________________
चैत्यवन्दन-ज्वलत्कामाग्निसंतप्तचेल्लणाकुचमण्डले । न्यस्तहस्तस्तया शीर्षाच्छीर्षकीकृतदोलतः॥६५॥ सुध्वाप भूपतिः| कुलकवृत्तिः
पूर्वं ततश्चेटकराट्सुता। पेष्टु शीतमिवाश्लिष्याशिथिलं प्राणवल्लभम् ॥६६॥ युग्मम् ॥ बहिर्बभूव निद्रायां : ॥३०॥
प्रच्छदाचेल्लणाकरः। निद्रां शरीरशैथिल्यहेतुमाहुर्मनीषिणः ॥ ६७॥ कृशानुनेव शीतेन काष्टदाहेन तत्करः । स्पृष्टस्तव्यथया देवी जजागार च चेल्लणा ॥ ६८॥ उच्चैः सीत्कारमाधाय शीतार्ता चेल्लणा निजम् । पाणिपनं हृदि न्यस्य भूपस्य प्रच्छदान्तरा ॥ ६९ ॥ देवी सीत्कारमात्रेण जगतीवल्लभः क्षणात् । जजागार महान्तो हि खल्पनिद्राः खभावतः॥ ७० ॥ चेल्लणा चिन्तयित्वा तं प्रतिमास्थं महामुनिम् । निरुत्तरीयं प्रोवाच स कथं हा भविष्यति ॥७॥ तप्तत्रपूपमं श्रुत्योः श्रुत्वा तद्वचनं तथा । स्वचेतसि नराधीशश्चिन्तयामासिवानदः॥७२॥ अस्या नूनं मनस्यन्यः प्रेयानस्ति रिरंसितः । शीतग्रस्ता स्मरन्तीयं यमेवमनुशोचति ॥ ७३॥ संतपन्नीय॑या चैवं राजाऽतीयाय यामिनीम् । इष्टैकवल्लभा ईष्यालवो हि खलु कामिनः ॥ ७४ ॥ अन्तरन्तःपुरं प्रेष्य चेल्लणां |चण्डशासनः। नृपः प्रातः समाहय प्रोचेऽभयमिदं वचः॥ ७५ ॥ अन्तःपुरमिदं वत्स विनष्टं विद्धि धीधन ।। सन्ध्याभ्ररागवत् पुंसि क्षणरागा हि योषितः॥ ७६॥ अतः प्रज्वल्यतां सर्व झटित्यन्तः पुरं मम । अमेध्यलव संमृष्टं भोज्यं बुज्झन्ति भोगिनः॥ ७७॥ युग्मम् ॥ अनीमातृमोहात् त्वं मा भूरित्यभिधाय राट् । श्रीवीर-IN॥३०॥ स्वामिनं नन्तुं महद्ध्यो श्रेणिको ययौ ॥ ७८ ॥ अभयो विमृशद बुद्ध्या सर्वाः सतीमतल्लिकाः । मातरो में खभावेन पितुराज्ञा च तादृशी ॥७९॥ संभावितं त्वसंभाव्यं पितृपादैः करोमि किम् । तथापि चित्रमुत्पाद्य
25646
-C4