________________
जीवितव्यं च संप्रति ॥४३॥ नारी मतल्लिकाऽसौ च प्रतिज्ञातार्यकारिणी । पूज्येयं मातृवदिति तां श्रुत्वा मालिकोऽमुचत् ॥४४॥ मालिकोदन्तमाख्याय रक्षसोऽग्रे वलन्त्यसी । व्याजहार महाधाष्ट्यात् तात भक्षय मामिति ॥४५॥ मालिकादप्यहं हीनसत्त्वः किमिति चिन्तयन् । राक्षसोऽप्यमुचन्नत्वा भक्ष्यां तां सौवमातृवत् ॥ ४६॥ चौराणां पश्यतां तस्या वत्म तत्पार्श्वमागमत् । तान् साऽवम् भ्रातरः सर्वे सर्वखं मम गृह्यताम् ॥४७॥ मालिकेन यथा मुक्ता यथा मुक्ता च रक्षसा । चौराग्रेऽखिलमूचे सा तत् ते श्रुत्वैवमब्रुवन् ॥४८॥ वयं न हीन सत्त्वाः स्मो मालिकाद् राक्षसादपि । भद्रे तद्गच्छ तूर्ण नस्त्वं खसेति व्यसर्जयन् ॥४९॥ गत्वा गेहे खकान्ताय
सा बभाण नितम्बिनी। तस्करराक्षसारामपालकानां तथा कथाम् ॥ ५० ॥ जना विचार्य तब्रूत क एषां साह४ासी भवेत् । किं तदाऽथवा चौरा राक्षसो मालिकोऽथ किम् ॥५१॥ ईर्ष्यालुभिर्जनैरूचे भर्ता दुष्करका
रकः । येनाभुक्ता नवोढा सा प्रैषि स्त्री परभुक्तये ॥५२॥ ऊचे बुभुक्षया क्षामै रक्षो दुष्करकारकः । अति क्षुधातुरेणापि येन सा भक्षिता नहि ॥५३॥ विटेरारामिकः प्रोचे तदा दुष्करकारकः न सोपबुभुजे येन खयमेवागता निशि ॥ ५४॥ आम्रचौरेण चावाचि चौराणां साहसं महत् । अलुण्ठितैव यैर्मुक्ता सा सर्वाङ्गविभूषणा ॥५५॥ ज्ञात्वाऽभयोऽपि तं चौरं धारयित्वा च पृष्टवान् । अपाहारि त्वयाऽऽम्रालिः कथं रे पश्यतो हर ॥५६॥ विद्याबलादिति प्रोक्ते तेन स्तेनेन मच्यथ । राज्ञ आख्याय तत्सर्व तस्करं तं समापयत् ॥५७ ॥ श्रेणिको न्यगच्चौरः प्राप्तो नान्योऽपि मुच्यते । किं पुनः शक्तिमानेष निग्रहार्हो हि निश्चयात् ॥ ५८॥ अथ