SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन |स्तदुपलक्षणे ॥९०॥ दीव्यतोऽन्तःपुरे न्यायसिन्धोस्ते पृष्ठरोधसि । या चटिष्यति हंसीव भूप जानीहि तामि-13 कलकवृत्तिः माम् ॥११॥ अहो अद्भुतमेषा मे कथं भार्या भविष्यति । चिन्तयन्निति भूपोऽगाजिनं नत्वा निजौकसि ॥१२॥ दुर्गन्धायाश्च दुर्गन्धः कर्मनिर्जरयाऽगमत् । दृष्टाऽनपत्ययाऽऽभीर्या चैकयोपाददेऽथ सा ॥ ९३ ॥ तया स्वकुक्षिजातेव वध्यमाना क्रमेण सा । वरेण्यरूपलावण्या यौवनोद्भवतोऽभवत् ॥ ९४ ॥ कौमुद्या उत्सवो जज्ञे पुरे राजगृहेऽन्यदा । द्रष्टुं तमुत्सवं साऽगात् सह मात्रा पुरान्तरा ॥ ९५ ॥ विशदांशुकसंवीतसर्वमूती नृपाभयौ।। केल्या घनाश्रये तत्र पुष्पदन्ताविवेयतुः ॥९६॥ भूभुजो जनसंमर्दै वीरचर्याविहारिणः । पाणिर्विगलदाभीरीपुत्र्या हृदि घनस्तने ॥ ९७ ॥ अनुरागानृपस्तस्या उत्तरीयाञ्चले द्रुतम् । सत्यं कारमिवोरोढुं खाङ्गुलीयमवन्धयत् | ॥ ९८॥ आदिशचाभयं व्यग्रहृदो मे नाममुद्रिका । जहू केनापि तद्ग्राह्यस्त्वया तत्तस्करोऽचिरात् ॥ ९९॥ रंगद्वाराणि रुद्धाऽथाभय एकैकशो जनान् । शोधयामास वस्त्रास्यकेशपाशादिकर्षयन् ॥ ५००॥ आभीरीत-12 नयायाश्च तस्या वस्त्रादिशोधयन् । सोऽपश्यदश्चले बद्धां तातनामाङ्कितोमिकाम् ॥१॥ ततः पप्रच्छ तां मन्त्री मुद्राऽग्राहि कथं त्वया । कौँ पिधाय साप्यूचे वेद्मि नो किंचिदप्यदः ॥ २॥ दृष्ट्वा रूपवती तां चाभयो दध्यौ पिताऽकरोत् । एतस्यामनुरक्तः सन् मुद्रिकावन्धनच्छलम् ॥३॥ ध्यात्वेत्यभय आनीय तां ताताग्रेऽब्रवीदिति । |॥३४॥ सेयं चित्रं ययाऽचोरि मुद्रिका कथयामृतम् ॥ ४॥ ततः स्मित्वा नृपोऽभाणीन्मयेयं परिणेष्यते । श्रूयते यदुपा-18 देयं स्त्रीरत्नं दुष्कुलादपि ॥५॥ ततस्तां श्रेणिकः सद्योऽकुलीनां रूपशालिनीम् । परिणीयानुरागेण निजाग्रम
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy