________________
है लभते पुनः ॥ १७॥ श्रीवीरेणाहमप्येवं सुप्तः संप्रतिबोधितः । पितरौ व्रतमादास्ये मोहनिद्राविषामृतम् ॥१८॥ खएवं स्वमातापितरी संबोध्य श्रेणिकाइभः । व्रतोद्यतो नन्दिषेणः खस्थदेवतयोदितः ॥ १९॥ भोग्यकमेवतो वत्स सांप्रतं सांप्रतं न ते । व्रतं लातं दृढं कर्म नाभुक्तं क्षीयते यतः ॥ २०॥ भोग्यकर्मक्षये पश्चाचारित्राचरणे रुचि । वत्स कुयोंः कृता काले क्रियाहि फलदायिनी ॥ २१॥ कर्मणश्च गले पादौ दत्त्वाऽऽधास्ये मनीषितम् ।
सदा सत्त्वैकतानस्य पुंसः कर्मापि शङ्कते ॥ २२॥ चारित्रावारकं कर्म साधुमध्ये स्थितस्य मे। करिष्यति किमिप्रत्युक्त्वा सोऽगात् वीरपदान्तिके ॥ २३ ॥ कान्तानां यौवनस्थानां हित्वा पञ्चशतीमसौ । श्रीवीरेण निषिद्धोऽपि
तत्पाचे व्रतमग्रहीत् ॥ २४ ॥ पार्थे गुरोरथाधीत दशपूर्वश्रुतः श्रुतः। स दुस्तपं तपः कुर्वन् व्याहार्षीत् |स्वामिना समम् ॥ २५ ॥ भोग्यकर्मोदयात् तस्य भोगेच्छाऽभूद् बलादपि । निषेद्धं तां मुनिश्चक्रे षष्ठादि
विविधं तपः ॥ २६ ॥ बलाद् भवद्विकारोऽसौ खोबन्धनमथाकरोत् । चकार बन्धनच्छेदं देवता व्रतवारिणी ।। M॥ २७ ॥ नतः खमस्य शस्त्रेण शस्त्रं कुठं व्यधाच सा । भक्षयतो विषं तस्य निर्ममे तच पुष्टिदम् ॥ २८॥ पर्वताग्रात् स आत्मानमपातथदथान्तरे । धृत्वा तं देवतोवाच किं न स्मरसि मदचः ॥ २९॥ नालं भोगफलं कर्माऽभुक्त्वा क्षेतुं जिना अपि । मुधैव तत्प्रतीपं त्वमेवमुत्तिष्ठसे सदा ॥ ३०॥ इत्युक्तः स तयैकाकिविहारप्रतिमाधरः। विजहार पुरग्रामश्मशानोपवनादिषु ॥३१॥ चतुर्थाष्टमषष्ठादितपः कुर्वन्ननेकधा। जगाम नगरेऽन्येयुः षष्ठपारणके मुनिः ॥ ३२ ॥ उच्चनीचकुलेष्वेष भ्रमन्नज्ञानतोऽविशत् । वेश्यावेश्म ततो धर्मलाभ इत्यब्र