस्थीकुरु निजं मित्रं मैत्रीं वहसि चेद् हृदि ॥ ६० ॥ नाभूवुद्धिर्ममेत्याख्यंस्तद्गृहेऽगात्