SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ॥३३॥ प्राप्य छलं मन्त्री तातं विज्ञप्तवानिति । आददीध्वमतो विद्यां पश्चाद् युक्तं विधास्यते ॥ ५९॥ ततः खस्योप-18 कुलकवृत्तिः वेश्याग्रे तं मागङ्गपतिं तदा । विद्यां पठितुमारेभे तन्मुखान्मगधाधिपः॥६०॥ उच्चासनासिनो राज्ञः पठतोऽपि हि सा हृदि । विद्या चकार नावस्थामुच्चदेशे पयो यथा ॥ ६१॥ ततः कोपान्नरेन्द्रस्तं तर्जयामास तस्करम् । कूट किमपि रे तेऽस्ति विद्या नायाति यन्मम॥१२॥ स्माहाभयः पितुर्विद्यागुरुवा ह्यसको गुरौ । विनयेन विना विद्या नैति पुण्यं विनर्द्धिवत् ॥ ६३॥ सौवसिंहासने देव मातङ्गोऽप्येष आस्यताम् । बद्धाञ्जलिः स्वयं भूमावस्याग्रे चोपविश्यताम् ॥६४॥ नीचादप्युत्तमा विद्या ग्राह्याऽन्येनेति नीतिवत् । विद्यार्थी भूपतिस्तस्य प्रतिपत्तिं व्यधादिमाम् ॥ ६५ ॥ उन्नामत्यावनामत्यौ विद्ये तन्मुखतः श्रुते । संतस्थाते नृपस्वान्ते दर्पणे प्रतिबिम्बवत् ॥६६॥ विज्ञप्याथ नृपं मन्त्री विद्यागुरुतयाश्रितम् । तं चौरं मोचयामास कारुण्यामृतसागरः ॥६७॥ अन्यदा भव्यराजीवराजीराजीवबान्धवः। श्रीज्ञातनन्दनस्तत्र पुण्यतः समवासरत् ॥ ६८॥ ततश्च तं नमस्कामञ्जनाद्रि|सहोदरैः । इभैरापूरयन् सर्वा दिशो वर्षा इवाम्बुदैः ॥६५॥ चङ्गैस्तुङ्गैस्तुरङ्गौघैर्वल्गुनृत्यभिरग्रतः । नतकै|रिव रङ्गोा सर्व विमापयन् जनम् ॥ ७॥ सामन्तमस्तकस्थास्नुश्रीकरश्रीकरीचयः। कुर्वाणः प्रचलचूतखण्डभ्राजिष्णुभूतलम् ॥७२॥ वैतालिकवजैः वर्णभूषणावलिभूषितः । स्तृयमानो नवैः काव्यययौ राजगृहेश्वरः॥2 ॥३३॥ ॥७२॥ चतुर्भिः कलापकम् ॥ तदा चैकाऽर्भिका काचिज्जातमात्रोज्झिताऽध्वनि । ददृशे सेनया राज्ञो दुर्गन्धा ६ है पूतितोऽपि हि ॥ ७३ ॥ तद्गन्धमसहा घातुं घ्राणं सा समवस्त्रयत् । कोऽथवानिष्टमादातुं सौवपाणि प्रसारयेत् SALARAKARMERMANC★
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy