________________
॥७४ ॥ पृष्टः परिच्छदः सौवः किमेतदिति भूभुजा । शसंस जातमात्रां तां दुर्गन्धामुज्झितां पथि ॥ ७॥ | नित्यमन्त्यजिनेन्द्रास्याच्छुतद्वादशभावनः । अगहों तत्परो राजा तां निरीक्ष्य पुरोऽगमत् ।। ७६ ॥ श्रीसमवमृतौ गत्वा नत्वा श्रीवीरतीर्थपम् । अपृच्छत् समये तस्या दुर्गन्धायाः कथां नृपः ॥ ७७॥ त्रिलोकीलोकसंसारतापं निर्यापयन्नथ । दन्तकान्तिसुधासारैः श्रीवीरस्तीर्थपोऽब्रवीत् ॥ ७८ ।। पर्यन्तदेश उद्दामे शालिग्राम धनेश्वरः । धनमित्रोऽजनि श्रेष्टी धनश्रीस्तस्य नन्दनी ॥ ७९ ॥ श्रेष्ठिना चान्यदारब्धे धनश्रीपाणिपीडने । ग्रीष्मत्तौ साधवस्तत्र विहरन्तः समागमन् ॥८०॥ साधूनामन्नपानादिप्रतिलाभनहेतवे । धनश्रीः नाक प्रव-18 वृते पित्रादेशत आदरात् ॥ ८१॥ धर्मस्तिमितवस्त्राणां ततस्तेषां तपस्विनाम् । अजिघन्मलगन्धं सा कुर्वती
प्रतिलाभनाम् ॥ ८२ ॥ सुचिसदवासवासाः सा सर्वभूषणमण्डिता । खांगरागांगशृंगारसंमोहादित्यचिन्तयत् ।। &|॥ ८३ ॥ धर्मः श्रेष्ठो हि सर्वीयः सर्वः सर्वज्ञभाषितः । अश्रेष्टं प्राशुकाम्भोभिरपि स्नानादिवर्जनम् ॥८४ ॥1
एवं साध्वङ्गदुर्गन्धनिन्दनोद्भवदुष्कृतम् । अनालोच्याप्रतिक्रम्य धनश्रीर्मृत्युमासजत् ।। ८५ ॥ अभूद् राजगृहे ४ वेश्योदरे सा दु:ग्वदायिनी । गर्भपातौषधैः पीतैरपि गर्भो न सोऽपतत् ॥८६॥ तत्कर्मोदयदुर्गन्धा शकृद्वद खोदरोद्भवा । जातमात्राऽप्यसौ मात्रा मुमुचे मेदिनीतले ॥ ८७॥ पुनः पप्रच्छ भूनाथ इत्थं चरमतीर्थपम् । सुखिनी वा दुःग्विनी वा भाविनीयमतःपरम् ॥८८॥ ततोऽभाणीद् विभुर्दु ग्वं पर्यभोज्यऽनया समम् । भाविनी : सुखिनी चैषा यथा शृणु तथा नृप ॥८९॥ भगिष्यति तवैवाष्टवर्षाण्यग्रमहिष्यसौ । इदं जानीह्यभिज्ञानं राज