________________
चत्यवन्दन
॥३२॥
मयका समम् । अन्यथा त्वां न मोक्ष्यामि पुष्पक्रीती मया ह्यसि ॥२८॥ ऊचे वृहत्कुमारी तं मा मा मां स्पृश-14
शकुलकवृत्तिः पाणिना । कुमार्यस्मि न पुंस्पर्शमद्याऽप्यर्हामि मालिक ॥२९॥ मालाकरो जगौ भद्रे नवोढा मम सन्निधौ । पूर्वमागच्छसि त्वं चेत् तदा मुश्चामि नान्यथा ॥ ३०॥ तां तथेति प्रपेदानां कन्यका मालिकोऽत्यजत् । ततश्चाक्ष तकौमारा हृष्टा सा खगृहं ययौ ॥ ३१॥ अन्यदा भाग्यसौभाग्यात् कृष्टः कोऽपि युवेश्वरः। श्रेष्ठिसूर्वीक्ष्य तांदू कन्यां परिणिन्ये सवितरम् ॥ ३२॥ विलासभवनं प्राप प्रियं व्यज्ञपयच सा । मालिकाग्रे मया पूर्वमेतच प्रतिशुश्रुवे ॥ ३३ ॥ तव पार्श्व समेष्यामि नवोढा प्रथमं प्रियात् । तद्वाक्यरज्जुबद्धां मां तत्पार्चे प्रेषय प्रिय ॥३४॥ आहो स्वच्छाशया सत्यसंगरेयं मम प्रिया । इति संस्तुत्य भत्रों सानुमता प्राचलत् ततः॥ ३५॥ सलीलं पथिटू यांती सा वस्त्रभूषणभूषिता । निशामुखे धनायभिररुध्यत मलिम्लुचैः ॥ ३६॥ ततः सा मालिकोदन्तमुक्त्वो वाच मलिम्लुचान् । कान्तादिष्टां नवोढां मां गच्छन्ती मालिकान्तिके ॥ ३७॥ मुश्चत सांप्रतं भो भो भ्रातरोऽ-15 ङ्गीकृतार्थिनीम् । व्याघुटन्त्या-उपेयुष्या गृहीध्वं भूषणानि मे ॥ युग्मम् ॥ ३८ ॥ खच्छचित्तां प्रतिज्ञातकारिणीमवलामिमाम् । व्याघुटन्तीं गृहीष्याम इति सा ऽमोचि तस्करैः ॥ ३९॥ कृतसप्तोपवासेन रक्षसाऽरोधि सा पथि । पुरो यान्ती कुरङ्गीव शार्दूलेन जिघत्सुना ॥४०॥ रक्षोऽपि पूर्ववृत्तान्तं तस्या आकर्ण्य विस्मितः। तत्याज तां परावृत्तां भोक्ष्यामीति विचिन्तयन् ॥४१॥ सा जगाम तमारामं मालाकारं बभाण च । अङ्गीकृतभवद्वाक्यान्नवोढा त्वां समागमम् ॥४२॥ यद्युक्तं तद् विधेहि त्वं शीघ्रं मतिमतां वर । त्वदायत्तं शरीरं मे