________________
लकातिर
चैत्यवन्दन
साप्रदीपिका ॥ २९॥ महिषीमहिषीपालः सोऽथादायागमद् वनम् । व्यावृत्तश्चान्तराद्राक्षीन्महापूरी तरङ्गिणीम्क
॥३०॥ यावच्चकितचेतस्कोऽचिन्तयत्किंचिदप्यसौ । परक्षेत्रे नदी तीर्खा महिष्यस्तावदाविशन् ॥३१॥ मंक्षुत्पि॥११०॥
पतिषुयोनि नमस्कारमुदीरयत् । दत्तफालः पपातासौ मध्ये कूलंकषं हहा ॥ ३२॥ हृदि तस्याविशत् तस्यां । खरः खदिरकीलिकः । नमस्कारपरावर्त्तदृढतामिव वीक्षितुम् ॥३३॥ सत्यसन्धः स सस्मार नमस्कारं तदाप्यलम् । सिक्त्वा कल्पद्रुमं को हि फलकाले विमुञ्चति ॥ ३४॥ विपद्य सद्योऽर्हद्दास्या असौ कुक्षाववातरत् । निश्चिता सद्गतिर्यद्वा सुगृहीतनमस्कृतेः ॥ ३५॥ तातीयीके व्यतीतेऽथ मासे गर्भस्य दोहदाः । अहंद्दास्या इमे शस्या जजुः सद्गर्भसूचकाः ॥ ३६॥ अहंतां प्रतिमां भावात् लपये गन्धवारिभिः । अर्चामि कुसुमै रम्यैश्च_मि शुचिचन्दनः॥ ३७॥ सुसाधून वरिवस्यामि दीने दानं ददामि च । संघं विमुक्तपापौघं पूजयामि समन्ततः॥३८॥ त्रिभिर्विशेषकम् । दोहदान् कल्पशाखीव श्रेष्ठी तस्या अपूपुरत् । सरलेहे सधने कान्ते कान्तानां किमु दुर्लभम् ॥ ३९॥ मरालं राजहंसीव सुरत्नं रत्नभूरिव । असूत समये सूनुं श्रेष्ठिनी नेत्रशीतगुम् ॥ ४०॥ महामहोत्सवं कृत्वा नयनानन्दनन्दिने । श्रेष्ठी सुदर्शन इति ददौ नामाङ्गजन्मने ॥ ४१॥ पित्रोमूर्तिः स्नेह इव बद्धमानो दिने दिने । पूर्वाधीता इवाभ्यासीत् सकलाः सकलाः कलाः ॥४२॥ सुदर्शनप्रतिच्छायामिव रूपादिकगुणैः । कन्यां मनोरमां श्रेष्ठी पर्यणायत् सुदर्शनम् ॥४३॥ हिमांशुरिव रोहिण्या रत्येव कुसुमायुधः। तडितवाम्बुदो रेजे तया कामं सुदर्शनः॥४४॥ जिनाज्ञामुकुट मूर्ध्नि कर्णयोः श्रुतकुण्डले । गुरुपादाम्बुरज
॥११०॥