________________
चैत्यवन्दन॥ २९ ॥
*
वीन् मुनिः ॥ ३३ ॥ धर्मलाभेन नोऽर्थो न द्रम्मलाभो गवेष्यते । इति वेश्योपहासेन मानाद्रिं सोऽधिरूढवान् ॥ ३४ ॥ हसत्यसौ वराकी मां किं विचिन्त्येति स मुनिः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नजातमपातयत् ॥ ३५ ॥ | द्रम्मलाभोऽयमित्युक्त्वा निर्ययौ स गृहाद् बहिः । वेश्या ससंभ्रमा साऽप्यनुधायेति तमभ्यधात् ॥ ३६ ॥ अमेय स्वापतेयस्य दानात् त्वं मत्प्रियोऽभवः । गन्तुं न लभ्यतेऽन्यत्र प्रसद्याचैव तिष्ठ भोः ॥ ३७ ॥ दुस्तपं तप उज्झित्वा भुंक्ष्व भोगान् समं मया । प्राणान् प्राणप्रभुं त्वाहं विना त्यक्ष्यामि सर्वथा ॥ ३८ ॥ इत्युक्तो वेश्यया भोगान् जानन्नपि विषाधिकान् । कर्मणोऽप्रतिमल्लत्वान्मेने तद्वचनं मुनिः ॥ ३९ ॥ चेन्न प्रतिबोधयिष्यामि प्रत्यहं दश वाधिकान् । दीक्षां भूयस्तदादास्ये प्रतिज्ञामिति सोऽकरोत् ॥ ४० ॥ तदावासे वसन् मुक्तलिङ्गोध्यायन्ननुक्षणम् । स सुराया अर्हतोऽपि वाचं व्रतनिवारिकाम् ॥ ४१ ॥ निर्विशन् वेश्यया सार्द्धं भोगान् भव्यान् दशाधिकान् । संबोध्य प्रेषयामास दीक्षार्थं वीरसन्निधौ ॥ ४२ ॥ भोग्यकर्मण्यथ क्षीणे तस्य बोधयतो न च । अवुध्यत जनाष्टकजातीयो दशमो न तु ॥ ४३ ॥ भोजनावसरे वेश्या दिव्यां रसवतीं व्यधात् । सिद्धा रसवती स्वामिन् भुंक्ष्वेति तं व्यजिज्ञपत् ॥ ४४ ॥ अपूर्णाभिग्रहो भोक्तुं नोत्तस्थौ किन्तु बोधयन् । सोऽस्था हकं नरं नानोपदेशैर्धर्मबन्धुरैः ॥ ४५ ॥ वेश्या जगाद तं पूर्वा शीतला रसवत्यभूत् । पुनाराध्यं मया धान्यं विलम्बावसरो नहि ॥ ४६ ॥ नन्दिषेणोऽवदद् वेश्यां नाबोधि दशमो मया । दशमो ह्यहमेवाच तल्लास्यामि व्रतं पुनः | ॥ ४७ ॥ ततः क्षीणं भोग्यकर्म जानानो मुनिपुङ्गवः । श्रीवीरचरणोपान्ते गत्वा चारित्रमग्रहीत् ॥ ४८ ॥
कुलकवृत्तिः
॥ २९ ॥