________________
खश्चरितमालोच्य पालयित्वाऽमलं व्रतम् । दिवि देवश्रियं प्राप नन्दिषणो महामुनिः ॥४९॥ क्रीडातडागवापीषु पुरोपवनभूष्वथ । सह चेल्लणया क्रीडजलक्रीडादिभिर्नृपः ॥ ५॥ प्रत्यहं चेल्लणादेव्या रहसि स्नेहरं- हसा । बबन्ध मूर्ध्नि धम्मिलं स्नेहबन्धमिवात्मनः ॥५१॥ मृगनाभिद्रवनव्यैः प्रसाधक इव स्वयम् । कपोलतलयोर्देव्या विदधे पन्नवल्लरीः ॥५२॥ सौगन्ध्यबन्धुरां पुष्पमालिकां ग्रन्थितां स्वयम् । मूर्ती प्रीतिमिव न्यासीत् । कण्ठे देव्या नरेश्वरः॥ ५३॥ चतुर्भिः कलापकम् ॥ अथ विभाक्रान्तिकृते शीतलानिलवाहनः । प्रसर्पन्निव सर्वत्र शिशिरतुः समाययौ ॥५४॥ ज्वलत्कामानलोत्तप्तकान्ता कान्ताङ्गसङ्गिषु । न भोगिषु पदं लेभे शिशिरतुर्विजृम्भितम् ॥ ५५ ॥ निखानां शिशवो यत्र शीतं पेष्टुमिवाखिलम् । दन्तैर्दन्तान् स्पृशन्तोऽग्निं प्रातर्विप्र| इवाभजन ॥५६॥ अपूर्वः कोऽपि कामाग्निर्यत्र जज्वाल देहिषु । हिमे पतति यः प्राप प्रौढिमानं समं ततः॥ ॥ ५७॥ श्रीवीरः समवासार्षीत् तदा राजगृहे पुरे । चतुर्विधाऽमरकोटिनरकोटिपरिस्कृतः ॥५८॥ नमस्कर्तु महावीरं नन्ददानन्दकन्दलः । देव्या चेल्लणया सार्द्धमपराहेऽचलनृपः ॥ ५९॥ दंपती तौ च वन्दाते भक्तिसारं जगद्गुरुम् । धन्यंमन्यौ च वल्गेते सौधं प्रति तदैवहि ॥ ६०॥ अपश्यतां सहमानं मुनि शीतपरीषहम् । प्रतिमास्थं जलोपान्त्ये सुराचलमिवाचलम् ॥ ६१ ॥ उत्तीर्य वाहनात् साधुं मूतं तप इवोद्धरम् । विनयेन नमस्कृत्य तो खधाम समीयतुः ॥ ६२ ॥ दन्दह्यमानकर्पूरागुरुधूमाधिवासितम् । विलासवेश्म भूपोऽगात् क्लप्ससन्ध्योचितक्रियः ।। ६३ ॥ काश्मीरजेनाङ्गरागमङ्गे वर्मेव निर्ममे । अपहस्तयितुं भूपः शिशिरर्तुविजृम्भितम् ॥ ६४॥