________________
चैत्यव. ६
कालक्षेपः करिष्यते ॥ ८० ॥ बुद्ध्याऽऽलोच्येति शुद्धान्तोपान्त्यजीर्णवशाकुटीम् । अभयोऽज्वालयद् दग्धः शुद्धान्त इति घोषयन् ॥ ८१ ॥ इतञ्च श्रेणिकोऽपृच्छच्छ्रीवीरं चेल्लणा सती । असती वा जिनोऽवादीचेलणा हि महासती ॥ ८२ ॥ निशीथे चेल्लणाख्यातवचनाकृतमादितः । श्रेणिकक्षोणिभृत्पृष्टं निजगाद जगद्गुरुः ॥ | ॥ ८३ ॥ श्रुत्वेदं श्रेणिको नत्वा द्रुतं श्रीज्ञातिनन्दनम् । पश्चात्तापं समापन्नोऽधावीद् राजगृहं प्रति ॥ ८४ ॥ | तथा प्रदीपनं कृत्वाऽभ्यायान्तमभयं नृपः । अपृच्छदस्मदादेशः किं त्वया विहितोऽहितः ॥ ८५ अभयेनैवमित्युक्ते राजोवाच स्वमातरः । दग्धा जीवसि किं पाप किं न प्रदीपनेऽविशः ॥ ८६ ॥ अभयोऽभिदधे तात | श्रुत्वार्हद्वचनस्य मे । पतङ्गमरणं नार्हमादास्ये समये व्रतम् ॥ ८७ ॥ अभविष्यत् त्वदादेशो यद्येवमपि च प्रभो । तदा पतङ्गमृत्युं चास्म्यकरिष्यं न संशयः ॥ ८८ ॥ अकृत्यं मदिराप्येवं किमकार्षीरिति ब्रुवन् । श्रेणिको भक्षितविष इवामूर्च्छत् पुनः पुनः ॥ ८९ ॥ सिषेच शीतलाम्भोभिरभयः श्रेणिकं स्वयम् । स्वस्थीभूते नृपे चोचे | क्षेममन्तःपुरेऽस्ति ते ॥ ९० ॥ राजोचे मम पुत्रस्त्वं सत्योऽभय महामते । समागच्छत् कलङ्को मे दूरं येनापसारितः ॥ ९९ ॥ पारितोषिकसद्दानं दत्त्वाऽभयाय भूपतिः । चेल्लणालोकनात् रक्तो विलासभुवनेऽगमत् ॥ ॥ ९२ ॥ अन्येद्युः श्रेणिको दध्यौ चेल्लणा महिषी मम । कर्त्तव्यः कोऽन्यराज्ञीभ्यः प्रसादोऽस्या विशेषवान् ॥ ॥ ९३ ॥ एकस्तम्भं तदेतस्याः प्रसादं कारयाम्यहम् । क्रीडत्वेषा स्थिता तत्र विमानस्थेव निर्जरी ॥ ९४ ॥ इति ध्यात्वाऽभयं भूप आदिशचेल्लणाकृते । एकस्तम्भं सदारम्भं प्रसादं कारयाद्भुतम् ॥ ९५ ॥ अभयः स्तम्भयो